कुट्टनीमत · श्लोक 621-640
व्याजेन कालहरणं स्वापावसरे विवर्तनं शयने ।
निद्राभिभवख्यापनमुद्वेगः सम्मुखीकरणे
गुह्यस्पर्शनिरोधः स्वभावसंस्था रताभियोगेषु ।
चुम्बति वदनविकूणनमालिङ्गति कठिनगात्रसंकोचः
असहिष्णुत्वं प्रहणनकररुहदशनक्षतिप्रसङ्गेषु ।
दीर्घरते निर्वेदः स्वपिहीति वचो ऽभियोजके भूयः
तदशक्तावनुबन्धो वैदग्ध्यविकाशने तथा हासः ।
रात्र्यवसानस्पृहया पुनः पुनर्यामिकप्रश्नः
निःसरणं वासगृहादुषसि समुत्थाय तल्पतस्त्वरया ।
सरभसमुदीरयन्त्या निशा प्रभाता प्रभातेति
उभयेच्छया प्रवृत्तं निरुपाधि प्रेम भवति रमणीयम् ।
अन्योन्यसमासक्तौ संस्थानमिवाभिजातमणिहेम्नोः
यस्त्वेकाश्रयरागः परिभवदौर्बल्यदैन्यनाशानाम् ।
स निदानमसंदिग्धं सीतां प्रति दशमुखस्येव
यानि हरन्ति मनांसि स्मितवीक्षितजल्पितानि रक्तानाम् ।
तान्येव विरक्तानां प्रतिभान्ति विवर्तितानीव
विदधातु किमपि कथमपि निगृह्यमाणा मुहूर्तमासिष्ये ।
इति यत्र मनः स्त्रीणां तत्रापि रते रमन्ति पशुतुल्याः
यत्र न मदनविकाराः सद्भावसमर्पणं न गात्राणाम् ।
तस्मिन्नुज्झितभावे पशुकर्मणि पशव एव रज्यन्ते
अवधीरणयोपहतः प्रतिदिवसं हीयमानसद्भावः ।
अभिमानवान्मनुष्यो योषितमूढामपि त्यजति
साक्षिनिकोचं सख्याः पाणितलं पाणिना समाहत्य ।
यं नरमुपहसति स्त्री ददातु तस्मै मही रन्ध्रम्
पुरुषान्तरगुणकीर्तनमन्योद्देशेन चात्मनो निन्दाम् ।
शृण्वन्नपि यः स्वस्थः स्वस्थो ऽसौ कालपाशबद्धो ऽपि
अवगत्याभिप्रायं स्वामिन्याः परिजनो ऽपि यं पुरुषम् ।
व्यवहरति तिरस्कुर्वंस्तस्य न मूल्यं वराटिकाः पञ्च
तत्त्वातत्त्वसमुत्थव्यवहृतयोर्यो ऽन्तरं न जानाति ।
स्थानं भवति स पशुपतिरपसंशयमर्धचन्द्रलाभस्य
क्रमगलितगौरवांशो रिक्ततया लाघवं परापतितः ।
अप्राप्तपरिच्छेदतटः प्लवते ऽसौ युवतिसरसि कुमनुष्यः
यत्नेन कपटघटिताञ्शृङ्गारज्ञापनार्थमनुभावान् ।
रतिशिल्पजीविकाभिर्मूढास्तत्त्वेन गृह्णन्ति
या धनहार्या नार्यो निर्मर्यादाः स्वकार्यतात्पर्याः ।
ताभिरपि समीहन्ते बत मन्दाः संगतमजर्यम्
अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् ।
कन्दर्पशास्त्रकारैः कुतः कथा लुप्तविभवेषु
व्यासमुनिनापि गीतं द्वावेव नराधमौ मनो दहतः ।
यो ऽनाढ्यः कामयते कुप्यति यश्चाप्रभुत्वयुक्तो ऽपि
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0