कुट्टनीमत · श्लोक 661-680
एवमभिधीयमानो नो बुध्यति यदि पशुर्नराकारः ।
तदिदं सुन्दरि वाच्यः प्रश्रितवचसा त्वया कामी
प्रीयत एव तवोपरि हृदयं मे किं तु गुरुजनाधीना ।
मातृवचोतिक्रमणं न समर्था संविधातुमहम्
अर्हसि तावदतस्त्वं गन्तुमितः कतिपयान्यपि दिनानि ।
पुनरपि भवतैव समं भोक्तव्यं जीवलोकसुखम्
निर्वासिते तु तस्मिन् यः कामी पूर्वमुज्झितो भुक्त्वा ।
तस्य प्राप्तविभूतेर्युक्तिरियं भिन्नसंधाने
उपवनलीलाविहरणहावोज्ज्वलमञ्जुलस्य सह तेन ।
वर्णनमितिवृत्तस्य स्मरजविकाराश्च वीक्षिते तस्मिन्
इदमुपवनमतिधन्यं निर्भरमालिङ्गितं सुरभिलक्ष्म्या ।
मत्स्कन्धार्पितपाणिर्बभ्राम स यत्र जीविताधीशः
सख्य इतो भ्रमरकुलत्रासितया प्रियतमो मया सहसा ।
वक्रीभवत्पयोधरमुपगूढो धीरसीत्कारम्
रणदिन्दिन्दिरवृन्दे कूजत्कलकण्ठरावरमणीये ।
अत्रातिमुक्तकगृहे मरुदीरणविधुतकुसुमसंछन्ने
मयि जाताधिकरागो बलवति मदने सहायसामग्र्या ।
कान्तः पल्लवशयने नो तृप्तिमगाद्विविक्तकार्येषु
प्रेङ्खोलनवितरणयुक्त्या विध्यन् पार्श्वयोर्नखैर्धूर्तः ।
चक्रे मां मदनमयीं व्रततिप्रेङ्खामिमां समारूढाम्
स्पृहणीयो ऽयमशोकः स्पृष्टो यद्वल्लभेन हस्तेन ।
अस्मदवतंसकार्थं नूतनदलपल्लवान् विचारयता
अस्मिन्सहकारतले तस्योत्सङ्गे सलीलमासीना ।
अशृणवमहमिति वाचः पश्यन्ती विलसितानि तरुणानाम्
उत्थापय मानरसे दयितं चरणाग्रनिपतितं तूर्णम् ।
अत्याकृष्टं त्रुट्यति सुदृढमपि प्रेमबन्धनं मूढे
तिष्ठन्नपि यातसमः किं तेन निवारितेन सखि पशुना ।
यामीति निष्प्रकम्पं विनिःसृता यस्य माधवे वाणी
आयुःसारं यौवनमृतुसारः कुसुमसायकवयस्यः ।
सुन्दरि जीवितसारो रतिभोगसुखामृतास्वादः
रम्यं कुसुमस्तबकं कुरु मे प्रिय कैङ्किरातमवतंसम् ।
तिष्ठतु वा किमनेन प्रत्यग्रमशोककिसलयं चारु
आस्तामास्तामेतत्प्रापय मां सिन्दुवारमभिरामम् ।
नहि नहि राजति सुतरां चूतद्रुममञ्जरी कर्णे
धिक्तारुण्यमकान्तं धिक्कान्तं यौवनेन रहितं च ।
धिक्तद्द्वयमपि मन्मथसामर्थ्यविकासितं विना सुरतम्
जनितो ऽप्यपराधशतैर्वामे तस्मिंश्चिरप्ररूढो ऽपि ।
अवगतमधुना सख्यो न वसन्तमतीत्य वर्तते मानः
वर्षशतस्य स सारः काललवः प्रथममेलकस्थानम् ।
सचकितमागच्छन्ती सोत्कलिका यत्र दृश्यते रमणी
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0