भाषा

ENहिગુ
ग्रंथ पाठ

कुमारसंभव · अध्याय 7

7.1

अथौषधीनाम् अधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम्
समेतबन्धुर् हिमवान् सुताया विवाहदीक्षाविधिम् अन्वतिष्ठत् ॥

7.2

वैवाहिकैः कौतुकसंविधानैर् गृहे गृहे व्यग्रपुरंध्रिवर्गम्
आसीत् पुरं सानुमतो ऽनुरागाद् अन्तःपुरं चैककुलोपमेयम् ॥

7.3

संतानकाकीर्णमहापथं तच् चीनांशुकैः कल्पितकेतुमालम्
भासा ज्वलत् काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाबभासे ॥

7.4

एकैव सत्याम् अपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव
आसन्नपाणिग्रहणेति पित्रोर् उमा विशेषोच्छ्वसितं बभूव ॥

7.5

अङ्काद् ययाव् अङ्कम् उदीरिताशीः सा मण्डनान् मण्डनम् अन्वभुङ्क्त
संबन्धिभिन्नो ऽपि गिरेः कुलस्य स्नेहस् तदेकायतनं जगाम ॥

7.6

मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु
तस्याः शरीरे प्रतिकर्म चक्रुर् बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥

7.7

सा गौरसिद्धार्थनिवेशवद्भिर् दूर्वाप्रवालैः प्रतिभिन्नरागम्
निर्नाभिकौशेयम् उपात्तबाणम् अभ्यङ्गनेपथ्यम् अलञ्चकार ॥

7.8

बभौ च संपर्कम् उपेत्य बाला नवेन दीक्षाविधिसायकेन
करेण भानोर् बहुलावसाने संधुक्ष्यमाणेव शशाङ्कलेखा ॥

7.9

तां लोध्रकल्केन हृताङ्गतैलाम् आश्यानकालेयकृताङ्गरागाम्
वासो वसानाम् अभिषेकयोग्यं नार्यश् चतुष्काभिमुखं व्यनैषुः ॥

7.10

विन्यस्तवैदूर्यशिलातले ऽस्मिन्न् अविद्धमुक्ताफलभक्तिचित्रे
आवर्जिताष्टापदकुम्भतोयाः सतूर्यम् एनां स्नपयां बभूवुः ॥

7.11

सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा
निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥

7.12

तस्मात् प्रदेशाच् च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन
पतिव्रताभिः परिगृह्य निन्ये कॢप्तासनं कौतुकवेदिमध्यम् ॥

7.13

तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः
भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने सन्निहिते ऽपि नार्यः ॥

7.14

धूपोष्मणा त्याजितम् आर्द्रभावं केशान्तम् अन्तःकुसुमं तदीयम्
पर्याक्षिपत् काचिद् उदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥

7.15

विन्यस्तशुक्लागुरु चक्रुर् अस्या गोरोचनापत्रविभङ्गम् अङ्गम्
सा चक्रवाकाङ्कितसैकतायास् त्रिस्रोतसः कान्तिम् अतीत्य तस्थौ ॥

7.16

लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश् च बिम्बम्
तदाननश्रीर् अलकैः प्रसिद्धैश् चिच्छेद सादृश्यकथाप्रसङ्गम् ॥

7.17

कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे
तस्याः कपोले परभागलाभाद् बबन्ध चक्षूंषि यवप्ररोहः ॥

7.18

रेखाबिभक्तश् च विभक्तगात्र्याः किंचिन्मधूच्छिष्टविमृष्टरागः
काम् अप्य् अभिख्यां स्फुरितैर् अपुष्यद् आसन्नलावण्यफलो ऽध्ररोष्ठः ॥

7.19

पत्युः शिरश्चन्द्रकलाम् अनेन स्पृशेति सख्या परिहासपूर्वम्
सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान ॥

7.20

तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर् नयने निरीक्ष्य
न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलम् इत्य् उपात्तम् ॥

7.21

सा संभवद्भिः कुसुमैर् लतेव ज्योतिर्भिर् उद्यद्भिर् इव त्रियामा
सरिद् विहङ्गैर् इव लीयमानैर् आमुच्यमानाभरणा चकासे ॥

7.22

आत्मानम् आलोक्य च शोभमानम् आदर्शबिम्बे स्तिमितायताक्षी
हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥

7.23

अथाङ्गुलिभ्यां हरितालम् आर्द्रं माङ्गल्यम् आदाय मनःशिलां च
कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखम् उन्नमय्य ॥

7.24

उमास्तनोद्भेदम् अनुप्रवृद्धो मनोरथो यः प्रथमो बभूव
तम् एव मेना दुहितुः कथंचिद् विवाहदीक्षातिलकं चकार ॥

7.25

बबन्ध चास्राकुलदृष्टिर् अस्याः स्थानान्तरे कल्पितसन्निवेशम्
धात्र्यङ्गुलीभिः प्रतिसार्यमाणम् ऊर्णमयं कौतुकहस्तसूत्रम् ॥

7.26

क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा
नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणम् आदधाना ॥

7.27

ताम् अर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ट्ःआं प्रणमय्य माता
अकारयत् कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥

7.28

अखण्डितं प्रेम लभस्व पत्युर् इत्य् उच्यते ताभिर् उमा स्म नम्रा
तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषो ऽ पि ॥

7.29

इच्छाविभूत्योर् अनुरूपम् अद्रिस् तस्याः कृती कृत्यम् अशेषयित्वा
सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥

7.30

तावद् वरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम्
प्रसाधनं मातृभिर् आदृताभिर् न्यस्तं पुरस्तात् पुरशासनस्य ॥

7.31

तद्गौरवान् मङ्गलमण्डनश्रीः सा पस्पृशे केवलम् ईश्वरेण
स्व एव वेषः परिणेतुर् इष्टं भावान्तरं तस्य विभोः प्रपेदे ॥

7.32

बभूव भस्मैव सिताङ्गरागः कपालम् एवामलशेखरश्रीः
उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥

7.33

शङ्खान्तरद्योति विलोचनं यद् अन्तर्निविष्टामलपिङ्गतारम्
सान्निध्यपक्षे हरितालमय्यास् तद् एव जातं तिलकक्रियायाः ॥

7.34

यथाप्रदेशं भुजगेश्वराणां करिश्यताम् आभरणान्तरत्वम्
शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥

7.35

दिवापि निष्ठ्यूतमरीचिभासा बाल्याद् अनाविष्कृतलाञ्छनेन
चन्द्रेण नित्यं प्रतिभिन्नमौलेश् चूडामणेः किं ग्रहणं हरस्य ॥

7.36

इत्य् अद्भुतैकप्रभवः प्रभावात् प्रसिद्धनेपथ्यविधेर् विधाता
आत्मानम् आसन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श ॥

7.37

स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम्
तद्भक्तिसंक्षिप्तबृहत्प्रमाणम् आरुह्य कैलासम् इव प्रतस्थे ॥

7.38

तं मातरो देवम् अनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः
मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुर् इवान्तरीक्षम् ॥

7.39

तासां च पश्चात् कनकप्रभाणां काली कपालाभरणा चकासे
बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशतह्रदेव ॥

7.40

ततो गणैः शूलभृतः पुरोगैर् उदीरितो मङ्गलतूर्यघोषः
विमानशृङ्गाण्य् अवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥

7.41

उपाददे तस्य सहस्ररश्मिस् त्वष्ट्रा नवं निर्मितम् आतपत्रम्
स तद्दुकूलाद् अविदूरमौलिर् बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥

7.42

मूर्ते च गङ्गायमुने तदानीं सचामरे देवम् असेविषाताम्
समुद्रगारूपविपर्यये ऽपि सहंसपाते इव लक्ष्यमाणे ॥

7.43

तम् अन्वगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश् च साक्षात्
जयेति वाचा महिमानम् अस्य संवर्धयन्त्या हविषेव वह्निम् ॥

7.44

एकैव मूर्तिर् बिभिदे त्रिधा सा सामान्यम् एषां प्रथमावरत्वम्
विष्णोर् हरस् तस्य हरिः कदाचिद् वेधास् तयोस् ताव् अपि धातुर् आद्यौ ॥

7.45

तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः
दृष्टिप्रदाने कृतनन्दिसंज्ञास् तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥

7.46

कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन
आलोकमात्रेण सुरान् अशेषान् संभावयाम् आस यथाप्रधानम् ॥

7.47

तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षिभिस् तान् स्मितपूर्वम् आह
विवाहयज्ञे वितते ऽत्र यूयम् अध्वर्यवः पूर्ववृता मयेति ॥

7.48

विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः
अध्वानम् अध्वान्तविकारलङ्घ्यस् ततार ताराधिपखण्डधारी ॥

7.49

खे खेलगामी तम् उवाह वाहः सशब्दचामीकरकिङ्किणीकः
तटाभिघाताद् इव लग्नपङ्के धुन्वन् मुहुः प्रोतघने विषाणे ॥

7.50

स प्रापद् अप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात्
पुरो विलग्नैर् हरदृष्टिपातैः सुवर्णसूत्रैर् इव कृष्यमाणः ॥

7.51

तस्योपकण्ठे घननीलकण्ट्ःअः कुतूहलाद् उन्मुखपौरदृष्टः
स्वबाणचिह्नाद् अवतीर्य मार्गाद् आसन्नभूपृष्ठम् इयाय देवः ॥

7.52

तम् ऋद्धिमद्बन्धुजनाधिरूढैर् वृन्दैर् गजानां गिरिचक्रवर्ती
प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैर् इव स्वैः ॥

7.53

वर्गाव् उभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने
समीयतुर् दूरविसर्पिघोषौ भिन्नैकसेतू पयसाम् इवौघौ ॥

7.54

ह्रीमान् अभूद् भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः
पूर्वं महिम्ना स हि तस्य दूरम् आवर्जितं नात्मशिरो विवेद ॥

7.55

स प्रीतियोगाद् विकसन्मुखश्रीर् जामातुर् अग्रेसरताम् उपेत्य
प्रावेशयन् मन्दिरम् ऋद्धम् एनम् आगुल्फकीर्णापणमार्गपुष्पम् ॥

7.56

तस्मिन् मुहूर्ते पुरसुन्दरीणाम् ईशानसंदर्शनलालसानाम्
प्रासादमालासु बभूवुर् इत्थं त्यक्तान्यकार्याणि विचेष्टितानि ॥

7.57

आलोकमार्गं सहसा व्रजन्त्या कयाचिद् उद्वेष्टनवान्तमाल्यः
बन्धुं न संभावित एव तावत् करेण रुद्धो ऽपि न केशपाशः ॥

7.58

प्रसाधिकालम्बितम् अग्रपादम् आक्षिप्य काचिद् द्रवरागम् एव
उत्सृष्टलीलागतिर् आगवाक्षाद् अलक्तकाङ्कां पदवीं ततान ॥

7.59

विलोचनं दक्षिणम् अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा
तथैव वातायनसंनिकर्षं ययौ शलाकाम् अपरा वहन्ती ॥

7.60

जालान्तरप्रेषितदृष्तिर् अन्या प्रस्थानभिन्नां न बबन्ध नीवीम्
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाव् अवलम्ब्य वासः ॥

7.61

अर्धाचिता सत्वरम् उत्थितायाः पदे पदे दुर्निमिते गलन्ती
कस्याश्चिद् आसीद् रशना तदानीम् अङ्गुष्ठमूलार्पितसूत्रशेषा ॥

7.62

तासां मुखैर् आसवगन्धगर्भैर् व्याप्तान्तराः सान्द्रकुतूहलानाम्
विलोलनेत्रभ्रमरैर् गवाक्षाः सहस्रपत्राभरणा इवासन् ॥

7.63

तावत् पताकाकुलम् इन्दुमौलिर् उत्तोरणं राजपथं प्रपेदे
प्रासादशृङ्गाणि दिवापि कुर्वञ् ज्योत्स्नाभिषेकद्विगुणद्युतीनि ॥

7.64

तम् एकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर् विषयान्तराणि
तथा हि शेषेन्द्रियवृत्तिर् आसां सर्वात्मना चक्षुर् इव प्रविष्टा ॥

7.65

स्थाने तपो दुश्चरम् एतदर्थम् अपर्णया पेलवयापि तप्तम्
या दास्यम् अप्य् अस्य लभेत नारी सा स्यात् कृतार्था किम् उताङ्कशय्याम् ॥

7.66

परस्परेण स्पृहणीयशोभं न चेद् इदं द्वन्द्वम् अयोजयिष्यत्
अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां विफलो ऽभविश्यत् ॥

7.67

न नूनम् आरूढरुषा शरीरम् अनेन दग्धं कुसुमायुधस्य
व्रीडाद् अमुं देवम् उदीक्ष्य मन्ये संन्यस्तदेहः स्वयम् एव कामः ॥

7.68

अनेन संबन्धम् उपेत्य दिष्ट्या मनोरथप्रार्थितम् ईश्वरेण
मूर्धानम् आलि क्षितिधारणोच्चम् उच्चैस्तरां वक्ष्यति शैलराजः ॥

7.69

इत्य् ओषधिप्रस्थविलासिनीनां शृण्वन् कथाः श्रोत्रसुखास् त्रिनेत्रः
केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयम् आससाद ॥

7.70

तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद् दीधितिमान् इवोक्ष्णः
क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्य् अद्रिपतेर् विवेश ॥

7.71

तम् अन्वग् इन्द्रप्रमुखाश् च देवाः सप्तर्षिपूर्वाः परमर्षयश् च
गणाश् च गिर्यालयम् अभ्यगच्छन् प्रशस्तम् आरम्भम् इवोत्तमार्थाः ॥

7.72

तत्रेश्वरो विष्टरभाग् यथावत् सरत्नम् अर्घ्यं मधुमच् च गव्यम्
नवे दुकूले च नगोपनीतं प्रत्यग्रहीत् सर्वम् अमन्त्रवर्जम् ॥

7.73

दुकूलवासाः स वधूसमीपं निन्ये विनीतैर् अवरोधरक्षैः
वेलासमीपं स्फुटफेनराजिर् नवैर् उदन्वान् इव चन्द्रपादैः ॥

7.74

तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या
प्रसन्नचेतःसलिलः शिवो ऽभूत् संसृज्यमानः शरदेव लोकः ॥

7.75

तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहृतानि
ह्रीयन्त्रणां तत्क्षणम् अन्वभूवन्न् अन्योन्यलोलानि विलोचनानि ॥

7.76

तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिम् अष्टमूर्त्तिः
उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वम् इव प्ररोहम् ॥

7.77

रोमोद्गमः प्रादुर् अभूद् उमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुर् आसीत्
वृत्तिस् तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥

7.78

प्रयुक्तपाणिग्रहणं यद् अन्यद् वधूवरं पुष्यति कान्तिम् अग्र्याम्
सान्निध्ययोगाद् अनयोस् तदानीं किं कथ्यते श्रीर् उभयस्य तस्य ॥

7.79

प्रदक्षिणप्रक्रमणात् कृशानोर् उदर्चिषस् तन् मिथुनं चकासे
मेरोर् उपान्तेष्व् इव वर्तमानम् अन्योन्यसंसक्तम् अहस्त्रियामम् ॥

7.80

तौ दम्पती त्रिः परिणीय वह्निम् कराग्रसंस्पर्शनिमीलिताक्षीम्
तां कारयाम् आस वधूं पुरोधास् तस्मिन् समिद्धार्चिषि लाजमोक्षम् ॥

7.81

सा लाजधूमाञ्जलिम् इष्टगन्धं गुरूपदेशाद् वदनं निनाय
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥

7.82

तद् ईषदार्द्रारुणगण्डलेखम् उच्छ्वासिकालाञ्जनरागम् अक्ष्णोः
वधूमुखं क्लान्तयवावतंसम् आचारधूमग्रहणाद् बभूव ॥

7.83

वधूं द्विजः प्राह तवैष वत्से वह्निर् विवाहं प्रति पूर्वसाक्षी
शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥

7.84

आलोचनान्तं श्रवणे वितत्य पीतं गुरोस् तद्वचनं भवान्या
निदाघकालोल्बणतापयेव माहेन्द्रम् अम्भः प्रथमं पृथिव्या ॥

7.85

ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन
सा दृष्ट इत्य् आननम् उन्नमय्य ह्रीसन्नकण्ठी कथम् अप्य् उवाच ॥

7.86

इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ
प्रणेमतुस् तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥

7.87

वधूर् विधात्रा प्रतिनन्द्यते स्म कल्याणि वीरप्रसवा भवेति
वाचस्पतिः सन्न् अपि सो ऽष्टमूर्त्तव् आशास्य चिन्तास्तिमितो बभूव ॥

7.88

कॢप्तोपचारां चतुरस्रवेदीं ताव् एत्य पश्चाट् कनकासनस्थौ
जायापती लौकिकम् एषितव्यम् आर्द्राक्षतारोपणम् अन्वभूताम् ॥

7.89

पत्रान्तलग्नैर् जलबिन्दुजालैर् आकृष्टमुक्ताफलजालशोभम्
तयोर् उपर्य् आयतनालदण्डम् आधत्त लक्ष्मीः कमलातपत्रम् ॥

7.90

द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन् मिथुनं नुनाव
संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन ॥

7.91

तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम्
अपश्यताम् अप्सरसां मुहूर्तं प्रयोगम् आद्यं ललिताङ्गहारम् ॥

7.92

देवास् तदन्ते हरम् ऊढभार्यं किरीटबद्धाञ्जलयो निपत्य
शापावसाने प्रतिपन्नमूर्त्तेर् ययाचिरे पञ्चशरस्य सेवाम् ॥

7.93

तस्यानुमेने भगवान् विमन्युर् व्यापारम् आत्मन्य् अपि सायकानाम्
काले प्रयुक्ता खलु कार्यविद्भिर् विज्णापना भर्तृषु सिद्धिम् एति ॥

7.94

अथ विबुधगणांस् तान् इन्दुमौलिर् विसृज्य क्षितिधरपतिकन्याम् आददानः करेण
कनककलशरक्शाभक्तिशोभासनाथं क्षितिविरचितशय्यं कौतुकागारम् आगात् ॥

7.95

नवपरिणयलज्जाभूषणां तत्र गौरीं वदनम् अपहरन्तीं तत्कृतोत्क्षेपम् ईशः
अपि शयनसखीभ्यो दत्तवाचं कथंचित् प्रमथमुखविकारैर् हासयाम् आस गूढम् ॥

मूल पाठ: Kumārasaṃbhava · Data entry Utz Podzeit · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc