भाषा

ENहिગુ
ग्रंथ पाठ

कुमारसंभव · अध्याय 6

6.1

अथ विश्वात्मने गौरी संदिदेश मिथः सखीम्
दाता मे भूभृतां नाथः प्रमाणीक्रियताम् इति ॥

6.2

तया व्याहृतसंदेशा सा बभौ निभृता प्रिये
चूतयष्टिर् इवाभ्याष्ये मधौ परभृतामुखी ॥

6.3

स तथेति प्रतिज्ञाय विसृज्य कथम् अप्य् उमाम्
ऋषीञ् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः ॥

6.4

ते प्रभामण्डलैर् व्योम द्योतयन्तस् तपोधनाः
सारुन्धतीकाः सपदि प्रादुर् आसन् पुरः प्रभोः ॥

6.5

आप्लुतास् तीरमन्दार कुसुमोत्किरवीचिषु
आकाशगङ्गास्रोतस्सु दिङ्नागमदगन्धिषु ॥

6.6

मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः
रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥

6.7

अधःप्रवर्त्तिताश्वेन समावर्जितकेतुना
सहस्ररश्मिना शश्वत् सप्रमाणम् उदीक्षिताः ॥

6.8

आसक्तबाहुलतया सार्धम् उद्धृतया भुवा
महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ॥

6.9

सर्गशेषप्रणयनाद् विश्वयोनेर् अनन्तरम्
पुरातनाः पुराविद्भिर् धातार इति कीर्तिताः ॥

6.10

प्राक्तनानां विशुद्धानां परिपाकम् उपेयुषाम्
तपसाम् उपभुञ्जानाः फलान्य् अपि तपस्विनः ॥

6.11

तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा
साक्षाद् इव तपःसिद्धिर् बभासे बह्व् अरुन्धती ॥

6.12

ताम् अगौरवभेदेन मुनींश् चापश्यद् ईश्वरः
स्त्री पुमान् इत्य् अनास्थैषा वृत्तं हि महितं सताम् ॥

6.13

तद्दर्शनाद् अभूच् छम्भोर् भूयान् दारार्थम् आदरः
क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलसाधनम् ॥

6.14

धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति
पूर्वापराधभीतस्य कामस्योच्छ्वासितं मनः ॥

6.15

अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम्
इदम् ऊचुर् अनूचानाः प्रीतिकण्टकितत्वचः ॥

6.16

यद् ब्रह्म सम्यग् आम्नातं यद् अग्नौ विधिना हुतम्
यच् च तप्तं तपस् तस्य विपक्वं फलम् अद्य नः ॥

6.17

यद् अध्यक्षेण जगतां वयम् आरोपितास् त्वया
मनोरथस्याविषयं मनोविषयम् आत्मनः ॥

6.18

यस्य चेतसि वर्तेथाः स तावत् कृतिनां वरः
किं पुनर् ब्रह्मयोनेर् यस् तव चेतसि वर्तते ॥

6.19

सत्यम् अर्काच् च सोमाच् च परम् अध्यास्महे पदम्
अद्य तूच्चैस्तरं तस्मात् स्मरणानुग्रहात् तव ॥

6.20

त्वत्संभावितम् आत्मानं बहु मन्यामहे वयम्
प्रायः प्रत्ययम् आधत्ते स्वगुणेषूत्तमादरः ॥

6.21

या नः प्रीतिर् विरूपाक्ष त्वदनुध्यानसंभवा
सा किम् आवेद्यते तुभ्यम् अन्तरात्मासि देहिनाम् ॥

6.22

साक्षाद् दृष्टो ऽसि न पुनर् विद्मस् त्वां वयम् अञ्जसा
प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥

6.23

किं येन सृजसि व्यक्तम् उत येन बिभर्षि तत्
अथ विश्वस्य संहर्ता भागः कतम एष ते ॥

6.24

अथवा सुमहत्य् एषा प्रार्थना देव तिष्ठतु
चिन्तितोपस्थितांस् तावच् छाधि नः करवाम किम् ॥

6.25

अथ मौलिगतस्येन्दोर् विशदैर् दशनांशुभिः
उपचिन्वन् प्रभां तन्वीं प्रत्याह परमेश्वरः ॥

6.26

विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः
ननु मूर्तिभिर् अष्टाभिर् इत्थंभूतो ऽस्मि सूचितः ॥

6.27

सो ऽहं तृष्णातुरैर् वृष्टिं विद्युत्वान् इव चातकैः
अरिविप्रकृतैर् देवैः प्रसूतिं प्रति याचितः ॥

6.28

अत आहर्तुम् इच्छामि पार्वतीम् आत्मजन्मने
उत्पत्तये हविर्भोक्तुर् यजमान इवारणिम् ॥

6.29

ताम् अस्मदर्थे युष्माभिर् याचितव्यो हिमालयः
विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः ॥

6.30

उन्नतेन स्थितिमता धुरम् उद्वहता भुवः
तेन योजितसंबन्धं वित्त माम् अप्य् अवञ्चितम् ॥

6.31

एवं वाच्यः स कन्यार्थम् इति वो नोपदिश्यते
भवत्प्रणीतम् आचारम् आमनन्ति हि साधवः ॥

6.32

आर्याप्य् अरुन्धती तत्र व्यापारं कर्तुं अर्हति
प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥

6.33

तत् प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम्
महाकोशीप्रपाते ऽस्मिन् संगमः पुनर् एव नः ॥

6.34

तस्मिन् संयमिनाम् आद्ये जाते परिणयोन्मुखे
जहुः परिग्रहव्रीडां प्राजापत्यास् तपस्विनः ॥

6.35

ततः परमम् इत्य् उक्त्वा प्रतस्थे मुनिमण्डलम्
भगवान् अपि संप्राप्तः प्रथमोद्दिष्टम् आस्पदम् ॥

6.36

ते चाकाशम् असिश्यामम् उत्पत्य परमर्षयः
आसेदुर् ओषधिप्रस्थं मनसा समरंहसः ॥

6.37

अलकाम् अतिवाह्येव वसतिं वसुसंपदाम्
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् ॥

6.38

गङ्गास्रोतःपरिक्षिप्त वप्रान्तर्ज्वलितौषधि
बृहन्मणिशिलासालं गुप्ताव् अपि मनोहरम् ॥

6.39

जितसिंहभया नागा यत्राश्वा बिलयोनयः
यक्षाः किंपुरुषाः पौरा योषितो वनदेवताः ॥

6.40

शिखरासक्तमेघानां व्यजन्ते यत्र वेश्मनाम्
अनुगर्जितसंदिग्धाः करणैर् मुरजस्वनाः ॥

6.41

यत्र कल्पद्रुमैर् एव विलोलविटपांशुकैः
गृहयन्त्रपताकाश्रीर् अपौरादरनिर्मिता ॥

6.42

यत्र स्फटिकहर्म्येषु नक्तम् आपानभूमिषु
ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्य् उपहारताम् ॥

6.43

यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः
अनभिज्ञास् तमिस्राणां दुर्दिनेष्व् अभिसारिकाः ॥

6.44

यौवनान्तं वयो यस्मिन्न् आतङ्कः कुसुमायुधः
रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥

6.45

भ्रूभेदिभिः सकम्पोष्ठैर् ललिताङ्गुलितर्जनैः
यत्र कोपैः कृताः स्त्रीणाम् आप्रसादार्थिनः प्रियाः ॥

6.46

संतानकतरुच्छाया सुप्तविद्याधराध्वगम्
यस्य चोपवनं बाह्यं सुगन्धिर् गन्धमादनः ॥

6.47

अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम्
स्वर्गाभिसंधिसुकृतं वञ्चनाम् इव मेनिरे ॥

6.48

ते सद्मनि गिरेर् वेगाद् उन्मुखद्वाःस्थवीक्षिताः
अवतेरुर् जटाभारैर् लिखितानलनिश्चलैः ॥

6.49

गगनाद् अवतीर्णा सा यथावृद्धपुरस्सरा
तोयान्तर् भास्करालीव रेजे मुनिपरम्परा ॥

6.50

तान् अर्घ्यान् अर्घ्यम् आदाय दूरात् प्रत्युद्ययौ गिरिः
नमयन् सारगुरुभिः पादन्यासैर् वसुन्धराम् ॥

6.51

धातुताम्राधरः प्रांशुर् देवदारुबृहद्भुजः
प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवान् इति ॥

6.52

विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः
स तैर् आक्रमयाम् आस शुद्धान्तं शुद्धकर्मभिः ॥

6.53

तत्र वेत्रासनासीनान् कृतासनपरिग्रहः
इत्य् उवाचेश्वरान् वाचं प्राञ्जलिः पृथिवीधरः ॥

6.54

अपमेघोदयं वर्षम् अदृष्टकुसुमं फलम्
अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥

6.55

मूढं बुद्धम् इवात्मानं हैमीभूतम् इवायसम्
भूमेर् दिवम् इवारूढं मन्ये भवदनुग्रहात् ॥

6.56

अद्यप्रभृति भूतानाम् अधिगम्यो ऽस्मि शुद्धये
यद् अध्यासितम् अर्हद्भिस् तद् धि तीर्थं प्रचक्षते ॥

6.57

अवैमि पूतम् आत्मानं द्वयेनैव द्विजोत्तमाः
मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥

6.58

जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम्
विभक्तानुग्रहं मन्ये द्विरूपम् अपि मे वपुः ॥

6.59

भवत्संभावनोत्थाय परितोषाय मूर्च्छते
अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥

6.60

न केवलं दरीसंस्थं भास्वतां दर्शनेन वः
अन्तर्गतम् अपास्तं मे रजसो ऽपि परं तमः ॥

6.61

कर्तव्यं वो न पश्यामि स्याच् चेत् किं नोपपद्यते
शङ्के मत्पावनायैव प्रस्थानं भवताम् इह ॥

6.62

तथापि तावत् कस्मिंश् चिद् आज्ञां मे दातुम् अर्हथ
विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥

6.63

एते वयम् अमी दाराः कन्येयं कुलजीवितम्
ब्रूत येनात्र वः कार्यम् अनास्था बाह्यवस्तुषु ॥

6.64

इत्य् ऊचिवांस् तम् एवार्थं दरीमुखविसर्पिणा
द्विर् इव प्रतिशब्देन व्याजहार हिमालयः ॥

6.65

अथाङ्गिरसम् अग्रण्यम् उदाहरणवस्तुषु
ऋषयश् चोदयाम् आसुः प्रत्युवाच स भूधरम् ॥

6.66

उपपन्नम् इदं सर्वम् अतः परम् अपि त्वयि
मनसः शिखराणां च सदृशी ते समुन्नतिः ॥

6.67

स्थाने त्वां स्थावरात्मानं विष्णुम् आहुस् तथा हि ते
चराचराणां भूतानां कुक्षिर् आधारतां गतः ॥

6.68

गाम् अधास्यत् कथं नागो मृणालमृदुभिः फणैः
आ रसातलमूलात् त्वम् अवालम्बिष्यथा न चेत् ॥

6.69

अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः
पुनन्ति लोकान् पुण्यत्वात् कीर्तयः सरितश् च ते ॥

6.70

यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः
प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ॥

6.71

तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा हरेः
त्रिविक्रमोद्यतस्यासीत् स च स्वाभाविकस् तव ॥

6.72

यज्ञभागभुजां मध्ये पदम् आतस्थुषा त्वया
उच्चैर् हिरण्मयं शृङ्गं सुमेरोर् वितथीकृतम् ॥

6.73

काठिन्यं स्थावरे काये भवता सर्वम् अर्पितम्
इदं तु भक्तिनम्रं ते सताम् आराधनं वपुः ॥

6.74

तद् आगमनकार्यं नः शृणु कार्यं तवैव तत्
श्रेयसाम् उपदेशात् तु वयम् अत्रांशभागिनः ॥

6.75

अणिमादिगुणोपेतम् अस्पृष्टपुरुषान्तरम्
शब्दम् ईश्वर इत्य् उच्चैः सार्धचन्द्रं बिभर्ति यः ॥

6.76

कल्पितान्योन्यसामर्थ्यैः पृथिव्यादिभिर् आत्मनि
येनेदं ध्रियते विश्वं धुर्यैर् यानम् इवाध्वनि ॥

6.77

योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम्
अनावृत्तिभयं यस्य पदम् आहुर् मनीषिणः ॥

6.78

स ते दुहितरं साक्षात् साक्षी विश्वस्य कर्मणः
वृणुते वरदः शंभुर् अस्मत्संक्रामितैः पदैः ॥

6.79

तम् अर्थम् इव भारत्या सुतया योक्तुम् अर्हसि
अशोच्या हि पितुः कन्या सद्भर्त्रे प्रतिपादिता ॥

6.80

यावद् एतानि भूतानि स्थावराणि चराणि च
मातरं कल्पयन्त्य् एनाम् ईशो हि जगतः पिता ॥

6.81

प्रणम्य शितिकण्ठाय विबुधास् तदनन्तरम्
चरणौ रञ्जयन्त्य् अस्याश् चूडामणिमरीचिभिः ॥

6.82

उमा वधूर् भवान् दाता याचितार इमे वयम्
वरः शंभुर् अलं ह्य् एष त्वत्कुलोद्भूतये विधिः ॥

6.83

अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः
सुतासंबन्धविधिना भव विश्वगुरोर् गुरुः ॥

6.84

एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी
लीलाकमलपत्राणि गणयाम् आस पार्वती ॥

6.85

शैलः संपूर्णकामो ऽपि मेनामुखम् उदैक्षत
प्रायेण गृहिणीनेत्राः कन्यार्थे हि कुटुम्बिनः ॥

6.86

मेने मेनापि तत् सर्वं पत्युः कार्यम् अभीप्सितम्
भवन्त्य् अव्यभिचारिण्यो भर्तुर् इष्टे पतिव्रताः ॥

6.87

इदम् अत्रोत्तरं न्याय्यम् इति बुद्ध्या विमृश्य सः
आददे वचसाम् अन्ते मङ्गलालङ्कृतां सुताम् ॥

6.88

एहि विश्वात्मने वत्से भिक्षासि परिकल्पिता
अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥

6.89

एतावद् उक्त्वा तनयाम् ऋषीन् आह महीधरः
इयं नमति वः सर्वांस् त्रिलोचनवधूर् इति ॥

6.90

ईप्सितार्थक्रियोदारं ते ऽभिनन्द्य गिरेर् वचः
आशीर्भिर् एधयाम् आसुः पुरःपाकाभिर् अम्बिकाम् ॥

6.91

तां प्रणामादरस्रस्त जाम्बूनदवतंसकाम्
अङ्कम् आरोपयाम् आस लज्जमानाम् अरुन्धती ॥

6.92

तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम्
वरस्यानन्यपूर्वस्य विशोकाम् अकरोद् गुणैः ॥

6.93

वैवाहिकीं तिथिं पृष्टास् तत्क्षणं हरबन्धुना
ते त्र्यहाद् ऊर्ध्वम् आख्याय चेलुश् चीरपरिग्रहाः ॥

6.94

ते हिमालयम् आमन्त्र्य पुनः प्रेक्ष्य च शूलिनम्
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खम् उद्ययुः ॥

6.95

पशुपतिर् अपि तान्य् अहानि कृच्छ्राद् अगमयद् अद्रिसुतासमागमोत्कः
कम् अपरम् अवशं न विप्रकुर्युर् विभुम् अपि तं यद् अमी स्पृशन्ति भावाः ॥

मूल पाठ: Kumārasaṃbhava · Data entry Utz Podzeit · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc