भाषा

ENहिગુ
ग्रंथ पाठ

कुमारसंभव · अध्याय 8

8.1

पाणिपीडनविधेर् अनन्तरं शैलराजदुहितुर् हरं प्रति
भावसाध्वसपरिग्रहाद् अभूत् कामदोहदमनोहरं वपुः ॥

8.2

व्याहृता प्रतिवचो न सन्दधे गन्तुम् ऐच्छद् अवलम्बितांशुका
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥

8.3

कैतवेन शयिते कुतूहलात् पार्वती प्रतिमुखं निपातितम्
चक्षुर् उन्मिषति सस्मितं प्रिये विद्युदाहतम् इव न्यमीलयत् ॥

8.4

नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः
तद्दुकूलम् अथ चाभवत् स्वयं दूरम् उच्छ्वसितनीविबन्धनम् ॥

8.5

एवम् आलि निगृहीतसाध्वसं शङ्करो रहसि सेव्यताम् इति
सा सखीभिर् उपदिष्टम् आकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥

8.6

अप्य् अवस्तुनि कथाप्रवृत्तये प्रश्नतत्परम् अनङ्गशासनम्
वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयम् उत्तरं ददौ ॥

8.7

शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका
तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्य् अभूत् ॥

8.8

चुम्बनेष्व् अधरदानवर्जितं सन्नहस्तम् अदयोपगूहने
क्लिष्टमन्मथम् अपि प्रियं प्रभोर् दुर्लभप्रतिकृतं वधूरतम् ॥

8.9

यन् मुखग्रहणम् अक्षताधरं दत्तम् अव्रणपदं नखं च यत्
यद् रतं च सदयं प्रियस्य तत् पार्वती विषहते स्म नेतरत् ॥

8.10

रात्रिवृत्तम् अनुयोक्तुम् उद्यतं सा विभातसमये सखीजनम्
नाकरोद् अपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे ॥

8.11

दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः
प्रेक्ष्य बिम्बम् अनु बिम्बम् आत्मनः कानि कानि न चकार लज्जया ॥

8.12

नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत्
भर्तृवल्लभतया हि मानसीं मातुर् अस्यति शुचं वधूजनः ॥

8.13

वासराणि कतिचित् कथञ्चन स्थाणुना रतम् अकारि चानया
ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥

8.14

सस्वजे प्रियम् उरोनिपीडिता प्रार्थितं मुखम् अनेन नाहरत्
मेखलापणयलोलतां गतं हस्तम् अस्य शिथिलं रुरोध सा ॥

8.15

भावसूचितम् अदृष्टविप्रियं चाटुमत् क्षणवियोगकातरम्
कैश्चिद् एव दिवसैस् तदा तयोः प्रेम रूढम् इतरेतराश्रयम् ॥

8.16

तं यथात्मसदृशं वरं वधूर् अन्वरज्यत वरस् तथैव ताम्
सागराद् अनपगा हि जाह्नवी सो ऽपि तन्मुखरसैकनिर्वृतिः ॥

8.17

शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया
शिक्षितं युवतिनैपुणं तया यत् तद् एव गुरुदक्षिणीकृतम् ॥

8.18

दष्टमुक्तम् अधरोष्ठम् आम्बिका वेदनाविधुतहस्तपल्लवा
शीतलेन निरवापयत् क्षणं मौलिचन्द्रशकलेन शूलिनः ॥

8.19

चुम्बनादलकचूर्णदूषितं शङ्करो ऽपि नयनं ललाटजम्
उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥

8.20

एवम् इन्द्रियसुखस्य वर्त्मनः सेवनाद् अनुगृहीतमन्मथः
शैलराजभवने सहोमया मासमात्रम् अवसद् वृषध्वजः ॥

8.21

सो ऽनुमान्य हिमवन्तम् आत्मभूर् आत्मजाविरहदुःखखेदितम्
तत्र तत्र विजहार संपतन्न् अप्रमेयगतिना ककुद्मता ॥

8.22

मेरुम् एत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान् कृती
हेमपल्लवविभङ्गसंस्तरान् अन्वभूत् सुरतमर्दनक्षमान् ॥

8.23

पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्व् अमृतविप्रुषो नवाः
मन्दरस्य कटकेषु चावसत् पार्वतीवदनपद्मषट्पदः ॥

8.24

वारणध्वनितभीतया तया कण्ठसक्तघनबाहुबन्धनः
एकपिङ्गलगिरौ जगद्गुरुर् निर्विवेश विशदाः शशिप्रभाः ॥

8.25

तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम्
आचचाम सलवङ्गकेसरश् चाटुकार इव दक्षिणानिलः ॥

8.26

हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा
खे व्यगाहत तरङ्गिणीम् उमा मीनपङ्क्तिपुनरुक्तमेखला ॥

8.27

तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन्
नन्दने चिरम् अयुग्मलोचनः सस्पृहं सुरवधूभिर् ईक्षितः ॥

8.28

इत्य् अभौमम् अनुभूय शङ्करः पार्थिवं च दयितासखः सुखम्
लोहितायति कदाचिद् आतपे गन्धमादनगिरिं व्यगाहत ॥

8.29

तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यम् अवलोक्य भास्करम्
दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ॥

8.30

पद्मकान्तिम् अरुणत्रिभागयोः संक्रमय्य तव नेत्रयोर् इव
संक्षये जगद् इव प्रजेश्वरः संहरत्य् अहर् असाव् अहर्पतिः ॥

8.31

सीकरव्यतिकरं मरीचिभिर् दूरयत्य् अवनते विवस्वति
इन्द्रचापपरिवेषशून्यतां निर्झरास् तव पितुर् व्रजन्त्य् अमी ॥

8.32

दष्टतामरसकेसरस्रजोः क्रन्दतोर् विपरिवृत्तकण्ठयोः
निघ्नयोः सरसि चक्रवाकयोर् अल्पम् अन्तरम् अनल्पतां गतम् ॥

8.33

स्थानम् आह्निकम् अपास्य दन्तिनः सल्लकीविटपभङ्गवासितम्
आविभातचरणाय गृह्णाते वारि वारिरुहबद्धषट्पदम् ॥

8.34

पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता
दीर्घया प्रतिमया सरो ऽम्भसां तापनीयम् इव सेतुबन्धनम् ॥

8.35

उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्क्तम् अतिवाहितातपाः
दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ॥

8.36

एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः
हीयमानम् अहर् अत्ययातपं पीवरोरु पिबतीव बर्हिणः ॥

8.37

पूर्वभागतिमिरप्रवृत्तिभिर् व्यक्तपङ्कम् इव जातम् एकतः
खं हृतातपजलं विवस्वता भाति किञ्चिद् इव शेषवत् सरः ॥

8.38

आविशद्भिर् उटजाङ्गणं मृगैर् मूलसेकसरसैश् च वृक्षकैः
आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियम् उदीरिताग्नयः ॥

8.39

बद्धकोशम् अपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम्
षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वम् इव दातुम् अन्तरम् ॥

8.40

दूरमग्रपरिमेयरश्मिना वारुणी दिग् अरुणेन भानुना
भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥

8.41

सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः
भानुम् अग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥

8.42

सो ऽयम् आनतशिरोधरैर् हयैः कर्णचामरविघट्टितेक्षणैः
अस्तम् एति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥

8.43

खं प्रसुप्तम् इव संस्थिते रवौ तेजसो महत ईदृशी गतिः
तत् प्रकाशयति यावद् उद्गतं मीलनाय खलु तावतश् च्युतम् ॥

8.44

संध्ययाप्य् अनुगतं रवेर् वपुर् वन्द्यम् अस्तशिखरे समर्पितम्
येन पूर्वम् उदये पुरस्कृता नानुयास्यति कथं तम् आपदि ॥

8.45

रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि भान्त्य् अमूः
द्रक्ष्यसि त्वम् इति संध्ययानया वर्तिकाभिर् इव साधुमण्डिताः ॥

8.46

सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च
पश्य धातुशिखरेषु भानुना संविभक्तम् इव सांध्यम् आतपम् ॥

8.47

अद्रिराजतनये तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः
ब्रह्म गूढम् अभिसंध्यम् आदृताः शुद्धये विधिविदो गृणन्त्य् अमी ॥

8.48

तन् मुहूर्त्तम् अनुमन्तुम् अर्हसि प्रस्तुताय नियमाय माम् अपि
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि विनोदयिष्यति ॥

8.49

निर्विभुज्य दशनच्छदं ततो वाचि भर्तुर् अवधीरणापरा
शैलराजतनया समीपगाम् आललाप विजयाम् अहेतुकम् ॥

8.50

ईश्वरो ऽपि दिवसात्ययोचितं मन्त्रपूर्वम् अनुतस्थिवान् विधिम्
पार्वतीम् अवचनाम् असूयया प्रत्युपेत्य पुनर् आह सस्मितम् ॥

8.51

मुञ्च कोपम् अनिमित्तकोपने संध्यया प्रणमितो ऽस्मि नान्यया
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिम् आत्मनः ॥

8.52

निर्मितेषु पितृषु स्वयंभुवा या तनुः सुतनु पूर्वम् उज्झिता
सेयम् अस्तम् उदयं च सेवते तेन मानिनि ममात्र गौरवम् ॥

8.53

ताम् इमां तिमिरवृद्धिपीडितां शैलराजतनये ऽधुना स्थिताम्
एकतस् तटतमालमालिनीं पश्य धातुरसनिम्नगाम् इव ॥

8.54

सान्ध्यम् अस्तमितशेषम् आतपं रक्तलेखम् अपरा बिभर्ति दिक्
सांपरायवसुधा सशोणितं मण्डलाग्रम् इव तिर्यगुज्झितम् ॥

8.55

यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा
एतद् अन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते ॥

8.56

नोर्ध्वम् ईक्षणगतिर् न चाप्य् अधो नाभितो न पुरतो न पृष्ठतः
लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥

8.57

शुद्धम् आविलम् अवस्थितं चलं वक्रम् आर्जवगुणान्वितं च यत्
सर्वम् एव तमसा समीकृतं धिङ् महत्त्वम् असतां हृतान्तरम् ॥

8.58

नूनम् उन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये
पुण्डरीकमुखि पूर्वदिङ्मुखं कैतकैर् इव रजोभिर् आवृतम् ॥

8.59

मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका
त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः ॥

8.60

रुद्धनिर्गमनम् आ दिनक्षयात् पूर्वदृष्टतनुचन्द्रिकास्मितम्
एतद् उद्गिरति चन्द्रमण्डलं दिग्रहस्यम् इव रात्रिचोदितम् ॥

8.61

पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरो ऽम्भसा
विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥

8.62

शक्यम् ओषधिपतेर् नवोदयाः कर्णपूररचनाकृते तव
अप्रगल्भयवसूचिकोमलाश् छेत्तुम् अग्रनखसंपुटैः कराः ॥

8.63

अङ्गुलीभिर् इव केशसंचयं सन्निगृह्य तिमिरं मरीचिभिः
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥

8.64

पश्य पार्वति नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम्
लक्ष्यते द्विरदभोगदूषितं संप्रसीदद् इव मानसं सरः ॥

8.65

रक्तभावम् अपहाय चन्द्रमा जात एष परिशुद्धमण्डलः
विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥

8.66

उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः
नूनम् आत्मसदृशी प्रकल्पिता वेधसेह गुणदोषयोर् गतिः ॥

8.67

चन्द्रपादजनितप्रवृत्तिभिश् चन्द्रकान्तजलबिन्दुभिर् गिरिः
मेखलातरुषु निद्रितान् अमून् बोधयत्य् असमये शिखण्डिनः ॥

8.68

कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिर् इव पश्य सुन्दरि
हारयष्टिगणनाम् इवांशुभिः कर्तुम् आगतकुतूहलः शशी ॥

8.69

उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेर् इयम्
भक्तिभिर् बहुविधाभिर् अर्पिता भाति भूतिर् इव मत्तदन्तिनः ॥

8.70

एतद् उच्छ्वसितपीतम् ऐन्दवं वोढुम् अक्षमम् इव प्रभारसम्
मुक्तषट्पदविरावम् अञ्जसा भिद्यते कुमुदम् आ निबन्धनात् ॥

8.71

पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम्
मारुते चलति चण्डि केवलं व्यज्यते विपरिवृत्तम् अंशुकम् ॥

8.72

शक्यम् अङ्गुलिभिर् उद्धृतैर् अधः शाखिनां पतितपुष्पपेशलैः
पत्रजर्जरशशिप्रभालवैर् एभिर् उत्कचयितुं तवालकान् ॥

8.73

एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी
साध्वसाद् उपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥

8.74

पाकभिन्नशरकाण्डगौरयोर् उल्लसत्प्रतिकृतिप्रसन्नयोः
रोहतीव तव गण्डलेखयोश् चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका ॥

8.75

लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम्
त्वाम् इयं स्थितिमतीम् उपस्थिता गन्धमादनवनाधिदेवता ॥

8.76

आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः
अत्र लब्धवसतिर् गुणान्तरं किं विलासिनि मदः करिष्यति ॥

8.77

मान्यभक्तिर् अथवा सखीजनः सेव्यताम् इदम् अनङ्गदीपनम्
इत्य् उदारम् अभिधाय शङ्करस् ताम् अपाययत पानम् अम्बिकाम् ॥

8.78

पार्वती तदुपयोगसम्भवां विक्रियाम् अपि सतां मनोहराम्
अप्रतर्क्यविधियोगनिर्मिताम् आम्रतेव सहकारतां ययौ ॥

8.79

तत्क्षणं विपरिवर्तितह्रियोर् नेष्यतोः शयनम् इद्धरागयोः
सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥

8.80

घूर्णमाननयनं स्खलत्कथं स्वेदिबिन्दुमद् अकारणस्मितम्
आननेन न तु तावद् ईश्वरश् चक्षुषा चिरम् उमामुखं पपौ ॥

8.81

तां विलम्बितपनीयमेखलाम् उद्वहञ् जघनभारदुर्वहाम्
ध्यानसंभृतविभूतिर् ईश्वरः प्राविशन् मणिशिलागृहं रहः ॥

8.82

तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम्
अध्यशेत शयनं प्रियासखः शारदाभ्रम् इव रोहिणीपतिः ॥

8.83

क्लिष्टकेशम् अवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम्
तस्य तच् छिदुरमेखलागुणं पार्वतीरतम् अभून् न तृप्तये ॥

8.84

केवलं प्रियतमादयालुना ज्योतिषाम् अवनतासु पङ्क्तिषु
तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥

8.85

स व्यबुध्यत बुधस्तवोचितः शतकुम्भकमलाकरैः समम्
मूर्च्छनापरिगृहीतकैशिकैः किन्नरैर् उषसि गीतमङ्गलः ॥

8.86

तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर् मयः
पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः ॥

8.87

ऊरुमूलनखमार्गराजिभिस् तत्क्षणं हृतविलोचनो हरः
वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमाम् अवारयत् ॥

8.88

स प्रजागरकषायलोचनं गाढदन्तपदताडिताधरम्
आकुलालकम् अरंस्त रागवान् प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥

8.89

तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम्
निर्मले ऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥

8.90

स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः
दर्शनप्रणयिनाम् अदृश्यताम् आजगाम विजयानिवेदनात् ॥

8.91

समदिवसनिशीथं सङ्गिनस् तत्र शम्भोः शतम् अगमद् ऋतूनां साग्रम् एका निशेव
न तु सुरतसुखेषु छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस् तज्जलेषु ॥

मूल पाठ: Kumārasaṃbhava · Data entry Utz Podzeit · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc