Kubjikamatatantra · अध्याय 9
भेदयित्वा परं तत्त्वं हकारं नाम नामतः
सो ऽष्टाकपालो विज्ञेयस् तस्याकाशं तु तच् छिरः ॥
अघोरम् इति विख्यातं द्वात्रिंशाक्षरभूषितम्
तस्मात् सञ्जायते सृष्टिः सा तु सृष्टिर् हृदि स्थिता ॥
द्वात्रिंश मातरस् तास् तु चक्रारूढा विचिन्तयेत्
चण्डा घण्टा महानासा सुमुखी दुर्मुखी बला ॥
रेवती प्रथमा घोरा सौम्या भीमा महाबला
जया च विजया चैव अजिता चापराजिता ॥
महोत्कटा विरूपाक्षी शुष्का चाकाशमातरा
सेहारी जातहारी च दंष्ट्राली शुष्करेवती ॥
पिपीलिका पुष्पहारी अशनी सस्यहारिका
भद्रकाली सुभद्रा च भद्रभीमा सुभद्रिका ॥
मनसा पूजयेत् तस्था भक्ष्यभोज्यादिभिः क्रमात्
पुष्पैर् नानाविधैर् देवि नानालङ्कारकादिभिः ॥
स्रवन्तं चिन्तयेत् तस्थम् अमृतं सर्वतोमुखम्
तेनाप्यायितदेहस् तु तत्क्षणाद् विरजो भवेत् ॥
यागं तु मानसं कृत्वा कस्य सिद्धिर् न जायते
सम्पूर्णमण्डलं ध्यात्वा अघोरं नाम नामतः ॥
सो ऽष्टाकपालः प्रवरस् तत्त्वव्यापी निरक्षरः
स एव चन्द्ररूपी स्यात् कर्णिकायां विचिन्तयेत् ॥
तत्त्वं तत्र महानादं हकारं नाम नामतः
षट्पदार्थयुतो देवि नवकेन प्रसिध्यति ॥
स एव लीयते विष्णोर् विष्णु रुद्रसमाश्रितः
स एव कालो विज्ञेयः सर्वभक्षो हुताशनः ॥
स एव लीयते माया सा च विष्णुः प्रकीर्तिता
सा शक्तिर् निर्मला कुब्जि कालो वै येन भक्षितः ॥
स विष्णुः शिवतां याति सेतुं भित्त्वा कुलेश्वरि
स च तुर्यपदं प्राप्य उन्मनत्वं हि तत् पदम् ॥
आश्रयं देवदेवस्य अघोरस्य महातपे
निर्वाणं तु परं विन्द्यात् स कुब्जीशः प्रकीर्तितः ॥
स ध्रुवो वासुदेवश् च अजातः परिकीर्तितः
तत्र शक्तिं सदा कुर्यात् तत्रासक्तः सदा भवेत् ॥
न पापैर् लिप्यते देवि महापापैः सुदारुणैः
न कालस्य वशं गच्छेन् न जरा न च दुःखितः ॥
सर्वतीर्थफलं चैव सर्वयज्ञेषु दीक्षितः
हृन्नादं मनसोत्थाप्य व्रजेन् निर्वाणजं पदम् ॥
चेतसा त्व् अमृतं गृह्य आगच्छेद् घण्टिकाश्रयम्
तदुत्थं भारतीमूले कृत्वासौ ऽमृतम् अश्नुते ॥
आपूर्य वदनं तेन स्वच्छन्देन कुजेश्वरि
अनन्गधेनवीं दुग्ध्[ व् ]आ तत्त्वं व्याप्येश्वरेण तु ॥
अघोरं पञ्चमध्ये तु आत्मतत्त्वं विचिन्तयेत्
यो ऽग्निर् ज्वलति चापेन एकस् तिष्ठति पञ्चधा ॥
त्रैलोक्यं व्यापितं तेन यजन्ते ब्रह्मवादिनः
तस्यैव यः शिखां वेत्ति आहिताग्निः स उच्यते ॥
सोऽ ग्निर् देवमुखं विन्द्याद् अघोरः सर्वतोमुखः
मुखेषु च मुखं देवि त्रैलोक्ये ऽपि प्रगीयते ॥
विना तेन वरारोहे न होमो न च भोजनम्
शुचिर् अग्निर् भवेद् देवो बहुरूपः कुजेश्वरि ॥
तदन्तं तु जपं कुर्यात् कृत्वा हृत्स्थं तु केशवम्
अधस्तात् सेतुमार्गस्य तिष्ठते तु कुजेश्वरः ॥
स चासनं परं तस्य सेव्यते किं न मन्त्रराट्
विद्याराजेति विख्यातो मन्त्रराजेति कथ्यते ॥
मुद्राराजेति महतां मण्डलाधिपतिः स्मृतः
ब्रह्मविष्ण्वीश्वराद्येषु पतिर् देवि प्रचक्ष्यते ॥
नानेन सदृशो देवि मन्त्रकोटिशतैर् अपि
हृदयं सर्वमन्त्राणां परमं परिकीर्तितम् ॥
अनेन हीना देवेशि महान् अपि न सिध्यति
ग्रहयन्त्रेषु सर्वेषु व्याधितेषु कुलेश्वरि ॥
रिपुनाशे च बलवान् दारिद्रभयनाशनम्
तस्माद् आराध्य यत्नेन दुःखसिंहः प्रकीर्तितः ॥
नानेन सदृशः कश्चिन् नान्यो ऽस्ति सचराचरे
देवासुरमनुष्यानां तत्त्वरूपो महेश्वरि ॥
मूर्ध्नः पादतलं यावत् तत्त्वं चरति देहिनाम्
निष्कलात् सकलं याति सकलान् निष्कलं पदम् ॥
एकेनांशेन वीराणां सर्वेषां किम् अपि स्तुतम्
स भैरवः शिवो भाति सर्वज्ञः सर्वजन्तुषु ॥
यावत् तिष्ठत्य् असौ गात्रे तावज् जीवन्ति जन्तवः
विना तेन वरारोहे नास्ति नास्तीति कथ्यते ॥
तस्य देवाधिदेवस्य सर्वव्यापिमयस्य च
सर्वदेवमयो देवि कथं भक्त्या न सिध्यति ॥
येन विज्ञानमात्रेण स्मृतेनैव तु सुन्दरि
अक्षयान् लभते लोकान् मुक्तिस्थानं गमिष्यति ॥
सर्वलक्षणहीनो ऽपि स्मरणात् कल्मषापहः
अहो मन्त्रस्य माहात्म्यं जप्यमानस्य नित्यशः ॥
विनापि लययोगेन योगिनीसमतां व्रजेत्
साधकाय प्रयच्छन्ति त्रैलोक्यज्ञानम् उत्तमम् ॥
आकाशादि प्रयच्छन्ति दिव्यदृष्टिश्रुतागमम्
सर्वभूता वशं यान्ति ग्रहाश् चैव विशेषतः ॥
विषं च निर्विषं कुर्याद् दर्शनाद् एव सर्वतः
न तस्य तिष्ठते गात्रे विषं स्थावरजङ्गमम् ॥
कीटलूतास् तु भूताश् च अपमृत्युर् न तिष्ठति
गरजं योगजं दोषं प्रलयं यान्ति दूरतः ॥
चूर्णलेपाञ्जनादीनि कुहकानि तु यानि वै
ये करिष्यन्ति रिपवः स्त्रियो वा पुरुषस्य वा ॥
तत्क्षणात् प्रलयं यान्ति तेषां प्रत्यङ्गिरा भवेत्
स्मरणाद् देवदेवस्य इन्द्रं याति नरोत्तमः ॥
ज्वलन्तो दृश्यते भूतैर् हृच्चक्रे विधिसंस्थितः
दुष्टाश् च प्रलयं यान्ति सिंहस्यैव यथा मृगाः ॥
एको दोषो हि मन्त्रस्य जप्यमानस्य जायते
जरा मृत्युश् च दारिद्र्यं व्याधयो विविधाः प्रिये ॥
स्मरणात् प्रलयं यान्ति तुहिनं तु रवेर् इव
जप्यते येषु राष्ट्रेषु देशे वा सुरसुन्दरि ॥
न रुजा जायते तत्र स्वामी तत्र विवर्धते
एकेनापि सुपुत्रेण घोरदेवाङ्गपूजनात् ॥
घोरीशं तु यदा ज्ञातं स कुलं तारयिष्यति
पशवश् च न नश्यन्ति सदा वर्धति गोकुलम् ॥
वन्ध्या न जायते नारी न म्रियन्ते च बालकाः
ज्वररोगादिभिस् तस्य कुटुम्बं नैव पीड्यते ॥
सर्वलोकस्य सम्पूज्यो जायते राजवल्लभः
धारणीयं सदा गात्रे यथावत् प्रवदाम्य् अहम् ॥
पुष्पेण गुडिकां कृत्वा मन्त्रं भूर्जे समालिखेत्
कुङ्कुमेन लिखेद् देवि रोचनायाथवा पुनः ॥
अकारचतुरो मध्ये आत्मनाम समालिखेत्
मन्त्रेण छादितं नाम अङ्कुसेन तु रक्षितम् ॥
माययाच्छादयित्वा तु शिवं मूर्ध्नि गतं लिखेत्
याष्टं षष्ठसमायुक्तं बिन्दुनादाङ्कितं प्रिये ॥
तच् छिवं तु वरारोहे चतुराश्रमपूजितम्
सर्वं क्षस्थं परं मन्त्रं सर्वरक्षाकरं परम् ॥
नाम्ना तु गुडिका ह्य् एषा सर्वरोगविमर्दनी
सान्ता पूर्वं तु कर्तव्या ततः क्षस्थां तु कारयेत् ॥
क्षकारं कालम् आरूढम् ओकारोपरिदीपितम्
षष्ठस्वरयुतं देवि अमरत्वं प्रयच्छति ॥
यस् तु धारयते दिव्यां गुडिकां शिवपूजिताम्
तस्य वक्ष्यामि सुश्रोणि गुणान् नानाविधान् शृणु ॥
सर्वतीर्थेषु यः स्नातः सर्वयज्ञेषु दीक्षितः
न भयं विद्यते तस्य धरणद् अजरामरः ॥
सर्वव्रतानि चीर्णानि सर्वतीर्थनमस्कृतः
अवनिं विचरेत् सर्वां भैरवस् तु यथा हि सः ॥
सर्वे ते दर्शनात् तस्य साधकस्य महात्मनः
दुष्टाश् च प्रलयं यान्ति व्याधयो विद्रवन्ति च ॥
अब्रह्मचारी चारी स्याद् अस्नातः स्नानम् आप्नुयात्
न भयं विद्यते तस्य सङ्ग्रामे च सदा जयः ॥
अभक्ष्यभक्षणं कृत्वा अगम्यागमनं तथा
नासौ लिप्यति पापेन पङ्कस्थं कमलं यथा ॥
गुडिका तु सदा सिद्धा महाभैरवधारिता
योगेश्वरादिमुनिभिः सर्वदेवैर् नमस्कृता ॥
बहुनापि किम् उक्तेन सत्यं सत्यं यशस्विनि
ज्वलन्तो दृश्यते भूतैर् यथा रुद्रो मखान्तकृत् ॥
सुप्तो भुक्तः प्रबुद्धश् च अथ मैथुनम् आगते
महाहवे महादेवि दुष्टसिंहगजेषु च ॥
विद्युद्वज्राशनिश् चैव उत्पातेष्व् अशनीषु च
शत्रुनाशे च गोनाशे विषशङ्कागतं च यत् ॥
आर्णवेषु च सर्वेषु धारणान् न भयं भवेत्
शाकिन्यो वशगास् तस्य दुष्टवेतालराक्षसाह् ॥
शुचिर् वाप्य् अशुचिर् वापि विद्रवन्ति दिशो दश
गुडिकैषा समाख्याता त्रिलोहपरिवेष्टिता ॥
धारणीया प्रयत्नेन शिवलोकम् अवाप्नुयात्
सर्वावस्थगतो वापि मुक्तिं याति सुराधिपे ॥
मत्समो धारणाद् देवि सत्यं सत्यं यशस्विनि
मयापि धारिता ह्य् एषा ब्रह्मणापि ततः पुनः ॥
विष्णुना देवराजेन युद्धे दैत्यास् तु निर्जिताः
अग्निवायुकुबेरेण यमेन वरुणेन च ॥
मातृभिर् गुह्यकैश् चैव गरुडेन च धीमता
दधीचिना च शुक्रेण दुर्वासेनापि धीमता ॥
ऋषिभिश् च तथा सर्वैर् देवदैत्यैः कुजेश्वरि
ततस् त्व् अन्यैश् च राजानैर् बलिभिर् नहुषादिभिः ॥
युद्धे जयार्थिभिर् देवि उग्रव्याधिजयार्थिभिः
प्रजावश्यार्थिभिश् चैव गुडिका कण्ठधारिता ॥
नानया सदृशी विद्या गुडिका भुवि विद्यते
पिण्डं तु प्रथमं मन्त्र्यम् अघोरेण सुसंस्कृतम् ॥
भुञ्जीयाच् चैव निःशङ्कं ततस् तस्यामृतायते
दिशो ऽभिमन्त्र्य गच्छेत वामं चाग्रपदं न्यसेत् ॥
उभयोश् चन्द्रमध्ये तु पर्यटेत सदा स्थितः
भुञ्जाने शयने चैव चन्द्रमध्ये सदा स्थितः ॥
चन्द्रारूढेन सततं स्थातव्यं वरवर्णिनि
नाघोरसदृशो मन्त्रो मन्त्रा यस्माद् विनिर्गताः ॥
गुरुवक्त्रात् तु विज्ञेयो मध्ये ओंकारमध्यगम्
स एव नादसंलीनो यावद् ब्रह्मबिलं गतः ॥
धारणाद् धारितं कृत्वा त्रिभिः प्राणैर् अलङ्कृतम्
स्वच्छन्दसहितं देवं वर्णान्तपरिवेष्टितम् ॥
मुखे ऽनङ्गां ततो दुग्ध्वा धेनवीं चाम्बरां प्रिये
ग्राह्यग्राहविमर्दश् च त्रिशूलं वडवामुखम् ॥
कुञ्चिका घण्टिका चैव राजदन्तामृतागमम्
आयुषो ज्ञानम् उत्क्रान्तिर् अघोरस्य वशे स्थितः ॥
नाघोरसदृशो मन्त्रो मन्त्रकोटिशतैर् अपि
सत्यं सत्यं पुनः सत्यं भूयः सत्यं पुनः पुनः ॥
सर्वज्ञं परमं मन्त्रं मुक्तिदं व्याधिनाशनम्
जरामृत्युहरं देवि विद्याराजेति कीर्तितम् ॥
विषुवं च सदा तत्र यत्र सर्वं प्रतिष्ठितम्
उत्पत्तिस्थितिकर्तारं यत्र सर्वे लयं गताः ॥
किं न सेव्यति देवेशि बहुरूपं कुजेश्वरि
देवाधिदेवं परमं यत् तत् कारणम् अव्ययम् ॥
तत्त्वव्यापीति परमं व्योमव्यापीति कथ्यते
ब्रह्मविष्णुसुरादीनाम् उत्पत्तिप्रलयान्तिकम् ॥
अघोरं घोररूपेति अघोरीश इति स्मृतः ॥
मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0