Kubjikamatatantra · अध्याय 10
कवचस्य तु माहात्म्यं शृणु देवि वदाम्य् अहम्
येन संरक्षयेत् सर्वं क्रुद्धः शत्रून् निपातयेत् ॥
आगतं रक्षयेत् कालं क्रुद्धः कालं विनाशयेत्
कालवत् कुलसिद्धो ऽसौ तनुत्राणावलम्बकः ॥
शाकिनीभूतवेतालान् नाशयेत् साधयेति च
मायारूपधरो मन्त्री माहेन्द्रगुणशालिनः ॥
कुरुते विविधाश्चर्यं पिच्छकभ्रामणेन वै
कवचं तु समाख्यातम् असिद्धभेदकृद् भवेत् ॥
अस्य दूतीं प्रवक्ष्यामि सद्यःसिद्धां कुलोद्भवाम्
यस्या लेखनमात्रेण प्रस्रावो ऽङ्घ्रितलं भवेत् ॥
आख्खिल्ल भेट्टा दुर्वस आख्खिल्ले उसि आन्निदि
आट्टि वसं विह पूर्वस अट्टि मसि आलित्तो उ ॥
एवं पारम्परेणैव कौलभाषा समुद्धृता
गुरुवक्त्राद् विलोमेन तर्जन्यग्रेषु सिद्धिदा ॥
कवचं तु समाख्यातं शृणु नेत्रं यथास्थितम्
नेत्रसिद्धो महायोगी लोकालोकं चराचरम् ॥
पश्यते निखिलं सर्वं शिवाद्यवनिगोचरम्
क्रुद्धः संशोषयेत् सर्वं सागरांश् च नदानदीन् ॥
आप्यायति तदावस्थं पञ्चव्याप्त्यन्तगोचरम्
निराचारपदस्थो ऽसौ तत्त्वस्थो जपते यदि ॥
अस्य दूती परा देव्या परदृष्टिसमुद्भवा
सद्यःसिद्धा महादेवि सद्यःप्रत्ययकारिका ॥
गुरुवक्त्रोपदेशेन पारम्पर्यक्रमेण वै
तिथिसङ्ख्याकलैर् युक्ता कुलभाषासुरक्षिता ॥
अस्योपचारः कर्तव्यः कौमार्यौ द्वे समाहरेत्
गन्धधूपपयःपानं शुचौ स्थाने नयेत् तु ते ॥
शुक्लवस्त्रधरां तां वै देवीं धायेद् यथा तु ताम्
भावनान्तानुसारेण मर्दयेद् दारिकाननाम् ॥
शिखिनोच्छिष्टयोगेन शरीरं तस्य लाञ्छितम्
स्वस्तिकेन तु कुम्भोर्ध्वं सितवस्त्रावगुण्ठितम् ॥
कुर्यात् स्नानं तु तैलाक्ता भुञ्जानस् तिलपिष्टकम्
तृप्ताः सन्तः प्रपश्यन्ति दारिकाननमध्यतः ॥
यत् किञ्चिद् वाङ्मयं लोके चिन्तयित्वा तु साधकः
भूतभव्यार्थनिर्देशं तत् पस्यति तदोदरे ॥
एषा नेत्रगता दूती सद्यःसिद्धिफलप्रदा
कालवेलाविनिर्मुक्ता साधिता सति सर्वदा ॥
अस्त्रं प्रचण्डदण्डोग्रं साधितं विधिना यदि
हृदादौ क्रमशो वृद्ध्या सङ्क्रुद्धः संहरेत् खिलम् ॥
अशुद्धं शोधयेत् सर्वं सकृदुच्चारणात् तु तम्
तन् न वस्त्वन्तरं किञ्चिद् यद् अनेन न सिध्यति ॥
अस्य दूती महामाया श्रीमद्गुह्येश्वरी परा
गुह्यकालीति नामेन सर्वायुधविमर्दनी ॥
रक्षणी कालपाशानां शत्रूणां तु निकृन्तनी
छेदनी परमन्त्राणां यन्त्रमन्त्रापवादिनाम् ॥
यस्येषा तिष्ठते कण्ठे महाकृत्या सुदारुणा
तस्य यः कुरुते किञ्चित् तस्यैव तु पुनर् भवेत् ॥
अशुभे वा शुभे वाथ कर्मवृत्तौ नियोजयेत्
साधकेन्द्रस्य यः कश्चित् तस्य प्रत्यङ्गिरा भवेत् ॥
महाभये समुत्पन्ने सितगन्धाम्बरान्वितः
चिन्तयन्तो निशाभागे शत्रोर् युद्धं परस्परम् ॥
एवम् अन्यानि कर्माणि साधयेत् परमेश्वरी
देव्याः शस्त्रस्य धारेण अमोघोत्कटवर्चसा ॥
श्रूयतां कुल-म्-ईशानि कालस्य कालरूपिणी
अमोघा शक्ति विख्याता संवर्ताङ्गसमुद्भवा ॥
स्वाहा ओं वै परित्यज्य सिद्धवर्णास् त्रिषष्टि च
खादकास्त्रेति विख्याता सर्वार्थगुणरूपधृक् ॥
अस्य नाम्ना पृथक्तन्त्रं स्वतन्त्रं सिद्धसागरम्
गुह्यकालीति नामेन सपादलक्षपूर्वकम् ॥
व्यावर्णितं तु तत्रस्थम् अत्र किञ्चिद् उदाहृतम्
कुब्जिकास्त्रस्य माहात्म्यं कुलालीतन्त्रनिर्गतम् ॥
पारम्पर्यक्रमायातम् उपदेशसमन्वितम्
विलोमविहितं सर्वं खादकास्त्रे ऽप्य् अयं विधिः ॥
खादकास्त्रस्य लक्षेण निराचारेण योजयेत्
मांसाहारस्वरूपस्य परिवर्तं करोति च ॥
तत्क्षणाद् विष्णुपङ्केन लेपनात् सिंहरूपधृक्
जायते नारसिंहत्वं यद् धृतं विष्णुना पुरा ॥
विष्णुनापि पुरा चीर्णं व्रतं ह्य् अस्याः सुभीषणम्
तेन तं नारसिंहत्वं तस्य सिद्धं सुदारुणम् ॥
नायातं मर्त्यलोकेदं क्वचित् सिद्धं क्रमे स्थितम्
माहात्म्यं गोपितं ह्य् अस्याः सिद्धैर् भृगुपुरःसरैः ॥
अस्त्रस्य दूतिका ह्य् एषा कुब्जिकाम्नायनिर्गता
सिद्धविद्यामहौघैषा आशुसिद्धा सुगोपिता ॥
कुलेश्वर्याङ्गसम्भूता सुव्रता या गुणोज्ज्वला
गोपिता अन्यतन्त्रेषु प्रत्यक्षा कुब्जिकामते ॥
एतद् देव्याङ्गषट्कं तु नानानन्दप्रदायकम्
देव्या हृदयमाहात्म्यं नित्यातन्त्रम् अशेषकम् ॥
नित्यानन्दकरी दूती देव्या हृदि समुद्भवा
तेन नित्या समाख्याता स्वाधिष्ठानं समाश्रिता ॥
सिद्धातन्त्रं शिरोद्भूतं तत्र देव्या महाबला
सिद्धयोगेश्वरी नाम रौद्रशक्तिर् महोज्ज्वला ॥
अनाहतेन संयुक्ता रौद्रदेव्या महाबला
सिद्धयोगेश्वरीतन्त्रे अस्याः कीर्तिर् अनेकधा ॥
देव्याः शिखिशिखोद्भूता स्वच्छन्दानेकभेदतः
मणिभेदान्तरालेन स्वच्छन्दाद्यं विनिर्मितम् ॥
स्वतन्त्रा सहजा शान्ता स्वच्छन्दगतिगामिनी
मणिभेदं पूरयन्ती स्वच्छन्दार्थप्रबोधिका ॥
स्वच्छन्देन स्वरूपेण शिखासूत्रं प्रवर्तते
स्वच्छन्दाघोररूपस्य तस्येदं तन्त्रम् उत्तमम् ॥
तनुत्राणसमुद्भूतं तन्त्रं सम्मोहनादिकम्
विशुद्धिभावनासीनं दूत्यनेकसुसङ्कुलम् ॥
अनेकाश्चर्यकर्तारं सम्मोहध्वंसकारकम्
सम्मोहनं तु तेनेदं माहात्म्यं तत्र तस्य वै ॥
देव्या नेत्रसमुद्भूतं ज्योतिःशास्त्रं स्वरोदयम्
आज्ञाधारगतं ह्य् एतत् सामर्थ्यानेकसङ्कुलम् ॥
कैवल्याद्यं च यत् किञ्चित् तन् नेत्राङ्गसमुद्भवम्
अस्याङ्गस्य तु माहात्म्यं ज्योतिषेश्वरसागरे ॥
परमास्त्रस्य मध्ये तु खादकास्त्रं महाबलम्
तस्य व्यावर्णितं पूर्वं तन्त्रं स्वाभावलक्षणम् ॥
अभिषेकं प्रवक्ष्यामि सर्वपापप्रणाशनम्
परमास्त्रप्रयोगेन सर्वं तत्र न संशयः ॥
शूलदण्डं समुद्धृत्य नाभिस्थं वर्णम् उद्धरेत्
शूलदण्डासनस्थं तु कर्णभूषणवामकम् ॥
वामजङ्घासमायुक्तं नितम्बालङ्कृतं प्रिये
एतद् देव्यास्त्रपरमं नापुण्यो लभते स्फुटम् ॥
क्रमपूजाविधानेन यथाविभवविस्तरम्
दीपमालाभिर् उद्द्योतं कृत्वा धूपाधिवासितम् ॥
शङ्खं वा कलशं वापि अभिमन्त्र्य स्वविद्यया
उत्तमाधममध्यस्य कर्मसेवानुसारतः ॥
तया विद्याभिषेकं तु न्यस्तव्या कलशे तु सा
शिष्यहस्ते तु तं दत्त्वा इदं कूटं तु योजयेत् ॥
यावत् क्षुभ्यत्य् असौ हस्तः स्वयम् एव चलत्य् असौ
धारणाद् इव संयातं यदा पतति मस्तके ॥
तदा तु जायते ऽसौ वै साध्यलक्षणसाधकः
दग्धपापः प्रजायेत नात्र कार्यविचारणात् ॥
नाशिष्याय प्रदातव्यं न धूर्ताय न निन्दके
भक्ताय श्रद्दधानाय गुरुभक्ताय सुन्दरि ॥
तस्य देयम् इदं देवि अभिषेकं वरानने
तदा तु साधयेत् कर्म यद् उक्तं कर्मसन्ततौ ॥
लक्षं वै पूर्वसेवायां सिध्यते नात्र संशयः
षडङ्गं षट्प्रकारं च षड्योगिन्यः षडध्वरम् ॥
षट् प्रकाराणि षट् सिद्धा ज्ञात्वैतान् भिन्नदृष्टिना
स जानाति वरारोहे समस्ताम्नायपद्धतिम् ॥
अन्यथा न भवेत् सिद्धिः किञ्चिज्ज्ञः पश्चिमान्वये
श्रुत्वा सविस्मयं वाक्यम् आनन्दप्रणयान्वितम् ॥
उवाचेदं पुनः कुब्जी षडध्वं वद मे प्रभो ॥
युक्तम् उक्तं च देवेशि श्रूयतां परमार्थतः
सङ्क्षेपात् कथयिष्यामि शेषान्यत् पुरतः पुनः ॥
भूतं भावं तथा शाक्तं मान्त्रं रौद्रं च शाम्भवम्
आज्ञातः सम्प्रवर्तेत षडध्वेदं कुलान्वये ॥
भूतं भुवनावरणं पदं भावं प्रयुज्यते
शाक्तं वर्णाः समाख्याता मान्त्रं द्वादश कीर्तिताः ॥
रौद्रं कलाध्वरं प्रोक्तं शाम्भवं तत्त्वलक्षणम्
आज्ञानलवती दीक्षा मन्त्राणां साधने हिता ॥
सा चाज्ञा पूर्विका सिद्धा अन्यथा तिलघातकी
सा च तत्त्ववतां चैव तत्त्वं वै शाम्भवम् पदम् ॥
तत् पदं विद्यते यस्य सामर्थज्ञः स सर्वशः
ज्ञानमार्गप्रसिद्ध्यर्थं दीक्षा वेधवती शुभा ॥
योग्यतातः प्रदातव्या सुभक्तस्य कुलाध्वरे
सर्वासाम् एव दीक्षानां चोत्तमा परिकीर्तिता ॥
तेन वेधो न कर्तव्यो न ज्ञातं याव निश्चयम्
शाम्भवाज्ञाभिमानेन लोभमोहः प्रकीर्तितः ॥
सामर्थ्यो ऽन्यो न मे तुल्यो य एवं मन्यते कुधीः
आज्ञातः सम्प्रवर्तेत किं तु भूतवती भवेत् ॥
अथ चेत् परिपक्वस्य षड्विधो ह्य् अल्पस्वल्पवत्
पृथिव्यादीनि भूतानि चाविशन्ति च यस्य वै ॥
भूतावेशं तु तद् विद्धि भावावेशम् अतः शृणु
शब्दः स्पर्शस् तथा रूपं रसो गन्धश् च भावजम् ॥
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं शक्तिमनो विदुः
वाचा पाणिस् तथा पादं पायूपस्थं तु मान्त्रजम् ॥
मनो बुद्धिस् तथा गर्वः प्रकृतौ गुण रौद्रजम्
पुरुषादिनिवृत्[त्]यन्तम् उन्मनत्वं परान्तिकम् ॥
एतत् ते शाम्भवं ज्ञानं भुवनाद्यं महाह्रदम् ॥
भूतादिशाम्भवान्तस्य भेदोपायं पृथक् पृथक्
कथितं तु यथा नाथ तथा तत्प्रत्ययं वद ॥
साधु देवि महाप्राज्ञे कथयामि सप्रत्ययम्
अन्यथा तत् कथं तस्य भ्रान्तिज्ञानं विनश्यति ॥
कम्पते भ्रमते रोदेच् चोत्पतेन् निपतेद् वदेत्
अनिबद्धरवोन्मादी ससंज्ञो भूतवद् यथा ॥
भूतावेशस्य चिह्नेदं भावावेशम् अतः शृणु
यानि चिह्नानि जायन्ते भावविद्धस्य भाविनि ॥
घूर्मणं स्वेदरोमाञ्च अश्रुपाताङ्गमोटनम्
आराध्य स्मरणाद् एवं सम्पद्यन्ते स्वभावधृक् ॥
भ्रमते चक्रवत् पातः काष्ठवत् क्षुभितेक्षणः
पश्यते विभ्रमापन्नः शक्तिवेधोपलक्षयेत् ॥
कम्पते भ्रमते चैव जल्पते वदते ऽखिलम्
मन्त्रावेशस्य चिह्नेदं कथितं तव शोभने ॥
रौद्रं चैवम् अतो ब्रूमि पञ्चावस्था[ स्] तु रौद्रजाः
अनाधीतानि शास्त्राणि ग्रन्थतश् चार्थतः सुधीः ॥
अतीतानागतं सर्वं वर्तमानस्य यत् फलम्
रौद्रशक्तिसमावेशात् सर्वम् एव प्रपद्यते ॥
यस्येदं वर्तते चिह्नं रौद्रावेशं तद् उच्यते
शाम्भवेन तु वेधेन सर्वाण्य् एतानि सुव्रते ॥
शुद्धशाम्भववेधस्य साम्प्रतं निर्णयं शृणु
येन विद्धस्य लोके ऽस्मिन् सर्वज्ञत्वं प्रपद्यते ॥
पूर्वोक्तेन तु कालेन शोधितस् तु यदा शिशुः
तदा सम्पद्यते तस्य शाम्भवं गुणदायकम् ॥
कुब्जीशो यं यदायातः पुंसो जन्मन्य् अपश्चिमे
तदा सम्पद्यते तस्य शाम्भवं कुब्जिके तनौ ॥
बह्वर्थकाले ऽपि विशोधितात्मा आत्मैव सौ पश्यति सर्वभूतान्
न मे समानो भुवनान्तराले विशुद्धभावो भवते ह्य् अकाले ॥
एकैकं भुवनं पश्येत् पुंसादौ चोन्मनावधिम्
विशुद्धतनुजो ह्य् एवं देहेनानेन चोत्पतेत् ॥
न कम्पधुनने तस्य ईशद्घूर्मिः प्रवर्तते
विषोन्मूर्छागतस् त्व् एवं तिष्ठते भूतकुम्भवत् ॥
पश्यते चाग्रतः सर्वं तत्त्वव्रातं सदोदितम्
तत्क्षणाद् विषयान् मुच्येज् जीर्णकञ्चुर् यथोरगः ॥
सदानन्दमदोन्मत्तः सर्वज्ञगुणभूषितः
शाम्भवेन तु विद्धस्य चिह्नेदं सम्प्रवर्तते ॥
भूतभावनशक्तीनां मन्त्रावेश[ ं ] सरौद्रजम्
क्रमेण शाम्भवस् तेषां विशुद्धत्वं यथा यथा ॥
झलझलेति यद् वेधं सम्पूर्णघटवद् यथा
भूतान्तशक्तिमन्त्रादौ तथेदं सम्प्रचक्ष्यते ॥
गुरुभक्तिविहीनानां वञ्चकानां यशस्विनि
पूर्वं शाम्भवविद्धस्य भूताद्यं सम्प्रवर्तते ॥
वेधदीक्षापरं नास्ति कथं सा प्रत्ययात्मिका
प्रत्यये सति सञ्जाते कथं तन् मोक्षलक्षणम् ॥
प्रत्यये सति मोक्षो ऽ स्ति पिण्डपातेन सर्वथा
विषयेषु न मुच्येत सिद्धभावं न गच्छति ॥
शाम्भवेन तु वेधेन तत्क्षणाद् विषयोज्झितः
विषयोज्झित-आत्मा वै देहेनानेन चोत्पतेत् ॥
येन वेधेन विद्धस्य सुखास्वादो न विद्यते
स कथं स्वार्थनिर्मुक्तो विषयेषु विरज्यते ॥
शाम्भवे न हि सम्प्राप्ते दर्पेणाकुलितेक्षणः
नायकैः सो ऽभिभूयेत न सिध्यत्य् अधिकारकृत् ॥
आज्ञानन्दे समुत्पन्ने न गन्तव्यं गुरोः कुलात्
कस्मात् सामर्थ्यहेत्वर्थं यावन् नोत्पादयेद् गुणान् ॥
दिवा प्रेषणतन्निष्ठो रात्रौ ज्ञानपरिग्रहः
एवं सम्पादयेत् सर्वं सामर्थ्यं तु गुरोः कुले ॥
अप्रेषिते न गन्तव्यं न कुर्याच् चोल्बणादिकम्
ये न कोपवशाद् आज्ञां दास्यन्ति गमनं प्रति ॥
शाम्भवाज्ञासमुत्पन्ने य एवं कुरुते कुधीः
तस्य पीठाधिपाः पालाश् चाभिभूयन्त्य् अनेकधा ॥
अनुष्ठानतपोपायैर् यदानन्दभृतस् तनुः
तदाधिकारः कर्तव्यो यस्याज्ञा तस्य तत्पदे ॥
अनुज्ञातो ऽभिषिक्तस्य नाममालां प्रकाशयेत्
नवपञ्चविधं द्रव्यं पूजार्थे सम्प्रदर्शितम् ॥
शुभे ऽहनि मुहूर्ते च चतुर्दश्याष्टमीषु च
दर्पणोदरभूभागे वस्त्रे वाथ सुशोभने ॥
ततोपरि यजेत् सिद्धान् सर्वज्ञगुणशालिनान्
चतुर्विंश षोडशैवम् अष्टौ चैव त्रिपङ्क्तिषु ॥
द्वौ सिद्धौ मध्यदेशे तु कुङ्कुमेन तु चाक्षतैः
त्रिहस्तं मण्डलं कुर्याद् ऊर्ध्वादौ पूर्वपश्चिमम् ॥
शृङ्गातकाकृति ह्य् एवं तत्र पूजां समारभेत्
पूजयित्वा विधानेन द्रव्यैः पञ्चनवादिभिः ॥
पृथग्दीपैः पूजयित्वा फल्गुषालिसुगन्धिभिः
सुप्रणीतं सुभक्तं च आज्ञागुणविधायिनम् ॥
ततः प्रवेशयेच् छिष्यं पुष्पं मोचापयेद् इति
यस्मिन् मार्गे पतेत् पुष्पं तन् नाम तस्य दापयेत् ॥
प्रकटं शिव विज्ञेयं गुप्तम् आनन्द-म्-उच्यते
अकारादिक्षकारान्तं पञ्चाशगुणलक्षितम् ॥
अक्षरे अक्षरे सिद्धं पुष्पपाताद् विलक्षयेत्
श्रीकण्ठानन्तसूक्ष्मेशं त्रिमूर्तिर् अमरो ऽर्घिनः ॥
तिथीशो भारभूतिश् च स्थाणुनामो हरस् तथा
झण्टीशो भौक्तिकश् चैव सद्योजातस् त्व् अनुग्रही ॥
क्रूरसेनस् तथान्यो वै महासेनस् ततः परः
प्रथमादौ स्थिता ह्य् एते उपरिष्टाद् विलक्षयेत् ॥
क्रोधश् चण्डः प्रचण्डश् च शिवैकरुद्र एव च
कूर्मश् चैवैकनेत्रश् च चतुरास्यो ऽवसानुगः ॥
प्रथमा या स्थिता पङ्क्तिः पीठत्रयविभूषिता
अजेशः शर्म सोमश् च लाङ्गुलीशो ऽथ दारुकः ॥
अर्धनार्यो ह्य् उमाकान्तो आषाढी दिण्डिर् एव च
धात्रीशश् च तथा मीनो मेषो लोहित-म्-एव च ॥
शिखीशश् छगलण्डश् च द्विरण्डो मध्यपङ्क्तिगाः
महाकालश् च वालाख्यो भुजङ्गाख्यः पिनाकिनः ॥
खड्गानन्दो बकानन्दः श्वेतानन्दस् तथैव च
भृगुश् चैवान्तिमे चक्रे अष्टौ तांश् च प्रपूजयेत् ॥
लाकुलानन्द मध्यस्थं संवर्तानन्दसंयुतम्
तयोर् मध्यगतां देवीं कुब्जिकां परमेश्वरीम् ॥
पूजयेत् पीठसंयुक्तां पारम्पर्येण संयुताम्
यथा सिद्धास् तथा देव्याः संहार्यादि प्रपूजयेत् ॥
वागेश्यन्ताः क्रमेणैव गुरुवक्त्रप्रसादतः
षडारे डादिषट्कं तु क्रमेणैव प्रपूजयेत् ॥
कुलाष्टकं ततो बाह्ये अष्टारे पङ्कजे क्रमात्
पञ्चद्रव्यभृतं पात्रं तदग्रे सन्निवेशयेत् ॥
क्रमाम्नायं पुनः पात्रे कुर्यात् तेनाभिषेचनम्
मुखेन वाथ कर्तव्यं यस्योपरि सुभावना ॥
ततश् चादेशयेत् तं तु कुरु कार्यं यदृच्छया
अधिकारपदं सर्वं मोक्षितं ते प्रसादतः ॥
ततः प्रभृति देवेशि योग्यो भवति शासने
शासनं भूषयेन् नित्यं गुप्ताचारविधौ स्थितः ॥
अव्यक्तेन तु लिङ्गेन व्यक्तलिङ्गेन वा पुनः
येन लिङ्गेन यस्येदं तल्लिङ्गं न परित्यजेत् ॥
आकाशात् पतितं तोयं यथा गच्छति सागरम्
गर्तानद्योपचारेण तथा सर्वं कुलान्वये ॥
यास्यन्ति लिङ्गिनः सर्वे निश्चयार्थो ऽन्यथा न हि
कस्मात् प्रत्यक्षरूपेण तत्राज्ञा वर्तते यतः ॥
समुद्रवत् कुलानन्दं यस्मात् तत् सर्वतोमुखम्
कुलं तद् एव विज्ञेयं सर्वानुग्रहकारकम् ॥
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं प्राकृतम् अन्त्यजम्
मातङ्गम्लेच्छजात्युत्थं बौद्धसाङ्ख्यदिगम्बरम् ॥
त्रिदण्डमुण्डखट्वाङ्ग मुषलान्यक्रियान्वितम्
यास्यन्ति परमं शैवं शैवो याति न कुत्रचित् ॥
तच् च कौलभृतानन्दं नेतरं तु क्रियाकुलम्
सर्वज्ञमार्गविहितं सर्वाचारप्रपालकम् ॥
कौलिकाचारमार्गेण भावाद्वैतेन सर्वथा
तत्त्वाद्वैतेन मार्गेण सर्वथा यत्र संस्थितः ॥
पालयेल् लौकिकाचारम् अद्वैतं समनुष्ठयेत्
गोपयेद् गुप्तलिङ्गानि तत्प्रविष्टानि सर्वथा ॥
अधमाद् उत्तमं ज्ञानं यद्य् अर्थी उत्तमो भवेत्
लिङ्गिनो वा द्विजन्मा वा आज्ञार्थी तु न वञ्चयेत् ॥
एकान्ते विहितं सर्वं कुर्वीत न जनाकुले
अन्यथा स्थितिभङ्गः स्यान् नश्यते शासनं प्रिये ॥
वर्जयेत् कौलिकान् बौद्धान् तथा मीमांसकास्थितान्
कस्माद् भ्रष्टक्रिया तेषां न मोक्षो नैव साधनम् ॥
जिह्वोपस्थनिमित्तार्थम् अद्वैतं तेषु सर्वथा
कौलिकाचारनिर्मुक्ताः श्वानवद् विचरन्ति ते ॥
निराचारं प्रकुर्वन्ति निराचारविवर्जिताः
विषं भक्षन्ति ते मूढा यथाज्ञामन्त्रवर्जिताः ॥
यद्य् अपि ते त्रिकालज्ञास् त्रैलोक्याकर्षणक्षमाः
तथापि संवृताचाराः पालयन्ति कुलस्थितिम् ॥
निराचारेण योगेन पश्यन्ति विषयोज्झिताः
विषयस्थो ऽपहासित्वं निराचारेण यात्य् असौ ॥
भ्रष्टनष्टकुलं त्यज्य कुलकौलं समाश्रयेत्
तत्र योगिगुरूणां च पूज्यते चरणाम्बुजम् ॥
समयेन विना देवि समर्थो भवते कथम्
सामर्थ्येन विना चर्या निराचारात्मिका भवेत् ॥
ज्ञात्वाम्नायपदं सर्वं यथावस्थं कुलेश्वरम्
षट्प्रकारविधानेन निर्गताचाररूपिणम् ॥
सामर्थ्यगुणयुक्तात्मा विषयातीतो जितेन्द्रियः
विरजो रञ्जितात्मा वै निराचारो भवेत् तु सः ॥
एतत् ते कथितं देवि सरहस्यं सुगोपितम्
अन्यद् यत् ते मनस्थं तु तत् पृच्छ वदतो मम ॥
मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0