Kubjikamatatantra · अध्याय 8
श्रुतं देव मयाख्यातम् अशेषार्थसुविस्तरम्
कथं देव्याः शिखासंस्था स्वच्छन्दः कतिरूपधृक् ॥
प्रयोगविपुलं देव सर्वोपायविवर्जितम्
अधुनाश्रोतुम् इच्छामि सारात् सारतरं विभो ॥
आप्यायनं शरीरस्य आकाशादिप्रसाधनम्
अर्चनं चैव सङ्क्षेपाद् ग्रहमर्दकरं यथा ॥
रिपुमर्दकरं चैव बिलयन्त्रप्रसाधनम्
ज्वरदुष्टविषादीनां सर्वदुःखविमर्दनम् ॥
यथा स्मरणमात्रेण व्याधितो मुच्यते क्षणात्
धर्मकामार्थसंसिद्धम् अर्थमोक्षप्रसाधनम् ॥
वशीकरणकर्माणि आकर्षणविधिक्रिया
दिव्यादिव्येषु कार्येषु नागकार्येषु भैरव ॥
शरीरस्थं यथा ब्रूहि नाडिस्थं मुद्रया सह
सङ्क्षेपार्चनकर्म च संसिद्धं भोगसाधनम् ॥
व्रतयागविहीनं च वित्तोपायविवर्जितम्
स्मरणात् केवलो मन्त्रः सुखम् उत्पादयेद् यथा ॥
साधु कुब्जिनि भद्रे त्वं कथयतः शृणुष्व मे
शिखा गुणकला यस्य स्वच्छन्दस्यामितद्युतेः ॥
कुब्जिकायाः शिखा रौद्रा रौद्रसिद्धिप्रदायिका
सारात् सारतरं देवि सत्यं सत्यं न चान्यथा ॥
अघोरान् न परो मन्त्रः कस्माच् चूलीगतस् तु सः
शमनं सर्वदुःखानां व्याधीनां च निकृन्तनम् ॥
सर्वानुग्रहकं देवि भुक्तिमुक्तिप्रदायकम्
कालनिर्णाशनं देवि जरासिंहम् उदाहृतम् ॥
दारिद्रशमनं चेदम् अचिरेण गणाम्बिके
आशाः संशोधयित्वा तु देव्या न्यासं हि पूर्ववत् ॥
हृदयादिप्रभेदेन अस्त्रान्तं यावदावधिम्
स्वस्थानन्यासविन्यासं पूर्ववच् च यथास्थितम् ॥
शिखास्वच्छन्ददेवेशं मन्त्रेदं पारमेश्वरम्
षडङ्गयजनाद् वाथ निराचारेण सिध्यति ॥
ततो मुद्रां परां बद्ध्वा चिन्तयेद् योनिमध्यगाम्
महामुद्रेति विख्याता नाख्याता कस्यचिन् मया ॥
ध्यात्वा प्रेतं पुरा देवि सर्वकारणकारणम्
महायोगी महासिद्धः सर्वलोकधरः प्रभुः ॥
सर्वज्ञगुणसंयुक्तं पद्मं तस्योपरि स्थितम्
कर्णिकोपरि दीप्यन्तं प्रज्वलन्तं महौजसम् ॥
अनन्तं तद् विजानीयात् तस्योर्ध्वे तच्छिखाशिवम्
अष्टपत्त्रासनासीनं द्वात्रिंशार्चिभिर् आवृतम् ॥
नानालङ्कारसम्पन्नं नानावर्णं विचिन्तयेत्
दशबाहुं महाघोरं चतुर्वक्त्रं सुलालसम् ॥
सर्ववर्णधरं देवम् अथ श्यामं विन्चिन्तयेत्
कपालं चैव खट्वाङ्गम् अन्यत् परशुशूलधृक् ॥
डमरुं चाक्षमालां च फलं हस्ते निवेशयेत्
गजचर्मधरौ चोभौ हस्तौ तु परिकीर्तितौ ॥
गर्जन्तं भीषणं नादं सर्वकारणकारणम्
भक्षन्तं चिन्तयेद् व्याधिं विश्वेश्वरकुजेश्वरम् ॥
खाद्यमानां रटन्तीं तां ताड्यमानां विभेदिताम्
भेदयन्तीं त्रिशूलेन छेदयन्तीं महासिना ॥
क्रुद्धभावाद् धुनन्तीं तां पूर्वव्याधिं विचिन्तयेत्
तस्योपरि तम् ऐकारम् ईशतत्त्वावधिस्थितम् ॥
शिखास्वच्छन्ददेवेशं तत् स्थाप्योपरि पूजयेत्
स्वकीयाङ्गसमुद्भूतम् एकवीराङ्गपञ्चकम् ॥
आग्नेय्यां हृदयं न्यस्य शिरस् त्व् ईशानगोचरे
शिखां शिखात्मकां रक्षे तनुत्राणं तु वायवे ॥
अस्त्रं दिशासु विन्यस्य भूयो मध्ये प्रपूजयेत्
जुष्टचण्डेश्वरं क्षेत्रे पूजादौ विघ्नराट् कुले ॥
चलादीनाम् अधिष्ठानं जानीयाद् गुरुपङ्क्तिवत्
धूपचन्दननैवेद्यं त्रयाणां प्रथमं ददेत् ॥
सिद्धिसाधनयुक्तस्य मार्गो ऽयं ह्य् अविचारकः
निराचारपदस्थानां क्षेत्रचण्डीशविघ्नराट् ॥
बलिपूजासु नैवेद्यं त्रयाणां प्रथमं ददेत्
पश्चात् क्रमस्य कुब्जीशे अतः शाठ्यं न कारयेत् ॥
पारम्पर्यक्रमं पूज्य पश्चान् मण्डलकोपरि
शिखास्वच्छन्ददेवेशं यामलं तु चतुष्कलम् ॥
हृत्तनुत्राणपर्यन्तं यजेद् देवं चतुष्कलम्
योगमार्गावलम्बानां श्रीसिद्धाख्यं चतुष्कलम् ॥
पूज्य स्वच्छन्ददेवेशं क्रमाग्रे मण्डलोपरि
ततो जपेच् छिखानाथम् अघोरं परमेश्वरम् ॥
प्रणवाद्यं नमस्कारम् असिद्धानां नियुञ्जयेत्
सिद्धार्थयोगयुक्तानाम् ऐंपादाद्यन्तयोजितम् ॥
ततो ऽ ग्निपूजनं कृत्वा यथा पूजा तथाहुतिम्
सहस्रं वा शतं वाथ पञ्चाशत् पञ्चविंश वा ॥
तिलैर् होमं प्रकुर्वीत दधिमध्वाज्यसंयुतैः
घृतसक्त्वा च मधुना सर्वदुःखप्रमर्दकम् ॥
व्याधिनिर्णाशनं कुब्जि शेषहोमं तु भूतिदम्
सहस्रेण महाभूतिः शतेन व्याधिनाशनम् ॥
शतम् अष्टशतं कुब्जि देवतुल्यो भविष्यति
सर्वदुःखविनिर्मुक्तं जपपूजासमन्वितम् ॥
शततो ऽ ष्टसहस्रेण त्रिष्कालेन तु सुन्दरि
षण्मासाज् जायते सिद्धिः साक्षात् पश्यति भैरवीम् ॥
यथेष्टं जायते सिद्धिर् नास्त्य् अत्र-म्-अनृतं वचः
सहस्रेण ज्वरं याति छागस्य पिशितैर् हुतैः ॥
त्रिष्कालं मासम् एकं तु सहस्रं हुनते तु सः
सिध्यते मांसहोमेन क्षौद्राज्यदधिसंयुतम् ॥
यवक्षीरान्नहोमेन शालितण्डुलसाधितम्
प्रीयते तु शिखादेवः स्वच्छन्दो घोररूपधृक् ॥
दधिहोमात् परा पुष्टिः क्षीरहोमेन शान्तिकम्
षण्मासात् तु घृतं हुत्वा सर्वव्याधिविनाशनम् ॥
राजयक्ट्मं तिलैर् होमाद् आयुवृद्धिर् यवैर् हुतैः
कुष्ठस्यैव सदा होमात् त्रियुक्तैस् तण्डुलैः प्रिये ॥
समसक्तुघृतेनाशु नाशयेत भगन्दरम्
तिलैर् होमं प्रकुर्वीत दधिमध्वाज्यसंयुतम् ॥
व्याधिनिर्णाशनं कुब्जि शेषहोमस् तु भूतिदः
घृतकेवलहोमेन सर्वव्याधिनिकृन्तनम् ॥
प्रयोगं सम्प्रवक्ष्यामि यद् उक्तं ते पुरा मया
धर्मकामार्थमोक्षाणां चतुर्वर्गफलोदयम् ॥
तव कुब्जि प्रवक्ष्यामि शृणुष्वेकमनाधुना
सर्वव्याधिहरं ध्यानं परं पुष्टिविवर्धनम् ॥
आशां संशोधयेत् पूर्वं न्यासं कृत्वा तु पूर्वकम्
पूर्वं न्यस्य च मन्त्रेशं नाडीवर्णैस् तथाक्षरैः ॥
अधःस्रोतं तु वामेन दक्षिणोर्ध्वगतं प्रिये
न्यासं कृत्वा शरीरे तु मन्त्रराजम् अनुस्मरेत् ॥
पञ्चप्रणव-म्-आद्येन अघोरेण सुराधिपे
अध्युष्टमात्राद् उत्तीर्णं ज्ञात्वा मन्त्रम् अनुस्मरेत् ॥
अकुलादित्रिमध्यस्थं कुला[च्] चादेस् त्रिमध्यगम्
मध्यमादित्रिमध्यस्थं पिण्डादेस् तु त्रिमध्यगम् ॥
त्रयार्धमात्रसंयुक्तं प्रणवेदं शिखाशिवम्
त्रिनाडीपिण्डसम्भूतं मुद्रया चोर्ध्वदीपितम् ॥
त्रिपक्षक्षयकर्तारं त्रिधाबद्धं त्रिशूलिनम्
त्रिमूर्तिगुणसम्भूतं तेनासौ त्रिदशेश्वरः ॥
त्रिमार्गविहितं शान्तं त्रिपथान्तसमुद्भवम्
त्रिपथेन विना भद्रे भ्राजते योनिमण्डलम् ॥
योनिं विना न निष्पत्तिर् दिव्यादिव्येषु वस्तुषु
उत्तमोत्तममध्यस्था कन्यसान्तव्यवस्थिता ॥
बिन्दु शक्तिस् तथा नादं मात्रात्रयम् उदाहृतम्
त्रयाणाम् अपि संयोगान् निष्पद्येत भगालयम् ॥
परार्धमात्रसम्भिन्नं प्रणवो ऽयं कुलागमे
अ-उ-म-कारसंयुक्तं प्रणवेदं क्रियात्मकम् ॥
सादाख्येश्वररुद्राणां ब्रह्मविष्णु-र्-अनुक्रमात्
एते ते प्रणवाः पञ्च क्रियाकारणगोचरे ॥
प्रणवादिसमुद्भूताः पञ्चैते गुणवत्तराः
पञ्चप्रणव-म्-आद्यन्तं ततोर्ध्वे तु शिखाशिवम् ॥
एवं तु प्रणवं दिव्यं सुगोप्यं प्रकटीकृतम्
अत्र देवि स्फुटं तुभ्यं भ्रान्तं चात्र जगत्त्रयम् ॥
ज्ञात्वेवं संस्मरेद् यस् तु सन्निधानो ऽस्ति तस्य वै
सुदुर्लभः प्रयोगो ऽयं गुरुवक्त्रात् तु लभ्यते ॥
यत्रोत्पन्नं ततो याति लयं कृत्वा सुराधिपे
उत्पत्तिप्रलयं ज्ञात्वा ततो मन्त्रम् अनुस्मरेत् ॥
यत् किञ्चित् कुरुते कार्यं साधकः साधनात्मकः
उच्चरेत् तु लयान्तस्थं तर्जन्याग्रे व्यवस्थितम् ॥
नाडीसूत्रेण विन्यस्तं बहिर् अन्ते च मातरः
या नाडी सा भवेद् वर्णस् तया नाड्या तु वेष्टयेत् ॥
यदि चन्द्रं वहेच् चक्रं सूर्यं वा चक्रम् उत्तमम्
तस्य मध्ये स्वयं स्थित्वा विश्वो ऽहम् इति चिन्तयेत् ॥
अहं ब्रह्मा तथा विष्णुर् अहं देवो महेश्वरः
भैरवो ऽहम् इति देवि चिन्तयित्वा तु साधकः ॥
हृन्मध्ये चिन्तयेच् चक्रं नाडीवर्णैस् तथाक्षरैः
आद्यक्षरं जपेन् मन्त्रं पुनर् आद्यं नियोजयेत् ॥
एवं संस्मृत्य विधिवत् सर्वकर्माणि साधयेत्
अर्चनं हवनं ध्यानं जपम् एकान्तरूपिणम् ॥
कर्म कृत्वा कुजेशानि कुजेशाय निवेदयेत्
ततो ध्यानं प्रकुर्वीत विशुद्धेनान्तरात्मना ॥
स एव मन्त्रम् उच्चार्य आद्यादौ यावद् अन्तिमम्
नादेन तु गतिं कुर्यात् स्वच्छन्दगतिभावितः ॥
ब्रह्मं भित्त्वा ततो विष्णुं रुद्रम् ईश्वरम् एव च
सेतुमध्येन गमनं कुञ्चिकोद्घाटयेद् बिलम् ॥
उद्घाट्य परमं स्थानम् अघोरं यत्र संस्थितम्
अष्टाकपाल घोरीशं त्र्यक्षरं समनुस्मरेत् ॥
सर्वमन्त्रेषु हृदयं यत् कुब्जीशशिखात्मकम्
मनसा स्मृतमात्रेण खेचरत्वं प्रजायते ॥
सर्वविघ्नोपशमनं मन्त्रं त्र्यक्षरम् उत्तमम्
शेषषट्कं तु यद् देवि तदङ्गान्य् अस्य कल्पयेत् ॥
जप्तव्यं तु शिखासूत्रं सकृत् सिद्धिः प्रजायते
आकाशादिप्रसिद्ध्यर्थं सिद्धिर् अन्यासु का कथा ॥
मन्त्रसन्नद्धदेहस् तु सर्वावस्थो ऽपि साधकः
तिष्ठन् जाग्रन् स्वपन् गच्छन् भुञ्जानो मैथुने रतः ॥
चर्याधारी निराचारो मन्त्रसंस्मरणाच् छुचिः
सामान्यस्मरणाद् एव व्याधिभिर् नाभिभूयते ॥
प्रज्वलन् दृश्यते भूतैर् यस्येदं तु शरीरगम्
अतः किं बहुनोक्तेन सिंहस्यैव यथा मृगाः ॥
गन्धेन प्रलयं यान्ति सत्यं सत्यं महातपे
जपेन साधयेत् सर्वं व्रतस्थो यस् तु साधकः ॥
पूर्वम् एव जपेल् लक्षं सिध्यते घोरमूर्धजम्
अविदित्वा विधानेन किञ्चित् कार्यं न साधयेत् ॥
यः कुर्याद् विधिहीनं तु स विघ्नैश् चाभिभूयते
तस्मात् पदार्थनवकं ज्ञातव्यं तु कुजेश्वरि ॥
क्षेत्रस्थानानि सुश्रोणि ज्ञातव्यानि सुनिश्चितैः
क्षेत्रं व्रतानि मन्त्राश् च अक्षसूत्रं जपं तथा ॥
ध्यानं पूजा तथा द्रव्यं वर्णं मुखसमन्वितम्
मुखहीना न सिध्यन्ति अग्निहोत्रविवर्जिताः ॥
मुखम् आहवनीयं स्यात् तस्मिन् मन्त्राः सदा स्थिताः
अघोरं कालम् इत्य् उक्तम् अघोरं विष्णुर् उच्यते ॥
अघोरस् त्वं महेशानि अघोरश् चाहम् एव च
बहुरूपधरो ह्य् अग्निः प्रचण्डः काल-म्-अन्तगः ॥
स शिवः परमो ब्रह्मा निर्वाणः स सदाशिवः
ईश्वरः स परो नित्यम् अस्मात् परतरो न हि ॥
अनेन स्मृतमात्रेण सर्वदुःखैः प्रमुच्यते
दारिद्रसिंहो ऽघोरीशो व्याधिसिंहः कुलेश्वरि ॥
प्रचण्डदुष्टसिंहश् च महापातकनाशनः
सर्वतीर्थाभिषेकश् च सप्तजप्तेन जायते ॥
शतजप्तेन देवेन सर्वयज्ञफलं लभेत्
दीक्षानिर्वाणकारी स्यात् त्रिसप्तपरिवर्तनात् ॥
दशावर्तेन दुरितं ब्रह्महत्यां व्यपोहति
दशावर्ताद् गुरोपेक्षी स्मरणाद् एव मुच्यते ॥
विधिहीने तथा पाने पञ्चभिश् चोपपातकी
शतेन चैव त्रिष्काल्यं वर्षात् सिद्धिर् यथेप्सिता ॥
बलवतां रिपूणां तु व्यस्तम् आवर्तयेत् प्रभुः
दक्षिणास्यो महादेवि सहस्रेण निपातयेत् ॥
सङ्ग्रामकाले स्मर्तव्यम् असिपत्त्रगतं हृदि
वेष्टन्तं मातृभिः सैन्यं भक्ष भक्षेति भाषयेत् ॥
हतदर्पाः प्रजायन्ते न पुनः संहरन्ति च
दुःस्वप्ने द्विगुणं जाप्यं व्रणे चैव चतुर्गुणम् ॥
लूता दशगुणं चैव विषे वै विंशतिस् तथा
दिने दिने शतं जप्त्वा विभूतिर् वर्धते ऽ चिरात् ॥
प्राङ्मुखो यस्य नाम्ना तु साध्यारूढो हृदि स्थितः
वशीभवति राजानं शतजाप्येन धीमता ॥
सप्ताहात् स बलोपेतो वशीभवति नान्यथा
दिने दिने सहस्रेण नास्ति तद् यन् न साधयेत् ॥
आदित्याभिमुखो भूत्वा सहस्रं परिवर्तयेत्
यत् किञ्चिद् विहितं चित्ते सप्ताहात् साधयिष्यति ॥
न्यस्तं सर्वाङ्गिकं मन्त्रं भैरवाकारसंस्थितम्
स तु भोजनकाले तु पात्रे सञ्चिन्त्य साधकः ॥
सम्पूर्णशशिनं ध्यायेद् भुञ्जानो ऽमृतम् अश्नुते
सम्पूर्णचन्द्रमध्यस्थम् अधोर्ध्वसम्पुटीकृतम् ॥
पर्यटेत् साधको नित्यं सर्वश्रेयम् अवाप्नुयात्
यद् इच्छेत् साधकः सिद्धिं हृदि कृत्वा कुजेश्वरम् ॥
चन्द्रमण्डलमध्यस्थं स्वच्छन्दगतिभावितम्
तत्प्रविष्टं विचिन्तेत अन्त्याद् अन्तं परापरम् ॥
परस्परं तु सञ्चिन्त्य यावद् ब्रह्मबिलं गतः ॥
मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0