भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 3

3.1

त्वया सार्धं महादेव विवाहो जायते यथा
किं निमित्तं च कस्यार्थे तन् मे निगद भैरव ॥

3.2

त्वम् एव देवि सा भद्रे गतासि पितृमन्दिरम्
क्रौञ्चस्य च वधार्थाय देवैस् त्व् आराधिता वयम् ॥

3.3

स च क्रौञ्चो यथोत्पन्नस् तत् सर्वं कथयामि ते
स्थानात् स्थानं क्रमन्त्याशु प्रस्वेदः पतितः क्वचित् ॥

3.4

तत्रासौ दानवो जातः क्रौञ्चाख्यो बलदर्पितः
तेन देवगणाः सर्वे सप्तलोकान्तसंस्थिताः ॥

3.5

उपद्रुतास् तु बलिना गता ब्रह्मपुरं तु ते
ब्रह्मापि तैः समं देवि विष्णोः पार्श्वम् उपागताः ॥

3.6

विष्णुना सह आलोच्य किं कुर्वाम उपद्रुताः
क्रौञ्चासुरेण बलिना तस्योपायं वद प्रभो ॥

3.7

स्फोटनार्थं गरुत्मीश तेनाहम् इदम् आगतः
हरिणापि पुनश् चोक्तं वधितुं तस्य न क्षमः ॥

3.8

देवदेवीसुतं मुक्त्वा कस्मात् सो ऽपि तदुद्भवः
तत एवं समालोच्य क्व स्थानस्थः कुजेश्वरः ॥

3.9

देवीदेहोज्झितो देव उवाचेदं पितामहः
प्रहस्य पालको ह्य् एवम् उवाचेदं पितामहः ॥

3.10

इदानीं किम् असौ दक्षो निर्वपेद् उत्थितो ऽनलः
तस्य कोपानलाद् दग्धः कार्योत्पन्ने कुतस् तु सः ॥

3.11

महादर्पवशाद् भ्रष्टा नष्टा यूयं दिवौकसः
एवोपलम्भिताः सर्वे हरिणा ब्रह्मणोदिताः ॥

3.12

ऊचुस् त्व् एवं पुनः पश्चाद् उपायः को ऽस्ति साम्प्रतम्
हिमवद्गिरेर् दुहिता तिष्ठत्य् एका सुभाविता ॥

3.13

जगन्नाथाङ्घ्रिनिरता जगन्नाथो हि तत्र च
एवम् उक्त्वा वसन्तस्य कामस्य गुणशालिनः ॥

3.14

देवैः प्रचोदितौ तौ द्वौ देवदेव्योर् मनोहरौ
एवं तै रचितं सर्वं पुष्पपल्लवकादिभिः ॥

3.15

कोकिलारावझङ्कारं षट्पदोन्मत्तसङ्कुलम्
वसन्तम् उदितं दृष्ट्वा प्रसन्नगिरया किल ॥

3.16

उवाचेदं तदा काले कामो विध्यति भैरवम् ॥

3.17

मदालसानन्दभृतेक्षणेक्षितः प्रपश्यताम् एव कुमारिकोरुम्
धृत्वा करोत्कण्ठितया च कण्ठे आलिङ्गयन्त्या च दिशं विलोक्य ॥

3.18

लज्जायमानेन सकोपनेन त्रैलोक्यसंहारमहानलेन
सन्दीपितो ऽसौ पतितः क्षणेन कामो हतः कामनिरीक्षणेन ॥

3.19*

कामानन्दे दग्धे प्रीतिरती रोदनात्मिके दुःसहम् ।
दृष्ट्वा ते रुदमाने नानङ्गः पतिर् भवति मा रुदथः ॥

3.20

निग्रहीत्वा तु तं कामं त्रिनेत्ररूपधारिणा
निग्रहानुग्रहश् चैव भैरवेच्छा प्रवर्तते ॥

3.21

एतद् अन्तरम् आसाद्य ब्रह्मविष्णुपुरःसराः
सर्वे देवगणाः प्राप्ता ऋषिसिद्धाः सगुह्यकाः ॥

3.22

स्तुतिस्तोत्ररवैर् दिव्यैस् तोषयित्वा कुजेश्वरम्
उवाचेदं हरिर् ब्रह्मा देव चोत्कण्ठिता वयम् ॥

3.23

भवत्पादविनिर्मुक्ता देवदेवा ह्य् उपद्रुताः
प्रचण्डबलिनाक्रान्ताः क्रौञ्चेन परमेश्वर ॥

3.24

प्रसीद दयया नाथ ब्रुवामस् त्व् अभयं दद
देवीम् उद्वाह्यतां नाथ क्लेशायासप्रपीडिताम् ॥

3.25

कुत्र तिष्ठति कस्यैषा का माता कः पितामहः
को मे ददाति को याच्यः किं कुर्वामः कुलोज्झिताः ॥

3.26

उक्तं तु ब्रह्मणा ह्य् एवं याच्यो ऽहं याचका वयम्
यज्ञयाजी हिमन्ताख्यो अध्वर्युः परमेश्वरः ॥

3.27

एवम् उक्त्वा तु वृद्धेन वसिष्ठप्रमुखान् ऋषीन्
प्रेषिता वद शीघ्रेदं सम्प्रदानक्रियां कुरु ॥

3.28

तैर् गतै रुचितं सर्वम् आदेशं शिरसा धृतम्
बहुवित्तप्रभारेण विवाहानन्दकृद् ध्य् अभूत् ॥

3.29

सर्वमङ्गलमाङ्गल्यम् आनन्दानन्दपूरितम्
तदा प्रभृति सर्वेदम् अभूत् पूर्णमनोरथम् ॥

3.30

भैरवे मथनासक्ते जगद्योनिः सदोदिता
त्रैलोक्यसृष्टिहेत्वर्थं मन्थानस्थो भवेत् तद ॥

3.31

क्रीडाविनोदैर् अतिलालसस्थं कुलामृतानन्दविधौ प्रवृत्तम्
कुलेश्वरं कुब्जिभृतानुरागं सम्पृच्छतेदं प्रणता कुजेशी ॥

3.32

प्रणयेन तु योगेन द्राविताङ्गं त्वया मम
कुब्जेनैव तु रूपेण पीडितातीव भैरव ॥

3.33

विनोदकुशले देवि अनेकार्थविधायिनी
तोषितोऽद्य त्वया नाथे पृच्छ पृच्छ सुदुर्लभम् ॥

3.34

पूर्वकाले त्वया मह्यं प्रसादो यः कृतः प्रभो
कुब्जत्वं शब्दरूपेण पूर्वं व्याहरितं यतः ॥

3.35

तेन कार्येण देवेश कालस्थानं न मे प्रभो
पृच्छामि प्रणयाविष्टा अज्ञानगुणशालिनी ॥

3.36

कथं मे कुब्जिका नाम किं खञ्जी पूर्व सूचिता
एतद् आचक्ष्व यत्नेन सर्वोपायसमन्वितम् ॥

3.37

परमार्थं यदा देव तदा स्यात् सिद्धिसाधनम्
अथ चेत् तन् मृषा वाक्यं तत् किं नाम प्रतिष्ठितम् ॥

3.38

कथयस्व प्रसादेन समाचारो गुरुः कथम्
साधनं सर्ववस्तूनां येनैकेन प्रपद्यते ॥

3.39

मन्त्रतन्त्रेण योगेन आज्ञातः सम्प्रवर्तते
तत् सर्वं हेलया नाथ एकोच्चाराद् वद प्रभो ॥

3.40

क्रीडानन्दस्वरूपेण पृष्टो ऽहं क्लिन्नचेतसे
तेन ते क्लेदनामार्गं कथयामि सुरार्चिते ॥

3.41

नित्यानन्दप्रकर्तारं कल्याणार्थप्रबोधकम्
गुरुम् अन्वेषयेद् यत्नात् सुभगं प्रियदर्शनम् ॥

3.42

शुभजातिसुवृत्तिस्थं शुभदेशसमुद्भवम्
ज्ञानविज्ञानसम्पन्नं समस्तार्थविशारदम् ॥

3.43

कालज्ञं निपुणं दक्षं सामर्थज्ञम् अकुत्सितम्
सर्वावयवसम्पन्नं व्यङ्गदोषविवर्जितम् ॥

3.44

वेधघट्टनिरोधज्ञं लोकमार्गविशारदम्
क्रियाकाण्डरतं शान्तं सुभक्तं गुरुवत्सलम् ॥

3.45

सुसन्तुष्टम् अलोभिष्ठं तपस्विजनवत्सलम्
प्रतिपन्नजनानन्दं शौर्यवन्तं दृढव्रतम् ॥

3.46

विद्याम् अभयदातारं लौल्यचापल्यवर्जितम्
आचारपालकं धीरं समयेषु कृतास्पदम् ॥

3.47

आगतं न त्यजेद् वस्तुं यो गत्वा न परिग्रहेत्
स गुरुर् न मनुष्यानां देवानाम् अपि दुर्लभः ॥

3.48

शक्तिहीनं गुरुं प्राप्य शिष्ये मुक्तिः कुतः प्रिये
मूलच्छिन्ने यथा वृक्षे कुतः पुष्पफलादिकम् ॥

3.49

एवंविधं गुरुं प्राप्य को न मुच्येत बन्धनात्
तं दृष्ट्वा सर्वभावेन शिष्यश् चाराधयेद् गुरुम् ॥

3.50

आत्मना च धनेनैव दासत्वेन भजेत् तु तम्
तावद् आराधयेद् देवि प्रसन्नो यावत् स गुरुः ॥

3.51

प्रसन्नो ददते दीक्षां यया पाशक्षयो भवेत्
प्रबोधो भवते तस्य गृह्णाति यदि तत्क्रमात् ॥

3.52

अक्रमाद् ददते यस् तु अक्रमाद् गृह्णते तु यः
द्वाव् एतौ निश्चितौ बद्धौ पाशैः कुलसमुद्भवैः ॥

3.53

यावद् अष्टौ तथा पञ्च त्रीण्य् अब्दानि सुभावितः
तावन् न कारयेद् दीक्षां निषिद्धस् तु कुलान्वये ॥

3.54

अथ चेद् गुरुसामर्थ्याद् ददते दयया शिशोः
तथापि तेन कर्तव्यं दासत्वं तु गुरोः कुले ॥

3.55

आक्रुष्टः शतधा वापि ताडितस् तु सहस्रधा
एवं कृते न यस्यास्ति विरागस् तस्य योग्यता ॥

3.56

गुरुणा रोषितो वाथ यो दद्याद् उत्तरं क्वचित्
स तु नश्यति दुष्टात्मा अजीर्णे भोजनं यथा ॥

3.57

गुरोः कोपं न कर्तव्यं वाङ्मनःकायकर्मभिः
तस्य कोपाद् दहिष्यन्ति प्राप्तज्ञानं मरीचयः ॥

3.58

मर्त्यलोकं समासाद्य किञ्चिज्ज्ञा गुरवो यदि
तदा ज्ञानस्य का रक्षा ज्ञानचौरं हरन्ति ताः ॥

3.59

क्षमाशीलं गुरुं मत्वा यदि शिष्यो ऽपमानयेत्
प्राप्तं मे ज्ञानसद्भावं गच्छामः कथनं विना ॥

3.60

तस्य रोधादिका देव्यो मूकत्वं जनयन्ति वै
न रोहति यथा बीजं दग्धं तद्वद् इदं प्रिये ॥

3.61

आज्ञायोगं क्रियामन्त्रं मुषित्वा यः पलायते
न च तेन समं याति तत्रैवायाति निश्चितम् ॥

3.62

स कथं तिष्ठते मूढो भुक्तोद्गीर्णे वपुर् यथा
नाबुभुक्षा बुभुक्षा वा घृणी क्षीणतनुर् भवेत् ॥

3.63

शुभं वा अशुभं वाथ कुर्वाणं न हसेद् गुरुम्
हसनाद् ध्वंसम् आयाति हसिते हिंसितो हि सः ॥

3.64

सामान्यप्रतिपत्त्या वा न वदेद् गुरुणा सह
मुखे हस्तं प्रदत्त्वा तु ददादेशम् इति ब्रुवन् ॥

3.65

अङ्गरक्षा न कर्तव्या न शाठ्यं गुरुणा सह
उक्तानुक्तेषु कार्येषु उपेक्षां नैव कारयेत् ॥

3.66

शठस् तु दुष्टभावश् च मृषावाद्यप्रवादकः
अन्तरङ्गी न सद्भावी स नष्टः कञ्जिनी यथा ॥

3.67

द्विधाभावाभिपन्नस्य भिन्नभाव इतस् ततः
य एवं वर्तते मूढः स नष्टः कञ्जिकं यथा ॥

3.68

आज्ञास्फुरन्तम् आनन्दं गुरुं त्यक्त्वान्यम् आश्रयेत्
सन्निरुद्धस् तु सर्वत्र राज्यभ्रष्टो यथा नृपः ॥

3.69

शरीरं द्रव्यविज्ञानं वस्त्रवाहनभूषणम्
गुर्वर्थं धारयेद् यस् तु स वै संस्कारम् अर्हति ॥

3.70

गुरुर् मान्यो गुरुः पूज्यश् चाराध्यो गुरवः सदा
गुरौ सन्तोषिते सर्वं तोषितं सचराचरम् ॥

3.71

गुरोः समो नैव हि मर्त्यलोके तथा विशेषेण तु चान्तरिक्षे
यस् तारयेद् दुःखमहार्णवौघात् किं तस्य कर्तुं स करोति शिष्यः ॥

3.72

न माता न पिता चैव न भ्राता नैव बान्धवाः
उपकारं हि कुर्वन्ति कुरुते यादृशं गुरुः ॥

3.73

एवं मत्वा वरारोहे दुःखे दुःखी सुखे सुखी
गुरोर् वैरोधिकं स्थानं प्रमादाद् अपि न व्रजेत् ॥

3.74

उपविष्टस्य पार्श्वे तु कर्तव्यं मार्जनादिकम्
भिक्षापात्रं निवेद्येत पुष्पधाटीं वहेत् सदा ॥

3.75

अन्तरङ्गं न कर्तव्यं वाङ्मनःकायकर्मणा
यत् किञ्चिद् गुरवे कार्यं तत् कर्तव्यम् अशङ्कितैः ॥

3.76

य एवं वर्तते शिष्यः सुखदुःखसमाश्रयी
तस्य सिद्धिर् न दूरस्था मोक्षः स्वाधीनतां गतः ॥

3.77

गुरुणापादितं सर्वम् उपदेशं प्रपूजयेत्
तस्माद् एवं विदित्वा तु गुरुर् देवो न चान्यथा ॥

3.78

त्रिष्कालं प्रणिपातेन ध्यानयोगेन तं यजेत्
अदृष्टविग्रहेशानम् उपलभ्येत नान्यथा ॥

3.79

मन्त्रध्यानतपोपायैश् चर्यायोगैर् अनेकधा
न पश्यन्ति परं शम्भुं यावन् नोपासयेद् गुरुम् ॥

3.80

ध्यायन्तो ऽपि सदा भक्त्या मद्रूपं गुरुणोदितम्
तथापि न भवेत् सौख्यं शाम्भवं परमार्थतः ॥

3.81

यावन् मूर्ध्नोपरि पादा आज्ञायुक्तः सुभावितः
तावन् न जायते शीघ्रम् अदृष्टगुणलक्षणम् ॥

3.82

गुरुरूपविधौ यदि निश्चलता तद् उपासति मूर्ध्नि धृताङ्घ्रियुगम्
अचिरेण भवत्य् उपलद्भिगुणा अणिमादिगुणाष्टकशम्भुपदम् ॥

3.83

आज्ञाहीने परोक्षत्वं त्रयाणां दर्शितं मया
रुद्रभैरववीराणां कथनाद् योगः प्रवर्तते ॥

3.84

सिद्धे सिद्धं विनिर्दिष्टं प्रत्यक्षगुणलक्षणम्
आज्ञातः सम्प्रवर्तेत सा चाज्ञा गुरवो विदुः ॥

3.85

शास्त्रे शास्त्रे स्मृतं ज्ञानं मयानेकविधानतः
प्रत्यक्षमन्त्रनिहिता सिद्धाज्ञा सिद्धगोचरे ॥

3.86

तेनेदं सिद्धसन्तानं गुरुदेवोपलक्षितम्
यस्य चाज्ञानिपातेन सम्बोधः शाम्भवो भवेत् ॥

3.87

प्रत्यक्षं गुरवं त्यक्त्वा ज्ञानरूपं कुलेश्वरम्
कथम् आराधनान्यत्र कुरुते मोहितात्मनः ॥

3.88

निर्वाणाग्नौ ज्वलद्दीप्ते यो ऽन्यत्राग्नौ व्रजेत् कुधीः
देवागारं गुरुं त्यक्त्वा व्रजत्य् अधोभवं तु सः ॥

3.89

पूर्वकर्मविशुद्धस्य शक्तिपातः सुनिर्मलः
तीव्रशक्तिनिपातो ऽस्य शीघ्रम् एव प्रपद्यते ॥

3.90

मलकायप्रपूर्णस्य मन्दं मन्दं प्रवर्तते
अभाग्यस्यापि षण्मासात् तीव्रत्वं सम्प्रपद्यते ॥

3.91

यावन् न सर्वभावेन मर्त्यलोकम् उपागतम्
गुरुमूर्तिधरं शम्भुं तावत् पातो न शाम्भवः ॥

3.92

मद्वीर्यः पारदो यद्वत् पतितः स्फुटितः कणैः
तद्वच् च देशिकेन्द्राणां रूपेण प्रभ्रमाम्य् अहम् ॥

3.93

मम वीर्यप्रसूतास् ते आचार्याः सूतकेव हि
विन्धन्ति संस्कृताः सन्तो भक्त्योषधिसुजारणात् ॥

3.94

अहम् एकः कुलालो वै खेचरादौ गुणोज्ज्वलः
सृजामि निखिलं सर्वं गुरुत्वे संव्यवस्थितः ॥

3.95

सादाख्यः खेचराणां च पिङ्गो ऽहं पवनोद्भवः
तेजसे ऽनन्तरूपो ऽहं ऽनुग्रहीशो जलोद्भवः ॥

3.96

श्रीकण्ठो ऽहं निवृत्[त्]यन्ते कुलीशो ऽहं क्षितीतले
ऽनुघ्रहाम्य् अखिलं सर्वम् एको ऽप्य् अनेकधा स्थितः ॥

3.97

येन येन हि भावेन पृच्छितो ऽहं यथा यथा
तथा तथा मया सर्वं गुरुत्वे सम्प्रदर्शितम् ॥

3.98

अत्रैव सिद्धसन्ताने प्रत्यक्षो ऽहं व्यवस्थितः
गुरुमूर्तौ स्थितो नित्यं यस्याज्ञा सम्प्रवर्तते ॥

3.99

सुवर्णस्य यथाकाराः संज्ञाभेदैर् अनेकधा
कटकङ्कणकेयूरैः कण्ठीमुद्राङ्गुलीयकैः ॥

3.100

तथा ते गुरवो ज्ञेया ममाज्ञाङ्गसमुद्भवाः
रसवद् वेधका ज्ञेया स्तोकं स्तोकं बहुं बहुम् ॥

3.101

पलकोटिपलानां च गुञ्जाद् एवं न संशयः
एवं विभूतिर् आख्याता युगरूपानुसारिणी ॥

3.102

पलेन विहितो वेधः किं गुञ्जातो न विध्यति
संस्कारे सति सर्वत्र बहुस्तोकं न चिन्तयेत् ॥

3.103

परापरविभागेन कालभाववशेन च
बहुस्तोकं न मन्तव्यं प्रत्ययश् चात्र कारणम् ॥

3.104

रसविद्धं यथा ताम्रं न भूयस् ताम्रतां व्रजेत्
आज्ञाविद्धस् तथाप्य् एवं न संसारम् अनुक्रमेत् ॥

3.105

सा चाज्ञा विद्यते यस्य मम तुल्यः कुजाम्बिके
पलमात्ररसो भव्यं गुञ्जामात्ररसेन किम् ॥

3.106

पलमात्ररसो ह्य् अहं गुञ्जामात्रस् ततोद्भवः
एवं मत्वा गुरूणां च न विकल्पो विभूतये ॥

3.107

आज्ञातो भुक्ति मुक्तिश् च सर्वं साधयते क्षणात्
वाञ्छितं लभते सर्वं यदि भक्तिः सुनिश्चला ॥

3.108

आज्ञा तु द्विविधा प्रोक्ता साधकानुग्रहात्मिका
समर्थाचारयुक्तस्य ततस् तां तु प्रमोचयेत् ॥

3.109

प्राथमिकस्य या आज्ञा; सा विशुद्धिप्रबोधिका
अधिकारनिमित्तार्थं पुनश् चाज्ञां ददेद् गुरुः ॥

3.110

आज्ञामात्रेण सन्तुष्टो अन्यस्याज्ञां ददाति च
नेहत्रे तु सुखं तस्य परत्रे बाध्यते तु सः ॥

3.111

वाचासिद्धिः पुरक्षोभं यावज् ज्ञातं न योगिनः
तावन् न कारयेद् दीक्षाम् इत्य् आज्ञा पारमेश्वरी ॥

3.112

ज्ञात्वाम्नायं वरारोहे दिव्यादिव्यैर् निषेवितम्
चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं चतुः ॥

3.113

श्लोकद्वादशकं चान्यत् पञ्चरत्नं सतद्ग्रहम्
षोढान्यासक्रमं ज्ञात्वा एतत् सर्वं विधानतः ॥

3.114

स योग्यः क्रमिको शिष्यो अन्यथा नामधारकः
ततः प्रभृति सिद्धो ऽसौ पूज्यः पूजापकः स्मृतः ॥

3.115

एतद्गुणविशिष्टो ऽयं शिष्यः सर्वार्थदायकः
महदन्यायसम्प्राप्तो गुरुस् तं न तिरस्करेत् ॥

3.116

एवं गुरुत्वम् आप्नोति सिद्धाम्नाये कुजेश्वरि
अन्यथा जीविकार्थं तु आत्मानं च विडम्बितः ॥

3.117

आज्ञाया गुणम् ऐश्वर्यं यस्य जातं यशस्विनि
तस्मात् सम्पद्यते सर्वं यदि दत्ता प्रसादतः ॥

3.118

क्रमेण विहिता चाज्ञा आज्ञामोघक्रमं विदुः
ते ज्येष्ठाः क्रमसन्ताने यद्य् एषां ऽनुक्रमो न हि ॥

3.119

किं तु मण्डलयोग्यास् ते न भवन्ति कुलेश्वराः
चन्दनाक्षतदीपानां नार्हत्वं च भजन्ति ते ॥

3.120

अधिकाराज्ञा प्रथमा प्रसादाज्ञा द्वितीयका
सा यदि क्रमशः प्राप्ता सक्रमानुक्रमेण तु ॥

3.121

तत्र कालं समारभ्य गुरुत्वं भजते तु सः
स यत्र तिष्ठते देशे तत्र ये ऽन्ये तु कन्यसाः ॥

3.122

भ्रातॄणां भ्रातृपुत्राश् च तत्पुत्राश् च गुरुर् यथा
पूजयन्त्य् अविकल्पेन सिद्धिमार्गे विधिर् ह्य् अयम् ॥

3.123

आराध्यस् तिष्ठते यत्र तत्र किञ्चिन् न कारयेत्
मन्त्रतन्त्रक्रियायोगम् अधिकारं प्रभुत्वता ॥

3.124

पञ्चयोजनमात्रेण गत्वा कर्म समारभेत्
तत्पुरे दासवत् तिष्ठेद् आज्ञाश्रवणतत्परः ॥

3.125

स्वपुरस्थं प्रयत्नेन यदाराध्यं न पश्यति
भुञ्जते मोहितात्मानः किल्बिषं भुञ्जते तु सः ॥

3.126

प्रायश्चित्तं चरेद् देवि कुब्जिकायायुतद्वयम्
अथ चेद् दर्पमूढस् तु ज्ञात्वा भुञ्जत्य् अशङ्कितः ॥

3.127

लक्षं जप्त्वा भवेच् छुद्धि[र्] गुरुपूजा त्व् अनन्तरम्
समपादेन चारुह्य गुरोर् अग्रे अजानतः ॥

3.128

कुब्जिकायुतम् एकं तु शुध्यते गुरुपूजया
गुरोर् आस्थानसंस्थाने चारुह्य पादुकैः सह ॥

3.129

गुरुदृष्टिगते पादे जपते तस्य पूर्ववत्
ज्येष्ठो भ्राता गुरोर् माता गुरोः स्थानार्चकास् तु ये ॥

3.130

त्रीण्य् एतास् तत्समा ज्ञेया द्रष्टव्या गुरुवद् यथा
अपमान्य यदा ह्य् एतान् आत्मसम्भावितः कुधीः ॥

3.131

प्रायश्चित्ती सलक्षेण शुध्यते गुरुपूजया
उपमर्द्य गुरोः स्थानं पापात्मा यत्र तिष्ठति ॥

3.132

तस्य दर्शनसम्भाषात् पातकिनो भवन्ति ते
यदा साधुः प्रसन्नात्मा तदा लक्षत्रयेण वै ॥

3.133

मण्डलानां सहस्रेण गुरुपूजा त्व् अनन्तरम्
पादुकोपानहौ छत्त्रं शय्यापट्टो ऽथ भाजनम् ॥

3.133*

पादेन संस्पृशेद् यस् तु शिरे धृत्वाष्टकं जपेत् ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc