भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 4

4.1

तृप्ताहं देवदेवेश बीजमन्त्रैर् अनेकधा
चक्रैश् च विविधाकारैः सद्यःप्रत्ययकारकैः ॥

4.2

अद्यापि संशयो नाथ मन्त्राणां निर्णयं प्रति
पूर्वं च कथिता मन्त्राः सप्तकोटिर् असङ्ख्यया ॥

4.3

साधनानि पुनस् तेषां सद्यःप्रत्ययकारकाः
क्लिष्यन्ति मनुजात्यन्तं जपहोमपरायणाः ॥

4.4

व्रतैश् च विविधाकारैः कष्टैश् चान्द्रायणादिभिः
किमर्थं ते न सिध्यन्ति जप्त्वा कोटिशतैर् अपि ॥

4.5

त्वं च देवो विभुः कर्ता त्वयोक्तं सत् यम् उच्यते
अविचारेण तद् ग्राह्यं मिथ्या किं देव भाषितम् ॥

4.6

ध्वंसिताश् च त्वया लोका मायारूपेण भैरव ॥

4.7

साधु साधु महाप्राज्ञे वस्तुचोद्यविकल्पिनि
ये मया कथिता मन्त्राः पूर्वं ये कामसिद्धिदाः ॥

4.8

ते गोपिता मया देवि वर्णरूपाः प्रकाशिताः
तेन ते न प्रसिध्यन्ति जप्त्वा कोटिशतैर् अपि ॥

4.9

ओंकारेण तु ते गुप्ता नमस्कारेण भामिनि
तेन गुप्तेन गुप्तास् ते शेषा वर्णास् तु केवलाः ॥

4.10

एकाक्षरा द्व्यक्षराश् च चतुःपञ्चनवाक्षराः
कूटमन्त्राश् च ये केचित् पिण्डमन्त्रास् तथैव च ॥

4.11

एकाशीतिपदाश् चान्ये सहस्रान्ताः शतार्धिकाः
सर्वे ते निष्फलाः प्रोक्ताः किं तु जीवविवर्जिताः ॥

4.12

लोके प्रसिद्धम् एवं हि जीवहीना मृताः किल
मृतस्य चोपचारेण किं तेषां जीवितं भवेत् ॥

4.13

एवं मन्त्रा वरारोहे अक्षरार्थे व्यवस्थिताः
व्रतचर्यैर् न सिध्यन्ति सत् यम् एतद् उदाहृतम् ॥

4.14

सिध्यन्ते जीवयुक्तास् तु किम् अत्र प्रविचार्यते
अन्योन्यवलिताश् चैव भेदिता द्वादशस्वरैः ॥

4.15

रञ्जिताः शक्तिबीजेन सिध्यन्ते वरवर्णिनि
उक्ताः कामप्रदाः सर्वे सर्वे चामोघशक्तयः ॥

4.16

शिववक्त्रोद्भवाः सर्वे मननत्राणधर्मिणः
त्राणं तु रक्षणं प्रोक्तं तच् च वर्णविवर्जितम् ॥

4.17

शुद्धस्फटिकसêकाशं चारोच्चारविवर्जितम्
ज्वलन्तं स्वेन तेजेन हृत्पद्मे संव्यवस्थितम् ॥

4.18

भावयेच् छून्यम् आत्मानम् एकीभूतं तया सह
सुषुम्णाचारयोगेन उद्यन्तं रविबिम्बवत् ॥

4.19

ओ-जा-पू-का-क्रमान् भित्त्वा विद्याकुब्जपदे स्थितम्
तावत् कम्पत्य् असौ योगी स्तोभम् आयाति तत्क्षणात् ॥

4.20

मुद्रा मन्त्रं तथा भाषा सर्वं जानाति तत्त्वतः
कुब्जीशानपदं प्राप्तं सुप्तावस्था प्रजायते ॥

4.21

ईषन्मात्रं विजानाति सुप्तावस्थाव्यवस्थितः
ब्रह्मरन्ध्रगता चाज्ञा काष्ठवत् तिष्ठते तदा ॥

4.22

यवमात्रप्रमाणं तु त्रिकोणाकृतिम् उत्तमम्
वडवामणीन्द्रियं यद्वन् मीलनोन्मीलनानि च ॥

4.23

तत्र मध्ये गतं चेतः काष्ठावस्था तु जायते
भेरीमृदङ्गशब्दाद्यैर् गीतवाद्यैर् अनेकधा ॥

4.24

न शृणोति न पश्येत न चान्यं मन्यते प्रभुम्
खड्गचक्रादिभिः शस्त्रैश् छिद्यमानो न विन्दति ॥

4.25

ईषन्मात्रं विजानाति शक्त्यावस्था वरानने
शक्त्यन्तं तु यदा प्राप्तस् तदा चोत्पतते क्षणात् ॥

4.26

एवं क्रमेण देवेशि शक्त्युच्चारं समभ्यसेत्
सतताभ्यासयोगेन वागीशत्वं प्रजायते ॥

4.27

मासम् एकं यदाभ्यस्तं काव्यकर्ता न संशयः
द्विभिर् मासैर् वपुष्मन्तः क्षुत्तृष्णाद्यैर् न बाध्यते ॥

4.28

विचरेद् अखिलान् लोकान् यावदाभूतसम्प्लवम्
अक्षरार्थेन ये मन्त्रास् तेषाम् एव विधिः स्फुटम् ॥

4.29

अक्षरार्थोपदेशश् च सम्प्रदायश् च कौलिकः
यथा विज्ञायते देव प्रसादं कुरु भैरव ॥

4.30

शृणु देवि प्रवक्ष्यामि मन्त्राणां निर्णयं स्फुटम्
प्रस्तारादि-र्-अनेकैश् च ये मन्त्राश् चोदिताः प्रिये ॥

4.31

अक्षरार्थेन ते ज्ञेयाः खण्डमन्त्राः शिवोदिताः
रञ्जकेन समायुक्ता उपदेशः सुरार्चिते ॥

4.32

सम्प्रदायो भवेद् देवि सो ऽपि षट्सु प्रभेदतः
पल्लवो योगरोधश् च सम्पुटो ग्रथनस् तथा ॥

4.33

विदर्भश् च षड् एते हि सम्प्रदायाः प्रकीर्तिताः
मालिनी शब्दराशिश् च कौलिको विधिर् उत्तमः ॥

4.34

सा तु ज्ञेया वरारोहे भेदाः पञ्चाश सुव्रते
कुलं तु षड्विधं ज्ञेयं तस्य वक्ष्यामि लक्षणम् ॥

4.35

परं बीजं तथा मूलम् आगमो विधिर् एव च
वर्णराशिसमायुक्तः षड्विधस् तु कुलक्रमः ॥

4.36

सकलो निष्कलश् चैव तथा सकलनिष्कलः
सूक्ष्मो भिन्नकलश् चैव कलातीतो वरानने ॥

4.37

षट्प्रकारो भवेन् मन्त्रो ज्ञातव्यः सिद्धिम् इच्छता
शुद्धद्वन्द्वजसट्कीर्ण उपदेशस् त्रिभेदतः ॥

4.38

सूचिता मन्त्रमार्गे तु ये मन्त्रा लक्षणान्विताः
ते ज्ञेयास् त्वत्प्रसादेन ध्यानधारणयोगतः ॥

4.39

कुलमार्गगता देव यथा भवति तत् कथम्
कथं तु पल्लवो योग आदि षट्सु प्रकारतः ॥

4.40

कौलिकं षड्विधं किं तु मन्त्राणां षड्विधा गतिः
त्रिविधश् चोपदेशश् च एतद् इच्छामि वेदितुम् ॥

4.41

पल्लवो आदिदेशे तु योगो मध्ये विजानतः
रोधस् तु आदिमध्यान्ते सम्पुटश् चादि-र्-अन्तगः ॥

4.42

ग्रथनं चान्तरे ज्ञेयम् अक्षराक्षरयोगतः
विदर्भो मन्त्र-म्-आदौ तु मन्त्रान्ते वीरनायिके ॥

4.43

मालाग्रथनम् एतद् धि ज्ञातव्यं मन्त्रवादिना
पल्लवो मन्त्रबोधे तु योगो ज्ञेयस् तु सर्वदा ॥

4.44

अमलीकरणे चैव सन्धानस्य विधौ प्रिये
योगस् तु कथितो ह्य् एवं रोधश् चैवानुकथ्यते ॥

4.45

तीव्रमन्त्रपदस्तम्भे वाक्स्तम्भे सैन्यस्तम्भने
हस्त्यादिशकटयन्त्रे नावान्ते च प्रकीर्तितः ॥

4.46

तेषु रोधः प्रशस्येत पशूनाम् उत्क्रमेषु च
सम्पुटो मन्त्ररक्षासु वश्यार्थे चैव योजयेत् ॥

4.47

अमृतीकरणे चैव विषे स्थावरजङ्गमे
शान्तिकादिषु कार्येषु सम्पुटस् तु प्रशयते ॥

4.48

ग्रथनं रूपकार्येषु आकृष्ट्यादिषु कर्मसु
सन्धाने तु वरारोहे ग्रथनं समुदाहृतम् ॥

4.49

विदर्भः सर्वकार्येषु उक्तानुक्तेषु वस्तुषु
कर्तव्यं सततं देवि यदि सिद्धिं समीहते ॥

4.50

एतद् देवि समाख्यातं सम्प्रदायविधिः शुभः
न मया कस्यचित् ख्यातं सत्यं सत्यं गणाम्बिके ॥

4.51

साम्प्रतं कुलमार्गस् तु यथा भवति तच् छृणु
परं बिन्दुः समाख्यातो हृत्पद्मे सुरनायिके ॥

4.52

ग्रहणं तस्य चोपायस् तं ज्ञेयं कौलिकं परम्
बीजं कुण्डलिनी शक्तिर् या करोति गमागमम् ॥

4.53

तस्यान्तं तु ततो ज्ञात्वा बीजं कौलिकम् उत्तमम्
मूलं शक्तिः स्मृता कुब्जी जगतः कारणात्मिका ॥

4.54

तस्या जातम् अशेषं तु आब्रह्मभुवनान्तिकम्
सृजते येन सुश्रोणि कार्यकारणयोगतः ॥

4.55

ज्ञेया धर्मिणि धर्मित्वं यथोष्मा कृष्णवर्त्मनः
एतत् कौलिकम् आख्यातं मूलसंज्ञा वरानने ॥

4.56

आगमस् तत्र सूत्रार्थो विधिस् तत्रैव चोदिता
वर्णराशिक्रमो ज्ञेयो नादिफान्तस्वरूपतः ॥

4.57

आदिक्षान्तश् च देवेशि शब्दराशिक्रमो विदुः
एतत् कौलिकम् आख्यतं षट्प्रकारं वरानने ॥

4.58

सकलादिक्रमेणैव वक्ष्यमानं निबोधत
ब्रह्मस्थः सकलो मन्त्र अष्टत्रिंशत्कलैर् युतः ॥

4.59

पूर्यष्टकसमोपेत उद्भवस्थो विजानतः
कण्ठस्थो निष्कलो देवि कलाकालविवर्जितः ॥

4.60

रुद्रस्थानगतो भद्रे मन्त्रो भावैर् द्विभिर् युतः
स्थूलजालकलैर् युक्तो बिन्द्वादीनां च सम्भवैः ॥

4.61

सूक्ष्माधारस्थितो ह्य् एकः स्पर्शाख्यो मन्त्रवेदकः
सकलो निष्कलश् चासौ मन्त्रो ज्ञेयस् तु सुव्रते ॥

4.62

विलीनो बिन्दुदेवे तु योन्याकारस्वरूपतः
शब्दस्पर्शविनिर्मुक्तो मन्त्रो ज्ञेयस् तु निष्कलः ॥

4.63

सूक्ष्मात् सूक्ष्मतरो देवि स च सूक्ष्मो निगद्यते
कालरूपः स्मृतो बिन्दुस् तं भित्त्वा व्रजते यदि ॥

4.64

ऊर्ध्वपदे प्रवृत्तस्य सुषुम्णाधारगोचरः
प्रलीनः शब्ददेवे तु चिच्छक्तिप्रतिबोधितः ॥

4.65

भिन्नकलः स्मृतो ह्य् एवं लयातीतस् तु मोक्षदः
पञ्चावस्था समाख्याता मन्त्राणाम् अमितौजसाम् ॥

4.66

यावद् एवं न विन्देत तावत् सिद्धिः कुतो भवेत्
हृत्कण्ठतालुजिह्वौष्ठौ दन्तनासोद्भवाक्षराः ॥

4.67

क्षणप्रध्वंसिनो देवि यथोत्पत्तिस् तथा क्षयः
कृतका ह्य् अचेतना शून्या अनित्या जल्पकारकाः ॥

4.68

पञ्चावस्थाप्रभिन्नस् तु तदा मन्त्र-म् इहोच्यते
एवं मन्त्रगतिं ज्ञात्वा सिध्यन्ते लीलया नराः ॥

4.69

उद्भवे शुद्धम् इत्य् उक्तो विश्लेषे द्वन्द्वजः स्मृतः
सङ्कीर्णे लयसंस्था हि उपदेशस् त्रिधा स्मृतः ॥

4.70

स्पर्शनं चावलोकं च सम्भाषं चात्मदर्शनम्
स्वयमावेशनं चैव सङ्क्रान्तिः पञ्चलक्षणा ॥

4.71

स्पर्शनं हृदिसंस्थं तु आलोकं कण्ठदेशतः
तालुस्थाने तु सम्भाषं दर्शनं बिन्दुमध्यतः ॥

4.72

स्वयमावेशनं देवि कुब्जिरन्ध्रे न संशयः
स्पर्शने कम्पनं ज्ञेयम् आलोके धुननं भवेत् ॥

4.73

सम्भाषे तु भवेत् स्तोभः शास्त्रार्थं चैव मन्यते
दर्शनेन गुणावाप्तिर् अणिमादिगुणाष्टकम् ॥

4.74

स्वयमाविशने देवि उत्पतेन् नात्र संशयः
एवं मन्त्रगतिं ज्ञात्वा सिध्यते नात्र संशयः ॥

4.75

अतः परं प्रवक्ष्यामि मन्त्रोद्धारं वरानने
सुगुप्ते भूसमे शुद्धे गोमयेनोपलेपिते ॥

4.76

पुष्पप्रकरगन्धाढ्ये गह्वरं तु समालिखेत्
सप्तत्रयोदशैर् भागैः षड् लोप्याः षट्क्रमेण तु ॥

4.77

यथा चैवैकपार्श्वे तु द्वितीयम् एवम् एव हि
एकं त्रीणि तथा पञ्च सप्त नव तथैव च ॥

4.78

एकादश तथाप्य् एवं त्रयोदशावसानतः
पञ्चाशद् ऊनम् एकेन कर्तव्यं हि यथाविधि ॥

4.79

कामरूपाद् अकारादौ लिखेद् एवं क्रमेण तु
स्वराः स्पर्शा यथावृत्त्या यावन् मध्यम् उपागताः ॥

4.80

ओड्डियानगतं देवि हंसाख्यं तु महात्मनम्
क-षाख्यं मन्त्रराजानं संयोगेन तु जायते ॥

4.81

एवं न्यासे कृते देवि उद्धरेन् मालिनीं शुभाम्
नादिफान्तक्रमेणैव यथा भवति तच् छृणु ॥

4.82

प-ध-मध्ये शिखा ज्ञेया अधःशिरव्यवस्थिता
ए-पूर्वाक्षरचतुष्कं शिरोमाला निगद्यते ॥

4.83

ऐ-श-मध्ये शिरो देव्याः कारयेच् छुभलक्षणम्
तृतीयं नयनं देव्या ङ-छ-मध्यगतं पुनः ॥

4.84

न-द-मध्यगतं ज्ञेयं द्विधाभूतं वरानने
नयनौ च स्मृतौ देव्याः क्रमाद् दक्षिणवामगौ ॥

4.85

ट-पूर्वे नासिका ज्ञेया संसृष्टा चैव मध्यगा
ढ-त-मध्यगतं गृह्य द्विरभ्यासपदेरितम् ॥

4.86

ठ-ड-पूर्वौ युतौ ऽधस्ताद् भूषणौ कर्णयोः स्मृतौ
वामदक्षिणमार्गेण कर्णभूषस्थिताव् इह ॥

4.87

स-च-मध्यगतं वक्त्रं देव्याया वीरनायिके
विसर्गान्त-ख-मध्यस्थं क-ग-मध्यगतं पुनः ॥

4.88

ख-पश्चिमं समुद्दिष्टं पश्चिमोत्तरम् एव च
घ-च-मध्यगतं चैव उद्धरेद् अक्षरं शुभम् ॥

4.89

एते पञ्च स्मृता वर्णा देव्या दशनकल्पना
ञ-पूर्वे रसना देव्या झ-ऊर्ध्वेन सरस्वती ॥

4.90

स-त-मध्यस्थितः कण्ठः म-छ-मध्यगतोद्धरेत्
र-म-मध्यगतं तद्वद् अक्षरौ तु शुभात्मकौ ॥

4.91

शिखरौ तौ स्मृतौ भद्रे वामदक्षिणगौ शुभौ
ऊ-ढ-मध्यगतं गृह्य ड-ण-मध्ये द्वितीयकम् ॥

4.92

वामदक्षिणगौ द्वौ तु बाहू देव्याः सुरार्चिते
ट-ड-मध्यगतं चैव द्विधाभूतं तु कारयेत् ॥

4.93

करतलौ स्मृतौ देव्याः सव्यासव्यौ विजानतः
ज-म-पूर्वौ तु अङ्गुल्यौ वामदक्षिणगौ शुभौ ॥

4.94

अं-क-मध्ये करपृष्ठे द्विधाभूतं प्रकल्पयेत्
ञ-ठ-मध्यगतं गृह्य वामहस्ते प्रदापयेत् ॥

4.95

ऊर्ध्ववक्त्रकपालं तु अमृताख्येन पूरितम्
दक्षिणे तु करे ज्ञेयं य-ढ-मध्ये तु दण्डकम् ॥

4.96

शूलस्य कथितं भद्रे उद्धारेण समुद्धृतम्
अ-छ-मध्यगतं शूलम् उत्तानम् ऊर्ध्ववक्त्रगम् ॥

4.97

ज्ञातव्यं तु विपश्चिद्भिर् यथालक्षणलक्षितम्
घ-न-मध्ये तु हृदयं देव्यायाः सर्वकामदम् ॥

4.98

म-ष-मध्यगतं गृह्य आत्मबीजं शिवात्मकम्
विसर्गसहितं भद्रे उद्धृतं मन्त्रम् उत्तमम् ॥

4.99

य-स-मध्यगतं प्राणं देव्याया वीरनायिके
ज-च-मध्यगतं गृह्य र-व-सन्धिगतं तथा ॥

4.100

वामदक्षिणगौ द्वौ तु अक्षरौ तौ स्तनात्मकौ
झ-पूर्वे तु पयो ज्ञेयम् अमृतं च उदाहृतम् ॥

4.101

न-स-मध्यगतं गृह्य उदरम् उद्धृतं ऽनघे
क-षाख्यं तत्त्वराजानं नाभिं देव्याः प्रकल्पयेत् ॥

4.102

भ-ञ-मध्यगतं देवि नितम्बं सकलात्मकम्
व-ष-मध्यगतं गुह्यम् औ-पश्चिमसमन्वितम् ॥

4.103

ऊर्वाकारं भवेद् बीजं ण-थ-मध्यगतं ऽनघे
ण-त-दक्षिणगौ बीजौ जानुनी द्वे प्रकल्पयेत् ॥

4.104

सव्यासव्यगतौ ज्ञेयौ क्रमेणैव शुभेक्षणे
थ-द-दक्षिणगौ द्वौ तु जङ्घौ द्वे वामदक्षिणौ ॥

4.105

थ-द-मध्यगतं देवि प-ब-मध्यं तथैव च
द्वौ बीजौ चोद्धृतौ भद्रे पादौ ज्ञेयौ विपश्चिता ॥

4.106

वामदक्षिणगौ प्रोक्तौ लक्षणेन समन्वितौ
एवं सम्यग्विधानेन उद्धृता मालिनी प्रिये ॥

4.107

सप्त कोट्यस् तु विद्यानां मन्त्राणाम् अमितौजसाम्
एषा ह्य् एका परा योनिर् मालिनी सर्वकामदा ॥

4.108

मालयित्वा स्थिता येन तेनैषा मालिनी स्मृता
ये भूता ये भविष्यन्ति अप्रमेया वरानने ॥

4.109

रुद्राणां योगिनीनां च सा मातैव निगद्यते
अवर्णा वर्णसंयोगा ज्ञातव्या तु शुभेक्षणे ॥

4.110

सर्वरुद्रात्मका मन्त्रा रुद्राः शक्त्यात्मकाः प्रिये
शक्तिस् तु मातृका ज्ञेया सा ज्ञेया तु शिवात्मिका ॥

4.111

एवं मन्त्रप्रमाणं तु कथितं तव शोभने
एतद् आद्यं समाख्यातं गोपनीयं प्रयत्नतः ॥

4.111*

एकवीरविधानं तु प्राग् उक्तम् अन्य आगमे ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc