भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 2

2.1

जय त्वं मालिनी देवी निर्मले मलनाशिनी
ज्ञानशक्तिः प्रभुर् देवी बुद्धिस् त्वं तेजवर्धनी ॥

2.2

जननी सर्वभूतानां संसारे ऽस्मिन् व्यवस्थिता
माता वीरावली देवी कारुण्यं कुरु वत्सले ॥

2.3

एवं स्तुता महादेवी भैरवेण महात्मना
ततो लिङ्गं विनिर्भिद्य निर्गता परमेश्वरी ॥

2.4

नीलाञ्जनसमप्रख्या कुब्जरूपा वृकोदरा
ईषत्करालवदना बर्बरोर्ध्वशिरोरुहा ॥

2.5

सुरूपा च विरूपा च अनेकाकाररूपिणी
वामप्रसारितकरा वामदेवी-म्-उवाच ह ॥

2.6

आज्ञानन्दसमाविष्टा स्तुत्यानन्दाकुलीकृता
न वेद्मि को ऽत्र मां स्तौति काहं कस्य वरप्रदा ॥

2.7

उवाचैवं महासत्त्वा दृष्टिपातो मदीयकः
आशीविषेव दुष्प्रेक्ष्यः स कथं धारितस् त्वया ॥

2.8

प्रार्थयस्व तदा किञ्चिद् यत् ते मनसि रोचते ॥

2.9

प्रसादाय महादेवि ददाज्ञानुग्रहं मम
तपसा तव चोग्रेण मम हानिः कुजाम्बिके ॥

2.10

सञ्जाता तेन मे देवि पूर्वम् उक्तम् इदं मया
एवं श्रुत्वा महादेवी सलज्जा गद्गदेक्षना ॥

2.11

किं ते सिद्धं महादेव येन लज्जापिता वयम् ॥

2.12

पूर्वम् उक्तं मया तुभ्यम् आज्ञासमयगोचरे
मत्तुल्यानुगृहीत्वा तु पश्चाद् भव गणाम्बिका ॥

2.13

कस्येदं सिद्धसन्तानं पारम्पर्यक्रमागतम्
मत्सकाशात् पुनस् तुभ्यं त्वत्सकाशात् पुनर् मम ॥

2.14

एवं तद् भैरवं वाक्यं श्रुत्वा देवी पराङ्मुखी
सञ्जाता कुब्जिकारूपा लज्जातो रभसोदिता ॥

2.15

किं तु लज्जायसे देवि पूर्वम् आज्ञा मया तव
इदानीं दद मे शीघ्रं मा शङ्का मा विलम्बय ॥

2.16

अप्रबुद्धप्रमत्तेन यदा तद् रभसोदितम्
तत् किं निग्रहबुद्ध्या वा युक्तं त्वेदं कुजेश्वर ॥

2.17

सर्वानुग्रहके देवि किं न बुध्यसि चात्मनि
न मया रहितं किञ्चिन् न त्वया रहितं क्वचित् ॥

2.18

अन्योन्यगुणयोगेन कार्यकारणयोगतः
त्वं गुरुर् मम देवेशि अहं ते न विचारणात् ॥

2.19

रुद्रभैरववीराणाम् एषा चाज्ञा न कस्यचित्
यदि शिष्यं न मन्येथ मित्रत्वेन तदा दद ॥

2.20

एवं ब्रूते तदा देव्या सर्वम् एतद् भविष्यति
पश्चिमेदं कृतं देव पूर्वभागविवर्जितम् ॥

2.21

चन्द्रद्वीपं मनोरम्यं देव त्यक्तुं न मे मनः
पश्चिमं सर्वमार्गाणां त्वं तावद् अनुशीलय ॥

2.22

पश्चिमाम्नायमार्गो ऽयं सिद्धानाम् अखिलं दद
गच्छाम्य् अहं पुनस् तत्र भारते कुलपर्वतम् ॥

2.23

अनादियुगपर्यन्तं कीर्तयामास तद्विदाम्
श्रीपर्वतं कुमाराख्यं छायाछत्रविभूषितम् ॥

2.24

एवम् उक्त्वा गता तूर्णं श्रीमत्कौमारपर्वतम्
तत्र छायात्मिका देवी अव्यक्ता व्यक्तरूपिणी ॥

2.25

क्षपित्वा कालपर्यायं यावद् आलोकयेद् दिशाम्
उत्तरां तावत् तत् सर्वं लिङ्गपूर्णं महावनम् ॥

2.26

अशीतियोजनायामं समन्तात् परिमण्डलम्
चतुर्द्वारसमोपेतं तीर्थकोटिभिर् आवृतम् ॥

2.27

अनेकसिद्धसंछन्नं मनोरम्यम् अनोपमम्
तमोगुणगणाकीर्णम् अनेकाश्चर्यसंकुलम् ॥

2.28

देव्यादृष्टिनिपातेन अकस्माच् छ्रीर् उपस्थिता
तेन श्रीशैलम् उद्दिष्टं देव्यानामप्रतिष्ठितम् ॥

2.29

अङ्गुष्ठेन कृता रेखा स्वस्थानस्य च तस्य वै
तत्र जाता नदी दिव्या सासीमा उभयोर् अपि ॥

2.30

तच्छायां निश्चलां कृत्वा आज्ञां दत्त्वा तु शाम्भवीम्
अत्र यो विशते कश्चित् स मे तुल्यो भविष्यति ॥

2.31

हर्ता कर्ता स्वतन्त्रो ऽसौ भ्रष्टज्ञानप्रकाशकः
आज्ञातो गुणम् ऐश्वर्यं त्रैलोक्ये सचराचरे ॥

2.32

एवम् आक्षेपयित्वा तु गता त्रिकूटपर्वतम्
तत्र कालं क्षपित्वा तु किष्किन्धाख्यम् अनुग्रहेत् ॥

2.33

तस्य चाज्ञाविभूतिं तु दत्त्वानुगृह्य राक्षसान्
येन तिष्ठाम्य् अहं तीरे समुद्रस्य त्व् अशङ्किता ॥

2.34

तत्र कन्याकुमारी त्वं गत्वा कालस्य पर्ययम्
समुद्रम् अनुगृहीत्वा दरदण्डीं गता पुनः ॥

2.35

तत्र छायाधरी देवी अव्यक्तगुणचेतसा
लोकानुग्रहहेत्वर्थं तत्राज्ञां मोचयेत् पुनः ॥

2.36

पूर्वस्थाने तु या वाचा सा त्व् अत्रैव भविष्यति
एवम् उक्त्वा गता दूरं पश्चिमं हिमगह्वरम् ॥

2.37

यत्र ओलम्बिका नाम तिष्ठते वनपल्लिका
रक्ताम्बरधरा रक्ता रक्तस्था रतिलालसा ॥

2.38

तत्रस्था गह्वरान्तस्था गुहागहनवासिनी
यावत् सन्तिष्ठते कालं तावद् योगिमयं खिलम् ॥

2.39

तैस् तु सन्तोषिता देवी नयोपायैर् अनेकधा
ततः प्रसन्नगम्भीरा उवाचेदं कुजेश्वरी ॥

2.40

अनेकोपायरचना विवेकगुणशालिनी
ओड्डिता येन अङ्घ्रिभ्यां तेनेदम् ओड्डियानकम् ॥

2.41

भविष्यति पुरावस्थम् अष्टकोटिगुणाश्रयम्
आगत्य खेचरीचक्रात् त्व् अमोघाज्ञाप्रसादतः ॥

2.42

अष्टौ ते मानसाः पुत्रा भविष्यन्ति च षड्गुणाः
शाकिन्यष्टकमाता त्वम् अष्टसिंहासनाधिपाः ॥

2.43

रुद्राणी रुद्रशाकी च गोमुखी सुमुखी तथा
वानरी केकरी चैव कालरात्री च भट्टिका ॥

2.44

वामनो हर्षणश् चैव सिंहवक्त्रो महाबलः
महाकालैकवीरश् च भैरवश् च प्रचण्डकः ॥

2.45

चतुर्भुजो गणाध्यक्षो गजवक्त्रो महोत्कटः
ऐरावतो विनायक्षः षड् एते प्रातिचारकाः ॥

2.46

पुत्रीपुत्राष्टकोपेता निवृत्तिस्था नियामिका
अनेकसृष्टिकर्ता च सुसम्पूर्णगुणोज्ज्वलः ॥

2.47

कृते चोड्डमहेशानो मित्रानन्दः पतिस् तव
अष्टौ पुत्राः करिष्यन्ति अधिकारं पश्चिमान्वये ॥

2.48

अधिकारं करिष्यन्ति षट् कुलाधिपतीश्वराः
युगे युगे भविष्यन्ति पृथक्संज्ञाक्रमोदयाः ॥

2.49

एवं ते सूचितं सर्वं क्रमौघः कुलपद्धतिः
भविष्यद्रक्तचामुण्डे गमिष्यामो यथेप्सितम् ॥

2.50

एवं दत्त्वा वरं तेभ्यः करालं च समागता
महाज्वालालिसन्दीप्तं दीप्ततेजानलप्रभम् ॥

2.51

महाज्वालावलीटोपं देव्यास् तेजो महाद्भुतम्
धृतं येन प्रतापो ऽस्यास् तेन तज् जालसंज्ञकम् ॥

2.52

किञ्चित्कालस्य पर्याये प्रबुद्धकिरणोज्ज्वला
विचित्ररचनानेकं पश्यत्य् अग्रेन्द्रजालवत् ॥

2.53

कस्यैषा रचना दिव्या पूर्वम् आसीद् इहाध्वरे
मत्तेजसः प्रतापेन भ्रष्टा त्वं न पलायिता ॥

2.54

करालवदने तुभ्यं मायाजालप्रसारिके
जालन्धराधिपत्यत्वं भविष्यत्य् अचिरेण तु ॥

2.55

आगत्य खेचरीचक्राच् छ्रीसिद्धकौण्डलीश्वरः
अशेषार्थविदो नाथः स ते नाथो भविष्यति ॥

2.56

भविष्यन्ति करालिन्यो दशैव दुहिता तव
भविष्यन्त्य् उत्तरानन्दा दशैते गुणवत्तराः ॥

2.57

प्रातिचारास् तु षड् भद्रे भविष्यन्त्य् अनुगोचरे
आज्ञानन्दसमेकत्वं करालीदुहिताजनम् ॥

2.58

माला शिवा तथा दुर्गा पावनी हर्षणी तथा
जया तु सुप्रभा चैव प्रभा चण्डा च रुग्मिनी ॥

2.59

शकुनिः सुमतिर् नन्दो गोपालश् च पितामहः
पल्लवो मेघनिर्घोषः शिखिवक्त्रो महाध्वजः ॥

2.60

कालकूटो दशैवैते पुत्राः सिंहासनाधिपाः
भविष्यन्ति भवे तुभ्यं मेघवर्णादितो गणाः ॥

2.61

बृहत्कुक्षैकदंष्ट्रश् च गणेशो विघ्नराट् प्रभुः
महानन्दः षड् एवैते भविष्यन्ति गणेश्वराः ॥

2.62

उत्तरानन्दम् ईशानाः करिष्यन्ति युगे युगे
ज्ञानभ्रंशावसाने तु संज्ञाभेदान् पुनः पुनः ॥

2.63

कराली तव सन्ताने भविष्यन्ति ममाज्ञया
एवम् उक्त्वा महेशानी गता सह्यं महावनम् ॥

2.64

सम्पूर्णमण्डलार्चीभिः पूरयन्ती जगत्त्रयम्
निःशेषं निखिलं विश्वं लोकालोकान्तसंस्थितम् ॥

2.65

यावत् सन्तिष्ठते तत्स्था नयोपादैर् अनेकधा
तावच् चण्डाक्षी बलवत् परिचर्याम् अनेकधा ॥

2.66

कुर्वन्ती विविधोपायैः सौकर्यरचनान् बहून्
तेजोभाभिः प्रदीप्यन्ते चण्डाक्षीगुणपूरिताः ॥

2.67

यस्मिन्न् अद्रौ स्थिता देवी देदीप्यार्चिर् घनोज्ज्वला
तत् प्रदेशं स्थिरं जातम् अन्यद् दग्धं चराचरम् ॥

2.68

आपूरितम् इदं सर्वम् अनेकरचनादिभिः
पश्यते पर्वतं माता कालान्ते मुदितेक्षणा ॥

2.69

तावच् चण्डाक्षिणीत्य् अग्रे पश्यत्य् अमिततेजसा
विश्वामृतैः पूरयन्ती दिव्यौघगुणलालसा ॥

2.70

उवाचेदं महादेवी साधु पूर्णमनोरथे
येनेदं पूरितं स्थानं तेन त्वं पूर्णरूपिणी ॥

2.71

भविष्यत्य् आधिपत्यत्वं पर्वतो ऽयं तवोद्भवः
विषुवेन तु योगेन येनेदं संस्कृतं त्वया ॥

2.72

तेन पीठेश्वरी त्वं वै भविष्यसि युगे युगे
तेजस्कन्धासनं तुभ्यं द्वापरान्ताधिकारिणी ॥

2.73

भविष्यति भवे ऽवश्यं चक्रानन्दः पतिस् तव
सम्पूर्णमण्डलाकारो ग्रन्थाधारः कुलेश्वरः ॥

2.74

द्वादशैव भवे तुभ्यं भविष्यन्ति कुमारिकाः
ताभ्यस् त्व् एकैककोटिश् च आधिपत्याधिकारिकाः ॥

2.75

भविष्यन्ति तथा पुत्राः प्रातिचारास् तदर्धतः
आगन्तुं खेचरीचक्रात् प्रेरितास् तु ममाज्ञया ॥

2.76

येन ते नामतो ब्रूमि यथा ते ऽहं प्रसादिता
हंसावली सुतारा च हर्षा वाणी सुलोचना ॥

2.77

महानन्दा सुनन्दा च कोटराक्षी वृकानना
यशोवती विशालाक्षी सुन्दरी द्वादशी तथा ॥

2.78

सिंहासनाधिपत्ये ताः पूर्णाद्रौ कुलकन्यकाः
वलिर् नन्दो दशग्रीवो हयग्रीवो हयस् तथा ॥

2.79

सुग्रीवो गोपतिर् भीष्मः शिखण्डी खण्डलस् तथा
शक्रश् चण्डाधिपः सिद्धाः सर्वानुग्रहकारकाः ॥

2.80

हंसभेदादिमार्गस्य भविष्यन्ति प्रकाशकाः
आमोदश् च प्रमोदश् च सुमुखो दुर्मुखस् तथा ॥

2.81

अविघ्नो विघ्नकर्ता च तव मार्गेषु रक्षकाः
एतत् सर्वं यथान्यायं चण्डाक्षी पुरतस् तव ॥

2.82

भविष्यति ममाज्ञातो गच्छामः कामिकं यथा
एवम् उक्त्वा गता शीघ्रं यत्रोच्छुष्मा नदी शुभा ॥

2.83

महोच्छुष्मवनान्तस्था दिव्यादिव्यौघवाहिनी
महोच्छुष्मह्रदं यत्र यत्र नीलो महाह्रदः ॥

2.84

तत्र सा रम् अते देवी दिव्याज्ञागुणशालिनी
उभयोस् तटयोस् तस्था रमित्वा कालपर्ययम् ॥

2.85

यावत् पश्यति विश्वाङ्गी तत्त्वाङ्गी तावत् पश्यति
कामभोगकृताटोपां वसन्ततिलकोज्ज्वलाम् ॥

2.86

द्रवयन्तीं द्रवन्तीं ताम् इच्छया भुवनत्रयम्
तां दृष्ट्वा प्रहसिता माता का त्वं कस्माद् इहागता ॥

2.87

तां दृष्ट्वा मोहिता माता जानन्त्य् अपि न जानती
विश्रम्य च मुहूर्तैकं यावद् आलोकयेत् पुनः ॥

2.88

तावोच्छुष्म इहायाता ममाग्रे शोकवाहिनी
साधु कामिनि सर्वत्र यत् त्वया दर्शितं मम ॥

2.89

कामानन्दफलावाप्तिस् तेन कामेश्वरी भव
कारुण्यात् कामरूपं तु ममाग्रे विविधं कृतम् ॥

2.90

तेनेदं कामरूपं तु महत् पीठं तवाध्वरम्
भविष्यति कलौ प्राप्ते चन्द्रानन्दः पतिस् तव ॥

2.91

वायुस्कन्धोपविष्टो ऽसौ आत्मभेदप्रकाशकः
अशेषार्थविदो नाथः सर्वज्ञः परमेश्वरः ॥

2.92

कामिके कामुकस् तुभ्यं कामदेवो भविष्यति
भविष्यन्ति महानन्दास् त्रयोदश गुणान्विताः ॥

2.93

योगिन्यो योगसम्पन्नास् तव डिक्करिकाः शुभाः
पुत्रास् त्रयोदशा ह्य् एवं सप्तैते प्रातिचारकाः ॥

2.94

भविष्यन्ति जगद्दीपा जगदानन्दकारकाः
प्रभा प्रसूतिः शान्ताभा भानुवत्या च श्रीबला ॥

2.95

हारी च हारिणी चैव शालिनी कन्दुकी तथा
मुक्तावली तथा चान्या गौतमी कौशिकी तथा ॥

2.96

शाकोदरी च विख्याता राज्ञाः सिंहासनाधिपाः
भानुर् अनन्तहेतुश् च सुराजः सुन्दरस् तथा ॥

2.97

महावक्त्रार्जुनो भीमो द्रोणको भस्मको ऽन्तकः
केतुध्वजो विशालाक्षः कल्याणश् चतुराननः ॥

2.98

एषोऽवतारो विविधः कलौ प्राप्ते भविष्यति
लम्पटो घण्टकर्णश् च स्थूलदन्तो गजाननः ॥

2.99

बृहत्कुक्षिः सुरानन्दः सप्तमस् तु बलोत्कटः
सप्तैते विषमाः क्रुद्धाः सर्वसन्तानपालकाः ॥

2.100

पीठोपपीठसन्दोहे क्षेत्रे क्षेत्रे महाबलाः
सर्वसाधारणा ह्य् एते भविष्यन्ति कलौ युगे ॥

2.101

अन्यत् कामाम्बिके किञ्चिद् भणिष्यामः करिष्यथ
सर्वसाधारणं तच् च चतुर्णां तु विजानथ ॥

2.102

भविष्यति कलाचक्रं मच्छरीरसमुद्भवम्
परापरविभागज्ञं मातङ्गकुलसम्भवम् ॥

2.103

नीलस्योत्तरभागे तु महोच्छुष्मवनान्तगम्
परापरं तु तेनेदं पञ्चमं पीठनायकम् ॥

2.104

मातङ्गिनीकुलान्तस्थम् आद्यं चैवाथ पञ्चमम्
तेन जातं जगत् सर्वं तत् सञ्जातं कुलाकुलम् ॥

2.105

मच्छरीराङ्गसम्भूतं भविष्यन्ति तवाध्वरे
कार्यदृष्टौ प्रशस्तं तु अप्रशस्तम् इतरे जने ॥

2.106

मध्यदेशस्थितं तच् च मत्समीपे व्यवस्थितम्
सिद्धपालकसंयुक्तं भविष्यत्य् अवतारकम् ॥

2.107

निराचारं जगत् सर्वं निराचारविवर्जितम्
निराचारेण योगेन करिष्यन्ति निराकुलम् ॥

2.108

हारिका हारि गान्धारी वीरा चैव नखी तथा
ज्वालिनी सुमुखी चैव पिङ्गली च सुकेशिनी ॥

2.109

श्रीफलः कष्मलश् चण्डश् चण्डालश् चेटकस् तथा
मातङ्गो बाहुको वीरो अव्यक्तो नवमः स्मृतः ॥

2.110

हेरम्बो धूलिसंज्ञस् तु पिशाचः कुब्जवामनः
परापरं तु तत् पीठं कामपीठोर्ध्वमध्यगम् ॥

2.111

त्रिश्रोत्रं पूरितं यस्मात् त्रिश्रोत्रा त्वं तथा भव
नदीरूपासि माङ्गल्ये भव त्वं कामरूपिणी ॥

2.112

मातङ्गानां कुलोत्पन्ने यस् त्वां नित्याभिवादयेत्
तेषु क्षेमकरी नित्यं न मन्यन्ते क्षयङ्करी ॥

2.113

त्वां मुक्त्वा यो ऽन्यवर्णस् तु यो ऽत्र पीठे भविष्यति
तस्यापदकरी नित्यं भविष्यसि कुलाम्बिके ॥

2.114

एवं तिष्ठ ममानन्दे जगानन्दकरी चिरम्
भविष्यति पुरावस्थम् अमोघाज्ञाप्रसादतः ॥

2.115

एवम् उक्त्वा गता शीघ्रं देवीकोटं कृतक्षणात्
आलोकनेन महता अट्टहासो ऽट्टहासतः ॥

2.116

कोलागिर्यां तथोज्जेनी प्रयागवरणादिकम्
विरजेकाम्रकाद्यं च अन्यच् चान्यं चराचरम् ॥

2.117

यत्र यत्र गता देवी यत्र यत्रावलोकयेत्
तत्र सन्दोहतीर्थं च उपक्षेत्राण्य् अनेकधा ॥

2.118

कृतं तु भारते वर्षे आत्मकीर्तिकुमारिका
तेन कौमारिकाखण्डं सञ्जातं पुण्यपावनम् ॥

2.119

पूर्वसन्तानदेवेन यद् उक्तं भारतं व्रज
तदावसाने कुब्जेशि उभाभ्यां मेलकं त्व् इह ॥

2.120

तत् कृतं सकलं देव्या आज्ञानन्दावबोधकम्
आगता तु पुनस् तत्र पूर्वरूपानुयायिनी ॥

2.121

देवो ऽपि पूर्वसन्ताने शिष्यः सुरवरार्चिते
श्रीमदोड्रमहेशानं कृत्वा चाज्ञां पुनर् ददेत् ॥

2.122

व्रज त्वं भारते वर्षे इतः प्रभृत्य् अनुग्रहः
उड्डपीठे पुनः स्थातुं कुरु सृष्टिम् अनेकधा ॥

2.123

एवम् उक्त्वा पुनस् तत्र त्रिकूटशिखरान्तगः
अदृष्टविग्रहेशानश् चान्तर्धानम् अभूत् क्षणात् ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc