भाषा

ENहिગુ
ग्रंथ पाठ

Kubjikamatatantra · अध्याय 11

11.1

मन्त्रतन्त्रैस् त्वया देव भ्रामिताहं क्रियादिभिः
ध्यानधारणयोगैश् च इदानीं कथय स्फुटम् ॥

11.2

पूर्वतन्त्रे त्वया देव सूचितं न प्रकाशितम्
अधुना श्रोतुम् इच्छामि षट्पदार्थविनिर्णयम् ॥

11.3

महानन्दकरं वाक्यं महाश्चर्यकरं परम्
गोपितं सर्वदेवानां तथा ते कथयाम्य् अहम् ॥

11.4

अनादिनिधनेशानाच् छिवात् परमकारणात्
दिव्याज्ञायाः क्रमो जातः पारम्पर्यौघसन्ततिः ॥

11.5

अकुलं च कुलं चैव कुलाकुलविनिर्णयम्
अधुना कथयिष्यामि नवधा निर्णयो यथा ॥

11.6

परस्य परमां विद्धि योनिम् आद्यां महाम्बिके
रूपातीतादियोगेन परेच्छेयं चतुर्विधा ॥

11.7

रूपातीतं तु कामाख्यं रूपं पूर्णगिरिर् महान्
पदं जालन्धराख्यं तु पिण्डम् ओड्रं प्रकीर्तितम् ॥

11.8

अन्तिमामृत सूक्ष्मा च सुसूक्ष्माद्यं चतुष्टयम्
अकुलेश्वरदेवस्य सम्बन्धः प्रथमः स्मृतः ॥

11.9

रूपातीतात् परो हिन्दुः शक्त्याधिष्ठित भास्वरः
ततो नादो निरोधश् च अर्धचन्द्रम् अनुक्रमात् ॥

11.10

एतत् तत् पञ्चकं प्रोक्तं ज्ञानरत्नमहोदयम्
सा योनिः परमा ज्ञेया क्रियाध्वानमहोदधिः ॥

11.11

बिन्दुतत्त्वात् परो बिन्दुर् मकारोकार-म्-एव च
अकारस् तु समाख्यातः षट्पदार्थविभेदकः ॥

11.12

रूपात् पदं समुत्पन्नं कालरूपं षडाननम्
षड्विधाध्वानयोगेन सृजते संहरन्ति च ॥

11.13

आधाराधेययोगेन षट्पदार्थपदेन च
कुरुते विविधां सृष्टिं येन तत् कथ्यते ऽ धुना ॥

11.14

आत्मा धारयते शक्तिम् आत्मा हंसोपरिस्थितः
हंसः समीरणान्तस्थः स च नाडीपथे स्थितः ॥

11.15

नाड्यः पिण्डे सकर्माद्यः पशुर् मायामलान्विताः
एतत् षट्कं समाख्यातं कुलमार्गप्रबोधकम् ॥

11.16

अत्र जातं जगत् सर्वं क्रियाकारणगोचरम्
पराच् च शाम्भवं ज्ञानं विज्ञानानेकसङ्कुलम् ॥

11.17

विशुद्धिर् बोधजननी षोडशान्त-म्-अधोर्ध्वतः
मणिपूरक शब्दस्थं दशपञ्चावतारकम् ॥

11.18

सा तु माया परा ज्ञेया चतुर्योनिर् महाम्बिके
शब्दसूत्रेण येनैताः पञ्चाश मणयो महान् ॥

11.19

आपूरिताश् च महता तेनेदं मणिपूरकम्
अस्याधारं तु विज्ञेयं कर्णकुब्जं महापुरम् ॥

11.20

विज्ञानैः पञ्चदशभिः पूरितं भुक्तिमुक्तिदम्
मणिपूरकमालायां ग्रन्थिर् जाता चतुर्विधा ॥

11.21

मण्डलं मन्त्रविद्याश् च मुद्रा ग्रन्थिश् चतुर्विधा
मायायन्त्रोदरे चान्या पुंसां सृष्टिर् अनाहता ॥

11.22

नदते दशधा सा तु दिव्यानन्दप्रदायिका
चिणीति प्रथमं शब्दं चिञ्चिनी तु द्वितीयकम् ॥

11.23

चीरवाकी तृतीयं तु शङ्खशब्दं चतुर्थकम्
पञ्चमं तन्त्रिनिर्घोषं षष्ठं वंशरवस् तथा ॥

11.24

सप्तमं कंसतालं तु मेघशब्दं तु चाष्टमम्
नवमं दाघनिर्घोषं दशमं दुन्दुभिस्वनः ॥

11.25

नवशब्दम् परित्यज्य दशमं मोक्षदं परम्
हननेन विना येन व्याहरेद् दशधा रवम् ॥

11.26

तेनैवानाहतं जातं कर्णकुब्जाद् विनिर्गतम्
दशधा रवते-द्-एवम् अष्टपत्त्रोपरिस्थितम् ॥

11.27

दशधा गुणदातारं चिच्चेताहृदयात्मकम्
प्रमाणपदयोगेन क्षोभयित्वा नवान् बहून् ॥

11.28

कलाकर्मसमायोगात् स्वाधिष्ठानं विनिर्मितम्
शतकोटिसुविस्तीर्णं भुवनानेकसङ्कुलम् ॥

11.29

मायाकालकलाकीर्णम् आधारं ब्रह्मणस् तु तत्
चतुष्कलसमोपेतं शिवशक्तिसमन्वितम् ॥

11.30

षट्प्रकारम् इदं कुब्जि स्वाधिष्ठानं पृथक् पृथक्
षट्पदार्थविभागो ऽयं दुर्लभः प्रकटीकृतः ॥

11.31

क्रियातत्त्वार्थनिर्देशं कुब्जिके ऽन्यत्र गोपितम्
कुलाकुलम् इदं षट्कम् उत्तरं ते प्रकाशितम् ॥

11.32

दक्षिणस्यापि षट्कस्य साम्प्रतं निर्णयं शृणु
मणिपूरकदेवस्य तत् तेजो भास्वरस् तु यः ॥

11.33

तत्र तद् दक्षिणं षट्कम् आज्ञापूर्वं कुलोद्भवम्
सृष्टिमार्गक्रमायातं शिवशक्तेः कुलाकुलम् ॥

11.34

संहारपदषट्कस्य कुलं शक्त्यान्तदक्षिणम्
गुदम् आधारम् इत्य् उक्तं स्वाधिष्ठानं तु लिङ्गजम् ॥

11.35

मणिपूरक नाभिस्थं हृदिस्थं च अनाहतम्
विशुद्धिः कण्ठदेशे तु आज्ञा नेत्रद्वयान्तरे ॥

11.36

विशुद्धिः षोडशैर् भेदैर् दशधा तु अनाहतम्
मणिपूरक विज्ञेयं भेदैर् द्वादशभिः स्थितम् ॥

11.37

अनेकार्थगुणाधारं स्वाधिष्ठानं तु षट्कलम्
चतुष्कलं तु आधारम् आज्ञाभेदद्वयं विदुः ॥

11.38

आज्ञाभेदद्वयं नाथ कथं तत् परमेश्वर
आचचक्ष्व प्रयत्नेन येन भ्रान्तिर् विनश्यति ॥

11.39

लक्षवारसहस्रैस् तु वारं वारं पुनः पुनः
एष साङ्केतिको ह्य् अर्थः कथ्यमानं न बुध्यसि ॥

11.40

शाम्भवं कथितं ज्ञानं सृष्टिमार्गेण शक्तिगम्
इच्छाशक्तिसमायुक्तम् उत्तरं ते प्रकाशितम् ॥

11.41

इच्छाज्ञानं परित्यज्य शम्भुर् अत्रापि दक्षिणम्
क्रियाशक्तिर् अधोभागे संयोगात् प्रत्ययायते ॥

11.42

ऊर्ध्वशक्तिनिपातेन अधःशक्तिनिकुञ्चनात्
कुरुते विविधां सृष्टिम् अनेकाकाररूपिणीम् ॥

11.43

न शिवेन विना शक्तिर् न शिवः शक्तिवर्जितः
क्रियातत्त्वस्य मार्गो ऽयं परेच्छाध्वं तु केवलम् ॥

11.44

उत्तरस्य तु मार्गस्य यच् छतुष्कं सुसूक्ष्मगम्
क्षोभितं तेन चात्मानं पुनः षोडशधा कृतम् ॥

11.45

विशुद्धं परतत्त्वान्तं तेनात्मानं विसर्पितम्
चतुस्त्रिंशतिभेदेन तस्मान् ऽनेकविधाकृतिः ॥

11.46

सप्रत्ययगुणाधारम् अवस्थागुणदायकम्
लक्ष्यते येन सुश्रोणि तच् छृणुष्व यथार्थतः ॥

11.47

मुक्ताफलनिभाकारं क्वचिज् ज्वालाचलाचलम्
क्वचिन् मर्कटिजालाभं मृगतृष्णेव चापलम् ॥

11.48

रूपातीतं च रूपं च पदपिण्डं चतुर्विधम्
विशुद्धतनुदेवस्य आद्यभेदं चतुष्टयम् ॥

11.49

सरहस्यं प्रबुद्धानां क्षुब्धानां तु क्रियाध्वरे
तस्मात् पीठचतुष्कं तु सञ्जातं तु कुलाकुलम् ॥

11.50

कलाभृत्तनुदेवस्य कैलासोपरिसंस्थितम्
मध्यदेशे तु रन्ध्रस्थं श्रीमदोड्रकुलेश्वरम् ॥

11.51

प्रथमं पीतवर्णं तु सशैलवनकाननम्
वनोपवनसंयुक्तं हेमप्राकारमण्डितम् ॥

11.52

नदीनदसमाकीर्णम् अनेकार्थसमाकुलम्
सर्वबीजसमाकीर्णं चतुरस्रं समन्ततः ॥

11.53

वज्रार्गलसमोपेतं वज्रहस्ता तु मालिनी
तत्राधिपत्ययोगेन पीठपीठेश्वरीयुतम् ॥

11.54

तस्यैव दक्षिणे कोणे चन्द्राभं चन्द्रवर्चसम्
अर्धचन्द्र पुराकारं सरि त्सरसमाकुलम् ॥

11.55

जलकल्लोलगम्भीरं षड्रसार्णवसङ्कुलम्
वीचीतरङ्गकल्लोलैस् तटास्फालनभीषणैः ॥

11.56

तत्त्वनाथोपरिस्थं तु पुरं तत् पारमेश्वरम्
हिमचन्द्रशिलाभिश् च समन्तान् निचितं तु तम् ॥

11.57

प्राकारेण विचित्रेण गोपुराट्टालशोभितम्
अनेकगुणसञ्छन्नम् अनेकाश्चर्यसङ्कुलम् ॥

11.58

तत्र तत्त्वेश्वरं देवं देव्याधिष्ठितविग्रहम्
श्यामवर्णं सुतेजाढ्यं पाशहस्तं सुलोचनम् ॥

11.59

आधारं सर्वसृष्टेस् तु महापीठोपरिस्थितम्
कैलासदक्षिणे शृङ्गे अनेकगुणसङ्कुलम् ॥

11.60

श्रीमज्जालन्धरं पीठं तत्रस्थं लक्षयेत् प्रिये
कैलासस्योत्तरे शृङ्गे अनेकार्चिसमाकुलम् ॥

11.61

ग्रसन्तम् इव त्रैलोक्यं सूर्यकोटिसमप्रभम्
पिङ्गलं दहनावस्थं लेलिहानं सुदारुणम् ॥

11.62

ममापि देवि दुष्प्रेक्ष्यं किं पुनस् त्व् इतरैर् जनैः
त्रिकोणपुरमध्यस्थं वज्रप्राकारमण्डितम् ॥

11.63

वज्रस्तम्भमयं दिव्यं पुरं वै पारमेश्वरम्
कालाग्निगोपुराट्टालं समन्तात् परिवेष्टितम् ॥

11.64

बहुरूपसमाकीर्णं विद्यागुणविभूषितम्
अनेकाश्चर्यसम्पन्नं जीवभूतं जगत्त्रये ॥

11.65

आपूरितम् इदं येन तेन तत् पूर्णसंज्ञितम्
सप्तजिह्वासमोपेतं कालरूपं षडाननम् ॥

11.66

पूर्णमाया समायुक्तं साञ्जनं चारुरूपिणम्
शक्तिहस्तं महावीर्यं सृष्टिसंहारकारकम् ॥

11.67

नपुंसकगुणान्तस्थं व्याप्तिभूतं विनिर्गतम्
मध्यपीठस्य पूर्वेण चाग्रशृङ्गे व्यवस्थितम् ॥

11.68

पद्मिनीदलसङ्काशं धूम्रवत् ताम्रवर्चसम्
महाप्रचण्डदण्डौघैः स्फालनोल्लाललालसैः ॥

11.69

धूयमानं समन्तात् तु शोषयन्तं चराचरम्
षडस्रमण्डलान्तस्थं सर्वव्यापिकुलेश्वरम् ॥

11.70

न तेन रहितं किञ्चित् सृष्टिसंहारगोचरे
इन्द्रनीलनिभैः स्तम्भैः समन्तान् निचितं पुरम् ॥

11.71

प्राकारगोपुराट्टालं ध्वजाएकुशधनुर्धरम्
पञ्चबाणधरं देवं कामदेव्या समन्वितम् ॥

11.72

द्रावयन्तं जगत् सर्वं श्रुतिरूपं तनूज्झितम्
चतुर्दशविधस्यापि नायको दण्डधारकः ॥

11.73

तस्येच्छाप्रेरितं सर्वं कामाद्यं सम्प्रवर्तते
तेनेदं चाग्रकोटिस्थं मनोन्मन्योर्ध्वसंस्थितम् ॥

11.74

स्त्रीपुंनपुंसके द्वे तु पीठव्याप्तौ परे विदुः ल्
कामेन क्षुभितं तत्त्वं स्थाणुसंज्ञा मनोन्मनम् ॥

11.75

मनोन्मनेन समनं द्वाव् एतौ तु नपुंसकौ
पुटरूपौ समाख्यातौ तस्मान् ऽन्यो व्यापिनः परः ॥

11.76

सा तु माया परा देवी दुर्भेद्या चाक्षयाव्यया
व्यापिनी सर्वतत्त्वानाम् आत्मादौ त्व् अपरे ऽध्वनि ॥

11.77

मायैव सा षडध्वस्य षट्त्रिंशानां विशेषतः
यया विभज्य चात्मानं स्वरूपे चाध्वनिर्मितम् ॥

11.78

अर्धकोट्या अधःस्थाने नादान्तं सन्निवेशितम्
उन्मनः समनश् चैव व्यापिनो ध्वनिर् एव च ॥

11.79

पीठचतुष्कम् एतत् तु स एवान्योन्यतः क्रमात्
ध्वनेर् नादः समुत्पन्नः स चानेकविधः स्थितः ॥

11.80

सूक्ष्मश् चैव सुसूक्ष्मश् च व्यक्ताव्यक्तो ऽथ कृत्रिमः
आत्मनो ऽप्य् अर्धकोट्यन्ते अधःस्थाने निवेशितः ॥

11.81

तस्मात् स कुरुते सृष्टिम् अनेकाकाररूपिणीम्
सूक्ष्मनादो गुहावासी कालाग्नौ तु सुसूक्ष्मगः ॥

11.82

स्वस्थानस्थस् तु अव्यक्तः पदान्ते व्यक्त-म्-आश्रितः
कृत्रिमश् चैव संयोगात् स चाकाशे व्यवस्थितः ॥

11.83

तस्माद् अक्षरसन्तानं वाग्विलासं प्रवर्तते
तेन सङ्क्षोभ्य चात्मानं अव्यक्ताव्यक्तरूपिणम् ॥

11.84

निरोधितं तु तेनेदं सूक्ष्मभावस्य सम्भवः
तेन नैरोधिकं नाम गोलाकारं व्यवस्थितम् ॥

11.85

आत्मलग्नस्वरूपेण प्रतिमूर्ति द्वितीयकम्
तेन सङ्क्षोभ्य चात्मानम् अर्धचन्द्रविनिर्मितम् ॥

11.86

स्रवन्तम् अमृतं दिव्यं सर्वस्य जगतः स्थितम्
तस्य सम्प्लावनात्यर्थं विसर्गाभिरतस् तु यः ॥

11.87

तत्रादित्यं समुत्पन्नं वर्णानां प्रभुम् ईश्वरम्
बिन्दुरूपं जगन्नाथं क्रियाकालगुणोत्तरम् ॥

11.88

वर्णसृष्टेस् तु कर्तारं देदीप्यन्तं सुवर्चसम्
उन्मनादिचतुष्कस्य सञ्जातेदं चतुष्कलम् ॥

11.89

क्षुभितं क्रमयोगेन विशुद्धतनु शाम्भवम्
स्थितं षोडशभेदेन चतुष्केन पृथक् पृथक् ॥

11.90

कुलातीतशरीरस्य पिण्डम् आद्यं चतुष्कलम्
द्वादशाङ्गं कुलेशस्य मस्तके संव्यवस्थितम् ॥

11.91

चतुष्कलं द्वितीयं तु पीठरूपं जगाम्बिके
नादान्तोर्ध्वं तु मायाद्यं विज्ञेयं तु पुटत्रयम् ॥

11.92

ललाटोर्ध्वं कुलेशस्य ज्ञातव्यं तु कुलेश्वरि
तदधः पञ्चधा नादं कृत्रिमं मुखमण्डले ॥

11.93

निरोधं तत्समं ज्ञेयं चन्द्रसूर्यं ततोदरे
एवं विशुद्धदेवेन षोडशावयवं तनुम् ॥

11.94

अकुलेशकुलेशानं विभज्य च निवेशितम्
अत्र योगाभिपन्नानाम् अवस्थां शृणु भाविनि ॥

11.95

रोमाञ्चश् चाश्रुपातश् च विषुवं चन्द्रदर्शनम्
पिपीलिकापरः स्पर्शः सूर्यं रात्रौ च पश्यति ॥

11.96

उत्पतेद् गगनाम्भोभिः शब्दान् मुञ्चति दारुणान्
वागीशत्वं प्रपद्येत किं त्व् अबद्धप्रलापिनः ॥

11.97

क्षोभः क्षुधाजयो निद्रा उन्मनत्वं क्षनात् क्षनात्
सुगन्धश् च सुदीप्तश् च वाचासिद्धिः प्रवर्तते ॥

11.98

षोडशैते महावस्थाः प्रत्यक्षानुभवेद् यदि
तदा तेन तु देहेन खेचरीकुलनन्दनः ॥

11.99

एतत् ते सरहस्यं तु विशुद्धं कथितं मया
इदानीं शृणु कल्याणि यथावस्थम् अनाहतम् ॥

11.100

कण्ठाधस्तात् कुलेशस्य उदरोर्ध्वम् अवस्थितम्
क्रोधशर्मादिभिः सिद्धैश् चक्रवर्तिदशान्वितः ॥

11.101

एकरुद्रः सुशर्मा च ग्रन्थौ नाले व्यवस्थितः
क्रोधाजेशादयः सिद्धाश् चक्रवर्तिदले स्थिताः ॥

11.102

पूर्वेशगोचरान्तास् ते मध्ये देवः सदाशिवः
चारोच्चारविचारैश् च एभिः सार्धं रमेत् तु सः ॥

11.103

राज्यक्रीडाम् अथोर्ध्वे च संहारात्मा जगत्त्रयम्
मांसादपिशुनत्वेन ह्य् अभिलाषो ऽ धुना पुनः ॥

11.104

आप्यायितमनो हृष्टस् तुष्टचित्तस् तु वत्सलः
पृथ्वीं भ्रमामि निखिलां व्रजामो गिरिगह्वरम् ॥

11.105

द्रव्यम् आवर्जयाम् आस विलसामो ददाम्य् अहम्
परं वैराग्यम् आपन्नो मोक्षान्वेषणतत्परः ॥

11.106

गुरुम् अन्वेषयिष्यामि येन भूयो न सम्भवः
सन्धिनालान्तरस्थो ऽसौ पातालम् अनुकाङ्क्षति ॥

11.107

दिव्यसिद्धो भविष्यामः क्रीडामः कामिनीजनैः
मध्यदेशान्तरस्थो ऽसौ न किञ्चिद् अपि चिन्तयेत् ॥

11.108

सुखावस्थो जितक्रोधः सत्त्वावस्थो जितेन्द्रियः
तिष्ठते ऽनाहतो देवश् चक्रवर्त्यष्टकैर् वृतः ॥

11.109

दशधावस्थिते चक्रे भावाभावसमन्वितः
गुरुवक्त्रगतो देवश् चक्रवर्तिसमन्वितः ॥

11.110

स्वभावगुणसंयुक्तं चिन्तयन्तोपदेशतः
अभ्यसन्तस्य देवेशि अवस्थाः सम्भवन्ति हि ॥

11.111

पुंसो भेदेन जायन्ते सात्त्वराजसतामसाः
उत्तमो मध्यमश् चेति कन्यसस् तु तृतीयकः ॥

11.112

कन्यसे तामसावस्था राजसा सात्त्विका पुनः
मध्यमे रजसा युक्तं सत्त्वावस्थादितोत्तमः ॥

11.113

याश् च ताः शृणु कल्याणि येषु योगस्य साधनम्
तमो मोहो रजः शोकश् चतुष्कं कन्यसादिकम् ॥

11.114

लोलुपा रागवत्या च कामुका चापलायिनी
मध्यमादिष्व् अवस्थैताः कन्यसे तु द्वितीयका ॥

11.115

प्रभावती सुतारा च बिम्बा बिम्बखगेश्वरी
ज्येष्ठादिमध्यमे द्विस्था त्रिस्था कन्यसगोचरे ॥

11.116

उदयन्ति क्रमा ह्य् एताः समाधिविषये स्थिताः
अन्तिमैका द्विमध्यस्था त्रिधावस्था तु कन्यसे ॥

मूल पाठ: Kubjikamatatantra · Edition: T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc