क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 87
न च सत्तायाम् इवासत्तायाम् अपि तुल्यः प्रसङ्गो भिन्नन्यायत्वात्. वस्तुभूतं हि तत्र साध्यं साधनं च. तयोर् धर्म्य् अपि वस्त्व् एव युज्यते.
वस्तुनस् तु प्रत्यक्षानुमानाभ्याम् एव सिद्धिः. तयोर् अभावे नियमेनाश्रयासिद्धिर् इति युक्तम्. असत्तासाधने त्व् अवस्तुधर्मो हेतुर् अवस्तु विकल्पमात्रसिद्धे धर्मिणि नाश्रयासिद्धिदोषेण दूषयितुं शक्यः. तथा ऽक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधः सिध्यत्य् एव.
तथा विकल्पादेवाक्षणिको विरोधी सिद्धः. विकल्पोल्लिखितश् चास्य स्वभावो नापर इत्य् अपि व्यवहर्तव्यम्. अन्यथा तदनुवादेन क्रमाक्रमादिरहितत्वादिनिषेधादिकम् उक्तम्. तत्स्वरूपस्यानुल्लेखाद् अन्यस्योल्लेखाद् इत्य् अक्षणिकशशविषाणादिशब्दानुच्चारणप्रसङ्गः. अस्ति च. अतो यथा प्रमाणाभावे ऽपि विकल्पसिद्धस्य वन्ध्यासुतादेः सौन्दर्यादिनिषेधो ऽनुरूपस् तथा विकल्पोपनीतस्यैवाक्षणिकरूपस्य तद् एव प्रत्यनीकाकारेण सह विरोधव्यवस्थायां कीदृसो दोषः स्यात्. यदि चाक्षणिकानुभवाभावात् विरोधप्रतिषेधस् तर्हि वन्ध्यापुत्राद्यनुभवाद् एव सौन्दर्यादिनिषेधो ऽपि माभूत्.
नन्व् एवं विरोधस्यापारमार्थिकत्वम्. तद्द्वारेण क्षणभङ्गसिद्धिर् अप्य् अपारमार्थिकी स्याद् इति चेत्.
न हि विरोधो नाम वस्त्वन्तरं किञ्चित् उभयकोटिदत्तपादसम्बन्धाभिधानम् इष्यते, ऽस्माभिर् उपपद्यते वा. येनैकसम्बन्धिनो वस्तुत्वाभावे ऽपारमार्थिकं स्यात्. यथा त्व् इष्यते तथा पारमार्थिक एव । विरुद्धाभिमतयोर् अन्यो ऽन्यस्वरूपपरिहारमात्रं विरोधार्थः । स च भावाभावयोः पारमार्थिक एव । न भावो ऽभावरूपम् आविशति । नाप्य् अभावो भावरूपं प्रविशतीति यो ऽयम् अनयोर् असंकरनियमः स एव पारमार्थिको विरोधः । कालान्तरैकरूपतया हि नित्यत्वम् । क्रमाक्रमौ क्षणद्वये ऽपि भिन्नरूपतया । ततो नित्यत्वक्रमाक्रमिकार्यकारित्वयोर् भावाभाववद् विरोधो ऽस्त्य् एव ।
मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0