क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 88
ननु नित्यत्वं क्रमयौगपद्यवत्त्वं च विरुद्धौ धर्मौ विधूय नापरो विरोधो नाम, कस्य वास्तवत्वम् इति चेत् ।
न, न हि धर्मान्तरस्य सम्भवेन विरोधस्य पारमार्थिकत्वं ब्रूमः । किं तु विरुद्धयोर् धर्मयोः सद्भावे । अन्यथा विरोधनामधर्मान्तरसम्भवे ऽपि यदि न विरुद्धौ धर्मौ क्व पारमार्थिकविरोधसम्भवः । विरुद्धौ चेद् धर्मौ तावतैव तात्त्विको विरोधव्यवहारः । किम् अपरेण प्रतिज्ञामात्रसिद्धेन विरोधनाम्ना वस्त्वन्तरेण ।
तद् अयं पूर्वपक्षसंक्षेपः । नित्यं नास्ति न वा प्रतीतिविषयस् तेनाश्रयासिद्धता हेतोः स्वानुभवस्य च क्षतिर् अतः क्षिप्तः सपक्षो ऽपि च । शून्यश् च द्वितयेन सिध्यति न वा ऽसत्ता ऽपि सत्ता यथा नो नित्येन विरोधसिद्धिर् असता शक्या क्रमादेर् अपि । इति ।
अत्र सिद्धान्तसंक्षेपः । धर्मस्य कस्य चिद् अवस्तुनि मानसिद्धा बाधाविधिव्यवहृतिः किम् इहास्ति नो वा । क्वाप्य् अस्ति चेत् कथम् इयन्ति न दूषणानि नास्त्य् एव चेत् स्ववचनप्रतिरोधसिद्धिः ।
तद् वम् नित्यं न क्रमिकार्यकारित्वाक्रमिकार्यकारित्वयोगीति परमार्थः । ततश् च सत्तायुक्तम् अपि नैवेति परमार्थः । ततश् च क्षणिकाक्षणिकपरिहारेण राश्यन्तराभावाद् अक्षणिकान् निवर्तमानम् इदं सत्त्वं क्षणिक एव विश्राम्यत्वेन व्याप्तं सिध्यतीति सत्त्वात् क्षणिकत्वसिद्धिर् अविरोधिनि ।
प्रकृतिः सर्वधर्माणं यद् बोधान् मुक्तिर् इष्यते । स एव तीर्थ्यनिर्माथी क्षणभङ्गः प्रसादितः ।
इति कृतिर् इयं रत्नकीर्तेः ।
मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0