भाषा

ENहिગુ
ग्रंथ पाठ

क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 86

86.6

कालान्तरे ऽप्य् एकरूपतया नित्यत्वम्. क्रमाक्रमौ च क्षणद्वये भिन्नरूपतया. ततो नित्यत्वस्य क्रमाक्रमिकार्यशक्तेश् च परस्परपरिहारस्थितिलक्षणतया दुर्वारो विरोध इति कथं नित्ये क्रमाक्रमयोर् अन्तर्भावः. अनन्तर्भावाच् च सुद्धनित्यविकल्पेन दूरीकृतक्रमाक्रमसमारोपेण कथम् उल्लेखः. ततश् च प्रतियोगिनि नित्ये ऽपि विकल्प्यमाने एकज्ञानसंसर्गिलक्षणप्राप्ते नित्योपलब्धिर् एव नित्यविरुद्धस्यानुपलभ्यमानस्य क्रमाक्रमस्यानुपलब्धिः. तत एव चार्थक्रियाशक्तेर् अनुपलब्धिः. तस्माद् व्यापकविवेकिधर्म्युपलब्धितया न व्यापकानुपलम्भान्तराद् अस्य विशेषः.

86.13

नन्व् एतद् अवस्तुधर्मिकोपयोगि वस्त्व् अधिष्ठानत्वात् प्रमाणव्यवस्थाया इति चेत्. किम् इदं वस्त्वधिष्ठानत्वम् नाम. किं परम्परयापि वस्तुनः सकाशाद् आगतत्वम्, अथ वस्तुनि केन चिद् आकारेण व्यवहारकारणत्वम्, वस्तुभूतधर्मिप्रतिबद्धत्वं वा.

86.16

यद्य् आद्यः पक्षस् तदा क्रमाक्रमस्यार्थक्रियायाश् च व्याप्तिग्रहणगोचरवस्तुप्रतिबद्धत्वम् अस्यापि. न क्षीणम्.

86.18

न द्वितीये ऽपि पक्षे दोसह् सम्भवति. क्षणभङ्गिवस्तु साधनोपायत्वाद् अस्य.

86.19

न चान्तिमो ऽपि विकल्पः कल्प्यते. तस्यैव नित्यविकल्पस्य वस्तुनो धर्मिभूतस्य क्रमाक्रमवद् बाह्यनित्योपादानशून्यत्वेनार्थक्रियावद् बाह्यनित्योपादानशून्यत्वे प्रसाधनात्. पर्युदासवृत्त्या बुद्धिस्वभावभूताक्षणिकाकारे वस्तुभूते धर्मिणि प्रतिबद्धत्वसम्भवात्.

86.23

अयम् एव न्यायो न वक्ता वन्ध्यासुतश् चैतन्याभावाद् इत्यादौ योज्यः. एतेन यथा वृक्षाभावादिर् अन्तर्भावयितुं शक्यते न तथायम् इति त्रिलोचनो ऽपि निरस्तः.

86.25

न च क्रमाद्यभावस् त्रयीं दोषजातिं नातिक्रामति, अभावधर्मत्वे ऽपि आश्रयासिद्धिदोषपरिहारात्.

86.26

यत् त्वनेन प्रमाणान्तरान् नित्यानाम् असत्त्वसिद्धौ क्रमादिविरहस्याभावधर्मता सिध्यतीत्य् उक्तम्, तद्वालस्यापि दुरभिधानम्. नित्यो हि धर्मि. असत्त्वं साध्यम्. क्रमिकार्यकारित्वाक्रमिकार्यकारित्वविरहो हेतुः. अस्य चाभावधर्मत्वं नाम असत्त्वलक्षणस्वसाध्याविनाभावित्वम् उच्यते. तच् च क्रमाक्रमेण सत्त्वस्य व्याप्तिसिद्धौ सत्त्वस्य व्याप्यस्याभावेन क्रमाक्रमस्य व्यापकस्य विरहो व्याप्तः सिध्यतीत्य् अभावधर्मत्वं प्राग् एव विध्योर् व्याप्तिसाधनात् प्रत्यक्षाद् अनुमानाद् एकस्माद् वा प्रमाणान्तरात् सिद्धम् इति नेतरेतराश्रयदोषः.

मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc