भाषा

ENहिગુ
ग्रंथ पाठ

क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 85

85.4

त्रिलोचनस्यापि विकल्पत्रये प्रथमदूषणम् आश्रयासिद्धिदोषपरिहारतो निरस्तम् ।

85.5

द्वितीयं चासङ्गतम् । विकल्पज्ञानेन व्यतिरेकस्य प्रतीतत्वात् । न ह्य् अभावः कश् चिद् विग्रहवान् यः साक्षत्कर्तव्यः, अपि तु विकल्पाद् एव व्यवहर्तव्यः । न ह्य् अभावस्य विकल्पाद् अन्याप्रतिपत्तिर् अप्रतिपत्तिर् वा सर्वथा । उभयथापि तद्व्यवहारहानिप्रसङ्गात् । एवं वैधर्म्यदृष्टान्तस्य हेतुव्यतिरेकस्य च विकल्पाद् एव प्रतिपत्तिः.4 ।

85.9

तृतीयम् अपि दूषणम् असङ्गतम् । व्यापकानुपलम्भेन निर्दोषेण सत्त्वस्य क्षणिकत्वेन व्याप्तेर् अव्याहतत्वात् ।

85.11

तद् अयं व्यापकानुपलम्भो ऽक्षणिकस्यासत्त्वम् । सत्त्वस्य ततो व्यतिरेकं क्षणिकत्वेन व्याप्तिं च साधयत्येकव्यापारात्मकत्वाद् इति स्थितम् ।

85.13

ननु व्यापकानुपलब्धिर् इति यद्य् अनुपलब्धिमात्रं तदा न तस्य साध्यबुद्धिजनकत्वम् अवस्तुत्वात् । न चान्योपलब्धिर् व्यापकानुपलब्धिर् अभिधातुं शक्या भूतलादिवद् अन्यस्य कस्य चिद् अनुपलब्धेर् इति चेत् ।

85.15

तद् असङ्गतम् । धर्म्युपलब्धेर् एवान्यत्रानुपलब्धितया व्यवस्थापनात् । यथा हि नेह शिंशपा वृक्षाभावाद् इत्य् अत्र वृक्षापेक्षया केवलप्रदेशस्य धर्मिण उपलब्धिर् वृक्षानुपलब्धिः । शिंशपापेक्सया च केवलप्रदेशस्य धर्मिण उपलब्धिर् एव शिंशपाया अभावोपलब्धिर् इति स्वभावहेतुपर्यवसायिव्यापारो व्यापकानुपलम्भः । तथा नित्यस्य धर्मिणो विकल्पबुद्ध्यवसितस्य क्रमिकारित्वाक्रमिकारित्वापेक्षया केवलग्रहणाद् एव क्रमिकारित्वाक्रमिकारित्वानुपलम्भः । अर्थक्रियापेक्षया च केवलप्रतीतिर् एवार्थक्रियायोग प्रतीतिर् इति व्यापकानुपलम्भान्तराद् अस्य न कश् चिद् विशेषः ।

85.22

अध्यवसायापेक्षया च बाह्ये ऽक्षणिके वस्तुनि व्यापकाभावाद् व्याप्याभावसिद्धिव्यवहारः । अध्यवसायश् च समनन्तरप्रत्ययबलाद् आयाताकारविशेषयोगाद् अगृहीते ऽपि प्रवर्तनशक्तिर् बोधव्यः । ईदृशश् चाध्यवसायो ऽस्मच्चित्राद्वैतसिद्धौ निर्वाहितः । स चाविसंवादी व्यवहारः परिहर्तुम् अशक्यः । यद् व्यापकशून्यं तद्व्याप्यशून्यम् इति । एतस्यैवार्थस्यानेनापि क्रमेण प्रतिपादनात् । अयं च न्यायो यथा वस्तुभूते धर्मिणि तथा ऽवस्तुभूते ऽपीति को विशेषः ।

85.27

तथा ह्य् एकज्ञानसंसर्ग्य् अत्र विकल्प्य एव । यथा च हरिणशिरसि तेनैकज्ञानसंसर्गिशृङ्गम् उपलब्धं । शशशिरस्य् अपि तेन सहैकज्ञानसंसर्गित्वसम्भावनयैव शृङ्गं निषिध्यते, तथा नीलादाव् अपरिनिष्ठितनित्यानित्यभावे क्रमाक्रमौ स्वधर्मिणा सार्धम् एकज्ञानसंसर्गिणौ दृष्टौ, यदि नित्ये भवतः नित्यग्राहिज्ञाने स्वधर्मिणा नित्येन सहैव गृह्येयाताम् इति सम्भावनय एकाज्ञानसंसर्गद्वारकम् एव प्रतिषिध्यते । कथं पुनर् एतस्मिन् नित्यज्ञाने क्रमाक्रमयोर् अस्फुरणम् इति यावता क्रमाक्रमक्रोडिकृतम् एव नित्यं विकल्पयाम् इति चेत्. अत एव बाधकावतारो विपरीतारोपम् अन्तरेण तस्य वैयर्थ्यात्.

मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc