भाषा

ENहिગુ
ग्रंथ पाठ

क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 84

84.3

न च प्रत्यभिज्ञानाद् एवैकत्वसिद्धिः । तत् पौरुषस्य लूनपुनर्जातकेशकुशकदलीस्तम्बादौ निर्दलनात् । विस्तरेण च प्रत्यभिज्ञादूषणम् अस्माभिः स्थिरसिद्धिदूषणे प्रतिपादितम् इति तद् एवावधार्यम् ।

84.6

ननु कार्यम् एव सहकारिणम् अपेक्षते । न तु कार्योत्पत्तिहेतुः । यस्माद् द्विविधं सामर्थ्यं निजम् आगन्तुकं च सहकार्यन्तरं, ततो ऽक्षणिकस्यापि क्रमवत् सहकारिनानात्वाद् अपि क्रमवत् कार्यनानात्वम् इति चेत् ।

84.8

भवतु तावत् निजागन्तुकभेदेन द्विविधं सामर्थ्यम् । तथापि तत् प्रातिस्विकं वस्तुस्वलक्षणं सद्यः क्रियाधर्मकमवश्याभ्युपगन्तव्यम् । तद् यदि प्राग् अपि, प्राग् अपि कार्यप्रसङ्गः । अथ पश्चाद् एव, न तदा स्थिरो भावः ।

84.11

न च कार्यं सहकारिणो ऽपेक्षत इति युक्तम्, तस्यासत्त्वात् । हेतुश् च सन्न् अपि यदि स्वकार्यं न करोति, तदा तत्कार्यम् एव तन् न स्यात् । स्वातन्त्र्यात् ।

84.13

यच्चोक्तम् । यो हि उत्तरकार्यजननस्वभावह् । स कथम् आदौ कार्यं कुर्यात् । न तर्हि तत्कार्यकरणस्वभावः । न हि नीलोत्पादनस्वभावः पीतादिकम् अपि करोतीति ।

84.15

तद् असङ्गतम् । स्थिरस्वभावत्वे भावस्योत्तरकालम् एवेदं न पूर्वकालम् इति कुत एतत् । तदभावाच् च कारणम् अप्य् उत्तरकार्यस्वभावम् इत्य् अपि कुतः ।

84.17

किं कुर्मः । उत्तरकालम् एव तस्य जन्मेति चेत् । स्थिरत्वे तदनुपपद्यमानम् अस्थिरताम् आदिशतु । स्थिरत्वे ऽप्य् एष एव स्वभावस् तस्य यद् उत्तरक्षण एव कार्यं करोतीति चेत् । न, प्रमाणबाधिते स्वभावाभ्युपगमायोगाद् इति न तावद् अक्षणिकस्य क्रमिकार्यकारित्वम् अस्ति । नाप्यक्रमिकार्यकारित्वसम्भवः । द्वितीये ऽपि क्षणे कारकस्वरूपसद्भावे पुनर् अपि कार्यकरणप्रसङ्गात् ।

84.21

कार्ये निष्पन्ने तद्विषयव्यापाराभावाद् ऊना सामग्री न निष्पादितं निष्पादयेद् इति चेत् । न, सामग्रीसम्भवासम्भवयोर् अपि सद्यः क्रियाकारकस्वरूपसम्भवे जनकत्वम् अवधार्यम् इति प्राग् एव प्रतिपादनात् । कार्यस्य हि निष्पादितत्वात् पुनः कर्तुम् अशक्यत्वम् एव कारणम् असमर्थम् आवेदयति ।

84.23

तद् अयम् अक्षणिके क्रमाक्रमिकार्यकारित्वाभावो न सिद्धः । न च क्रमाक्रमाभ्याम् अपरप्रकारसम्भवो येन ताभ्याम् अव्याप्तौ सन्दिग्धव्यतिरेको हेतुः स्यात् । प्रकारान्तरशङ्कायां तस्यापि दृश्यत्वादृश्यत्वप्रकारद्वयदूषणे ऽपि स्वपक्षे ऽप्य् अनाश्वासप्रसङ्गात् । तस्माद् अन्यो ऽन्यव्यवच्छेदस्थितिर् नापरः प्रकारः सम्भवति । स्वरूपाप्रविष्टस्य वस्तुनो ऽवस्तुनो वा ऽतत्स्वभावत्वात् । प्रकारान्तरस्यापि क्रमस्वरूपाप्रविष्टत्वात् । तथातीन्द्रियस्य सहकारिणो ऽदृश्यत्वे ऽप्ययोगव्यवच्छेदेन दृश्यसहकारिसहितस्य सत्त्वस्य दृश्यक्रमाक्रमाभ्यां व्याप्तिः प्रत्यक्षाद् एव सिध्यति । एवं क्रमाक्रमाभ्याम् अर्थक्रियाकारित्वं व्याप्तम् इति क्रमाक्रमयोर् अन्यो ऽन्यव्यवच्छेदेन स्थितत्वाद् एतत् प्रकारद्वयपरिहारेणार्थाक्रियकारित्वम् अन्यत्र न गतम् इत्य् अर्थः । अत एवैतयोर् विनिवृत्तौ निवर्तते ।

मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc