क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 83
न ह्य् अभावह् कश् चिद् विग्रहवान् यः साक्षात्कर्तव्यो ऽपि तु व्यवहर्तव्यः । स च व्यवहारो विकल्पाद् अपि सिध्यत्य् एव । अन्यथा सर्वजनप्रसिद्धो ऽवस्तुव्यवहारो न स्यात् । इष्यते च ।
तद्धर्मित्वप्रतिषेधानुबन्धाद् इत्य् अकामेनापि विकल्पमात्रसिद्धो ऽक्षणिकः स्वीकर्तव्य इति नायम् अप्रतीतत्वाद् अप्य् आश्रयासिद्धो हेतुर् वक्तव्यः । ततश् चाक्षणिकस्य विकल्पमात्रसिद्धत्वे यद् उक्तम् ।
न कश् चिद् धेतुर् अनाश्रयः विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सुलभत्वाद् इति ।
तद् असङ्गतम् । विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सम्भवे ऽपि वस्तुधर्मेण धर्मित्वायोगात् । वस्तुधर्महेतुत्वापेक्षय आश्रयासिद्धस्यापि हेतोः सम्भवात् ।
यथा आत्मनो विभुत्वसाधनार्थम् उपन्यस्तं सर्वत्रोपलभ्यमानगुणत्वाद् इति साधनम् । विकल्पश् चायं हेतूपन्यासात् । पूर्वं सन्दिग्धवस्तुकः । समर्थिते तु हेताव् अवस्तुक इति ब्रूमः ।
न चात्र सन्दिग्धाश्रयत्वं नाम हेतुदोषः । आस्तां तावत् । सन्दिग्धस्यावस्तुनो ऽपि विकल्पमात्रसिद्धस्यावस्तुधर्मापेक्षया धर्मित्वप्रसाधनात् । वस्तुधर्महेत्वपेक्षयैव सन्दिग्धाश्रयस्य हेत्वाभासस्य व्यवस्थापनात् । यथेह निकुञ्जे मयूरः केकायिताद् इति । अवस्तुकविकल्पविषयस्यासत्त्वं तु व्यापकानुपलम्भाद् एव प्रसाधितम् । एवं दृष्टान्तस्यापि व्योमोत्पलादेर् धर्मित्वं विकल्पमात्रेण प्रतीतिश् चावगन्तव्या । तद् एवम् अवस्तुधर्मापेक्षया ऽवस्तुनोधर्मित्वस्य विकल्पमात्रेण प्रतीतेश् चापह्नोतुम् अशक्यत्वान् नायम् आश्रयासिद्धो हेतुः । न च दृष्टान्तक्षतिः ।
न चैष स्वरूपासिद्धः । अक्षणिके धर्मिणि क्रमाक्रमयोर् व्यापकयोर् अयोगात् । तथा हि यदि तस्य प्रथमे क्षणे द्वितीयादिक्षणभाविकार्यकरणसामर्थ्यम् अस्ति तदा प्रथमक्षणभाविकार्यवत् द्वितीयादिक्षणभाव्यम् अपि (?) कार्यं कुर्यात् । समर्थस्य क्षेपायोगात् ।
अथ तदा सहकारिसाकल्यलक्षणसामर्थ्यं नास्ति । तद्वैकल्यलक्षणस्यासामर्थ्यस्य सम्भवात् । न हि भावः स्वरूपेण करोतीति स्वरूपेणैव करोति । सहकारिसहिताद् एव ततः कार्योत्पत्तिदर्सनात् इति चेत् ।
यदा तावद् अमी मिलिताः सन्तः कार्यं कुर्वते तदैकार्थकरणलक्षणं सहकारित्वम् एषाम् अस्तु को निषेद्धा । मिलितैर् एव तु तत्कार्यं कर्त्तव्यम् इति कुतो लभ्यते । पूर्वापरकालयोर् एकस्वभावत्वाद् भावस्य । सर्वदा जननाजननयोर् अन्यतरनियमप्रसङ्गस्य दुर्वारत्वात् । तस्मात् सामग्री जनिका नैकं जनकम् इति स्थिरवादिनां मनोराज्यस्याप्य् अविषयः ।
किं कुर्मो दृश्यते तावद् एवम् इति चेत् । दृश्यतां किं तु पूर्वस्थिताद् एव पश्चात् सामग्रीमध्यप्रविष्टाद् भावात् कार्योत्पत्तिर् अन्यस्माद् एव विशिष्टसामग्रीसमुत्पन्नात् क्षणाद् इति विवादपदम् एतत् । तत्र प्राग् अपि सम्भवे सर्वदैव कार्योत्पत्तिर् न वा कदा चिद् अपीति विरोधम् असमाधाय तद् एव कार्योत्पत्तिर् इति साध्यानुवादमात्रप्रवृत्तः कृपाम् अर्हति ।
मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0