भाषा

ENहिગુ
ग्रंथ पाठ

क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 82

82.1

अवस्तुनो धर्मित्वस्वीकारपूर्वकत्वस्य व्यापकस्याभावाद् आश्रयासिद्धिदूषणस्यानुपन्यासप्रसङ्ग इत्य् अर्थः । येनैव हि वचनेनावस्तुनो धर्मित्वं प्रतिषिध्यते । तेनैवावस्तुनो धर्मित्वाभावेन धर्मेण धर्मित्वम् अभ्युपगतम् । परं तु प्रतिषिध्यत इति व्यक्तम् इदम् ईश्वरचेष्टितम् । तथा ह्य् अवस्तुनो धर्मित्वं नास्तीति वचनेन धर्मित्वाभावः किम् अवस्तुनि विधीयत, अन्यत्र वा, न वा क्व चिद् अपीति त्रयः पक्षाः ।

82.6

प्रथमपक्षे ऽवस्तुनो न धर्मित्वनिषेधः । धर्मित्वाभावस्य धर्मस्य तत्रैव विधानात् ।

82.7

द्वितीये ऽवस्तुनि किमायातम् । अन्यत्र धर्मित्वाभावविधानात् ।

82.8

तृतीयस् तु पक्षो व्यर्थ एव निराश्रयत्वाद् इति कथम् अवस्तुनो धर्मित्वनिषेधः । तस्माद् यथा प्रमाणोपन्यासः प्रमेयत्वस्वीकार पूर्वकत्वेन व्याप्तः, वाचकशब्दोपन्यासो वा वाच्यस्वीकारपूर्वकत्वेन व्याप्तस् तथा ऽवस्तुनो धर्मित्वं नास्तीति वचनोपन्यासो ऽवस्तुनो धर्मित्वस्वीकारपूर्वकत्वेन व्याप्तः । अन्यथा तद्वचनोपन्यासस्य व्यर्थत्वात् ।

82.11

तद् यदि वचनोपन्यासो व्याप्यधर्मस् तदा ऽवस्तुनो धर्मित्वस्वीकारो ऽपि व्यापकधर्मो दुर्वारः । अथ न व्यापकधर्मः, तदा व्याप्यस्यापि वचनोपन्यासस्यासम्भव इति मूकतैवात्र बलाद् आयातेति कथं न स्ववचनप्रतिरोधसिद्धिः ।

82.15

यद् आहाचार्यः । न ह्य् अब्रुवन् परं बोधयितुम् ईशः । [अ]ब्रुवन् वा दोषम् इमं परिहर्तुम् इति महति संकटे प्रवेशः ।

82.17

अवस्तुप्रस्तावे सहृदयानां मूकतैव युज्यते इति चेत् । अहो महद् वैदग्ध्यम् । अवस्तुप्रस्तावे स्वयम् एव यथाशक्ति वल्गित्वा भग्नो मूकतैव न्यायप्राप्तेति परिभायया निःसर्तुम् इच्छति । न चावस्तुप्रस्तावो राजदण्डेन विना चरणमर्दनादिनानिष्टिमात्रेण वा प्रतिषेधुं शक्षते । ततश् चात्रापि क्रमाक्रमभावस्य साधनत्वे सत्त्वाभावस्य च साध्यत्वे सन्दिग्धवस्तुभावस्यावस्त्वात्मनो वा क्षणिकस्य धर्मित्वं केन प्रतिषिध्यते ।

82.22

त्रिविधो हि धर्मो दृष्टः । कश् चित् वस्तुनियतो नीलादिः । कश् चिद् अवस्तुनियतो यथा सर्वोपाख्याविरहः । कश् चिद् उभयसाधारणो यथा ऽनुपलब्धिमात्रम् । तत्र वस्तुधर्मेणावस्तुनो धर्मित्वनिषेध इति युक्तम् । न त्व् अवस्तुधर्मेण । वस्त्ववस्तुधर्मेण वा । स्ववचनस्यानुपन्यासप्रसङ्गाद् इत्य् अक्षणिकस्याभावे सन्देहे ऽपि वा ऽवस्तुधर्मेण धर्मित्वम् अव्याहतम् इति नायम् आश्रयासिद्धो व्यापकानुपलम्भः ।

82.27

अक्षणिकाप्रतीतावाश्रयसिद्धो हेतुर् इति युक्तम् उक्ताम् । तदप्रतीतौ तद्व्यवहारायोगात् । केवलम् असौ व्यवहाराङ्गभूता प्रतीतिर् वस्त्ववस्तुनोर् एकरूपा न भवति । साक्षात् पारम्पर्येण वस्तुसामर्थ्यभाविनी हि वस्तुप्रतीतिः । यथा प्रत्यक्षम् अनुमानं प्रत्यक्षपृष्ठभावि च विकल्पः । अवस्तुनस् तु सामर्थ्याभावाद् विकल्पमात्रम् एव प्रतीतिः । वस्तुनो हि वस्तुबलभाविनी प्रतीतिर् यथा साक्षात् प्रत्यक्षम्, परम्परया तत्पृष्ठभावी विकल्पो ऽनुमानं च । अवस्तुनो न वस्तुबलभाविनी प्रतीतिस् तत्कारकत्वेनावस्तुत्वहानिप्रसङ्गात् । तस्माद् विकल्पमात्रम् एवावस्तुनः प्रतीतिः ।

मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc