भाषा

ENहिગુ
ग्रंथ पाठ

क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 81

81.1

अत एव न तृतीयो ऽपि विकल्पः । व्यतिरेकासिद्धौ सम्बन्धासिद्धेः ।

81.2

किं च न भूतलवद् अत्राक्षणिको धर्मि दृश्यते । न च स्वभावानुपलम्भे व्यापकानुपलम्भः कस्य चित् दृश्यस्य प्रतिपत्तिम् अन्तरेणान्तर्भावयितुं शक्यत इति ।

81.4

किं चास्याभावधर्मत्वे आश्रयासिद्धत्वम् इतरेतराश्रयत्वं च । भावधर्मत्वे विरुद्धत्वं च । उभयधर्मत्वे चानैकान्तिकत्वम् इति न त्रयीं दोषजातिम् अतिपतति ।

81.6

यत् पुनर् उक्तम् अक्षणिकत्वे क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधाद् इति । तत्र विरोधसिद्धिम् अनुसरता विरोध्य् अपि प्रतिपत्तव्यः । तत्प्रतीतिनान्तरीयकत्वाद् विरोधसिद्धेः । यथा तुहिनदहनयोः सापेक्षध्रुवभावयोश् च ।

81.8

प्रतियोगी चाक्षणिकः प्रतीयमानः प्रतीतिकारित्वात् सन्न् एव स्यात् अजनकस्याप्रमेयत्वात् ।

81.10

संवृतिसिद्धेनाक्षणिकत्वेन विरोधसिद्धिर् इति चेत् । संवृतिसिद्धम् अपि वास्तवं काल्पनिकं वा स्यात् ।

81.12

यदि वास्तवं कथं तस्यासत्त्वम् । कथं चार्थक्रियाकारित्वविरोधः । अर्थक्रियां कुर्वद् धि वास्तवम् उच्यते ।

81.14

अथ काल्पनिकम् । तत्र किं विरोधो वास्तवः, काल्पनिको वा । न तावद् वास्तवः । कल्पितविरोधिविरोधत्वात्, वन्ध्यापुत्रविरोधवत् । अथ विरोधो ऽपि काल्पनिकः । न तर्हि सत्त्वस्य व्यतिरेकः पारमार्थिक इति क्षणभङ्गो दत्तजलाञ्जलिर् इति ।

81.17

अयम् एव चोद्यप्रबन्धो ऽस्मद् गुरूभिः संगृहीतः ।

81.18

नित्यं नास्ति न वा प्रतीतिविषयस् तेनाश्रयासिद्धता हेतोः स्वानुभवस्य च क्षतिर् अतः क्षिप्तः सपक्षो ऽपि च । शून्यं च द्वितयेन सिध्यति न चासत्तापि सत्ता यथा नो नित्येन विरोधसिद्धिर् असता शक्षा क्रमादेर् अपि । इति (क्षणभङ्गाध्याये) ।

81.23

अत्रोच्यते । इह वस्तुन्य् अपि धर्मिधर्मव्यवहारो दृष्टो यथा गवि गोत्वम्, पटे शुक्लत्वम् तुरगे गमनम् इत्यादि । अवस्तुन्य् अपि धर्मिधर्मव्यवहारो दृष्टो यथा शशविषाणे तीक्ष्णत्वाभावो वन्ध्यापुत्रे वक्तृत्वाभावो गगनारविन्दे गन्धाभाव इत्यादि । तत्रावस्तुनि धर्मित्वं नास्तीति किं वस्तुधर्मेण धर्मित्वं नास्ति । आहोस्विद् अवस्तुधर्मेणापि ।

81.27

प्रथमपक्षे सिद्धसाधनम् । द्वितीयपक्षे तु स्ववचनविरोधः । यद् आहुर् गुरवः ॥

81.28

धर्मस्य कस्य चिद् अवस्तुनि मानसिद्धा बाधाविधिव्यवहृतिः किम् इहास्ति नो वा क्वाप्य् अस्ति चेत् कथम् इयन्ति न दूषणानि नास्त्य् एव चेत् स्ववचनप्रतिरोधसिद्धिः ।

मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc