क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 80
वाचस्पतिर् अपि पठति । नन्व् अयम् अक्षणिकः स्वरूपेण कार्यं जनयति । तच् चास्य स्वरूपं तृतीयादिषिव क्षणेषु द्वितीये ऽपि क्षणे सद् इति तदापि जनयेत् । अकुर्वन् वा तृतीयादिष्व् अपि न कुर्वीत । तस्य तादावस्थ्यात् । अतादवस्थ्ये वा तद् एवास्य क्षणिकत्वम् ।
अत्रोच्यते । सत्यं स्वरूपेण कार्यं जनयति न तु तेनैव । सहकारिसहिताद् एव ततः कार्योत्पत्तिदर्शनात् । तस्माद् व्याप्तिवत्कार्यकारणभावो ऽप्य् एकत्रान्ययोगव्यवच्छेदेन । अन्यत्रायोगव्यवच्छेदेननावबोद्धव्यः । तथैव लौकिकपरीक्षकाणां सम्प्रतिपत्तेर् इति न क्रमिकार्यकारित्वपक्षोक्तदोषावसरः ।
नाप्य् अक्षणिके यौगपद्यपक्षोक्तदोषावकाशः । ये हि कार्यम् उत्पादितवन्तो द्रव्यविशेषास् तेषां व्यापारस्य नियतकार्योत्पादनसमर्थस्य निष्पादिते कार्ये ऽनुवर्तमानेष्व् अपि तेषु द्रव्येषु निवृत्तार्थाद् ऊना सामग्री जायते । तत् कथं निष्पादितं निष्पादयिष्यति । न हि दण्डादयः स्वभावेनैव कर्तारो येनामि निष्पत्तेर् आरभ्य कार्यं विदध्युः । किं तर्हि व्यापारावेशिनः । न चेयता स्वरूपेण न कर्तारः । स्वरूपकारकत्वनिर्वाहपरतया व्यापारसमावेशाद् इति ।
किं च क्रमाक्रमाभावश् च भविष्यति । न च सत्त्वाभाव इति सन्दिग्धव्यतिरेको ऽप्य् अयं व्यापकानुपलम्भः । न हि क्रमाक्रमाभ्याम् अन्यस्य प्रकारस्याभावः सिद्धः । विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् ।
किं च प्रकारान्तरस्य दृश्यत्वे नात्यन्तनिषेधः । अदृश्यत्वे तु नासत्तानिश्चयो विप्रकर्षिणाम् इति न क्रमाक्रमाभ्याम् अर्थक्रियासामर्थ्यस्य व्याप्तिसिद्धिः । अतः सन्दिग्धव्यतिरेको ऽपि व्यापकानुपलम्भः ।
किं च दृश्यादृश्यसहकारिप्रत्ययसाकल्यवतः क्रमयौगपद्यस्यात्यन्तपरोक्षत्वात् तेन व्याप्तं सत्त्वम् अपि परोक्षम् एवेति न तावत् प्रतिबन्धः प्रत्यक्षतः सिध्यति । नाप्य् अनुमानतः । तत्प्रतिबद्धलिङ्गाभावाद् इति ।
अपि च क्रमाक्रमाभ्याम् अर्थक्रियाकारित्वं व्याप्तम् इत्य् अतिसुभाषितम् । यदि क्रमेण व्याप्तं कथम् अक्रमेण, अथाक्रमेण न तर्हि क्रमेण । क्रमाक्रमाभ्यां व्याप्तिम् इति तु ब्रुवता व्याप्तेर् एवाभावः प्रदर्शितो भवति । न हि भवत्य् अग्निर् धूमभावाभावाभ्यां व्याप्त इति । अतो व्याप्तेर् अनैकान्तिकत्वम् ।
अपि च किम् इदं बाधकम् अक्षणिकानाम् असत्तां साधयति । उतस्विद् अक्षणिकात् सत्त्वस्य व्यतिरेकम् । अथ सत्त्वक्षणिकत्वयोः प्रतिबन्धम् ।
न पूर्वो विकल्पः । उक्तक्रमेण हेतोर् आश्रयासिद्धत्वात् ।
न च द्वितीयः । यतो व्यापकनिवृत्तिसहिता व्याप्यनिवृत्तिर् व्यतिरेकशब्दस्यार्थः । सा च यदि प्रत्यक्षेण प्रतीयते तदा तद्धेतुः स्याद् इति सत्त्वम् अनैकान्तिकम् । व्यापकानुपलम्भः स्वरूपासिद्धिः । अथ सा विकल्प्यते तदा पूर्वोक्तक्रमेण पञ्चधा विकल्प्य विकल्पो दूषणीयः ।
मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0