क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 79
प्रथमपक्षद्वये साक्षात्पारम्पर्येण वा स्वप्रतीतिलक्षणार्थकारित्वे मौलः साधारणो हेतुः व्यापकानुपलम्भश् च स्वरूपासिद्धः स्यात् । अर्थक्रियाकारित्वे क्रमाक्रमयोर् अन्यतरस्यावश्यम्भावात् ।
अन्तिमपक्षे तु न कश्चिद् धेतुर् अनाश्रयः स्यात् । विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सुलभत्वात् ।
अपि च, तत् कल्पनाज्ञानं प्रत्यक्षपृष्ठभावि वा स्यात्, लिङ्गजन्म वा, संस्कारजं वा, सन्दिग्धवस्तुकं वा, अवस्तुकं वा ।
तत्राद्यपक्षद्वये ऽक्षणिकस्य सत्तैवाव्याहता । कथं बाधकावतारः ।
तृईत्ये तु न सर्वदा ऽक्षणिकसत्तानिषेधः । तदर्पितसंस्काराभावे तत् स्मरणायोगात् ।
चतुर्थे तु सन्दिग्धाश्रयत्वं हेतुदोषः ।
पञ्चमे च तद्विषयस्याभावो न तावद् प्रत्यक्षतः सिध्यति । अक्षणिकात्मनः सर्वदैव त्वन्मते ऽप्रत्यक्षत्वात् न चानुमानतस् तदभावस् तत्प्रतिबद्धलिङ्गान् उपलम् भादित्याश्रयासिद्धिस् तावद् उद्धता । एवं दृष्टान्तो ऽपि प्रतिहन्तव्यः ।
स्वरूपासिद्धो ऽप्य् अयं हेतूः । स्थिरस्यापि क्रमाक्रमिसहकार्यपेक्षया क्रमाक्रमाभ्याम् अर्थक्रियोपपत्तेः । नापि क्रमयौगपद्यपक्षोक्तदोषप्रसङ्गः । तथा हि क्रमिसहकार्यपेक्षया क्रमिकार्यकारित्वन् तावद् अविरुद्धम् ।
तथा च शंकरस्य संक्षिप्तो ऽयम् अभिप्रायः । सहकारिसाकल्यं हि सामर्थ्यम् । तद्वैकल्यं चासामर्थ्यम् । न च तयोर् आविर्भावतिरोभावाभ्यान् तद्वतः का चित् क्षतिः । तस्य ताभ्याम् अन्यत्वात् । तत् कथं सहकारिणो ऽनपेक्ष कार्यकरणप्रसङ्ग इति ।
त्रिलोचनस्याप्य् अयं संक्षिप्तार्थः । कार्यम् एव हि सहकारिणम् अपेक्षते । न च कार्योत्पत्तिहेतुः । यस्माद् द्विविधं सामर्थ्यं निजम् आगन्तुकं च सहकार्यन्तरम्, ततो ऽक्षणिकस्यापि क्रमवत् सहकारिनानात्वाद् अपि क्रमवत् कार्यनानात्वोपपत्तेर् अशक्यं भावानाम् प्रतिक्षणम् अन्योन्यत्वम् उपपादयितुम् इति ।
न्यायभूषणो ऽपि लपति । प्रथमकार्योत्पादनकाले हि उत्तरकार्योत्पादनस्वभावः । अतः प्रथमकाल एवाशेषाणि कार्याणि कुर्याद् इति चेत् ।
तद् इदं माता मे वन्ध्येत्य् आदिवत् स्ववचनविरोधाद् अयुक्तम् । यो हि उत्तरकार्यजननस्वभावः स कथम् आदौ तत् कार्यं कुर्यात् । न तर्हि तत्कार्यकरणस्वभावः । न हि नीलोत्पादनस्वभावः पीतादिकम् अपि करोतीति ।
मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0