क्षणभङ्गसिद्धि व्यतिरेकात्मिका · अध्याय 78
नापि विरुद्धः । सपक्षे भावात् ।
न चानैकान्तिकः । क्रमाक्रमाभावस्यार्थक्रियासामर्थ्याभावेन व्याप्तत्वात् ।
येनैव हि प्रत्यक्षात्मना प्रमाणेनापरप्रकाराभावाद् विधिभूताभ्यां क्रमाक्रमाभ्यां विधिभूतस्यार्थक्रियासामर्थ्यस्य व्याप्तिः प्रसाधिता, तेनैवार्थक्रियासामर्थ्याभावेन क्रमाक्रमाभावस्य व्याप्तिः प्रसाधितेति स्वीकर्तव्यम् । न हि दहनादिना धूमादेर् व्याप्तिसाधकप्रमाणाद् अपरं धूमाद्यभावेन दहनाद्यभावस्य व्याप्तिसाधकं किञ्चित् प्रमाणं शरणभूतम् अस्ति । तस्माद् विध्योर् एव व्याप्तिसाधकं प्रमाणम् अभावयोर् अपि व्याप्तिसाधकम् इति न्यायस्य दुरतिक्रमत्वात् सत्त्वाभावेन क्रमाक्रमाभावो व्याप्त एवेति नानैकान्तिक इत्य् अनवद्यो व्यापकानुपलम्भः । तद् अयम् अक्षणिकाद् विनिवर्तमाणः स्वव्याप्यं सत्त्वं निवर्त्य क्षणिके विश्रामयतीति सत्त्वहेतोः क्षणभङ्गसिद्धिर् अप्य् अनवद्या. ।
ननु व्यापकानुपलम्भतः सत्त्वस्य कथं स्वसाध्यप्रतिबन्धसिद्धिः, अस्याप्य् अनेकदोषदुष्टत्वात् । तथा हि न तावद् अयं प्रसङ्ग हेतुः । साध्यधर्मिणि प्रमाणसिद्धत्वात्, पराभ्युपगमसिद्धत्वाभावात्, विपर्ययपर्यवसानाभावाच् च । अथ स्वतन्त्रः, तदाश्रयासिद्धः । अक्षणिकस्याश्रयस्यासम्भवात् । अप्रतीतत्वाद् वा । प्रतीतिर् हि प्रत्यक्षेणानुमानेन विकल्पमात्रेण वा स्यात् ।
मूल पाठ: Kṣaṇabhaṅgasiddhi vyatirekātmikā · Edition: A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0