भाषा

ENहिગુ
ग्रंथ पाठ

कृष्णामृतमहार्णव · श्लोक 181-200

181

द्वादशी न प्रमोक्तव्या यावद् आयुः प्रवर्तते
अर्चनीयो हृषीकेशो विशुद्धेनान्तरात्मना.

182

भक्त्या ग्राह्यो हृषीकेशो न धनैर् धरणीसुराः
भक्त्या सम्पूजितो विष्णुः फलं दत्ते समीहितम्.

183

जलेनापि जगन्नाथः पूजितः क्लेशनाशनः
परितोषं प्रयात्य् आशु तृषार्तास् तु यथा जलैः.

184

आसीनस्य शयानस्य तिष्ठतो व्रजतो ऽपि वा
रमस्व पुण्डरीकाक्ष हृदये मम सर्वदा.

185

सर्वगश् चैव सर्वात्मा सर्वावस्थासु चाच्युत
रमस्व पुण्डरीकाक्ष नृसिंह हृदये मम.

186

करावलम्बनं देहि श्री कृष्ण कमलेक्षण
भवपङ्कार्णवे घोरे मज्जतो मम सर्वदा.

187

त्राहि त्राहि जगन्नाथ वासुदेवाच्युताव्यय
मां समुद्धर गोविन्द दुःखसंसारसागरात्.

188

एतत् पुण्यं परं गुह्यं पवित्रं पापनाशनम्
आयुष्यं च यशस्यं च कलिदुःस्वप्ननाशनम्.

189

कलौ पापं कियन्मात्रं हत्यास्तेयादिसम्भवम्
स्मृते मनसि गोविन्दे दह्यते तूलराशिवत्.

190

कलौ केशवभक्तानां न भयं विद्यते क्वचित्
स्मृते संकीर्तिते ध्याते संक्षयं याति पातकम्.

191

अध्येतव्यम् इदं शास्त्रं श्रोतव्यम् अनसूयया
भक्तेभ्यश् च प्रदातव्यं धार्मिकेभ्यः पुनः पुनः.

192

अधीयान इदं शास्त्रम् विष्णोर् माहात्म्यम् उत्तमम्
सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम्.

193

श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम्
श्रुत्वा ज्ञानम् अवाप्नोति श्रुत्वा मोक्षं च गच्छति.

194

तस्माद् इदं समाश्राव्यं श्रोतव्यं च सदैव हि
कुतर्कदावदग्धेभ्यो न दातव्यं कथञ्चन.

195

संसारविषपानेन ये मृताः प्राणिनो भुवि
अमृताय स्मृतस् तेषां कृष्णामृतमहर्णवः.

196

क्लिन्नं पादोदकेनैव यस्य नित्यं कळेबरम्
तीर्थकोटिसहस्रैस् तु स्नातो भवति प्रत्यहम्.

197

तीर्थकोटिसहस्रैस् तु सेवितैः किं प्रयोजनम्
तोयं यदि पिबेन् नित्यं साळग्रामशिलाच्युतम्.

198

साळग्रामशिलास्पर्शं ये कुर्वन्ति दिने दिने
वाञ्छन्ति करसंस्पर्शं तेषां देवाः सवासवाः.

199

दुःसहो नारको वह्निर् दुःसहा यमकिङ्कराः
विषमश्वान्तकपथः प्रेतत्वं चातिदारुणम्.

200

विचिन्त्य मनसा ऽप्य् एवं पातकाद् विनिवर्त्तयेत्
स्मरणं कीर्तनं विष्णोः सदैव न परित्यजेत्.

मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc