कृष्णामृतमहार्णव · श्लोक 161-180
एकादशीम् उपोष्याथ द्वादशीम् अप्य् उपोषयेत्
न तत्र विधिलोपः स्याद् उभयोर् देवता हरिः.
पारयित्वोदकेनापि भुञ्जानो नैव दुष्यति
अशितानशिता यस्माद् आपो विद्वद्भिर् ईरिताः
अम्भसा केवलेनाथ करिष्ये व्रतपारणम्.
न काशी न गया गङ्गा न रेव न च गौतमी
न चापि कौरवं क्षेत्रं समा भूप हरेर् दिनात्.
अश्वमेधसहस्राणि वाजपेयायुतानि च
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्.
एकादशीसमुत्थेन वह्निना पातकेन्धनम्
भस्मीभवति राजेन्द्र अपि जन्मशतोद्भवम्.
नेदृशं पावनं किञ्चिन् नराणां भुवि विद्यते
यादृशं पद्मनाभस्य दिनं पातकहानिदम्.
तावत् पापानि देहे ऽस्मिंस् तिष्ठन्ति मनुजाधिप
यावन् नोपोषयेज् जन्तुः पद्मनाभदिनं शिवम्.
एकादशेन्द्रियैः पापं यत् कृतं भवति प्रभो
एकादश्युपवासेन तत् सर्वं विलयं नयेत्.
एकादशीसमं किञ्चित् पापत्राणं न विद्यते
व्याजेनापि कृता राजन् न दर्शयति भास्करिम्.
श्री वेदव्यास उवाच:
स ब्रह्महा स गोघ्नश् च स्तेनः स गुरुतल्पगः
एकादश्यां तु भुञ्जानः पक्षयोर् उभयोर् अपि.
वरं स्वमातृगमनं वरं गोमांसभक्षणम्
वरं हत्या सुरापानम् एकादश्यां तु भोजनात्.
एकादशीदिने पुण्ये भुञ्जते ये नराधमाः
अवलोक्य मुखं तेषाम् आदित्यम् अवलोकयेत्.
पृथिव्यां यानि पापानि ब्रह्महत्यादिकानि च
अन्नम् आश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे.
रुग्माङ्गदः:
अष्टवर्षाधिको यस् तु अशीतिर् न हि पूर्यते
यो भुङ्क्ते मानवः पापो विष्णोर् अहनि चागते.
पिता वा यदि वा पुत्रो भार्या वा ऽपि सुहृज्जनः
पद्मनाभदिने भुङ्क्ते निग्राह्यो दस्युवद् भवेत्.
धर्मविभूषणः:
प्रातर् हरिदिने लोकास् तिष्ठध्वं चैकभोजनाः
अक्षारलवणाः सर्वे हविष्यान् निषेविणः.
अवनीतपशयनाः प्रियासंगविवर्जिताः
स्मरध्वं देवदेवेशं पुराणपुरुषोत्तमम्.
सकृद् भोजनसंयुक्ता ह्य् उपवासे भविष्यथ
अकृतश्राद्धनिचया जलपिण्डोदकक्रियाः.
ब्रह्मा:
उपोष्य द्वादशीं पुण्यां सर्वपापक्षयप्रदाम्
न पश्यति यमं वा ऽपि नरकान् न च यातनाम्.
रटन्तीह पुराणानि भूयो भूयो वरानने
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे.
मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0