भाषा

ENहिગુ
ग्रंथ पाठ

कृष्णामृतमहार्णव · श्लोक 201-220

201

श्री वेदव्यासः:
अच्युतानन्तगोविन्दनामोच्चारणभीषिताः
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्य् अहम्.

202

सकृद् उच्चारितं येन हरिर् इत्य् अक्षरद्वयम्
बद्धः परिकरस् तेन मोक्षाय गमनं प्रति.

203

एवं ब्रह्मादयो देवा ऋषयश् च तपोधनाः
कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम्.

204

किं तस्य दानैः किं तीर्थैः किं तपोभिः किम् अध्वरैः
यो नित्यं ध्यायते देवं नारायणम् अनन्यधीः.

205

नित्योत्सवो नित्यता च नित्यश्रीर् नित्यशो जयः
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः.

206

जीवंश् चतुर्दशाद् ऊर्ध्वं पुरुषो नियमेन तु
स्त्री वा ऽप्य् अनूनदशकं देहं मानुषम् आर्जते.

207

चतुर्दशोर्ध्वजीवीनि संसारश् चादिवर्जितः
अतो ऽवित्त्वा परं देवं मोक्षाशा का महामुने.

208

आचतुर्दशमाद् वर्षात् कर्माणि नियमेन तु
दशावराणां देहानां कारणानि करोत्य् अयम्
अतः कर्मक्षयान् मुक्तिः कुत एव भविष्यति.

209

समानां विषमा पूजा विषमाणां समा तथा
क्रियते येन देवो ऽपि स्वपदाद् भ्रश्यते हि सः.

210

वित्तं बन्धुर् वयः कर्म विद्या चैव तु पञ्चमी
एतानि मान्यस्थानानि गरीयो यद् यद् उत्तरम्.

211

गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः
सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति.

212

यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च
तथा करोति पूजादि समबुद्धिः स उच्यते.

213

तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणे ऽपि च
न चान्यन् नाम विब्रूयात् परं नारायणादृते.

214

नैवेद्यशेषं देवस्य यो भुनक्ति दिने दिने
सिक्थे सिक्थे भवेत् पुण्यं चान्द्रायणशताधिकम्.

215

ऊर्ध्वपुण्ड्रम् ऋजुं सौम्यं ललाटे दृश्यते
स चण्डालो ऽपि शुद्धात्मा पूज्य एव न संशयः.

216

अशुचिर् वा ऽप्य् अनाचारो मनसा पापम् आचरन्
शुचिर् एव भवेन् नित्यम् ऊर्ध्वपुण्ड्रान्कितो नरः.

217

ऊर्ध्वपुण्ड्रविहीनस्य श्मशानसदृशं मुखम्
अवलोक्य मुखं तेषाम् आदित्यम् अवलोकयेत्.

218

यज्ञो दानं तपश् चैव स्वाध्यायः पितृतर्पणम्
व्यर्थं भवति तत् सर्वम् ऊर्ध्वपुण्ड्रं विना कृतम्.

219

गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा
तं तं शुद्धं विजानीयान् नात्र कार्या विचारणा.

220

आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः
वैष्णवो ऽस्मत्कुले जातः स नः सन्तारयिष्यति.

मूल पाठ: Kṛṣṇāmṛtamahārṇava · Edition: Sri Anandatirtha Bhagavatpada, Sarvamulagranthah-Prasthanatrayi (ed. by Govindacarya), Vol. 5, Udupi : Akhila Bharata Madhva Maha Mandala, 1974, pp. 77-102 (cf. Thomas K. Gugler: Ozeanisches Gefühl der Unsterblichkeit : Der Krishnamritamaharnava des Madhva, Münster 2009, Leipziger Studien zu Kultur und Geschichte Süd- und Zentralasiens, 3) · Data entry Thomas K. Gugler · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc