भाषा

ENहिગુ
ग्रंथ पाठ

किरातार्जुनीय · अध्याय 5

5.1

अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया
अभिययौ स हिमाचलम् उच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥

5.2

तपनमण्डलदीतितम् एकतः सततनैशतमोवृतम् अन्यतः
हसितभिन्नतमिस्रचयं पुरः शिवम् इवानुगतं गजचर्मणा ॥

5.3

क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतम् अदृष्टपरस्परैः
प्रथयितुं विभुताम् अभिनिर्मितं प्रतिनिधिं जगताम् इव शम्भुना ॥

5.4

भुजगराजसितेन नभःश्रिया कनकराजिविराजितसानुना
समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥

5.5

मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः
दधतम् उच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥

5.6

अविरतोज्झितवारिविपाण्डुभिर् विरहितैर् अचिरद्युतितेजसा
उदितपक्षम् इवारतनिःस्वनैः पृथुनितम्बविलम्बिभिर् अम्बुदैः ॥

5.7

दधतम् आकरिभिः करिभिः क्षतैः समवतारसमैर् असमैस् तटैः
विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥

5.8

नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम्
विहितसांध्यमयूखम् इव क्वचिन् निचितकाञ्चनभित्तिषु सानुषु ॥

5.9

पृथुकदम्बकदम्बकराजितं ग्रहितमालतमालवनाकुलम्
लघुतुषारतुषारजलश्च्युतं धृतसदानसदाननदन्तिनम् ॥

5.10

रहितरत्नचयान् न शिलोच्चयान् अफलताभवना न दरीभुवः
विपुलिनाम्बुरुहा न सरिद्वधूर् अकुसुमान् दधतं न महीरुहः ॥

5.11

व्यथितसिन्धुम् अनीरशनैः शनैर् अमरलोकवधूजघनैर् घनैः
फणभृताम् अभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥

5.12

ससुरचापम् अनेकमणिप्रभैर् अपपयोविशदं हिमपाण्डुभिः
अविचलं शिखरैर् उपबिभ्रतं ध्वनितसूचितम् अम्बुमुचां चयम् ॥

5.13

विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम्
शिवम् अगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ॥

5.14

ग्रहविमानगणान् अभितो दिवं ज्वलयतौषधिजेन कृशानुना
मुहुर् अनुस्मरयन्तम् अनुक्षपं त्रिपुरदाहम् उपापतिसेविनः ॥

5.15

विततशीकरराशिभिर् उच्छ्रितैर् उपलरोधविवर्तिभिर् अम्बुभिः
दधतम् उन्नतसानुसमुद्धतां धृतसितव्यजनाम् इव जाह्नवीम् ॥

5.16

अनुचरेण धनाधिपतेर् अथो नगविलोकनविस्मितमानसः
स जगदे वचनं प्रियम् आदरान् मुखरतावसरे हि विराजते ॥

5.17

अलम् एष विलोकितः प्रजानां सहसा संहतिम् अंहसां विहन्तुम्
घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैर् अचलाधिपः शिरोभिः ॥

5.18

इह दुरधिगमैः किंचिद् एवागमैः सततम् असुतरं वर्णयन्त्य् अन्तरम्
अमुम् अतिविपिनं वेद दिग्व्यापिनं पुरुषम् इव परं पद्मयोनिः परम् ॥

5.19

रुचिरपल्लवपुष्पलतागृहैर् उपलसज्जलजैर् जलराशिभिः
नयति संततम् उत्सुकताम् अयं धृतिमतीर् उपकान्तम् अपि स्त्रियः ॥

5.20

सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः
अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥

5.21

अखिलम् इदम् अमुष्य गैरीगुरोस् त्रिभुवनम् अपि नैति मन्ये तुलाम्
अधिवसति सदा यद् एनं जनैर् अविदितविभवो भवानीपतिः ॥

5.22

वीतजन्मजरसं परं शुचि ब्रह्मणः पदम् उपैतुम् इच्छताम्
आगमाद् इव तमोपहाद् इतः सम्भवन्ति मतयो भवच्छिदः ॥

5.23

दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः
पीडाभाजः कुसुमचिताः साशंसं शंसन्त्य् अस्मिन् सुरतविशेषं शय्याः ॥

5.24

गुणसम्पदा समधिगम्य परं महिमानम् अत्र महिते जगताम्
नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुम् औषधयः ॥

5.25

कुररीगणः कृतरवस् तरवः कुसुमानताः सकमलं कमलम्
इह सिन्धवश् च वरणावरणाः करिणां मुदे सनलदानलदाः ॥

5.26

सादृश्यं गतम् अपनिद्रचूतगन्धैर् आमोदं मदजलसेकजं दधानः
एतस्मिन् मदयति कोकिलान् अकाले लीनालिः सुरकरिणां कपोलकाषः ॥

5.27

सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर् नदैर् वृतम् अमुम्
मता फलवतो ऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥

5.28

श्रीमल्लताभवनम् ओषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि
अस्मिन् रतिश्रमनुदश् च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥

5.29

ईशार्थम् अम्भसि चिराय तपश् चरन्त्या यादोविलङ्घनविलोलविलोचनायाः
आलम्बताग्रकरम् अत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥

5.30

येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैर् अमृतम् अम्बुनिधिर् ममन्थे
व्यावर्तनैर् अहिपतेर् अयम् आहिताङ्कः खं व्यालिखन्न् इव विभाति स मन्दराद्रिः ॥

5.31

नीतोच्छ्रायं मुहुर् अशिशिररश्मेर् उस्रैर् आनीलाभैर् विरचितपरभागा रत्नैः
ज्योत्स्नाशङ्काम् इव वितरति हंसश्येनी मध्ये ऽप्य् अह्नः स्फटिकरजतभित्तिच्छाया ॥

5.32

दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि
इह ललितविलासिनीजनभ्रू गतिकुटिलेषु पयःसु पङ्कजानि ॥

5.33

अस्मिन्न् अगृह्यत पिनाकभृता सलीलम् आबद्धवेपथुर् अधीरविलोचनायाः
विन्यस्तमङ्गलमहौषधिर् ईश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥

5.34

क्रामद्भिर् घनपदवीम् अनेकसंख्यैस् तेजोभिः शुचिमणिजन्मभिर् विभिन्नः
उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्न् इह निचयः सहस्रसंख्याम् ॥

5.35

व्यधत्त यस्मिन् पुरम् उच्चगोपुरं पुरां विजेतुर् धृतये धनाधिपः
स एष कैलास उपान्तसर्पिणः करोत्य् अकालास्तमयं विवस्वतः ॥

5.36

नानारत्नज्योतिषां संनिपातैश् छन्नेष्व् अन्तःसानु वप्रान्तरेषु
बद्धां बद्धां भित्तिशङ्काम् अमुष्मिन् नावानावान् मातरिश्वा निहन्ति ॥

5.37

रम्या नवद्युतिर् अपैति न शाद्वलेभ्यः श्यामीभवन्त्य् अनुदिनं नलिनीवनानि
अस्मिन् विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥

5.38

परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः
इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥

5.39

उत्फुल्लस्थलनलिनीवनाद् अमुष्माद् उद्धूतः सरसिजसम्भवः परागः
वात्याभिर् वियति विवर्तितः समन्ताद् आधत्ते कनकमयातपत्रलक्ष्मीम् ॥

5.40

इह सनियमयोः सुरापगायाम् उषसि सयावकसव्यपादरेखा
कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥

5.41

संमूर्छतां रजतभित्तिमयूखजालैर् आलोकपादपलतान्तरनिर्गतानाम्
घर्मद्युतेर् इह मुहुः पटलानि धाम्नाम् आदर्शमण्डलनिभानि समुल्लसन्ति ॥

5.42

शुक्लैर् मयूखनिचयैः परिवीतमूर्तिर् वप्राभिघातपरिमण्डलितोरुदेहः
शृङ्गाण्य् अमुष्य भजते गणभर्तुर् उक्षा कुर्वन् वधूजनमनःसु शशाङ्कशङ्काम् ॥

5.43

सम्प्रति लब्धजन्म शनकैः कथम् अपि लघुनि क्षीणपयस्य् उपेयुषि भिदां जलधरपटले
खण्डितविग्रहं बलभिदो धनुर् इह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥

5.44

स्नपितनवलतातरुप्रवालैर् अमृतलवस्रुतिशालिभिर् मयूखैः
सततम् असितयामिनीषु शम्भो अमलयतीह वनान्तम् इन्दुलेखा ॥

5.45

क्षिपति यो ऽनुवनं विततां बृहद् बृहतिकाम् इव रौचनिकीं रुचम्
अयम् अनेकहिरण्मयकंदरस् तव पितुर् दयितो जगतीधरः ॥

5.46

सक्तिं लवाद् अपनयत्य् अनिले लतानां वैरोचनैर् द्विगुणिताः सहसा मयूखैः
रोधोभुवां मुहुर् अमुत्र हिरण्मयीनां भासस् तडिद्विलसितानि विडम्बयन्ति ॥

5.47

कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः
इह मदस्नपितैर् अनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥

5.48

जलदजालघनैर् असिताश्मनाम् उपहतप्रचयेह मरीचिभिः
भवति दीप्तिर् अदीपितकंदरा तिमिरसंवलितेव विवस्वतः ॥

5.49

भव्यो भवन्न् अपि मुनेर् इह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः
प्रायेण सत्य् अपि हितार्थकरे विधौ हि श्रेयांसि लब्धुम् असुखानि विनान्तरायैः ॥

5.50

मा भूवन्न् अपथहृतस् तवेन्द्रियाश्वाः संतापे दिशतु शिवः शिवां प्रसक्तिम्
रक्षन्तस् तपसि बलं च लोकपालाः कल्याणीम् अधिकफलां क्रियां क्रियायुः ॥

5.51

इत्य् उक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये
सोत्कण्ठं किम् अपि पृथासुतः प्रदध्यौ संधत्ते भृशम् अरतिं हि सद्वियोगः ॥

5.52

तम् अनतिशयनीयं सर्वतः सारयोगाद् अविरहितम् अनेकेनाङ्कभाजा फलेन
अकृशम् अकृशलक्ष्मीश् चेतसाशंसितं स स्वम् इव पुरुषकारं शैलम् अभ्याससाद ॥

मूल पाठ: Kirātārjunīya · Edition: the text commented on by Mallinātha, also as regards e.g. word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc