भाषा

ENहिગુ
ग्रंथ पाठ

किरातार्जुनीय · अध्याय 6

6.1

रुचिराकृतिः कनकसानुम् अथो परमः पुमान् इव पतिं पतताम्
धृतसत्पथस् त्रिपथगाम् अभितः स तम् आरुरोह पुरुहूतसुतः ॥

6.2

तम् अनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः
पवनेरिताकुलविजिह्मशिखा जगतीरुहो ऽवचकरुः कुसुमैः ॥

6.3

अवधूतपङ्कजपरागकणास् तनुजाह्नवीसलिलवीचिभिदः
परिरेभिरे ऽभिमुखम् एत्य सुखाः सुहृदः सखायम् इव तं मरुतः ॥

6.4

उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः
मुदम् अस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुर् अनुवप्रम् अपाम् ॥

6.5

अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम्
स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ॥

6.6

प्रबभूव नालम् अवलोकयितुं परितः सरोजरजसारुणितम्
सरिदुत्तरीयम् इव संहतिमत् स तरङ्गरङ्गि कलहंसकुलम् ॥

6.7

दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः
अधिकां स रोधसि बबन्ध धृतिं महते रुजन्न् अपि गुणाय महान् ॥

6.8

अनुहेमवप्रम् अरुणैः समतां गतम् ऊर्मिभिः सहचरं पृथुभिः
स रथाङ्गनामवनितां करुणैर् अनुबध्नतीम् अभिननन्द रुतैः ॥

6.9

सितवाजिने निजगदू रुचयश् चलवीचिरागरचनापटवः
मणिजालम् अम्भसि निमग्नम् अपि स्फुरितं मनोगतम् इवाकृतयः ॥

6.10

उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता
स ददर्श केतकशिखाविशदं सरितः प्रहासम् इव फेनम् अपाम् ॥

6.11

बहु बर्हिचन्द्रिकनिभं विदधे धृतिम् अस्य दानपयसां पटलम्
अवगाढम् ईक्षितुम् इवैभपतिं विकसद्विलोचनशतं सरितः ॥

6.12

प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे
पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुर् इव शुक्तिवधूः ॥

6.13

शुचिर् अप्सु विद्रुमलताविटपस् तनुसान्द्रफेनलवसंवलितः
स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ॥

6.14

उपलभ्य चञ्चलतरङ्गहृतं मदगन्धम् उत्थितवतां पयसः
प्रतिदन्तिनाम् इव स सम्बुबुधे करियादसाम् अभिमुखान् करिणः ॥

6.15

स जगाम विस्मयम् उद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः
प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रमम् अपां पटलम् ॥

6.16

स ततार सैकतवतीर् अभितः शफरीपरिस्फुरितचारुदृशः
ललिताः सखीर् इव बृहज्जघनाः सुरनिम्नगाम् उपयतीः सरितः ॥

6.17

अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः
मनसः प्रसत्तिम् इव मूर्ध्नि गिरेः शुचिम् आससाद स वनान्तभुवम् ॥

6.18

अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः
धृतिम् आततान तनयस्य हरेस् तपसे ऽधिवस्तुम् अचलाम् अचलः ॥

6.19

प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर् मुनिताम्
श्रमम् आदधाव् असुकरं न तपः किम् इवावसादकरम् आत्मवताम् ॥

6.20

शमयन् धृतेन्द्रियशमैकसुखः शुचिभिर् गुणैर् अघमयं स तमः
प्रतिवासरं सुकृतिभिर् ववृधे विमलः कलाभिर् इव शीतरुचिः ॥

6.21

अधरीचकार च विवेकगुणाद् अगुणेषु तस्य धियम् अस्तवतः
प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥

6.22

मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवान् अधिपतिं स दिवः
सहजेतरे जयशमौ दधती बिभरांबभूव युगपन् महसी ॥

6.23

शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनो ऽभिषवणेन जटाः
उपमां ययाव् अरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥

6.24

धृतहेतिर् अप्य् अधृतजिह्ममतिश् चरितैर् मुनीन् अधरयञ् शुचिभिः
रजयांचकार विरजाः स मृगान् कम् इवेशते रमयितुं न गुणाः ॥

6.25

अनुकूलपातिनम् अचण्डगतिं किरता सुगन्धिम् अभितः पवनम्
अवधीरितार्तवगुणं सुखतां नयता रुचां निचयम् अंशुमतः ॥

6.26

नवपल्लवाञ्जलिभृतः प्रचये बृहतस् तरून् गमयतावनतिम्
स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयताम् उपयतीं वसुधाम् ॥

6.27

पतितैर् अपेतजलदान् नभसः पृषतैर् अपां शमयता च रजः
स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥

6.28

महते फलाय तद् अवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः
न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यम् अनुभावगुणः ॥

6.29

तद् अभूरिवासरकृतं सुकृतैर् उपलभ्य वैभवम् अनन्यभवम्
उपतस्थुर् आस्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥

6.30

विदिताः प्रविश्य विहितानतयः शिथिलीकृते ऽधिकृतकृत्यविधौ
अनपेतकालम् अभिरामकथाः कथयांबभूवुर् इति गोत्रभिदे ॥

6.31

शुचिवल्कवीततनुर् अन्यतमस् तिमिरच्छिदाम् इव गिरौ भवतः
महते जयाय मघवन्न् अनघः पुरुषस् तपस्यति तपज् जगतीम् ॥

6.32

स बिभर्ति भीषणभुजंगभुजः पृथि विद्विषां भयविधायि धनुः
अमलेन तस्य धृतसच्चरिताश् चरितेन चातिशयिता मुनयः ॥

6.33

मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिर् अपाम्
गुणसम्पदानुगुणतां गमितः कुरुते ऽस्य भक्तिम् इव भूतगणः ॥

6.34

इतरेतरानभिभवेन मृगास् तम् उपासते गुरुम् इवान्तसदः
विनमन्ति चास्य तरवः प्रचये परवान् स तेन भवतेव नगः ॥

6.35

उरु सत्त्वम् आह विपरिश्रमता परमं वपुः प्रथयतीव जयम्
शमिनो ऽपि तस्य नवसंगमने विभुतानुषङ्गि भयम् एति जनः ॥

6.36

ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम्
चरतस् तपस् तव वनेषु सदा न वयं निरूपयितुम् अस्य गतिम् ॥

6.37

विगणय्य कारणम् अनेकगुणं निजयाथवा कथितम् अल्पतया
असद् अप्य् अदः सहितुम् अर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥

6.38

अधिगम्य गुह्यकगणाद् इति तन् मनसः प्रियं प्रियसुतस्य तपः
निजुगोप हर्षम् उदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥

6.39

प्रणिधाय चित्तम् अथ भक्ततया विदिते ऽप्य् अपूर्व इव तत्र हरिः
उपलब्धुम् अस्य नियमस्थिरतां सुरसुन्दरीर् इति वचो ऽभिदधे ॥

6.40

सुकुमारम् एकम् अणु मर्मभिदाम् अतिदूरगं युतम् अमोघतया
अविपक्षम् अस्त्रम् अपरं कतमद् विजयाय यूयम् इव चित्तभुवः ॥

6.41

भववीतये हतबृहत्तमसाम् अवबोधवारि रजसः शमनम्
परिपीयमाणम् इव वो ऽसकलैर् अवसादम् एति नयनाञ्जलिभिः ॥

6.42

बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा
उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥

6.43

तद् उपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः
हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥

6.44

अविमृष्यम् एतद् अभिलष्यति स द्विषतां वधेन विषयाभिरतिम्
भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥

6.45

पृथुदाम्नि तत्र परिबोधि च मा भवतीभिर् अन्यमुनिवद् विकृतिः
स्वयशांसि विक्रमवताम् अवतां न वधूष्व् अघानि विमृष्यन्ति धियः ॥

6.46

आशंसितापचितिचारु पुरः सुराणाम् आदेशम् इत्य् अभिमुखं समवाप्य भर्तुः
लेभे परां द्युतिम् अमर्त्यवधूसमूहः सम्भावना ह्य् अधिकृतस्य तनोति तेजः ॥

6.47

प्रणतिम् अथ विधाय प्रस्थिताः सद्मनस् ताः स्तनभरनमिताङ्गीर् अङ्गनाः प्रीतिभाजः
अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितम् अमरभर्तुर् द्रष्टुम् अक्ष्णां सहस्रम् ॥

मूल पाठ: Kirātārjunīya · Edition: the text commented on by Mallinātha, also as regards e.g. word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc