भाषा

ENहिગુ
ग्रंथ पाठ

किरातार्जुनीय · अध्याय 4

4.1

ततः स कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम्
उपाससादोपजनं जनप्रियः प्रियाम् इवासादितयौवनां भुवम् ॥

4.2

विनम्रशालिप्रसवौघशालिनीर् अपेतपङ्काः ससरोरुहाम्भसः
ननन्द पश्यन्न् उपसीम स स्थलीर् उपायनीभूतशरद्गुणश्रियः ॥

4.3

निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिर् उन्मीलितपद्मलोचनैः
हृतप्रियादृष्टिविलासविभ्रमा मनो ऽस्य जह्रुः शफरीविवृत्तयः ॥

4.4

तुतोष पश्यन् कलमस्य स अधिकं सवारिजे वारिणि रामणीयकम्
सुदुर्लभे नार्हति को ऽभिनन्दितुं प्रकर्षलक्ष्मीम् अनुरूपसंगमे ॥

4.5

नुनोद तस्य स्थलपद्मिनीगतं वितर्कम् आविष्कृतफेनसंतति
अवाप्तकिञ्जल्कविभेदम् उच्चकैर् विवृत्तपाठीनपराहतं पयः ॥

4.6

कृतोर्मिरेखं शिथिलत्वम् आयता शनैः शनैः शान्तरयेण वारिणा
निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम् ॥

4.7

मनोरमं प्रापितम् अन्तरं भ्रुवोर् अलंकृतं केसररेणुणाणुना
अलक्तताम्राधरपल्लवश्रिया समानयन्तीम् इव बन्धुजीवकम् ॥

4.8

नवातपालोहितम् आहितं मुहुर् महानिवेशौ परितः पयोधरौ
चकासयन्तीम् अरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥

4.9

कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीम् अवतंसकोत्पलम्
सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥

4.10

उपारताः पश्चिमरात्रिगोचराद् अपारयन्तः पतितुं जवेन गाम्
तम् उत्सुकाश् चक्रुर् अवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरौधरसः ॥

4.11

परीतम् उक्षावजये जयश्रिया नदन्तम् उच्चैः क्षतसिन्धुरोधसम्
ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पम् इवाधिपं गवाम् ॥

4.12

विमुच्यमानैर् अपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः
शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर् जघनैर् इवादधे ॥

4.13

गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः
ददर्श गोपान् उपधेनु पाण्डवः कृतानुकारान् इव गोभिर् आर्जवे ॥

4.14

परिभ्रमन् मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः
मुखैश् चलत्कुण्डलरश्मिरञ्जितैर् नवातपामृष्टसरोजचारुभिः ॥

4.15

निबद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः
व्यपोढपार्श्वैर् अपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ॥

4.16

व्रजाजिरेष्व् अम्बुदनादशङ्किनीः शिखण्डिनाम् उन्मदयत्सु योषितः
मुहुः प्रणुन्नेषु मथां विवर्तनैर् नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥

4.17

स मन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः
निरीक्षितुं नोपरराम बल्लवीर् अभिप्रनृत्ता इव वारयोषितः ॥

4.18

पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसम्पदः
रथाङ्गसीमन्तितसान्द्रकर्दमान् प्रसक्तसम्पातपृथक्कृतान् पथः ॥

4.19

जनैर् उपग्रामम् अनिन्द्यकर्मभिर् विविक्तभावेङ्गितभूषणैर् वृताः
भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ॥

4.20

ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम्
उवाच यक्षस् तम् अचोदितो ऽपि गां न हीङ्गितज्ञो ऽवसरे ऽवसीदति ॥

4.21

इयं शिवाया नियतेर् इवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः
जयश्रियं पार्थ पृथूकरोतु ते शरत् प्रसन्नाम्बुर् अनम्बुवारिदा ॥

4.22

उपैति सस्यं परिणामरम्यता नदीर् अनौद्धत्यम् अपङ्कता महीम्
नवैर् गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥

4.23

पतन्ति नास्मिन् विशदाः पतत्त्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः
तथापि पुष्णाति नभः श्रियं परां न रम्यम् आहार्यम् अपेक्षते गुणम् ॥

4.24

विपाण्डुभिर् ग्लानतया पयोधरैश् च्युताचिराभागुणहेमदामभिः
इयं कदम्बानिलभर्तुर् अत्यये न दिग्वधूनां कृशता न राजते ॥

4.25

विहाय वाञ्छाम् उदिते मदात्ययाद् अरक्तकण्ठस्य रुते शिखण्डिनः
श्रुतिः श्रयत्य् उन्मदहंसनिःस्वनं गुणाः प्रियत्वे ऽधिकृता न संस्तवः ॥

4.26

अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः
विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुम् इवासितोत्पलम् ॥

4.27

मृणालिनीनाम् अनुरञ्जितं त्विषा विभिन्नम् अम्भोजपलाशशोभया
पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुष्खण्डम् इवाहिविद्विषः ॥

4.28

विपाण्डु संव्यानम् इवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः
अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः ॥

4.29

अदीपितं वैद्युतजातवेदसा सिताम्बुदच्छेदतिरोहितातपम्
ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः ॥

4.30

सितच्छदानाम् अपदिश्य धावतां रुतैर् अमीषां ग्रथिताः पतत्रिणाम्
प्रकुर्वते वारिदरोधनिर्गताः परस्परालापम् इवामला दिशः ॥

4.31

विहारभूमेर् अभिघोषम् उत्सुकाः शरीरजेभ्यश् च्युतयूथपङ्क्तयः
असक्तम् ऊधांसि पयः क्षरन्त्य् अमूर् उपायनानीव नयन्ति धेनवः ॥

4.32

जगत्प्रसूतिर् जगदेकपावनी व्रजोपकण्ठं तनयैर् उपेयुषी
द्युतिं समग्रां समितिर् गवाम् असाव् उपैति मन्त्रैर् इव संहिताहुतिः ॥

4.33

कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने
इदं जिघत्साम् अपहाय भूयसीं न सस्यम् अभ्येति मृगीकदम्बकम् ॥

4.34

असाव् अनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्न् अपि
उपैति शुष्यन् कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥

4.35

अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना
उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुम् अलं शिलीमुखाः ॥

4.36

मुखैर् असौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती
शुकावलिर् व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदो ऽनुगच्छति ॥

4.37

इति कथयति तत्र नातिदूराद् अथ ददृशे पिहितोष्णरश्मिबिम्बः
विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ॥

4.38

तम् अतनुवनराजिश्यामितोपत्यकान्तं नगम् उपरि हिमानीगौरम् आसद्य जिष्णुः
व्यपगतमदरागस्यानुसस्मार लक्ष्मीम् असितम् अधरवासो बिभ्रतः सीरपाणेः ॥

मूल पाठ: Kirātārjunīya · Edition: the text commented on by Mallinātha, also as regards e.g. word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc