भाषा

ENहिગુ
ग्रंथ पाठ

किरातार्जुनीय · अध्याय 3

3.1

ततः शरच्चन्द्रकराभिरामैर् उत्सर्पिभिः प्रांशुम् इवांशुजालैः
बिभ्राणम् आनीलरुचं पिशङ्गीर् जटास् तडित्वन्तम् इवाम्बुवाहम् ॥

3.2

प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन
प्रसह्य चेतःसु समासजन्तम् असंस्तुतानाम् अपि भावम् आर्द्रम् ॥

3.3

अनुद्धताकारतया विविक्तां तन्वन्तम् अन्तःकरणस्य वृत्तिम्
माधुर्यविस्रम्भविशेषभाजा कृतोपसम्भाषम् इवेक्षितेन ॥

3.4

धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिम् एनःप्रणुदां श्रुतीनाम्
हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिम् आबभाषे ॥

3.5

अनाप्तपुण्योपचरैर् दुरापा फलस्य निर्धूतरजाः सवित्री
तुल्या भवद्दर्शनसम्पद् एषा वृष्टेर् दिवो वीतबलाहकायाः ॥

3.6

अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः
आ संसृतेर् अस्मि जगत्सु जातस् त्वय्य् आगते यद् बहुमानपात्रम् ॥

3.7

श्रियं विकर्षत्य् अपहन्त्य् अघानि श्रेयः परिस्नौति तनोति कीर्तिम्
संदर्शनं लोकगुरोर् अमोघम् अमोघं तवात्मयोनेर् इव किं न धत्ते ॥

3.8

श्च्योतन्मयूखे ऽपि हिमद्युतौ मे ननिर्वृतं निर्वृतिम् एति चक्षुः
समुज्झितज्ञातिवियोगखेदं त्वत्संनिधाव् उच्छ्वसतीव चेतः ॥

3.9

निरास्पदं प्रश्नकुतूहलित्वम् अस्मास्व् अधीनं किम् उ निःस्पृहाणाम्
तथापि कल्याणकरीं गिरं ते मां श्रोतुम् इच्छा मुखरीकरोति ॥

3.10

इत्य् उक्तवान् उक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ
उदारचेता गिरम् इत्य् उदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥

3.11

चिचीषतां जन्मवताम् अलघ्वीं यशोवतंसाम् उभयत्र भूतिम्
अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर् विशेषेण तपोधनानाम् ॥

3.12

तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः
वीतस्पृहाणाम् अपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥

3.13

सुता न यूयं किम् उ तस्य राज्ञः सुयोधनं वा न गुणैर् अतीताः
यस् त्यक्तवान् वः स वृथा बलाद् वा मोहं विधत्ते विषयाभिलाषः ॥

3.14

जहातु नैनं कथम् अर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः
असाद्युयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥

3.15

पथश् च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय
त्वया विपत्स्व् अप्य् अविपत्ति रम्यम् आविष्कृतं प्रेम परं गुणेषु ॥

3.16

विधाय विध्वंसनम् आत्मनीनं शमैकवृत्तेर् भवतश् छलेन
प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस् ते ॥

3.17

लभ्या धरित्री तव विक्रमेण ज्यायांश् च वीर्यास्त्रबलैर् विपक्षः
अतः प्रकर्षाय विधिर् विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥

3.18

त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर् यस्य स जामदग्न्यः
वीर्यावधूतः स्म तदा विवेद प्रकर्षम् आधारवशं गुणानाम् ॥

3.19

यस्मिन्न् अनैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तको ऽपि
धुन्वन् धनुः कस्य रणे न कुर्यान् मनो भयैकप्रवणं स भीष्मः ॥

3.20

सृजन्तम् आजाविषुसंहतीर् वः सहेत कोपज्वलितं गुरुं कः
परिस्फुरल्लोलशिखाग्रजिह्वं जगज् जिघत्सन्तम् इवान्तवह्निम् ॥

3.21

निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयम् आराधितजामदग्न्यम्
असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योर् अपि पक्षपातः ॥

3.22

यया समासादितसाधनेन सुदुश्चराम् आचरता तपस्याम्
एते दुरापं समवाप्य वीर्यम् उन्मीलितारः कपिकेतनेन ॥

3.23

महत्त्वयोगाय महामहिम्नाम् आराधनीं तां नृप देवतानाम्
दातुं प्रदानोचित भूरिधाम्नीम् उपागतः सिद्धिम् इवास्मि विद्याम् ॥

3.24

इत्य् उक्तवन्तं व्रज साधयेति प्रमाणयन् वाक्यम् अजातशत्रोः
प्रसेदिवांसं तम् उपाससाद वसन्न् इवान्ते विनयेन जिष्णुः ॥

3.25

निर्याय विद्या+थ दिनादिरम्याद् बिम्बाद् इवार्कस्य मुखान् महर्षेः
पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्मम् इवाभिपेदे ॥

3.26

योगं च तं योग्यतमाय तस्मै तपःप्रभावाद् विततार सद्यः
येनास्य तत्त्वेषु कृते ऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥

3.27

आकारम् आशंसितभूरिलाभं दधानम् अन्तःकरणानुरूपम्
नियोजयिष्यन् विजयोदये तं तपःसमाधौ मुनिर् इत्य् उवाच ॥

3.28

अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीम् अयच्छन्
समाचराचारम् उपात्तशस्त्रो जपोपवासाभिषवैर् मुनीनाम् ॥

3.29

करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस् तपांसि
शिलोच्चयं चारुशिलोच्चयं तम् एष क्षणान् नेष्यति गुह्यकस् त्वाम् ॥

3.30

इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे
तं राजराजानुचरो ऽस्य साक्षात् प्रदेशम् आदेशम् इवाधितस्थौ ॥

3.31

कृतानतिर् व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ
इयाय सख्याव् इव सम्प्रसादं विश्वासयत्य् आशु सतां हि योगः ॥

3.32

अथोष्णभासेव सुमेरुकुञ्जान् विहीयमानान् उदयाय तेन
बृहद्द्युतीन् दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान् प्रपेदे ॥

3.33

असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः
तुल्याद् विभागाद् इव तन्मनोभिर् दुःखातिभारो ऽपि लघुः स मेने ॥

3.34

धैर्येण विश्वास्यतया महर्षेस् तीव्राद् अरातिप्रभवाच् च मन्योः
वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानम् अवाप शोकः ॥

3.35

तान् भूरिधाम्नश् चतुरो ऽपि दूरं विहाय यामान् इव वासरस्य
एकौघभूतं तद् अशर्म कृष्णां विभावरीं ध्वान्तम् इव प्रपेदे ॥

3.36

तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः
अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥

3.37

अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम्
मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयम् इवेन्द्रसूनुः ॥

3.38

धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः
निरुद्धबाष्पोदयसन्नकण्ठम् उवाच कृच्छ्राद् इति राजपुत्री ॥

3.39

मग्नां द्विषच्छद्मनि पङ्कभूते सम्भवानां भूतिम् इवोद्धरिष्यन्
आधिद्विषाम् आ तपसां प्रसिद्धेर् अस्मद् विना मा भृशम् उन्मनीभूः ॥

3.40

यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्याम् अतिवर्तितुं वा
निरुत्सुकानाम् अभियोग्गभाजां समुत्सुकेवाङ्कम् उपैति सिद्धिः ॥

3.41

लोकं विधात्रा विहितस्य गोप्तुं क्षत्त्रस्य मुष्णन् वसु जैत्रम् ओजः
तेजस्विताया विजयैकवृत्तेर् निघ्नन् प्रियं प्राणम् इवाभिमानम् ॥

3.42

व्रीडानतैर् आप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः
वितानभूतं विततं पृथिव्यां यशः समूहन्न् इव दिग्विकीर्णम् ॥

3.43

वीर्यावदानेषु कृतावमर्षस् तन्वन्न् अभूताम् इव सम्प्रतीतिम्
कुर्वन् प्रयामक्षयम् आयतीनाम् अर्कत्विषाम् अह्न इवावशेषः ॥

3.44

प्रसह्य यो ऽस्मासु परैः प्रयुक्तः स्मर्तुं न शक्यः किम् उताधिकर्तुम्
नवीकरिष्यत्य् उपशुष्यद् आर्द्रः स त्वद् विना मे हृदयं निकारः ॥

3.45

प्राप्तो ऽभिमानव्यसनाद् असह्यं दन्तीव दन्तव्यसनाद् विकारम्
द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिर् अह्नः ॥

3.46

सव्रीडमन्दैर् इव निष्क्रियत्वान् नात्यर्थम् अस्त्रैर् अवभासमानः
यशःक्षयक्षीणजलार्णवाभस् त्वम् अन्यम् आकारम् इवाभिपन्नः ॥

3.47

दुःशासनामर्षरजोविकीर्णैर् एभिर् विनार्थैर् इव भाग्यनाथैः
केशैः कदर्थीकृतवीर्यसारः कच्चित् स एवासि धनंजयस् त्वम् ॥

3.48

स क्षत्त्रियस् त्राणसहः सतां यस् तत् कार्मुकं कर्मसु यस्य शक्तिः
वहन् द्वयीं यद्य् अफले ऽर्थजाते करोत्य् असंस्कारहताम् इवोक्तिम् ॥

3.49

वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिम् अपेक्षमाणाः
समानदुःखा इव नस् त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥

3.50

आक्षिप्यमाणं रिपुभिः प्रमादान् नागैर् इवालूनसटं मृगेन्द्रम्
त्वां धूर् इयं योग्यतयाधिरूढा दीप्त्या दिनश्रीर् इव तिग्मरश्मिम् ॥

3.51

करोति यो ऽशेषजनातिरिक्तां सम्भावनाम् अर्थवतीं क्रियाभिः
संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥

3.52

प्रियेषु यैः पार्थ विनोपपत्तेर् विचिन्त्यमानैः क्लमम् एति चेतः
तव प्रयातस्य जयाय तेषां क्रियाद् अघानां मघवा विघातम् ॥

3.53

मा गाश् चिरायैकचरः प्रमादं वसन्न् असम्बाधशिवे ऽपि देशे
मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्व् अपि मानसानि ॥

3.54

तद् आशु कुर्वन् वचनं महर्षेर् मनोरथान् नः सफलीकुरुष्व
प्रत्यागतं त्वास्मि कृतार्थम् एव स्तनोपपीडं परिरब्धुकामा ॥

3.55

उदीरितां ताम् इति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम्
आसाद्य वाचं स भृशं दिदीपे काष्ठाम् उदीचीम् इव तिग्मरश्मिः ॥

3.56

अथाभिपश्यन्न् इव विद्विषः पुरः पुरोधसारोपितहेतिसंहतिः
बभार रम्यो ऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥

3.57

अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम्
अगताव् अरिदृष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥

3.58

यशसेव तिरोदधन् मुहुर् महसा गोत्रभिदायुधक्षतीः
कवचं च सरत्नम् उद्वहञ् ज्वलितज्योतिर् इवान्तरं दिवः ॥

3.59

अकलाधिपभृत्यदर्शितं शिवम् उर्वीधरवर्त्म सम्प्रयान्
हृदयानि समाविवेश स क्षणम् उद्बाष्पदृशां तपोभृताम् ॥

3.60

अनुजगुर् अथ दिव्यं दुन्दुभिध्वानम् आशाः+ सुरकुसुमनिपातैर् व्योम्नि लक्ष्मीर् वितेने
प्रियम् इव कथयिष्यन्न् आलिलिङ्ग स्फुरन्तीं भुवम् अनिभृतवेलावीचिबाहुः पयोधिः ॥

मूल पाठ: Kirātārjunīya · Edition: the text commented on by Mallinātha, also as regards e.g. word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc