भाषा

ENहिગુ
ग्रंथ पाठ

किरातार्जुनीय · अध्याय 11

11.1

अथामर्षान् निसर्गाच् च जितेन्द्रियतया तया
आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥

11.2

मुनिरूपो ऽनुरूपेण सूनुना ददृशे पुरः
द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥

11.3

जटानां कीर्णया केशैः संहत्या परितः सितैः
पृक्तयेन्दुकरैर् अह्नः पर्यन्त इव संध्यया ॥

11.4

विशदभ्रूयुगच्छन्न वलितापाङ्गलोचनः
प्रालेयावततिम्लान पलाशाब्ज इव ह्रदः ॥

11.5

आसक्तभरनीकाशैर् अङ्गैः परिकृशैर् अपि
अद्यूनः सद्गृहिण्य् एव प्रायो यष्ट्यावलम्बितः ॥

11.6

गूढो ऽपि वपुषा राजन् धाम्ना लोकाभिभाविना
अंशुमान् इव तन्वभ्र पटलच्छन्नविग्रहः ॥

11.7

जरतीम् अपि बिभ्राणस् तनुम् अप्राकृताकृतिः
चकाराक्रान्तलक्ष्मीकः ससाध्वसम् इवाश्रयम् ॥

11.8

अभितस् तं पृथासूनुः स्नेहेन परितस्तरे
अविज्ञाते ऽपि बन्धौ हि बलात् प्रह्लादते मनः ॥

11.9

आतिथेयीम् अथासाद्य सुतादपचितिं हरिः
विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥

11.10

त्वया साधु समारम्भि नवे वयसि यत् तपः
ह्रियते विषयैः प्रायो वर्षीयान् अपि मादृशः ॥

11.11

श्रेयसीं तव सम्प्राप्ता गुणसम्पदम् आकृतिः
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥

11.12

शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः
आपातरम्या विषयाः पर्यन्तपरितापिनः ॥

11.13

अन्तकः पर्यवस्थाता जन्मिनः संततापदः
इति त्याज्ये भवे भव्यो मुक्ताव् उत्तिष्ठते मनः ॥

11.14

चित्तवान् असि कल्याणी यत् त्वां मतिर् उपस्थिता
विरुद्धः केवलं वेषः संदेहयति मे मनः ॥

11.15

युयुत्सुनेव कवचं किम् आमुक्तम् इदं त्वया
तपस्विनो हि वसते केवलाजिनवल्कले ॥

11.16

प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे
महेषुधी धनुर् भीमं भूतानाम् अनभिद्रुहः ॥

11.17

भयंकरः प्राणभृतां मृत्योर् भुज इवापरः
असिस् तव तपस्थस्य न समर्थयते शमम् ॥

11.18

जयम् अत्रभवान् नूनम् अरातिष्व् अभिलाषुकः
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥

11.19

यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्य् अपः ॥

11.20

मूलं दोषस्य हिंसादेर् अर्थकामौ स्म मा पुषः
तौ हि तत्त्वावबोधस्य दुरुच्छेदाव् उपप्लवौ ॥

11.21

अभिद्रोहेण भूतानाम् अर्जयन् गत्वरीः श्रियः
उदन्वान् इव सिन्धूनाम् आपदाम् एति पात्रताम् ॥

11.22

या गम्याः सत्सहायानां यासु खेदो भयं यतः
तासां किं यन् न दुःखाय विपदाम् इव सम्पदाम् ॥

11.23

दुरासदान् अरीन् उग्रान् धृतेर् विश्वासजन्मनः
भोगान् भोगान् इवाहेयान् अध्यास्यापन् न दुर्लभा ॥

11.24

नान्तरज्ञाः श्रियो जातु प्रियैर् आसां न भूयते
आसक्तास् तास्व् अमी मूढा वामशीला हि जन्तवः ॥

11.25

को ऽपवादः स्तुतिपदे यद् अशीलेषु चञ्चलाः
साधुवृत्तान् अपि क्षुद्रा विक्षिपन्त्य् एव सम्पदः ॥

11.26

कृतवान् अन्यदेहेषु कर्ता च विधुरं मनः
अप्रियैर् इव संयोगो विप्रयोगः प्रियैः सह ॥

11.27

शून्यम् आकीर्णताम् एति तुल्यं व्यसनम् उत्सवैः
विप्रलम्भो ऽपि लाभाय सति प्रियसमागमे ॥

11.28

तदा रम्याण्य् अरम्याणि प्रियाः शल्यं तदासवः
तदैकाकी सबन्धुः सन्न् इष्टेन रहितो यदा ॥

11.29

युक्तः प्रमाद्यसि हिताद् अपेतः परितप्यसे
यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥

11.30

जन्मिनो ऽस्य स्थितिं विद्वांल् लक्ष्मीम् इव चलाचलाम्
भवान् मा स्म वधीन् न्याय्यं न्यायाधारा हि साधवः ॥

11.31

विजहीहि रणोत्साहं मा तपः साधि नीनशः
उच्छेदं जन्मनः कर्तुम् एधि शान्तस् तपोधन ॥

11.32

जीयन्तां दुर्जया देहे रिपवश् चक्षुरादयः
जितेषु ननु लोको ऽयं तेषु कृत्स्नस् त्वया जितः ॥

11.33

परवान् अर्थसंसिद्धौ नीचवृत्तिर् अपत्रपः
अविधेयेन्द्रियः पुंसां गौर् इवैतेइ विधेयताम् ॥

11.34

श्वस् त्वया सुखसंवित्तिः स्मरणीयाधुनातनी
इति स्वप्नोपमान् मत्वा कामान् मा गास् तदङ्गताम् ॥

11.35

श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः
सुदुस्त्यजास् त्यजन्तो ऽपि कामाः कष्टा हि शत्रवः ॥

11.36

विविक्ते ऽस्मिन् नगे भूयः प्लाविते जह्नुकन्यया
प्रत्यासीदति मुक्तिस् त्वां पुरा मा भूर् उदायुधः ॥

11.37

व्याहृत्य मरुतां पत्याव् इति वाचम् अवस्थिते
वचः प्रश्रयगम्भीरम् अथोवाच कपिध्वजः ॥

11.38

प्रसादरम्यम् ओजस्वि गरीयो लाघवान्वितम्
साकाङ्क्षम् अनुपस्कारं विष्वग्गति निराकुलम् ॥

11.39

न्यायनिर्णीतसारत्वान् निरपेक्षम् इवागमे
अप्रकम्प्यतयान्येषाम् आम्नायवचनोपमम् ॥

11.40

अलङ्घ्यत्वाज् जनैर् अन्यैः क्षुभितोदन्वदूर्जितम्
औदार्याद् अर्थसम्पत्तेः शान्तं चित्तम् ऋषेर् इव ॥

11.41

इदम् ईदृग्गुणोपेतं लब्धावसरसाधनम्
व्याकुर्यात् कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥

11.42

न ज्ञातं तात यत्नस्य पौर्वापर्यम् अमुष्य ते
शासितुं येन मां धर्मं मुनिभिस् तुल्यम् इच्छसि ॥

11.43

अविज्ञातप्रबन्धस्य वचो वाचस्पतेर् इव
व्रजत्य् अफलताम् एव नयद्रुह इवेहितम् ॥

11.44

श्रेयसो ऽप्य् अस्य ते तात वचसो नास्मि भाजनम्
नभसः स्फुटतारस्य रात्रेर् इव विपर्ययः ॥

11.45

क्षत्रियस् तनयः पाण्डोर् अहं पार्थो धनंजयः
स्थितः प्रास्तस्य दायादैर् भ्रातुर् ज्येष्ठस्य शासने ॥

11.46

कृष्णद्वैपायनादेशाद् बिभर्मि व्रतम् ईदृशम्
भृशम् आराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥

11.47

दुरक्षान् दीव्यता राज्ञा राज्यम् आत्मा वयं वधूः
नीतानि पणतां नूनम् ईदृशी भवितव्यता ॥

11.48

तेनानुजसहायेन द्रौपद्या च मया विना
भृशम् आयामियामासु यामिनीष्व् अभितप्यते ॥

11.49

हृतोत्तरीयां प्रसभं सभायाम् आगतह्रियः
मर्मच्छिदा नो वचसा निरतक्षन्न् अरातयः ॥

11.50

उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ
भावम् आनयने सत्याः सत्यंकारम् इवान्तकः ॥

11.51

ताम् ऐक्षन्त क्षणं सभ्या दुःशासनपुरःसराम्
अभिसायार्कम् आवृत्तां छायाम् इव महातरोः ॥

11.52

अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः
अरुध्येताम् इतीवास्या नयने बाष्पवारिणे ॥

11.53

सोढवान् नो दशाम् अन्त्यां ज्यायान् एव गुणप्रियः
सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्व् अवाच्यता ॥

11.54

स्थित्यतिक्रान्तिभीरूणि स्वच्छान्य् आकुलितान्य् अपि
तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥

11.55

धार्तराष्ट्रैः सह प्रीतिर् वैरम् अस्मास्व् असूयत
असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥

11.56

अपवादाद् अभीतस्य समस्य गुणदोषयोः
असद्वृत्तेर् अहोवृत्तं दुर्विभावं विधेर् इव ॥

11.57

ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः
यद्य् अमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥

11.58

अवधूयारिभिर् नीता हरिणैस् तुल्यवृत्तिताम्
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥

11.59

शक्तिवैकल्यनम्रस्य निःसारत्वाल् लघीयसः
जन्मिनो मानहिनस्य तृणस्य च समा गतिः ॥

11.60

अलङ्घ्यं तत् तद् उद्वीक्ष्य यद् यद् उच्चैर् महीभृताम्
प्रियतां ज्यायसीं मा गान् महतां केन तुङ्गता ॥

11.61

तावद् आश्रीयते लक्ष्म्या तावद् अस्य स्थिरं यशः
पुरुषस् तावद् एवासौ यावन् मानान् न हीयते ॥

11.62

स पुमान् अर्थवज् जन्मा यस्य नाम्नि पुरःस्थिते
नान्याम् अङ्गुलिम् अभ्येति संख्यायाम् उद्यताङ्गुलिः ॥

11.63

दुरासदवनज्यायान् गम्यस् तुङ्गो ऽपि भूधरः
न जहाति महौजस्कं मानप्रांशुम् अलङ्घ्यता ॥

11.64

गुरून् कुर्वन्ति ते वंश्यान् अन्वर्था तैर् वसुंधरा
येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥

11.65

उदाहरणम् आशीःषु प्रथमे ते मनस्विनाम्
शुष्के ऽशनिर् इवामर्षो यैर् अरातिषु पात्यते ॥

11.66

न सुखं प्रार्थये नार्थम् उदन्वद्वीचिचञ्चलम्
नानित्यताशनेस् त्रस्यन् विविक्तं ब्रह्मणः पदम् ॥

11.67

प्रमार्ष्टुम् अयशःपङ्कम् इच्छेयं छद्मना कृतम्
वैधव्यतापिताराति वनितालोचनाम्बुभिः ॥

11.68

अपहस्ये ऽथवा सद्भिः प्रमादो वास्तु मे धियः
अस्थानविहितायासः कामं जिह्रेतु वा भवान् ॥

11.69

वंशलक्ष्मीम् अनुद्धृत्य समुच्छेदेन विद्विषाम्
निर्वाणम् अपि मन्ये ऽहम् अन्तरायं जयश्रियः ॥

11.70

अजन्मा पुरुषस् तावद् गतासुस् तृणम् एव वा
यावन् नेषुभिर् आदत्ते विलुप्तम् अरिभिर् यशः ॥

11.71

अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति
पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥

11.72

कृतं पुरुषशब्देन जातिमात्रावलम्बिना
यो ऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयम् उदाहृतः ॥

11.73

ग्रसमानम् इवौजांसि सदसा गौरवेरितम्
नाम यस्याभिनन्दन्ति द्विषो ऽपि स पुमान् पुमान् ॥

11.74

यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया
ममैवाध्येति नृपतिस् तृष्यन्न् इव जलाञ्जलेः ॥

11.75

स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम्
कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुर् आज्ञया ॥

11.76

कथं वादीयताम् अर्वाङ् मुनिता धर्मरोधिनी
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥

11.77

आसक्ता धूर् इयं रूढा जननी दूरगा च मे
तिरस्करोति स्वातन्त्र्यं ज्यायांश् चाचारवान् नृपः ॥

11.78

स्वधर्मम् अनुरुन्धन्ते नातिक्रमम् अरातिभिः
पलायन्ते कृतध्वंसा नाहवान् मानशालिनः ॥

11.79

विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि
आराध्य वा सहस्राक्षम् अयशःशल्यम् उद्धरे ॥

11.80

इत्य् उक्तवन्तं परिरभ्य दोर्भ्यां तनूजम् आविष्कृतदिव्यमूर्तिः
अघोपघातं मघवा विभूत्यै भवोद्भवाराधनम् आदिदेश ॥

11.81

प्रीते पिनाकिनि मया सह लोकपालैर् लोकत्रये ऽपि विहिताप्रतिवार्यवीर्यः
लक्ष्मीं समुत्सुकयितासि भृशं परेषाम् उच्चार्य वाचम् इति तेन तिरोबभूवे ॥

मूल पाठ: Kirātārjunīya · Edition: the text commented on by Mallinātha, also as regards e.g. word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc