भाषा

ENहिગુ
ग्रंथ पाठ

किरातार्जुनीय · अध्याय 10

10.1

अथ परिमलजाम् अवाप्य लक्ष्मीम् अवयवदीपितमण्डनश्रियस् ताः
वसतिम् अभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥

10.2

द्रुतपदम् अभियातुम् इच्छतीनां गमनपरिक्रमलाघवेन तासाम्
अवनिषु चरणैः पृथुस्तनीनाम् अलघुनितम्बतया चिरं निषेदे ॥

10.3

निहितसरसयावकैर् बभासे चरणतलैः कृतपद्धतिर् वधूनाम्
अविरलविततेव शक्रगोपैर् अरुणितनीलतृणोलपा धरित्री ॥

10.4

ध्वनिर् अगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः
प्रतिरवविततो वनानि चक्रे मुखरसम् उत्सुकहंससारसानि ॥

10.5

अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्य् अमृगाणि काननानि
अभिदधुर् अभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ॥

10.6

नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः
उपहितपरमप्रभावधाम्नां न हि जयिनां तपसाम् अलङ्घ्यम् अस्ति ॥

10.7

सचकितम् इव विस्मयाकुलाभिः शुचिसिकतास्व् अतिमानुषाणि ताभिः
क्षितिषु ददृशिरे पदानि जिष्णोर् उपहितकेतुर् अथाङ्गलाञ्छनानि ॥

10.8

अतिशयितवनान्तरद्युतीनां फलकुसुमावचये ऽपि तद्विधानाम्
ऋतुर् इव तरुवीरुधां समृद्ध्या युवतिजनैर् जगृहे मुनिप्रभावः ॥

10.9

मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः
बहुमतिम् अधिकां ययाव् अशोकः परिजनतापि गुणाय सद्गुणानाम् ॥

10.10

यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः
अनुपमशमदीप्ततागरीयान् कृतपदपङ्क्तिर् अथर्वणेव वेदः ॥

10.11

शशधर इव लोचनाभिरामैर् गगनविसारिभिर् अंशुभिः परीतः
शिखरनिचयम् एकसानुसद्मा सकलम् इवापि दधन् महीधरस्य ॥

10.12

सुरसरिति परं तपो ऽधिगच्छन् विधृतपिशङ्गबृहज्जटाकलापः
हविर् इव विततः शिखासमूहैः समभिलषन्न् उपवेदि जातवेदाः ॥

10.13

सदृशम् अतनुम् आकृतेः प्रयत्नं तदनुगुणाम् अपरैः क्रियाम् अलङ्घ्याम्
दधद् अलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥

10.14

चिरनियमकृशो ऽपि शैलसारः शमनिरतो ऽपि दुरासदः प्रकृत्या
ससचिव इव निर्जने ऽपि तिष्ठन् मुनिर् अपि तुल्यरुचिस् त्रिलोकभर्तुः ॥

10.15

तनुम् अवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः
अवययुर् अमरस्त्रियो ऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥

10.16

मुनिदनुतनयान् विलोभ्य सद्यः प्रतनुबलान्य् अधितिष्ठतस् तपांसि
अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥

10.17

अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन
प्रसभम् अवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥

10.18

सपदि हरिसखैर् वधूनिदेशाद् ध्वनितमनोरमवल्लकीमृदङ्गैः
युगपद् ऋतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥

10.19

सजलजलधरं नभो विरेजे विवृतिम् इयाय रुचिस् तडिल्लतानाम्
व्यवहितरतिविग्रहैर् वितेने जलगुरुभिः स्तनितैर् दिगन्तरेषु ॥

10.20

परिसुरपतिसूनुधाम सद्यः समुपदधन् मुकुलानि मालतीनाम्
विरलम् अपजहार बद्धबिन्दुः सरजसताम् अवनेर् अपां निपातः ॥

10.21

प्रतिदिशम् अभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन
नव इव विबभौ सचित्तजन्मा गतधृतिर् आकुलितश् च जीवलोकः ॥

10.22

व्यथितम् अपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा
परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ॥

10.23

अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे
जन इव न धृतेश् चचाल जिष्णुर् न हि महतां सुकरः समाधिभङ्गः ॥

10.24

धृतबिसवलयावलिर् वहन्ती कुमुदवनैकदुकूलम् आत्तबाणा
शरदमलतले सरोजपाणौ घनसमयेन वधूर् इवाललम्बे ॥

10.25

समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या
श्रियम् अतिशयिनीं समेत्य जग्मुर् गुणमहतां महते गुणाय योगः ॥

10.26

सरजसम् अपहाय केतकीनां प्रसवम् उपान्तिकनीपरेणुकीर्णम्
प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥

10.27

मुकुलितम् अतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु
अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥

10.28

अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः
गुणम् असमयजं चिराय लेभे विरलतुषारकण्.अस् तुषारकालः ॥

10.29

निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम्
विकृतिम् उपययौ न पाण्डुसूनुश् चलति नयान् न जिगीषतां हि चेतः ॥

10.30

कतिपयसहकारपुष्परम्यस् तनुतुहिनो ऽल्पविनिद्रसिन्दुवारः
सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥

10.31

कुसुमनगवनान्य् उपैतुकामा किसलयिनीम् अवलम्ब्य चूतयष्टिम्
क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥

10.32

विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम्
ददृशुर् इव सुराङ्गना निषण्णं सशरम् अनङ्गम् अशोकपल्लवेषु ॥

10.33

मुहुर् अनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन
अलिकुलम् अलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥

10.34

श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यम् इवावधूनयन्ती
मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश् चुचुम्बे ॥

10.35

प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यद् आत्मरक्षा
अवजितभुवनस् तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥

10.36

कथम् इव तव संमतिर् भवित्री समम् ऋतुभिर् मुनिनावधीरितस्य
इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥

10.37

बलवद् अपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय
भुवनपरिभवी न यत् तदानीं तम् ऋतुगणः क्षणम् उन्मनीचकार ॥

10.38

श्रुतिसुखम् उपवीणितं सहायैर् अविरललाञ्छनहारिणश् च कालाः
अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥

10.39

न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु
अभिरतुम् उपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥

10.40

मुनिम् अभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन
मदनम् उपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥

10.41

प्रकृतम् अनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा
प्रथमम् उपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥

10.42

अभिनयमनसः सुराङ्गनाया निहितम् अलक्तकवर्तनाभिताम्रम्
चरणम् अभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ॥

10.43

अविरलम् अलसेषु नर्तकीनां द्रुतपरिषिक्तम् अलक्तकं पदेषु
सवपुषाम् इव चित्तरागम् ऊहुर् नमितशिखानि कदम्बकेसराणि ॥

10.44

नृपसुतम् अभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः
स्फुटम् अभिलषितं बभूव वध्वा वदति हि संवृतिर् एव कामितानि ॥

10.45

अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे
चकितम् अवसनोरु सत्रपायाः प्रतियुवतीर् अपि विस्मयं निनाय ॥

10.46

धृतबिसवलये निधाय पाणौ मुखम् अधिरूषितपाण्डुगण्डलेखम्
नृपसुतम् अपरा स्मराभितापाद् अमधुमदालसलोचनं निदध्यौ ॥

10.47

सखि दयितम् इहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता
हृदयम् अहृदया न नाम पूर्वं भवदुपकण्ठम् उपागतं विवेद ॥

10.48

चिरम् अपि कलितान्य् अपारयन्त्या परिगदितुं परिशुष्यता मुखेन
गतघृण गमितानि सत्सखीनां नयनयुगैः समम् आर्द्रतां मनांसि ॥

10.49

अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम्
भृशम् अरतिम् अवाप्य तत्र चास्यास् तव सुखशीतम् उपैतुम् अङ्कम् इच्छा ॥

10.50

तद् अनघ तनुर् अस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे
पुनर् अपि सुलभं तपो ऽनुरागी युवतिजनः खलु नाप्यते ऽनुरूपः ॥

10.51

जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम्
उपगतम् अवधीरयन्त्य् अभव्याः स निपुणम् एत्य कयाचिद् एवम् ऊचे ॥

10.52

सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः
सुरपतितनये ऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥

10.53

कुसुमितम् अवलम्ब्य चूतम् उच्चैस् तनुर् इभकुम्भपृथुस्तनानताङ्गी
तदभिमुखम् अनङ्गचापयष्टिर् विसृतगुणेव समुन्ननाम काचित् ॥

10.54

सरभसम् अवलम्ब्य नीलम् अन्या विगलितनीवि विलोलम् अन्तरीयम्
अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसंदितावतस्थे ॥

10.55

यदि मनसि शमः किम् अङ्ग चापं शठ विषयास् तव वल्लभा न मुक्तिः
भवतु दिशति नान्यकामिनीभ्यस् तव हृदये हृदयेश्वरावकाशम् ॥

10.56

इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठम् असूयया कयाचित्
अगणितगुरुमानलज्जयासौ स्वयम् उरसि श्रवणोत्पलेन जघ्ने ॥

10.57

सविनयम् अपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः
श्रवणनियमितेन तं निदध्य सकलम् इवासकलेन लोचनेन ॥

10.58

करुणम् अभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तम् अश्रु ताभिः
प्रकुपितम् अभिसारणे ऽनुनेतुं प्रियम् इयती ह्य् अबलाजनस्य भूमिः ॥

10.59

असकलनयनेक्षितानि लज्जा गतम् अलसं परिपाण्डुता विषादः
इति विविधम् इयाय तासु भूषां प्रभवति मण्डयितुं वधूर् अनङ्गः ॥

10.60

अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम्
स्थितम् उरुजघनस्थलातिभाराद् उदितपरिश्रमजिह्मितेक्षणं वा ॥

10.61

भृशकुसुमशरेषुपातमोहाद् अनवसितार्थपदाकुलो ऽभिलापः
अधिकविततलोचनं वधूनाम् अयुगपद् उन्नमितभ्रु वीक्षितं च ॥

10.62

रुचिकरम् अपि नार्थवद् बभूव स्तिमितसमाधिशुचौ पृथातनूजे
ज्वलयति महतां मनांस्य् अमर्षे न हि लभते ऽवसरं सुखाभिलाषः ॥

10.63

स्वयं संराध्यैवं शतमखम् अखण्डेन तपसा परोच्छित्त्या लभ्याम् अभिलषति लक्ष्मीं हरिसुते
मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥

मूल पाठ: Kirātārjunīya · Edition: the text commented on by Mallinātha, also as regards e.g. word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc