किरणतन्त्र · अध्याय 5
शक्तिपाताद्भवेद्दीक्षा निपातो न विभुत्वतः
शिवस्य समवेतत्वात् सर्वदैव स्थिता पशौ ॥
स्थितत्वात्सर्वदा शक्तेर् भवोच्छित्तिर्न किं भवेत्
कालो वा स च कः प्रोक्तो यदि कालः शिवेन किम् ॥
उपचारेण शब्दानां प्रवृत्तिरिह दृश्यते
यथा पुमान्विभुर्गन्ता नित्यो ऽप्युक्तो विनश्वरः ॥
पाशच्छेदो यथा प्रोक्तो मन्त्रराड् भगवाञ्छिवः
एवं शक्तिनिपातो ऽपि प्रोच्यते सोपचारतः ॥
निपातो भयदो यद्वद् वस्तुनः सहसा भवेत्
तद्वच्छक्तिनिपातो ऽपि प्रोक्तो भवभयप्रदः ॥
तस्मादन्यत्र यात्येव तथात्मा देशिकं प्रति
गुरुर्यथाग्रतः शिष्यान् सुप्तान्दण्डेन बोधयेत् ॥
शिवो ऽपि मोहनिद्रायां सुप्ताञ्छक्त्या प्रबोधयेत्
यदा स्वरूपविज्ञानं पतितेति तदोच्यते ॥
तस्माच्छक्तिनिपातः स्यान् निपातश्चिह्नवाचकः
तन्निपातस्य सः कालः कर्मणां तुल्यतैव च ॥
तुल्यत्वं कर्मणः कालः
क्षीणं वा यदि वासमम्
समत्वं तत्कथं गम्यं %॥
न्यूनाधिकतुटिः कथम् \
एवं सूक्ष्मं समानत्वं यस्मिन्काले तदैव सा ॥
स्वरूपं द्योतयत्याशु बोधचिह्नबलेन वै
कर्मांशो यो ऽधिकः पूर्वं भोगदस्त्वितरः पुनः ॥
समत्वे सति यो भोगः कथं तस्य प्रजायते
मिश्रं वारम्भकं कर्म समे भोगस्तदा न हि ॥
वक्तव्यश्चाधिकः कश्चिद् अन्यथा न सुखेतरम्
अधिकन्यूनसम्बन्धाद् व्याकुलत्वं न जायते ॥
अधिकन्यूनशून्यत्वात् तत्स्थानमभिगच्छति
स पात इति मन्तव्यस् तस्य भक्तिर्विलक्षणा ॥
काल एव स निष्णातः शक्तेरात्मपरिग्रहः
अनादिकर्मसम्बन्धाच् छिवः कालमपेक्षते ॥
कालच्छिद्रमिति प्रोक्तं तज्ज्ञश्च भगवाञ्छिवः
यथा कश्चिच्चले लक्ष्ये कञ्चित्कालमपेक्षते ॥
तज्ज्ञो ऽपि स शिवस्तद्वत् समकालमपेक्षते
अभावात्तत्समत्वस्य युगपन्मुक्तिरन्यथा ॥
नोपायसाधनापेक्षा क्रमो यदि स नेष्यते
प्रभुरत्र शिवो ज्ञेयः प्रभुत्वं किं तुटेर्मतम् ॥
प्रभुत्वं ज्ञस्वभावत्वाद् अज्ञत्वान्न तुटिः प्रभुः
सति काले प्रभुत्वं स्यात् पद्मबोधे यथा रवेः ॥
न च कालादृते तत्र विकासः प्रतिपद्यते
तथापि भास्करः प्रोक्तो लोके ऽस्मिन्पद्मबोधकः ॥
कालो ऽपि योग्यता सा चेद् द्योतको ऽप्युपचारतः
एवं यद्यपि तुल्यत्वं कर्मणः काल एव सः
तथापि प्रभुरत्रेशः शक्तिपातस्य संस्थितः ॥
एका सती बहूनां सा कथं बोधं करोति चेत्
बहूनामप्यदोषः स्याद् विभुत्वान्न निवार्यते ॥
एवं शक्तिसमायोगः प्रोक्तः सूक्ष्मो ऽत्र शासने
एवं तच्छक्तिसंयोगाद् दीक्षा यदि च संस्थिता ॥
दीक्षितोत्तरकाले ऽपि तिरोभावः प्रदृश्यते
तिरोभावकरी शक्तिर् यदि तस्य न निर्वृतिः ॥
तथा करोतु स स्वामी यथासौ नान्यथा भवेत्
तिरोभावगतानां सा पुरुषाणां शिवेच्छया ॥
न तिरोभावकर्तृत्वाद् उच्यते सा तिरोहिका
तिरोभावाय पातो न यतो ऽनुग्रहधर्मिणी ॥
येनासन्नतमः कालस् तेनात्मानं प्रकाशयेत्
प्रकाश्य याति विद्युद्वत् सा शक्तिः पुंप्रबोधिनी ॥
यदि सर्वात्मना वायं दीक्षितो ऽपि तिरोहितः
द्विविधे ऽपि तिरोभावे स्थानप्राप्तिः क्वचिद्भवेत् ॥
तत्र स्थितस्य तस्येह वासना सैव जायते
तद्युक्तस्य विमोक्षः स्याद् आत्मनो निर्विकल्पकः ॥
अनेन क्रमयोगेन तिरोभावगतो भवेत्
आनर्थक्यप्रसङ्गः स्याद् यदि मुक्तिर्न सा भवेत् ॥
मन्दा मन्दतरा शक्तिः कर्मसाम्यविवक्षया
न पुनस्तादृशी शक्तिः क्षीरवत्परिणामिनी ॥
यतः शक्तिमतः शक्तिः कृत्यसंस्थानभेदगा
द्विजादिवर्णनिश्रेणी सा च मोचयति स्फुटम् ॥
मूल पाठ: Kiraṇatantra, 1-6 with the commentary of Rāmakaṇṭha · Edition: Dominic Goodall: Bhaṭṭa Rāmakaṇṭha's Commentary on the Kiraṇatantra, Vol. I, chapters 1--6 critical edition and annotated translation. Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998. (Publications du departement d'indologie, 86.1) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0