किरणतन्त्र · अध्याय 6
सर्वानुग्राहकः प्रोक्तः शिवः परमकारणः
द्विजातयस्तु ये वर्णा न्यूनाधिकतया स्थिताः ॥
संस्कारो ऽपि यदैवं स्यात् फलमेवं न किं भवेत्
संस्कारः सदृशस्तेषां न्यूनाधिकगतिः कथम् ॥
न जातेर्न शरीरस्य संस्कारः प्राणिनो मतः
यदि जातेस्तदेकस्मिन् दीक्षिते ऽखिलदीक्षणम् ॥
तेन जातेर्न वक्तव्यो जडत्वान्न तनोर्मतः
चिद्रूपानुग्रहः प्रोक्तः सर्वानुग्राहकः शिवः ॥
सर्वानुग्रहकर्तृत्वाद् बालबालिशभोगिनाम्
कर्तव्यो ऽनुग्रहो देव स च संस्कारपूर्वकः ॥
संस्कारेणैव मुक्तिः स्यात् प्रोक्ता तन्त्रे यदा तदा
क्रियाज्ञानव्रतादीनाम् उपायानामहेतुता ॥
ये यथा संस्थितास्तार्क्ष्य तथैवेशः प्रसादकृत्
केचिच्चात्र क्रियायोग्यास् तेषां मुक्तिस्तथैव हि ॥
ज्ञानयोग्यास्तथा चान्ये चर्यायोग्यास्तथापरे
एवं येषां यथा प्रोक्तो मोक्षस्तेनेशयोजनात् ॥
ज्ञानादीनामुपायानां दीक्षा कारणमिष्यते
दीक्षयैव न मोक्षः स्याद् उपायः स नियामकः ॥
सर्वानुग्रहकर्तृत्वाद् उपायास्ते प्रकीर्तिताः
एकः कस्मादुपायो न प्रोक्तस्तेन यदन्यथा ॥
समयांश्चाङ्गनादीनाम् अशक्तत्वाद्विशोधयेत्
अज्ञत्वान्न च दोषो ऽस्ति %॥
ज्ञत्वाद्दोषो महान्भवेत् ॥
तेन तेषां विमुक्तिः स्याद् दीक्षया भक्तियोगतः
ये ऽत्र शक्ता न तेषां तु शोध्यास्तेषां प्रकाशयेत् ॥
एवं ज्ञानादिकं सर्वं तच्छक्तस्य प्रकाशयेत्
अन्यथा स्थितिभङ्गः स्यात् स्थितिश्चोक्ता शिवागमे ॥
तदभावे न किञ्चित्स्यात् तेनायं नियमः स्थितः
सर्वानुग्राहकत्वेन स्थित्युपायविवक्षया ॥
पाशविश्लेषणार्थं तु दीक्षापि क्रियते किल
विश्लेषो ऽपि न दृश्येत अदृष्टत्वात्कथं वद ॥
पाशस्तोभात्क्षयः सिद्धः संसिद्धैः सो ऽपि शम्बरैः
शम्बराणामचिन्त्यत्वाद् यथा मूर्तविषक्षयः ॥
नामसंकीर्तनादेव यथा कश्चित्प्रसाध्यते
दूरस्थो मन्त्रमुख्यैस्तु तद्वत्कर्मक्षयस्त्विह ॥
अशेषपाशविश्लेषो यदि देव स दीक्षया
जातायामर्थनिष्पत्तौ कथं स्याद्वपुषः स्थितिः ॥
जातायां घटनिष्पत्तौ यथा चक्रं भ्रमत्यपि
पूर्वसंस्कारसंसिद्धं तथा वपुरिदं स्थितम् ॥
अनेकभविकं कर्म दग्धबीजमिवाणुभिः
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः ॥
देहपाते विमोक्षः स्यात् सद्योनिर्वाणदापि वा
कार्याणुभिः सदा सिद्धैस् तेन ते शिवयोजकाः ॥
पाशमुक्तस्य यच्चिह्नं स्वल्पमप्यत्र किं न तत्
दृश्यते भक्तिचिह्नेन न च चिह्नं क्वचित्स्फुटम् ॥
स्फुटं यत्र क्वचिद्दृष्टं तत्रापि व्यभिचारिता
प्रागुक्तं योजनं तस्य तद्युक्त्या ग्राहपूर्वकम् ॥
विभुत्वात्तस्य नो ग्राहस् तथामूर्ततयापि च
महानत्र विरोधः स्यात् कथमेतद्ब्रवीहि मे ॥
तच्चिह्नं वासनानिष्ठा तत्कर्मण्यविकल्पना
तनुस्थं हि कथं चैतत् स्पन्देनाप्यनुमीयते ॥
विभुत्वे खं यथा शब्दाद् अमूर्तं हि विषं यथा
गृह्यते मन्त्रशक्त्यासौ वाच्यस्तच्छक्तिको गुणः
वाच्यवाचकयोगेन ज्ञेया मन्त्राणवः खग ॥
मूल पाठ: Kiraṇatantra, 1-6 with the commentary of Rāmakaṇṭha · Edition: Dominic Goodall: Bhaṭṭa Rāmakaṇṭha's Commentary on the Kiraṇatantra, Vol. I, chapters 1--6 critical edition and annotated translation. Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998. (Publications du departement d'indologie, 86.1) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0