किरणतन्त्र · अध्याय 4
शिवशक्तिप्रभावाच्च किलानन्तः प्रबुध्यति
प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यते ॥
अन्येषां सन्निकृष्टापि बोधं सा कुरुते न किम्
योग्यानामुपकारी चेद् रागवान्स्याच्छिवस्तदा ॥
यथार्करश्मिसम्पर्कात् पद्मबोधः समो न किम्
कानिचित्प्रतिबुध्यन्ति तथान्यानि न जातुचित् ॥
रागद्वेषौ न चार्कस्य तथेशस्य न तौ यतः
अधिकारान्नियोगो ऽस्य न नियोगं विना स्थितिः ॥
तत्सामर्थ्यादनन्तस्य सर्वज्ञत्वं भवेत्खग
सर्वज्ञत्वं तनौ सत्याम् अनन्तस्य न युज्यते ॥
नियतानि यतो ऽक्षाणि नियतग्राहकाणि च
मायात्मकं शरीरं तच् छिष्टकर्मनिमित्तजम् ॥
यदि नाम विशेषः स्यात् सुदूरश्रवणादिकः
शुद्धयोनिमयं तस्य वपुरुक्तमकर्मजम् ॥
तस्यैवं पाशमुक्तत्वाज् ज्ञानं केन निवार्यते
तत्स्थं सर्पं विषं यद्वत् तद्गतं न विबाधते ॥
बाधते ऽनन्तमेवं न तद्गतः पाशसञ्चयः
छिन्ना छिन्नोद्भवा यद्वत् स्थानाश्रयवशाद्भवेत् ॥
स्थानयोगेन मन्त्रेशे हठवत्तनुधारणम्
मन्त्रशक्त्या यथा देहो विधृतस्तिष्ठते चिरम् ॥
प्राप्नोत्यभीप्सितं स्थानं कालदष्टो ऽपि शक्तितः
एवं तच्छक्तिसामर्थ्याद् आस्ते तस्य वपुर्यतः ॥
अतः सुनिर्मलं ज्ञेयं बिसिनीपत्त्रवद्वपुः
तन्त्रैरुपकृतः कल्यो यथा देहगतो रसः ॥
स तिष्ठति शरीरे ऽस्मिंस् तद्वद्बोधो महाबलः
यथा भेषजसामर्थ्याद् अशक्तानां बलं परम् ॥
याति तच्छक्तिसामर्थ्याद् अनन्तस्य परे बलम्
तेन सामर्थ्ययोगेन योनिं प्रेरयते क्षणात् ॥
प्रेरको ऽधस्तने मार्गे मायायाः प्रेरकेण किम्
स्वत एव विकारेण जगत्यस्मिन्विकारिणी ॥
जगद्योनिर्यतः प्रोक्ता तद्विकाराः कलादयः
विकारात्सर्वनाशः स्याद् विकारो न जगत्कथम् ॥
अचेतनत्वात्प्रेर्या सा पुरुषार्थेन हेतुना
स्वतो न विकृतिस्तस्माद् अनन्तो ऽस्याः प्रचोदकः ॥
वायुवेगाद्यथोदन्वान् उपर्येव विकारभाक्
अक्षोभ्यत्वात्तथा माया सविकारा कलादिभिः ॥
नाक्षुब्धा कार्यकर्त्री चेत्
क्षोभो ऽस्याः स्यात्तदीरणम्
सा शक्तिः प्रेरिता तेन नित्यं कार्यकरी भवेत् ॥
उक्ताक्षोभ्या विभुत्वात्सा कारणं जगतः स्थिता
यथा मायाधिका व्याप्य न तत्कार्यगणो ऽध्वनि
भावान्कलादिकान्व्याप्य स्थिताक्षोभ्या ततःस्मृता ॥
तत्कार्यकारिका शक्तिः क्रियाख्या सूक्ष्मरूपिणी
स्थूलकार्यासु सूक्ष्मापि स्थिता न्यग्रोधबीजवत् ॥
कारणं तेन सा ज्ञेया स्थूलस्यास्य समन्ततः
तस्मात्कला तुटिः संस्था बोधिनी ह्यभिलाषकृत् ॥
सूक्ष्मं चातो गुणास्तेभ्यो बुद्धिर्बुद्धेरहंकृतिः
तस्मादेकादशाक्षाणि पञ्च तन्मात्रकाणि च
तेभ्यो भूतानि जातानि सर्वमीशः सृजत्यधः ॥
सो ऽसृजद्भगवानीशः शिवशक्तिसमन्वितः
कृत्स्नं मायात्मकं कार्यं शुद्धाशुद्धविमिश्रितम् ॥
योनिजं बुद्धिभेदाच्च तदेकं चेद्द्विधा कथम्
दृष्टं खद्योतकादेस्तद् विरुद्धं चैकहेतुकम् ॥
एवं तद्भिन्नसंस्थानं शुद्धाशुद्धाङ्गसंयुतम्
ज्ञेयं कारणशक्त्युत्थं कार्यं बीजनिमित्तजम्
एवमेतत्समादिष्टं तत्कार्यं विग्रहाश्रयम् ॥
यद्यप्येतन्मिथः कार्यं विरुद्धमसितात्मकम्
तथाप्येतत्सुसंश्लिष्टम् एकस्मिन्वस्तुनि स्फुटम् ॥
नरार्थं साधयेद्भिन्नं नरस्य शकटाङ्गवत्
एवमेतदनन्तेन सृष्टं देहनिबन्धनम् ॥
न देहेन विना मुक्तिर् न भोगश्चित्क्रियागुरुः
एतच्च कुरुते शम्भुः स्वतन्त्रत्वात्प्रभुत्वतः
सर्वानुग्राहकः शान्तस् तद्वशादखिलं फलम् ॥
मूल पाठ: Kiraṇatantra, 1-6 with the commentary of Rāmakaṇṭha · Edition: Dominic Goodall: Bhaṭṭa Rāmakaṇṭha's Commentary on the Kiraṇatantra, Vol. I, chapters 1--6 critical edition and annotated translation. Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998. (Publications du departement d'indologie, 86.1) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0