भाषा

ENहिગુ
ग्रंथ पाठ

किरणतन्त्र · अध्याय 3

3.1

भोक्तृत्वं मलतः प्रोक्तम् अभिलाषान्न किं भवेत्
स च रागाद्यतो रागो वक्तव्यो ऽत्र मलेन किम् ॥

3.2ab

भोक्तृत्वं नाम यत्प्रोक्तम् अनादि मलकारणम्

3.2cd

अभिलाषस्तनौ सत्यां सा तनुः केन हेतुना ॥

3.3ab

रागो ऽपि तन्निमित्तत्वात् प्रवृत्तः

3.3b-d

पुरुषस्य तु
चौर्यं हि बीजमापेक्ष्य यथा निगडबन्धनम् ॥

3.4ab

एवं पशुत्वमापेक्ष्य रागतत्त्वं प्रवर्तते

3.4cd

एतस्मादस्य भोक्तृत्वं तनुर्भोगो ऽन्यहेतुजः ॥

3.5

पशुत्वेन हि भोक्तृत्वं मायाबन्धस्तनौ स्थितः
सुखदुःखादिको भोगः कर्मतः संस्थितः पशोः
नान्यथास्य विनिर्दिष्टं भोगभोक्तृत्वबन्धनम् ॥

3.6

यदेतत्कर्म देवेश प्रोक्तं भोगनिबन्धनम्
कर्मार्जनं तनौ सत्यां सृष्टिकाले तनुः कुतः ॥

3.7

यथानादिर्मलस्तस्य कर्माप्येवमनादिकम्
यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना ॥

3.8

तस्मादनादिकं कर्म मायाप्येवं भवस्तथा
तथानादिः शिवः कर्ता सर्वस्य जगतः स्थितः ॥

3.9ab

शिवः कर्ता त्वया प्रोक्तः स कथं गम्यते प्रभो

3.9cd

वैकरण्यादमूर्तत्वात् कर्तृत्वं युज्यते कथम् ॥

3.10

यथा कालो ह्यमूर्तो ऽपि दृश्यते फलसाधकः
एवं शिवो ह्यमूर्तो ऽपि कुरुते कार्यमिच्छया ॥

3.11ab

इच्छैव करणं तस्य यथा सद्योगिनो मता

3.11c-f

व्यापारो न च दृश्येत कार्यमिच्छा प्रतीयते ॥

3.12a-c

स्थूलं विचित्रकं कार्यं नान्यथा घटवद्भवेत्
अस्ति हेतुरतः कश्चित् %॥

3.12d

न ह्यचेतनम् ॥

3.13

प्रोक्तः स निष्कलः स्थूलस् तथा सकलनिष्कलः
ईशः सदाशिवः शान्तः कृत्यभेदाद्विभिद्यते ॥

3.14

निष्कलः स कथं ज्ञेयः सकलो ऽपि पुमांस्तदा
द्विस्वभावस्तथा यो ऽन्यो विरुद्धः स परस्परम् ॥

3.15

पशोः शक्तिनिपातेन मन्त्रशक्त्या च सर्वदा
निष्कलं लक्ष्यते शक्त्या सूक्ष्मं विषविकारवत् ॥

3.16ab

सकलो ऽपि पुमान्नैव मायावयववर्जनात्

3.16cd

निर्मलत्वाच्छिवस्यात्र न कल्प्यास्त्वसिताः कलाः ॥

3.17ab

मन्त्रात्मिकाः कलास्तस्य ते च मन्त्राः शिवात्मिकाः

3.17cd

तैः प्रकल्प्य शरीरं स्वं शुद्धाक्षाध्यासितं महत् ॥

3.18ab

यावदेवं न कुरुते तावन्नो गुरुपद्धतिः

3.18cd

कुरुते ऽनुग्रहं देही सर्वेषामेव देहिनाम् ॥

3.19

यथैव योगिनः शक्तिर् ग्रहणे मोचने ऽपि हि
तद्वदेवात्र बोद्धव्यं ग्रहणं मोचनं विभोः ॥

3.20

मुद्रामण्डलमन्त्रैश्च त्रिधासिद्धिविचेष्टितैः
लक्ष्यते सकलं ध्यानात् सर्वज्ञानप्रवृत्तितः ॥

3.21

द्विस्वभावगतो यो ऽन्यो देवः प्रोक्तो न निष्कलः
बृहच्छरीरमापेक्ष्य कलाहीन इति स्मृतः ॥

3.22ab

एवमीशः स्थितः साक्षाद् योगिनां योगकारणम्

3.22cd

योगो न लक्ष्यहीनत्वान् न नाडी न च धारणा ॥

3.23ab

पुंसामनुग्रहार्थं तु परो ऽप्यपरतां गतः

3.23cd

नादबिन्दुखमन्त्राणु शक्तिबीजकलान्तगः ॥

3.24ab

योगी यथोपकारज्ञः सर्वज्ञत्वात्फलप्रदः

3.24cd

इच्छानुग्रहकर्तृत्वाल् लयभोगाधिकारवान् ॥

3.25ab

त्रिविधः कृत्यभेदेन दर्शितो नामभेदतः

3.25cd

ईश्वरो ऽधःस्थविद्यानां पतीन्संप्रेरयत्यसौ ॥

3.26ab

तेन प्रेरितमात्रास्ते कुर्वते ऽधस्तनं जगत्

3.26cd

शुद्धे ऽध्वनि शिवः कर्ता प्रोक्तो ऽनन्तो ऽसिते प्रभुः ॥

3.27a-d

यथा भूमण्डलेशेन नियुक्तः स्वसमप्रभुः
तथासौ कुरुते सर्वं तच्छक्तिप्रतिबोधितः

3.27ef

सर्वज्ञः शुद्धदेहश्च सर्वज्ञानप्रकाशकः ॥

मूल पाठ: Kiraṇatantra, 1-6 with the commentary of Rāmakaṇṭha · Edition: Dominic Goodall: Bhaṭṭa Rāmakaṇṭha's Commentary on the Kiraṇatantra, Vol. I, chapters 1--6 critical edition and annotated translation. Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998. (Publications du departement d'indologie, 86.1) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc