किरणतन्त्र · अध्याय 2
यो ऽसावात्मा त्वया प्रोक्तः किंचिज्ज्ञः सर्वविच्छिवः
निमित्तमनयोर्ब्रूहि शुद्धाशुद्धस्वरूपयोः ॥
अनादिमलसम्बन्धात् किञ्चिज्ज्ञो ऽसौ मयोदितः
अनादिमलमुक्तत्वात् सर्वज्ञो ऽसौ ततः शिवः ॥
आदिमत्त्वं यदा सिद्धं निमित्तं कल्प्यते तदा
ईदृग्रूपं स्मृतं ताभ्यां शुद्धाशुद्धं यथार्थतः ॥
विशुद्धः स्फटिकः कस्मात् कस्मात्ताम्रं सकालिकम्
यथास्मिन्न निमित्तं हि तथा नैव शिवात्मनोः ॥
किंनिमित्तं पुनर्बद्धो बन्धेनात्मा कलादिना
स मायान्तर्गतः प्रोक्तो व्यापकश्च त्वया विभो ॥
व्यापकत्वात्स सर्वत्र स्थितो मायोदरे कथम्
परस्परविरुद्धत्वात् कथमेतद्भविष्यति ॥
मुक्त्यर्थं स पशुर्बद्धो नान्यथा सास्य जायते
यावच्छरीरसंश्लेषो न सञ्जातो न भोगभुक् ॥
मायेयं तद्वपुस्तस्य तदभावान्न निर्वृतिः
तेन तेनास्वतन्त्रत्वान् मलिनो मलिनीकृतः ॥
यथा वस्त्रं सदोषत्वान् मलान्तःस्थं विशुद्ध्यति
अशुद्धः पुद्गलो ऽप्येवं मायोदरगतो ऽपि सन् ॥
मायोदरं हि यत्प्रोक्तं कलाद्यवनिलक्षितम्
तस्मिन्यश्च लयः प्रोक्तः सूक्ष्मदेहविवक्षया ॥
त्वयानादिर्मलः प्रोक्तो मायेयो ऽस्यात्मनो ऽपि वा
गुणस्तद्व्यतिरिक्तो वा मलो ब्रूहि किमात्मकः ॥
सहजः स्यान्मलो माया कार्यमागामिको मलः
माया नो मोहिनी प्रोक्ता स्वतः कार्यात्प्रकाशिका ॥
यतः स्वकार्यसंश्लेषाच् चैतन्यद्योतिकात्मनः
मलं विदार्य चिद्व्यक्तिम् एकदेशे करोत्यसौ ॥
स्थिता प्रकाशिका कार्यान् मोहकत्वे न संस्थिता
प्रकाशो व्यक्तिशब्देन मलशब्देन चावृतिः ॥
व्यक्तिर्याणोर्मलः प्रोक्तः स्फुटं दीपान्धकारवत्
मायापि मोहिनी प्रोक्ता विषयास्वादभोगतः ॥
यत्र तत्र स्थितस्यास्य स्वकर्ममलहेतुतः
मायोत्थं बन्धनं तस्य सनिमित्तं प्रवर्तते ॥
अनादिमलमुक्तस्य शिवस्यापि न किं भवेत्
तस्मान्माया मलो नैव व्यतिरिक्तः स युक्तितः ॥
मायाकार्यं समस्तं स्यात् कुतो ऽन्यः सहजो मलः
आत्मस्थं तत्पशुत्वं स्यात् पशुरप्यध्वमध्यगः ॥
प्रोक्तो येन मतस्तेन मलस्तद्भिन्नलक्षणः
मलो ऽज्ञानं पशुत्वं च तिरस्कारकरस्तमः ॥
अविद्या ह्यावृतिर्मूर्छा पर्यायास्तस्य चोदिताः
स चाविद्यादिपर्याय भेदैः सिद्धो मते मते ॥
तत्सद्भावात्पशुः पाश्यः शोध्यो बोध्यो मतस्त्विह
पाश्यादिवृत्तयो यास्तु तस्य भेदाः प्रकीर्तिताः ॥
मले सति भवन्त्येता भोक्तृत्वं च न केवलम्
यद्येवं संस्थितः पाश्यो मलो ऽस्य पशुसंगतः ॥
आत्मनः किं न धर्मो ऽसौ युक्तितः कल्प्यते मलः
आत्मनो ऽनादिसम्बन्धाद् धर्म इत्युपचर्यते ॥
कथं तज्ज्ञानयुक्तत्वाद् अज्ञानगुणतां गतः
तस्य धर्मो न धर्मत्वे परिणामः स्फुटो भवेत् ॥
चिद्धर्मे पुंसि नो धर्मो यदि स्यात्परिणामवान्
एकस्मिन्व्यज्यते ज्ञानम् अन्यस्मिंस्तत्तिरोहितम् ॥
परिणामो ऽचेतनस्य चेतनस्य न युज्यते
तयोश्चानादिसम्बन्धाद् विश्लेषो न विभुत्वतः ॥
सहजप्रक्षये प्राप्ते तस्य नाशो न किं भवेत्
विभोरपि मलस्यास्य तच्छक्तेः क्रियते वधः ॥
उपायाच्छक्तिसंरोधः कथंचित्क्रियते मले
यथाग्नेर्दाहिका शक्तिर् मन्त्रेणाशु निरुद्ध्यते ॥
तद्वत्तच्छक्तिसंरोधाद् विश्लिष्ट इति कथ्यते
कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः ॥
सहजा कालिका ताम्रे तत्क्षयान्न च तत्क्षयः
यद्वत्ताम्रे क्षयस्तद्वत् पुरुषस्य मलक्षयः ॥
यथा तण्डुलकम्बूके प्रक्षीणे ऽपि न तत्क्षयः
विषसम्बन्धिनी शक्तिर् यथा मन्त्रैर्निरुद्ध्यते ॥
तथा न तद्विषं क्षीणम् एवं पुंसो मलक्षयः
फलं कतकवृक्षस्य क्षिप्तं सकलुषे जले ॥
कुरुते शक्तिसंरोधं किं क्षिपत्यन्यतो जलात्
शिवज्ञानं तथा तस्य शक्तिसंरोधकारकम् ॥
मूल पाठ: Kiraṇatantra, 1-6 with the commentary of Rāmakaṇṭha · Edition: Dominic Goodall: Bhaṭṭa Rāmakaṇṭha's Commentary on the Kiraṇatantra, Vol. I, chapters 1--6 critical edition and annotated translation. Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998. (Publications du departement d'indologie, 86.1) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0