किरणतन्त्र · अध्याय 1
कैलासशिखरासीनं सोमं सोमार्धशेखरम्
हरं दृष्ट्वाब्रवीत्तार्क्ष्यः स्तुतिपूर्वमिदं वचः ॥
जयान्धकपृथुस्कन्ध बन्धभेदविचक्षण
जय प्रवरवीरेश संरुद्धपुरदाहक ॥
जयाखिलसुरेशान शिरश्छेदभयानक
जय प्रथितसामर्थ्य मन्मथस्थितिनाशन ॥
जयाच्युततनुध्वंस कालकूटबलापह
जयावर्तमहाटोप सरिद्वेगविधारण ॥
जय दारुवनोद्यान मुनिपत्नीविमोहक
जय नृत्तमहारम्भ क्रीडाविक्षोभदारुण ॥
जयोग्ररूपसंरम्भ त्रासितत्रिदशासुर
जय क्रूरजनेन्द्रास्य दर्शितासृक्सुनिर्झर ॥
जय वीरपरिस्पन्द दक्षयज्ञविनाशन
जयाद्भुतमहालिङ्ग संस्थानबलगर्वित ॥
जय श्वेतनिमित्तोग्र मृत्युदेहनिपातन
जयाशेषसुखावास काममोहितशैलज ॥
जयोपमन्युसन्ताप मोहजालतमोहर
जय पातालमूलोर्ध्व लोकालोकप्रदाहक ॥
भक्तस्य मम भीतस्य शिवज्ञानं परं वद
यदवाप्य नराः सर्वे मुक्तिमायान्ति केवलाम् ॥
एवमुक्तो हरः प्राह विस्फुरच्चन्द्रशेखरः
भद्रमेतत्त्वया पृष्टं शृणु ज्ञानं महोदयम् ॥
किरणाख्यं महातन्त्रं परामृतसुखप्रदम्
सर्वानुग्राहकं शुभ्रं पदार्थोद्द्योतकं स्फुटम् ॥
पशुपाशपतिज्ञान विचारप्रतिपादकम्
क्रियाचर्यासमोपेतं योगभूतिभरावहम् ॥
यद्येवं स पशुस्तावत् कीदृशो बध्यते कथम्
मुच्यते कथमाख्याहि संदेहविनिवृत्तये ॥
पशुर्नित्यो ह्यमूर्तो ऽज्ञो निष्क्रियो निर्गुणो ऽप्रभुः
व्यापी मायोदरान्तस्थो भोगोपायविचिन्तकः ॥
तस्याशुद्धस्य सम्बन्धं समायाति शिवात्कला
तयोद्बलितचैतन्यो विद्याख्यापितगोचरः ॥
रागेण रञ्जितश्चापि प्रधानं च गुणात्मना
बुद्ध्यादिकरणानीक सम्बन्धाद्बध्यते पशुः ॥
ततो नियतिसंश्लेषात् स्वार्जिते ऽपि नियम्यते
कालेन कालसंख्यान कार्यभोगविमोहितः ॥
एवं तत्त्वकलाबद्धः किञ्चिज्ज्ञो देहसंयुतः
मायाभोगपरिष्वक्तस् तन्मयः सहजावृतः ॥
ततः सुखादिकं कृत्स्नं भोगं भुङ्क्ते स्वकर्मतः
समे कर्मणि सञ्जाते कालान्तरवशात्ततः ॥
तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
सर्वज्ञः स शिवो यद्वत् किञ्चिज्ज्ञत्वविवर्जितः ॥
शिवत्वव्यक्तिसम्पूर्णः संसारी न पुनस्तदा
एवं क्रमाद्विबद्धः सन् मुच्यते क्रमयोगतः ॥
केवलः सकलः शुद्धस् त्र्यवस्थः पुरुषः स्मृतः
पशुरेवंविधः प्रोक्तः किमन्यत्परिपृच्छसि ॥
मूल पाठ: Kiraṇatantra, 1-6 with the commentary of Rāmakaṇṭha · Edition: Dominic Goodall: Bhaṭṭa Rāmakaṇṭha's Commentary on the Kiraṇatantra, Vol. I, chapters 1--6 critical edition and annotated translation. Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998. (Publications du departement d'indologie, 86.1) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0