भाषा

ENहिગુ
ग्रंथ पाठ

काव्यप्रकाश · अध्याय 4

4.2

इति काव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लासः

4.13

===========================================
तृतीय उल्लासः
अर्थाः प्रोक्ताः पुरा तेषाम् ...
अर्थाः वाच्यलक्ष्यव्यङ्ग्याः । तेषां वाचकलाक्षणिकव्यञ्जकानाम् ॥
... अर्ह्तव्यञ्जकतोच्यते ।
कीदृशीत्याह ----
वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ॥ म्क्प्र्-
प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम् ।
यो ऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥ म्क्प्र्-
बोद्धव्यः प्रतिपाद्यः । काकुर्ध्वनेर्विकारः । प्रस्तावः प्रकरणम् ।
अर्थस्य वाच्यलक्ष्यव्यङ्ग्यात्मनः ।
क्रमेणोदाहरणानि ।
{अ_इपिहुलं जलकुंभं घेत्तूण समागदह्मि सहि तुरि_अं ।
समसे_असलिलणीसासणीसहा वीसमामि खणं

4.14

}
[अतिपृथुलं जलकुम्भं गृहीत्वा समागतास्मि सखि त्वरितम् ।
श्रमस्वेदसलिलनिःश्वासनिःसहा विश्राम्यामि क्षणम् ॥]
(हालऽस् गाथासप्तशती 989)
अत्र चौर्यरतहोपनं गम्यते ।
{ओण्णिद्दं दोब्बल्लं चिन्ता अलसत्तणं सणीससि_अं ।
मह मन्दभा_इणी_ए केरं सहि तुह वि अहह परिहव_इ

4.16

}
[औन्निद्र्यं दौर्बल्यं चिन्तालसत्वं सनिश्चसितम् ।
मम मन्दभागिन्याः क्र्टे सखि त्वामप्यहह परिभवति ॥]
(हालऽस् गाथासप्तशती 956)
अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते ।
{तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥15 [=220]॥}
(भट्टनारायणऽस् वेणीसंहार 1.11)
अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काक्वा प्रकाश्यते ।
न च वाच्यसिद्ध्यङ्गमत्र काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्ग्यम् ।
प्रश्नमात्रेणापि काकोर्विश्रान्तेः ।
{त_इ_आ मह गण्डत्थलणिमिअं दिट्ठिं ण णेसि अण्णत्तो ।
एण्हिं सच्चे_अ अहं ते अ कवाला ण सा दिट्ठी

4.17

}
[तदा मम गण्डस्थलनिमग्नां दृष्टिं नानैषीरत्न्यत्र ।
इदानीं सैवाहं तौ च कपोलौ न च सा दृष्टिः ॥]
(हालऽस् गाथासप्तशती 939)
अत्र मत्सखीं कपोलप्रतिबिम्बितां पश्यतस्ते दृष्टिरन्यैवाभूत् चलितायां तु तस्यामन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं ते इति व्यज्यते ।
{उद्देशो ऽयं सरसकदलीश्रेणिशोभातिशायी
कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः ।
किं चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाता
येषामग्रे सरति कलिताकाण्डकोपो मनोभूः

4.18

}
(कुन्तकऽस् वक्रोक्तिजीवित 1.93)
अत्र रतार्थं प्रविशेति व्यङ्ग्यम् ।
{णोल्ले_इ अणोल्लमणा अत्ता मं घरभरम्मि स_अलम्मि ।
खणमेत्तं ज_इ संझा_इ हो_इ ण व हो_इ वीसामो

4.19

}
[नुदत्यनार्द्रमनाः श्वश्रूर्मां गृहभरे सकले ।
क्षणमात्रं यदि संध्यायां भवति न वा भवति विश्रामः ॥]
(हालऽस् गाथासप्तशती 875)
अत्र संध्या संकेतकाल इति तटस्थं प्रति कयाचिद्द्योत्यते ।
{सुव्व_इ समागमिस्सदि तुज्झ पि_ओ अञ्जं पहरमेत्तेण ।
एमे अ कित्ति चिट्ठसि ता सहि सञ्जेसु करणिज्जं

4.20

}
[श्रूयते समागमिष्यति तव प्रियो ऽद्य प्रहरमात्रेण ।
एवमेव किमिति तिष्ठसि तत् सखि सज्जय करणीयम् ॥]
(हालऽस् गाथासप्तशती 962)
अत्रोपपतिं प्रत्यभिसर्तुं प्रस्तुता न युक्तमिति कयाचिन्निवार्यते ।
{अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः ।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोञ्जलिर्वः

4.21

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र विविक्तो ऽयं देश इति प्रच्छन्नकामुकस्त्वयाभिसार्यतामिति आश्वस्तां प्रति कयाचिन्निवेद्यते ।
{गुरु_अणपरवस पि_अ किं भणामि तु_इ मन्दभाइणी अह_अं ।
अज्ज पवासं वच्चसि वच्च स_अं जेव्व सुणसि करणिज्जं

4.22

}
[गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिनी अहकम् ।
अद्य प्रवासं व्रजसि व्रज स्वयमेव श्रोष्यसि करणीयम् ॥]
(हालऽस् गाथासप्तशती 851)
अत्राद्य मधुसमये यदि व्रजसि तदाहं तावत् न भवामि
तव तु न जानामि गतिमिति व्यज्यते । ॥
आदिग्रहणाच्चेष्टादेः । तत्र चेष्टाया यथा ---
{द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् ।
आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने
वाचस्तत्र निवारितं प्रसरणं संकोचिते दोर्लते

4.23

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र चेष्टया प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते ।
निराकाङ्क्षप्रतिपत्तये प्राप्तावसरतया च पुनः पुनरुदाह्रियते । वक्त्रादीनां मिथःसंयोगे द्विकादिभेदेन ।
अनेन क्रमेण लक्ष्यव्यङ्ग्ययोश्च व्यञ्जकत्वमुदाहार्यम् ॥21-22॥
शब्दप्रमाणवेद्यो ऽर्थो व्यनक्त्यर्थान्तरं यतः ।
अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ॥ म्क्प्र्-
शब्देति । नहि प्रमाणान्तरवेद्यो ऽर्थो व्यञ्जकः

4.3

इति श्रीकाव्यप्रकाशे ऽर्थव्यञ्जकतानिर्णयो नाम तृतीय उल्लासः

4.23

=================================================================
चतुर्थ उल्लासः
यद्यपि शब्दार्थयोर्निर्णये कृते दोषगुणाल.अम्काराणां स्वरूपमभिधानीयं तथापि धर्मिणि प्रदर्शिते धर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदात् आह ----
अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ ।
अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ॥ म्क्प्र्-
लक्षणामूलगूढव्यङ्ग्यप्राधान्ये सत्येव अविवक्षितं वाच्यं यत्र स ऽध्वनौऽ; इत्यनुवादात् ध्वनिरिति ज्ञेयः ।
तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम् । यथा
{त्वामस्मि वच्मि विदुषां समवायो ऽत्र तिष्ठति ।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्

4.24

}
(रुद्रटऽस् काव्यालङ्कार 6.15)
अत्र वचनादि उपदेशादिरूपतया परिणमति ।
क्वचिदनुपपद्यमानतया अत्यन्तं तिरस्कृतम् । यथा ----
{उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम्

4.24

}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन)
एतद् अपकारिणं प्रति विपरीतलक्षणया कश्चिद्वक्ति

4.25

विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः ।
अन्यपरं व्यङ्ग्यनिष्ठम् । एष च
को ऽप्यलक्ष्यक्रमव्यङ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः ॥ म्क्प्र्-
अलक्ष्येति । न खलु विभावानुभावव्यभिचारिण एव रसः । अपि तु रसस्तैः इत्यस्ति क्रमः । स तु लाघवान्न लक्ष्यते

4.26

अत्र
रसभावतदाभावभावशान्त्यादिरक्रमः ।
भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ॥ म्क्प्र्-
आदिग्रहणाद् भावोदयभावसंधिभावशबलत्वानि । प्रधानतया यत्र स्थितो रसादिस्तत्रालङ्कार्यः यथोदाहरिष्यते । अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्ग्ये
रसवत्प्रेयऊर्जस्विसमाहितादयो ऽलङ्काराः । ते च गुणीभूतव्यङ्ग्याभिधाने उदाहरिष्यन्ते

4.25

तत्र रसस्वरूपमाह --
कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ म्क्प्र्-
विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः ।
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ म्क्प्र्-
उक्तं हि भरतेन {विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः} इति
एतद्विवृण्वते ---- {विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणैः रत्यादिको भावो जनितः अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतियोग्यः कृतः व्यभिचारिभिर्निर्वेदादिभिः सहकारिभिरुपचितो मुख्यया वृत्त्या रामादावनुकार्ये तद्रूपसंधानान्नर्तके ऽपि प्रतीयमानो रसः} इति भट्टलोल्लटप्रभृतयः ।
राम एवायम् अयमेव राम इति {न रामो ऽयम्} इत्यौत्तरकालिके बाधे रामो ऽयम् इति रामः स्याद्वा न वायम् इति रामसदृश्यो ऽयम् इति च सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामो ऽयमिति प्रतिपत्त्या ग्राह्ये नटे
{सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः ।
मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता

4.26

}
(सुभाषितरत्नभाण्डागार 273।6)
{दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्च ।
अचिरलविलोलजलदः कालः समुपागतश्चायम्

4.27

}
(रुद्रटऽस् काव्यालङ्कार 7.29)
इत्यादिकाव्यानुसंधानबलाच्छिक्षाभ्यासनिर्वर्तितस्वकार्यप्रकटनेन च नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथानभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः {संयोगात्}, गम्यगमकभावरूपात् अनुमीयमानो ऽपि वस्तुसौदर्यबलाद्रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कुकः ।
न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नाभिव्यज्यते अपि तु काव्ये नाट्ये चाभिधातो द्वितीयेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसतत्त्वेन भोगेन भुज्यते इति भट्टनायकः ।
लोके प्रमदाभिः स्थाय्यनुमाने ऽभ्यासपाटववतां काव्ये नाट्ये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारवत्त्वादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते
न शत्रोरेवैते न तटस्थस्यैवैते इति संबन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितो ऽपि
साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तरसंपर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नो ऽपि गोचरीकृतश्चर्व्यमाणतैकप्राणोविभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् अन्यत्
सर्वमिव तिरोदधत् ब्रह्मास्वादमिवानुभावयन् अलौकिकचमत्कारकारी शृङ्गारादिको रसः । स च न कार्यः । विभावादिविनांशे ऽपि तस्य संभवप्रसङ्गात् । नापि ज्ञाप्यः सिद्धस्य तस्यासंभवात् ।
अपि तु विभावादिभिर्व्यञ्जितश्चर्वणीयः । कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेत् न क्वचिद्दृष्टमित्यलौकिकसिद्धेर्भूषणमेतन्न दूषणम् । चर्वणानिष्पत्त्या तस्य निष्पत्तिरुपचरितेति कार्यो ऽप्युच्यताम् ।
लौकिकप्रत्यक्षादिप्रमाणताटस्थ्यावबोधशालिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसंवेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्येयो ऽप्यभिधीयताम् । तद्ग्राहकं च न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात् । नापि सविकल्पकं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धत्वात् । उभयाभावस्वरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु
विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः ॥
व्याघ्रादयो विभावा भयानकस्येव वीराद्भुतरौद्राणाम् अश्रुपातादयो ऽनुभावाः शृङ्गारस्येव करुणभयानकयोः
चिन्तादयो व्यभिचारिणः शृङ्गारस्यएव वीरकरुणभयानकानाम् इति पृथगनैकान्तिकत्वात् सूत्रे मिलिता निर्दिष्टाः ।
{वियदलिमलिनाम्बुगर्भमेघं
मधुकरकोकिलकूजितैर्दिशां श्रीः ।
धरणिरभिनवाङ्कुराङ्कटङ्का
प्रणतिपरे दयिते प्रसीद मुग्धे

4.28

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
इत्यादौ
{परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः
कथमपि परिवारप्रार्थनाभिः क्रियासु ।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीं
अभिनवकरिदन्तच्छेदकान्तः कपोलः

4.29

}
(भवभूतिऽस् मालतीमाधव 1.22)
इत्यादौ
{दुरादुत्सुकमागते विवलितं संभाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने किञ्चाञ्चितभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि

4.28

}
(अमरुशतक 44)
इत्यादौ च
यद्यपि विभावानामनुभावानामौत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां च व्यभिचारिणां केवलानामत्र स्थितिः, तथाप्येतेषामसाधारणत्वमित्यन्यतमद्वयाक्षेपकत्वे सति नानैकान्तिकत्वमिति

4.30

तद्विशेषानाह ----
सृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ म्क्प्र्-
तत्र शृङ्गारस्य द्वौ भेदौ । संभोगो विप्रलम्भश्च । तत्राद्यः परस्परावलोकनालिङ्गनाधरपानपरिचुम्बनाद्यनन्तत्वादपरिच्छेद्य
एक एव गण्यते । यथा
{शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैर्-
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता

4.31

}
(अमरुशतक 77)
तथा
{त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि ।
शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः

4.32

}
(अमरुशतक 23)
अपरस्तु ---- अभिलाषविरहेर्ष्याप्रवासशापहेतुक इति पञ्चविधः । क्रमेणोदाहरणम् ----
{प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयाः
तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि ।
यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणात्
आशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः

4.33

}
(भवभूतिऽस् मालतीमाधव 5.7)
{अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहृद्
यो मां नेच्छति नागतश्च हहहा को ऽयं विधेःप्रक्रमः ।
इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे
बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि

4.34

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
एषा विरहोत्कण्ठिता ।
{सा पत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः

4.35

}
(अमरुशतक 29)
{प्रस्थानं वलयैः कृतं प्रियसखैरस्रैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते

4.36

}
(अमरुशतक 35)
{त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः

4.37

}
(कालिदासऽस् मेघदूत, उत्तरमेघ 44)
{आकुञ्च्य पाणिमशुच्ञ्चि मम मूर्ध्नि वेश्या
मन्त्राभसां प्रतिपदं पृषतैः पवित्रे ।
तारस्वरं प्रथितथूत्कमदात्प्रहारं
हाहा हतो ऽहमिति रोदिति विष्णुशर्मा

4.38

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषः
धिक् प्राणान् पतितो ऽशनिर्हुतवहस्ते ऽङ्गेषु दग्धे दृशौ ।
इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिर-
श्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि

4.39

}
(नारायणभट्ट,जयन्तभट्टोल्लेखः)
{कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्ध तेषां सभीमकिरीटिना-
मयमह[म]सृङ्मेदोमांसैः करोमि दिशां बलिम्

4.40

}
(भट्टनारायणऽस् वेणीसंहार 3.24)
{क्षुद्रा संत्रासमेते विजहित हरयः क्षुण्णशक्रेभकुम्भा
युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः ।
सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेघनादः
किञ्चिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वेषयामि

4.41

}
(हर्षऽस् नागानन्द 11.2)
{ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति

4.42

}
(कालिदासऽस् अभिज्ञानशकुन्तलम् 1.7)
{उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा-
न्यंसस्फिक्पृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का-
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति

4.43

}
(भवभूतिऽस् मालतीमाधव 5.16)
{चित्रं महानेष बतावतारः क्व कान्तिरेषाभिनवैव भङ्गिः ।
लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एष सर्गः

4.30

}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 29)
एषां स्थायिभावानाह----
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ म्क्प्र्-
स्पष्टम्

4.44

व्यभिचारिणो ब्रूते ----
निर्वेदग्लानिशङ्काख्यास्तथासूया मदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ म्क्प्र्-
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ म्क्प्र्-
सुप्तं प्रबोधोमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ म्क्प्र्-
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रिंस्त्रिशदमी भावाः समाख्यातास्तु नामतः ॥ म्क्प्र्-
निर्वेदस्यामङ्गलप्रायस्य प्रथममनुपादेयत्वे ऽप्युपादानं व्यभिचारित्वे ऽपि स्थायिताभिधानार्थम् । तेन
निर्वेदस्थायिभावो ऽस्ति शान्तो ऽपि नवमो रसः ।
यथा
{अहौ वा हारे वा कुसुमशयने वा दृषदि वा
मणौ वा लोष्टे वा बलवति रिपौ वा सुहृदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः

4.45

}
(उत्पलराज, उत्पलराजीय)
रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ॥ म्क्प्र्-
भावः प्रोक्तः ...
आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया । कान्ताविषया तु व्यक्ता शृङ्गारः ।
उदाहरणम्
{कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते

4.46

}
(उत्पलराज, उत्पलराजीय)
{हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितये ऽपि योग्यताम्

4.47

}
(माघऽस् सिशुपालवध 1.26)
एवमन्यदप्युदाहार्यम् । अञ्जितव्यभिचारी यथा
{जाने कोपपराङ्मुखी प्रियतमा स्वप्नेद्य दृष्टा मया
मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः ।
नो यावत्परिरभ्य चाटुशतकैराश्वासयामि प्रियां
भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः

4.48

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र विधिं प्रत्यसूया ।
... तदाभासा अनौचित्यप्रवर्त्तिताः ।
तदाभासा रसाभासा भावाभासाश्च । तत्र रसाभासो यथा
{स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे
विलेभे कः प्राणान् रणमखमुखे यं मृगयसे ।
सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्
तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम्

4.49

}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 33)
अत्रानेककामुकविषयमभिलापं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारोपादानं व्यनक्ति । भावाभासो यथा
{राकासुधाकरमुखी तरलायताक्षी
सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी ।
तत् किं करोमि विदधे कथमत्र मैत्रीं
तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः

4.50

}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 34)
अत्र चिन्ता अनौचित्यप्रवर्तिता । एवमन्ये ऽप्युदाहार्याः ॥
भावस्य शान्तिरुदयः सन्धिः शबलता तथा ॥ म्क्प्र्-
करमेणोदाहरणम्
{तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते ।
इत्युक्ते क्व तदित्युदीर्य सहसा तत् संप्रमार्ष्टुं मया
साश्लिष्टा(च्x: संश्लिष्टा) रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम्

4.51

}
(अमरुशतक 26)
अत्र कोपस्य ।
{एकस्मिञ् शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं
मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः

4.52

}
(अमरुशतक 22)
अत्रौत्सुक्यस्य ।
{उत्सिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः
सत्संगप्रियता च वीररभसोत्फालश्च मां कर्षतः ।
वैदैहीपरिरम्भ एष च मुहुर्श्चैतन्यमामीलयन्
आनन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः

4.53

}
(भवभ्तूतिऽस् महावीरचरित 2.16)
अत्रावेगहर्षयोः ।
{क्वाकार्यं शशलक्षणः क्व च कुलं भूयो ऽपि दृश्येत सा
दोषाणां प्रशमाय न श्रुतमहो कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्ने ऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्यो ऽधरं धास्यति

4.36

}
(कालिदासऽस् विक्रमोर्वशीय 4.4)
अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता ।
भावस्थितिस्तूक्ता उदाहृता च

4.37

मुख्ये रसे ऽपि ते ऽङ्गित्वं प्राप्नुवन्ति कदाचन ।
ते भावशान्त्यादयः । अङ्गित्वं राजानुगतविवाहप्रवृत्तभृत्यवत् ॥
अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ॥ म्क्प्र्-
शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः ।
शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यः, अर्थशक्तिमूलानुरणनरूपव्यङ्ग्यः,
उभयशक्तिमूलानुरणनरूपव्यङ्ग्यश्चेति त्रिविधः

4.54

तत्र
अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते ॥ म्क्प्र्-
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ।
वस्त्वेति, अनलङ्कारं वस्तुमात्रम् । आद्यो यथा
{उल्लास्य कालकरवालमहाम्बुवाहं
देवेन येन जरठोर्जितगर्जितेन ।
निर्वापितः सकल एव रणे रिपूणां
धाराजलैस्त्रिजगति ज्वलितः प्रतापः

4.55

}
(शिवस्वामिन्ऽस् कप्फिनाभ्युदय 1.24)
अत्र वाक्यस्यासंबद्धार्थाभिधायकत्वं मा प्रसाङ्क्षीदिति प्राकरणिकाप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालङ्कारो व्यङ्ग्यः ।
{तिग्मरुचिरप्रतापो विधुरनिशाकृद्विभो मधुरलीलः ।
मतिमानतत्त्ववृत्तिःप्रतिपदपक्षाग्रणीर्विभाति भवान्

4.56

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रैकैकस्य पदस्य द्विपदत्वे विरोधाभासः ।
{अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद प्रभो ।
अहितः सहितः साधुयशोभिरसतामसि

4.57

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रापि विरोधाभासः ।
{निरुपादानसंभारमभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने

4.58

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र व्यतिरेकः ।
अलङ्कार्यस्यापि ब्राह्मणश्रमणन्यायेनालङ्कारता । वस्तुमात्रं यथा
{पन्थि_अ ण एत्थ सत्थरमैत्थि मणं पत्थरत्थले गामे ।
उण्ण_अप_ओहरं पेख्खिऊण ज_इ वससि ता वससु

4.59

}
[पथिक नात्र स्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे ।
उन्नतपयोधरं प्रक्स्.य यदि वससि तदा वस ॥]
(हालऽस् गाथासप्तशती 879)
अत्र यद्युपभोगक्षमोसि तदा आस्स्वेतिं व्यज्यते ।
{शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् ।
यत्र प्रसीदसि पुनः स भात्युदारोनुदारश्च

4.60

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अविरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति ध्वन्यते ।
अर्थशक्त्युद्भवो ऽप्यर्थो व्यञ्जकः संभवी स्वतः ॥ म्क्प्र्-
प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा ।
वस्तु वालङ्कृतिर्वेत्य् षड्भेदो ऽसौ व्यनक्ति यत् ॥ म्क्प्र्-
वस्त्वलङ्कारमथवा तेनायं द्वादशात्मकः ।
स्वतःसंभवी न केवलं भणितमात्रनिष्पन्नो यावद्बहिरप्यौचित्येन संभाव्यमानः । कविना प्रतिभामात्रेण बहिरसन्नपि निर्मितः कविनिबद्धेन वक्त्रेति वा द्विविधोपर इति त्रिविधः । वस्तु वालङ्कारो वासाविति षोढा व्यञ्जकः । तस्य वस्तु वालङ्कारो वा व्यङ्ग्य इति द्वादशभेदो ऽर्थशक्त्युद्भवो ध्वनिः । क्रमेणोदाहरणम् ----
{अलसशिरोमणि धुत्ताणं अग्गिमो पुत्ति धणसमिद्धिम_ओ ।
इ_अ भणि_एण ण_अङ्गी पप्फुल्लविलो_अणा जा_आ

4.61

}
[अलसशिरोमणिर्धूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः ।
इति भणितेननताङ्गी प्रफुल्लविलोचना जाता ॥]
(हालऽस् गाथासप्तशती 970)
अत्र ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते ।
{धन्यासि या कथयसि प्रियसंगमे ऽपि
विश्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण
सख्यः शपामि यदि किञ्चिदपि स्मरामि

4.62

}
(शार्ङ्गधरपद्धति)
अत्र त्वमधन्या अहं तु धन्येति व्यतिरेकालङ्कारः ।
{दर्पान्धगन्धगजकुम्भकपाटकूट-
संक्रान्तिनिघ्नघनशोणितशोणशोचिः ।
वीरैर्व्यलोकि युधि कोपकषायकान्तिः
कालीकटाक्ष इव यस्य करे कृपाणः

4.63

}
(शिवस्वामिन्ऽस् कप्फिनाभ्युदय 1.37)
अत्रोपमालङ्कारेण सकलरिपुबलक्षयः क्षणात् करिष्यते इति वस्तु ।
{गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः ।
ओष्ठविद्रुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधरम्

4.64

}
(विश्वनाथऽस् साहित्यदर्पण 4.9)
अत्र विरोधालङ्कारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता मम क्षत्याप्यन्यस्य क्षतिर्निवर्ततामिति तद्बुद्धिरुत्प्रेक्ष्यते इत्युत्प्रेक्षा च ।
एषूदाहरणेषु स्वतःसंभवी व्यञ्जकः ।
{कैलासस्य प्रथमशिखरे वेणुसंमूर्छनाभिः
श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम् ।
स्रस्तापाङ्गाः सरसबिसिनीकाण्डसंजातशङ्काः
दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति

4.65

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र वस्तुना येषामप्यर्थाधिगमो नास्ति तेषामप्येवमादिबुद्धिजननेन चमत्कारं करोति त्वत्कीर्तिरिति वस्तु ध्वन्यते ।
{केसेसु बलामोडि_अ तेण अ समरम्मि ज_असिरी गहि_आ ।
जह कन्दरांहि विहुरा तस्स दढं कण्ठ_अम्मि संठवि_आ

4.66

}
[केशेषु बलात्कारेण तेन च समरे जयश्रीर्गृहीता ।
यथा कन्दराभिर्विधुरास्तस्य दृढं कण्ठे संस्थापिता ॥]
(हालऽस् गाथासप्तशती 971)
अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृह्णन्ति इत्युत्प्रेक्षा । एकत्र संग्रामे विजयदर्शनात्तस्यारयः पलाय्य गुहासु तिष्ठन्तीति काव्यहेतुरलङ्कारः । न पलाय्य गतास्तद्वैरिणो ऽपि तु ततः पराभवं संभाव्य तान् कन्दरा न त्यजन्तीत्यपह्नुतिश्च ।
{गाढालिङ्गणरहसुज्ज-अम्मि द-इ-ए लहु समोसर-इ ।
माणंसिणीण माणो पीलणभी-अ व्व हि-अ-आहिं

4.67

}
[गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति ।
मनस्विन्याः मानः पीडनभीत इव हृदयात् ॥]
(हालऽस् गाथासप्तशती 934)
अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र विजृम्भते इति वस्तु ।
{जा ठेरंव्व हसन्ती क-इव-अणंबुरुहवद्धविणिवेसा ।
दावे-इ भु-अणमण्डलमण्णं वि-अ ज-अ-इ सा वाणी

4.68

}
[या स्थविरमिव हसन्ती कविवदनाम्बुरुहबद्धविनिवेशा ।
दर्शयति भुवनमण्डलमन्यदिव जयति सा वाणी ॥]
(हालऽस् गाथासप्तशती 982)
अत्रोत्प्रेक्षया चमत्कारैककारणं नवं नवं जगत् अजडासनस्था निर्मिमीते इति व्यतिरेकः । एषु कविप्रौढोक्तिमात्रनिष्पन्नो व्यञ्जकः ।
{जे लङ्कागिरिमेहलासे खलि-आ संभोगखिण्णोर-इ-
फारुप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणं ।
ते एह्णिं मल-आनिला विरहिणीणीसाससंपक्किणो
जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा वि-अ

4.69

}
[ये लङ्कागिरिमेखलासु स्खलिताः संभोगखिन्नोरगी-
स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम् ।
त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणः
जाता झटिति शिशुत्वे ऽपि बहलास्तारुण्यपूर्णा इव ॥]
(राजशेखरऽस् कर्पूरमञ्जरी 1.19)
अत्र निःश्वासैः प्राप्तैश्वर्या वायवः किं किं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते ।
{सहि विर-इ-ऊण माणस्स मज्झ धीरत्तणेण आसासं ।
पि-अदंसणविहङ्खलेलक्खणम्मि सहसत्ति तेण ओसरि-अं

4.70

}
[सखि विरचय्य मानस्य मम धीरत्वेनाश्वासम् ।
प्रियदर्शनविशृङ्खलक्षणे सहसेति तेनापसृतम् ॥]
(हालऽस् गाथासप्तशती 936)
अत्र वस्तुनाकृते ऽपि प्रार्थने प्रसन्नेति विभावना प्रियदर्शनस्य सौभाग्यबलं धैर्येण सोढुं न शक्यते इत्युत्प्रेक्षा वा ।
{ओल्लोल्लकर-अर-अख्ख-एहि तुह लो-अणेसु मह दिण्णं ।
रत्तंसु-अं पसा-ओ कोवेण पुणो इमे ण अक्कमि-आ

4.71

}
[आर्द्रार्द्रकरजरदनक्षतैस्तव लोचनयोर्मम दत्तम् ।
रक्तांशुकं प्रसादः कोपेन पुनरिमे नाक्रान्ते ॥]
(हालऽस् गाथासप्तशती 971)
अत्र किमिति लोचने कुपिते वहसि इति उत्तरालङ्कारेण न केवलमार्द्रनखक्षतानि गोपायसि यावत्तेषामहं प्रसादपात्रं जातेति वस्तु ।
{महिलासहस्सभरि-ए तुह हि-अ-ए सुह-अ सा अमा-अन्ती ।
अणुदिणमणण्णकम्मा अङ्गं तणु-अं वि तणु-ए-इ

4.72

}
[महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती ।
अनुदिनमनन्यकर्मा अङ्गं तनुकमपि तनयति ॥]
(हालऽस् गाथासप्तशती 2.82)
अत्र हेत्वलङ्कारेण तनोस्तनूकरणेपि तव हृदये न वर्तते इति विशेषोक्तिः । एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो व्यञ्जकः । एवं द्वादश भेदाः ॥
शब्दार्थोभयभूरेको ...
{अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा ।
तारकातरला श्यामा सानन्दं न करोति कम्

4.41

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रोपमा व्यङ्ग्या ॥
... भेदा अष्टादशास्य तत् ॥ म्क्प्र्-
अस्येति ध्वनेः

4.73

ननु रसादीनां बहुभेदत्वेन कथमष्टादशेत्यत आह ।
रसादीनामनन्तत्वाद्भेद एको हि गण्यते ।
अनन्तत्वादिति । तथाहि ---- नव रसाः । तत्र शृङ्गारस्य द्वौ भेदौ । संभोगो विप्रलम्भश्च । संभोगस्यापि परस्परावलोकनालिङ्गनपरिचुम्बनादिकुसुमोच्चयजलकेलिसूर्यास्तमयचन्द्रोदयषडृतुवर्णनादयो बहवो भेदाः । विप्रलम्भस्याभिलाषादय उक्ताः । तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम् । तत्रापि नायकयोरुत्तममध्यमाधमप्रकृतित्वम् । तत्रापि देशकालावस्थादिभेदा इत्येकस्यैव रसस्यानन्त्यम् ।
का गणना त्वन्येषां । क्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिभेद एक एव गण्यते ॥
वाक्ये द्व्युत्थः ...
द्व्युत्थ इति शब्दार्थोभयशक्तिमूलः ॥
... पदे ऽप्यन्ये ...
अपिशब्दाद्वाक्येपि । एकावयवस्थितेन भूषणेन कामिनीव पदद्योत्येन व्यङ्ग्येन वाक्यव्यङ्ग्यापि भारती भासते । तत्र पदप्रकाश्यत्वे क्रमेणोदाहरणानि ----
{यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा ।
अनुकम्प्योनुकम्प्यश्च स जातः स च जीवति

4.74

(1)}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र द्वितीयमित्रादिशब्दा आश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वादिसंक्रमितवाच्याः ।
{खलववहारा दीसन्ति दारुणा जहवि तहवि धीराणं ।
हि_अ_अव_अस्सवहुम_आ ण हु ववसा_आ विमुज्झन्ति

4.75

(2)}
[खलव्यवहाराः दृश्यन्ते दारुणाः यद्यपि तथापि धीराणाम् ।
हृदयवयस्यबहुमताः न खलु व्यवसायाः विमुह्यन्ति ॥]
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र विमुह्यन्तीति ।
{लावण्यं तदसौ कान्तिस्तद्रूपं स वचःक्रमः ।
तदा सुधास्पदमभूदधुना तु ज्वरो महान्

4.76

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र तदादिपदैरनुभवैकगोचरा अर्थाः प्रकाश्यन्ते । यथा वा
{मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते
मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि ।
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैःशंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति

4.77

(3)}
(अमरुशतक 70)
अत्र भीताननेति । एतेन हि नीचैःशंसनविधानस्य युक्तता गम्यते । भावादीनां पदप्रकाश्यत्वे ऽधिकं न वैचित्र्यमिति न तदुदाह्रियते ।
{रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिघः ।
झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप भीम

4.78

(4)}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र भीषणीयस्य भीमसेन उपमानम् ।
{भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः

4.79

(5)}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
काचित् संकेतदायिनमेवं मुख्यया वृत्त्या शंसति ।
{सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितं
यातो ऽस्ताचलमौलिमम्बरमणिर्विस्रब्धमत्रागतिः ।
आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना
नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति तेनासितुम्

4.80

(6)}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र वस्तुना कृतपुरुषपरिचया क्लान्तासीति वस्तु अधुनापदद्योत्यं व्यज्यते ।
{तद्प्राप्तिमहादुःखविलीनाशेषपातका ।
तच्चिन्ताविपुलाह्लादक्षीणपुण्यचया तथा

4.81

चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका

4.82

(7)}
(विष्णुपुराण 5,13.21,22)
अत्र जन्मसहस्तैरुपभोक्तव्यानि दुष्कृतसुकृतफलानि वियोगदुःखचिन्तनाह्लादाभ्यामनुभूतानीत्युक्तम् ।
एवं चाशेषचयपदद्योत्ये अतिशयोक्ती ।
{क्षणदासावक्षणदा वनमवनं व्यसनमव्यसनम् ।
बत वीर तव द्विषतां पराङ्मुखे त्वयि परांङ्मुखं सर्वम्

4.83

(8)}
(सुभाषितरत्नभाण्डागार 103।74)
अत्र शब्दशक्तिमूलविरोधाङ्गेनार्थान्तरन्यासेन {विधिरपि त्वामनुवर्तते} इति सर्वपदद्योत्यं वस्तु ।
{तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो ।
इ-अ णववहु-आ सो-ऊण कुण-इ व-अणं महिसंमुहं

4.84

(9)}
[तव वल्लभस्य प्रभात आसीदधरो म्लानकमलदलम् ।
इति नववधूः श्रुत्वा करोति वदनं महीसंमुखम् ॥]
(हालऽस् गाथासप्तशती 998)
अत्र रूपकेण त्वयास्य मुहुर्मुहुः परिचुम्बनं तथा कृतं येन म्लानत्वमिति मिलाणादिपदद्योत्यं काव्यलिङ्गम् । एषु स्वतः- संभवी व्यञ्जकः ।
{रा-ईसु चन्दधवलासु ललि-अमप्फालि-ऊण जो चावं ।
एकच्छत्तं वि-अ कुण-इ भु-अणरज्जं विजंभन्तो

4.85

(10)}
[रात्रीषु चन्द्रधवलासु ललितमास्फाल्य यश्चापम् ।
एकच्छत्रमिव करोति भुवनराज्यं विजृम्भमाणः ॥]
(हालऽस् गाथासप्तशती 992)
अत्र वस्तुना येषां कामिनामसौ राजा स्मरस्तेभ्यो न कश्चिदपि तदादेशपराङ्मुख इति जाग्रद्भिरुपभोगपरैरेव तैर्निशातिवाह्यते इति भु_अणरज्जपदद्योत्यं वस्तु प्रकाश्यते ।
{निशितशरधियार्पयत्यनङ्गो
दृशि सुदृशः स्वबलं वयस्यराले ।
दिशि निपतति यत्र सा च तत्र
व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः

4.86

(11)}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र वस्तुना युगपदवस्थाः प्रस्परविरुद्धा अपि प्रभवन्तीति व्यतिकरपदद्योत्यो विरोधः ।
{वारिज्जन्तो वि पुणो संदावकदत्थि-एण हि-अ-एण ।
थणहरव-अस्म-एण विसुद्धजा-ई ण चल-इ से हारो

4.87

(12)}
[वार्यमाणो ऽपि पुनः संतापकदर्थितेन हृदयेन ।
स्तनभरवयस्येन विशुद्धजातिर्न चलत्यस्या हारः ॥]
(हालऽस् गाथासप्तशती 994)
अत्र विशुद्धजातित्वलक्षणहेत्वलङ्कारेण हारो ऽनवरतं कम्पमान एवास्ते इति ण चल-इ-पदद्योत्यं वस्तु ।
{सो मुद्धसामलङ्गो धम्मिल्लो कलि-अललिअणि-अदेहो ।
ती-ए खन्धाहि बलं गहि-अ संरो सुर-असंगरे ज-अ-इ

4.88

(13)}
[स मुग्धश्यामलाङ्गः धम्मिल्लः कलितललितनिजदेहः ।
तस्याः स्कन्धाद्बलं गृहीत्वा स्मरः सुरतसंगरे जयति ॥]
(हालऽस् गाथासप्तशती 998)
अत्र रूपकेण मुहुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः प्राप्तो यथा रतिविरतावप्यनिवृत्ताभिलाषः काम्को ऽभूदिति खन्ध-पदद्योत्या विभावना ॥ एषु कविप्रौढोक्तिमात्रनिष्पन्नशरीरः ॥
{णवपुण्णिमामि-अङ्कस्स सुह-अ को तं सि भणसु मह सच्चं ।
का सोहग्गसमग्गा प-ओसर-अणिव्व तुह अज्ज

4.89

(14)}
[नवपूर्णिमामृगाङ्कस्य सुभग कस्त्वमसि भण मम सत्यम् ।
का सौभाग्यसमग्रा प्रदोषरजनीव तवाद्य ॥]
(हालऽस् गाथासप्तशती 986)
अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुरक्तस्त्वं न तत इति णवेत्यादि - प-ओसेत्यादिपदद्योत्यं वस्तु व्यज्यते ॥
{सहि णवणिहुवणसमरम्मि अङ्कवालीसही-ए णिविडा-ए ।
हारो णिवारि-ओ वि-अ उच्छेरन्तो तदो कहं रमि-अं

4.90

(15)}
[सखि नवनिधुवनसमरे ऽङ्कपालीसख्या निबिडया ।
हारो निवारित एवोच्छ्रियमाणस्ततः कथं रमितम् ॥]
(हालऽस् गाथासप्तशती 996)
अत्र वस्तुना हारच्छेदानन्तरमन्यदेव रतमवश्यमभूत् तत्कथय कीदृगिति व्यतिरेकः कहंपदगम्यः ॥
{प्रविसंती घरवारं विवलि-अव-अणा विलो-इ-ऊण पहं ।
खन्धे घेत्तूण घडं हा हा णट्ठोत्ति रु-असि सहि किन्ति

4.91

}
[प्रविशन्ती गृहद्वारं विवलितवदना विलोक्य पन्थानम् ।
स्कन्धे गृहीत्वा घटं हा हा नष्ट इति रोदिषि सखि किमिति ॥]
(हालऽस् गाथासप्तशती 880)
अत्र हेत्वलङ्कारेण संकेतनिकेतनं गच्छन्तं दृष्ट्वा यदि तत्र गन्तुमिच्छसि तदा अपरं घटं गृहीत्वा गच्छेति वस्तु किन्ति-पद-द्योत्यम् । यथा वा
{विहलङ्खलं तुमं सहि दट्ठूण कुडेण तरलतरदिट्ठिं ।
वारप्फंसमिसेण अ अप्पा गुरु-ओत्ति पाडि-अ विहिण्णो

4.92

(16)}
[विशृङ्खलां त्वां सखि दृष्ट्वा कुटेन तरलतरदृष्टिम् ।
द्वारस्पर्शमिषेण चात्मा गुरुक इति पातयित्वा विभिन्नः ॥]
(हालऽस् गाथासप्तशती 880)
अत्र नदीकूले लतागहने कृतसंकेतमप्राप्तं गृहप्रवेशावसरे पश्चादागतं दृष्ट्वा पुनर्नदीगमनाय द्वारोपघातव्याजेन बुद्धिपूर्वं व्याकुलतया त्वया घटः स्फोटित इति मया चिन्तितं तत्किमिति नाश्वसिषि तत्समीहितसिद्धये व्रज अहं ते श्वश्रूनिकटे सर्वं समर्थयिष्ये इति द्वारस्पर्शनव्याजेनेत्यपह्नुत्या वस्तु ।
{जोह्णा-इं महुरसेण अ वि-इण्णतारुण्च्छु-अमणा सा ।
वुड्ढावि णवोढव्वि-अ परवहु-आ अहह हर-इतुह हि-अ-अं

4.93

(17)}
[ज्योत्स्नया मधुरसेन च वितीर्णतारुण्योत्सुकमनाः सा ।
वृद्धापि नवोढेव परवधूरहह हरति तव हृदयम् ॥]
(हालऽस् गाथासप्तशती 984)
अत्र काव्यलिङ्गेन वृद्धां परवधूं त्वमस्मानुज्झित्वाभिलषसीति त्वदीयमाचरितं वक्तुं न शक्त्यमित्याक्षेपः परवहूपदप्रकाश्यः ।
एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः ॥
वाक्यप्रकाश्ये तु पूर्वमुदाहृतम् ॥
शब्दार्थोभयशक्त्युद्भवस्तु पदप्रकाश्यो न भवतीति
पञ्चत्रिंशद्भेदाः ॥
... प्रबन्धे ऽप्यर्थशक्तिभूः ॥ म्क्प्र्-
यथा गृध्रगोमायुसंवादादौ ।
{अलं स्थित्वा श्मशाने ऽस्मिन् गृध्रगोमायुसंकुले ।
कङ्कालबहले घोरे सर्वप्राणिभयङ्करे

4.94

}
(महाभारत शान्तिपर्वन् 153-11)
{न चेह जीवितः कश्चित् कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी

4.95

}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 52)
इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् ॥
{आदित्यो ऽयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम् ।
बहुविघ्नो मुहूर्तो ऽयं जीवेदपि कदाचन

4.96

}
(महाभारत, गित प्रेस्स्. शान्तिपर्वन् 153-19)
{अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः

4.42

}
(महाभारत, गित प्रेस्स्. शान्तिपर्वन् 153-65?)
इति निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठं च वचनमिति प्रबन्ध एव प्रथते ॥
अन्ये त्वेकादश भेदा ग्रन्थविस्तरभयान्नोदाहृताः स्वयं तु लक्षणतोनुसर्तव्याः ॥
अपिशब्दात्पदवाक्ययोः

4.97

पदैकदेशरचनावर्णेष्वपि रसादयः ।
तत्र प्रकृत्या यथा
{र-इकेलिहि-अणिवसणकरकिसल-अरुद्धण-अणजु-अलस्स ।
रुद्धस्स त-इ-अण-अणं पव्व-ईपरिचुंबि-अं ज-अ-इ

4.98

}
[रतिकेलिबृतनिवसनकरकिसलयरुद्धनयनयुगलस्य ।
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितञ्जयति ॥]
(हालऽस् गाथासप्तशती 5.53)
अथ जयतीति न तु शोभते इत्यादि । समाने ऽपि हि स्थगनव्यापारे लोकोत्तरेणैव व्यापारेणास्य पिधानमिति
तदेवोत्कृष्टम् । यथा वा
{प्रेयान् सो ऽयमपाकृतः सशपथं पादानतः कान्तया
द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः ।
तावत्प्रत्युत पाणिसंपुटगलन्नीवीनिबन्धं धृतो
धावित्वेव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः

4.99

}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 3,2.15)
अत्र पदानीति न तु द्वाराणीति ॥
तिङ्सुपोर्यथा
{पथि पथि शुकचञ्चूचारुराभाङ्कुराणां
दिशि दिशि पवमानो वीरुधां लासकश्च ।
नरि नरि किरति द्राक् सायकान् पुष्पधन्वा
पुरि पुरि विनिवृत्ता मानिनीमानचर्चा

4.100

}
(सुभाषितरत्नभाण्डागार 333।85)
अत्र किरतीति किरणस्य साध्यमानत्वं निवृत्तेति निवर्तनस्य सिद्धत्वं तिङा सुपा च तत्रापि क्तप्रत्ययेनातीतत्वं द्योत्यते । यथा वा
{लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैः
तवावस्था चेयं विसृज कठिने मानमध्हुना

4.101

}
(अमरुशतक 6)
अत्र लिखन्निति न तु लिखतीति तथा आस्ते इति न तु आसीत इति अपि तु प्रसादपर्यन्तमास्ते इति भूमिमिति न तु
भूमाविति न हि बुद्धिपूर्वकमपरं किञ्चिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम् ।
संबन्धस्य यथा
{गामारुहम्हि हामे वसामि ण-अरट्ठि-इं ण जाणामि ।
णा-अरि-आणं प-इणो हरेमि जा होमि सा होमि

4.102

}
[ग्रामरुहास्मि ग्रामे वसामि नगरस्थितिं न जानामि ।
नागरिकाणां पतीन् हरामि या भवामि सा भवामि ॥]
(हालऽस् गाथासप्तशती 705)
अत्र नागरिकाणामिति षष्ठ्याः ।
रमणीयः क्षत्रियकुमार आसीत् इति कालस्य । एषा हि भग्नमहेश्वरकार्मुकं दाशरथिं प्रतिकुपितस्य भार्गवस्योक्ति । वचनस्य यथा ।
{ताणं गुणग्गअणाणं ताणुक्कण्ठाणं तस्स पेम्मस्स ।
ताणं भणि-आणं सुंदर एरिसि-अं जा-अमवसाणं

4.103

}
[तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्नः ।
तासां भणितीनां सुन्दर ईदृशं जातमवसानम् ॥]
(हालऽस् गाथासप्तशती 940)
अत्र गुणग्रहणादीनां बहुत्वं प्रेम्णश्चैकत्वं द्योत्यते ॥
पुरुषव्यत्ययस्य यथा
{रे रे चञ्चललोचनाञ्चितरुचे चेतः प्रमुच्य स्थिर-
प्रेमाणं महिमानमेणयनामालोक्य किं नृत्यसि ।
किं मन्ये विहरिष्यसे बत हतां मुञ्चान्तराशामिमाम्
एषा कण्ठतटे कृता खलु शिला संसारवारांनिधौ

4.104

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र प्रहासः ।
पूर्वनिपातस्य यथा
{येषां दोर्बलमेव दुर्बलतया ते संमतास्तैरपि
प्रायः केवलनीतिरीतिशरणैः कार्यं किमुर्वीश्वरैः ।
ये क्ष्माशक्र पुनः पराक्रमनयस्वीकारकान्तक्रमास् ----
ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम्

4.105

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र पराक्रमस्य प्राधान्यमवगम्यते ।
विभक्तिविशेषस्य यथा
{प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम् ।
दिवसेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम्

4.106

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र दिवसेनेत्यपवर्गतृतीया फलप्राप्तिं द्योतयति ।
{भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।
साक्षात्कामं नवमिव रतिर्मालती माधवं यत्
गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति

4.107

}
(भवभूतिऽस् मालतीमाधव 1.30)
अत्रानुकम्पावृत्तेः करूपतद्धितस्य ।
{परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः को ऽप्यन्तर्जडयति च तापं च कुरुते

4.108

}
(भवभूतिऽस् मालतीमाधव 1.30)
अत्र प्रशब्दस्योपसर्गस्य ।
{कृतं च गर्वाभिमुखं मनस्त्वया
किमन्यदेवं निहताश्च नो द्विषः ।
तमांसि तिष्ठन्ति हि तावदंशुमान्
न यावदायात्युदयाद्रिमौलिताम्

4.109

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र तुल्ययोगिताद्योतकस्य [च] इति निपातस्य ।
{रामोसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा-
मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् ।
बन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति-
श्रेणीभूतविशालतालविवरोद्गीर्णैःस्वरैःसप्तभिः

4.110

}
([विशाखदत्त])
अत्रासाविति भुवनेष्विति गुणैरिति सर्वनामप्रातिपदिकवचनानां न त्वदिति न मदिति अपि अस्मदित्यस्य सर्वाक्षेपिणः भाग्यविपर्ययादित्यन्यथासंपत्तिमुखेन न त्वभावमुखेनाभिधानस्य ।
{तरुणिमनि कलयति कलामनुमदनधनुर्भ्रुवोः पठत्यग्रे ।
अधिवसति सकलललनामौलिमियं चकितंहरिणचलनयना

4.111

}
(महिमभट्टऽस् व्यक्तिविवेक)
अत्र इमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य तरुणत्वे, इति धनुषः समीपे, इति मौलौ वसतीति त्वादिभिस्तुल्ये, एषां वाचकत्वे, अस्ति कश्चित् स्वरूपस्य विशेषो यश्चमत्कारकारी स एव व्यञ्जकत्वं प्राप्नोति ।
एवमन्येषामपि बोद्धव्यम् ।
वर्णरचनानां व्यञ्जकत्वं गुणस्वरूपनिरूपणे उदाहरिष्यते अपिशब्दात् प्रबन्धेषु नाटकादिषु ।
एवं रसादीनां पूर्वगणितभेदाभ्यां सह षड् भेदाः ।
भेदास्तदेकपञ्चाशत् ...
व्याख्याताः ॥
... तेषां चान्योन्ययोजने ॥ म्क्प्र्-
संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया ।
न केवलं शुद्धा एवैकपञ्चाशद्भेदा भवन्ति । यावत्तेषां स्वप्रभेदैरेकपञ्चाशता संशयास्पदत्वेनानुग्राहकतयैकव्यञ्जकानुप्रवेशेन चेति त्रिविधेन संकरेण परस्परनिरपेक्षरूपयैकप्रकारया संसृष्ट्या चेति चतुर्[भिर्]गुणने ।
वेदखाब्धिवियच्चन्द्राः ...
शुद्धभेदैः सह
... शरेषुयुगखेन्दवः ॥ म्क्प्र्-
तत्र दिङ्मात्रमुदाह्णियते ।
{क्खणपाहुणि-आ दे-अर जा-आ-ए सुह-अ किंपि दे भणि-आ ।
रु-अ-इ पडोहरवलहीघरम्मि अणुणिञ्ज-उ वरा-ई

4.112

}
[क्षणप्राघुणिका देवर जायया सुभग किमपि ते भणिता ।
रोदिति गृहपश्चाद्भागवलन्भीगृहे ऽनुनीयतां वराकी ॥]
(हालऽस् गाथासप्तशती 963 ; अभिनवगुप्तऽस् ध्वन्यालोकलोचन 3)
अत्रानुनयः किमुपभोगलक्षणे ऽर्थान्तरे संक्रमितः किमनुरणनन्यायेनोपभोगे एव व्यङ्ग्ये व्यञ्जकः इति संदेहः ।
{स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वं सहे
वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव

4.4

}
(आनन्दवर्दनऽस् ध्वन्यालोक 2)
अत्र लिप्तेति पयोदसुहृदामिति च अत्यन्ततिरस्कृतवाच्ययोः संसृष्टिः । ताभ्यां सह रामो ऽस्मीत्यर्थान्तरसंक्रमितवाच्यस्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्जकानुप्रवेशेन चार्थान्तरसंक्रमितवाच्यरसध्वन्योः संकरः । एवमन्यदप्युदाहार्यम् ॥
इति काव्यप्रकाशे ध्वनिनिर्णयो नाम चतुर्थ उल्लासः

4.113

==========================================================
अथ पञ्चम उल्लासः
एवं ध्वनौ निर्णीते गुणीभूतव्यङ्ग्यप्रभेदानाह ।
अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ म्क्प्र्-
व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः ।
कामिनीकुचकलशवत् गूढं चमत्करोति । अगूढं तु स्फुटतया वाच्यायमानमिति गुणीभूतमेव । अगूढं यथा
{यस्यासुहृत्कृततिरस्कृतिरेत्य तप्त-
सूचीव्यधव्यतिकरेण युनक्ति कर्णौ ।
काञ्चीगुणग्रथनभाजनमेष सो ऽस्मि
जीवन्न संप्रति भवामि किमावहामि

4.114

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र जीवन्नित्यर्थान्तरसंक्रमितवाच्यस्य ।
{उन्निद्रकोकनदरेणुपिशङ्गितान्गा
गायन्ति मञ्जु मधुपा गृहदीर्घिकासु ।
एतच्चकास्ति च रवेर्नवबन्धुजीव-
पुष्पच्छदाभमुदयाचलचुम्बि बिम्बम्

4.115

}
(कुन्तकऽस् वक्रोक्तिजीवित 2.3)
अत्र चुम्बनस्यात्यन्ततिरस्कृतवाच्यस्य ।
{अत्रासीत् फणिपाशबन्धनविधिः शक्त्या भवद्देवरे
गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।
दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः
केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी

4.116

(1)}
(राजशेखरऽस् बालरामायण 10.20)
अत्र केनाप्यत्रेत्यर्थशक्तिमूलानुरणनरूपस्य । {तस्याप्यत्र} इति युक्तः पाठः ।
अपरस्य रसादेर्वाच्यस्य वा (वाक्यार्थीभूतस्य) अङ्गं रसादि अनुरणनरूपं वा । यथा
{अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः

4.117

}
(महाभारत)
अत्र शृङ्गारः करुणस्य ।
{कैलासालयभाललोचनरुचा निर्वर्तितालक्तक-
व्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम् ।
स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः
कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते

4.118

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र भावस्य रसः ।
{अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाभ्योधय-
स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः ।
आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव-
स्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः

4.119

}
(पञ्चाक्षरीप्रशस्ति)
अत्र भू.विषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य ।
{बन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां
श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः ।
अस्माकं सुकृतैर्दृशोर्निपतितोस्यौचित्यवारांनिधे
विध्वस्ता विपदोखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे

4.120

}
(सुभाषितरत्नभाण्डागार 112।268)
अत्र भावस्य रसाभासभावाभासौ प्रथमार्धद्वितीयार्धद्योत्यौ ।
{अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः ।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात्

4.121

}
(विश्वनाथऽस् साहित्यदर्पण)
अत्र भावस्य भावप्रशमः ।
{साकं कुरङ्गकदृशा मधुपानलीलां
कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते ।
अन्याभिधायि तव नाम विभो गृहीतं
केनापि तत्र विषमामकरोदवस्थाम्

4.122

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र त्रासोदयः ।
{असोढा तत्कालोल्लसदसहभावस्य तपसः
कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः ।
प्रमोदं वो दिश्यात् कपटबटुवेषापनयने
त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः

4.123

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रावेगधैर्ययोः संधिः ॥
{पश्येत्कश्चिच्चल चपल रे का त्वराहं कुमारी
हस्तालम्बं वितर ह ह हा व्युत्क्रमः क्वासि यासि ।
इत्थं पृथ्वीपरिवृढ भवद्विद्विषोरण्यवृत्तेः
कन्या कञ्चित् फलकिसलयान्याददानाभिधत्ते

4.124

}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता । एते च रसवदाद्यलङ्काराः । यद्यपि भावोदयभावसंधिभावशबलत्वानि नालङ्कारतया उक्तानि तथापि कश्चित् ब्रूयादित्येवमुक्तम् । यद्यपि स नास्ति कश्चिद्विषयः यत्र ध्वनिगुणीभूतव्यङ्ग्ययोः स्वप्रभेदादिभिः सह संकरः संसृष्टिर्वा नास्ति तथापि प्राधान्येन व्यपदेशा भवन्तीति क्वचित्केनचिद्व्यवहारः ।
{जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषुघटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता

4.125

}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 66)
अत्र शब्दशक्तिमूलानुरणनरूपो रामेण सहोपमानोपमेयभावो
वाच्याङ्गतां नीतः ।
{आगत्य संप्रति वियोगविसंष्ठुलाङ्गी
मम्भोजिनीं क्वचिदपि क्षपितत्रियामः ।
एतां प्रसादयति पश्य शनैः प्रभाते
तन्वङ्गि पादपतनेन सहस्ररश्मिः

4.126

(2)}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 67)
अत्र नायकवृत्तान्तो ऽर्थशक्तिमूलो वस्तुरूपो निरपेक्षरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थितः ॥
वाच्यसिद्ध्यङ्गं यथा
{भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम् ।
मरणं जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्

4.127

}
(आनन्दवर्दनऽस् ध्वन्यालोक 2.3)
अत्र हालाहलं व्यङ्ग्यं भुजगरूपस्य वाच्यस्य सिद्धिकृत् । यथा वा
{गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते
किं त्वेवं विजनस्थयोर्हतजनःसंभावयत्यन्यथा ।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसाम्
आश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः

4.128

(3)}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्राच्युतादिपदव्यङ्ग्यमामन्त्रणेत्यादिवाच्यस्य । एतच्चैकत्र एकवक्तृगतत्वेन अपरत्र भिन्नवक्तृगतत्वेनेत्यनयोर्भेदः ॥
अस्फुटं यथा
{अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता ।
नादृष्टेन न दृष्टेन भवता लभ्यते सुखम्

4.129

(4)}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रादृष्टो यथा न भवसि वियोगभयं च यथा नोत्पद्यते तथा कुर्या इति क्लिष्टम् ॥
संदिग्धप्राधान्यं यथा
{हरस्तु किञ्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि

4.130

(5)}
(कालिदासऽस् कुमारसंभव 3.67)
अत्र परिचुम्बितुमैच्छदिति किं प्रतीयमानं किं वा विलोचनव्यापारणं वाच्यं प्रधानमिति संदेहः ॥
तुल्यप्राधान्यं यथा
{ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते

4.131

(6)}
(भवभूतिऽस् महावीरचरित 2.8)
अत्र जामदग्न्यः सर्वेषां क्षत्रियाणामिव रक्षसां क्षणात् क्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् ॥
काक्वाक्षिप्तं यथा
{मथ्नामि कौरवशतं समरे न कोपात्
दुःशासनस्य रुधिरं न प्बाम्युरस्तः ॥
संचूर्णयामि गदया न सुयोधनोरू
संधिं करोतु भवतां नृपतिः पणेन

4.132

(7)}
(भट्टनारायणऽस् वेणीसंहार 1.15)
अत्र मथ्नाम्येवेत्यादि व्यङ्ग्यं वाच्यनिषेधसहभावेन स्थितम् ॥
असुन्दरं यथा
{वाणीरकुञ्जुड्डीणस-उणिकोलाहलं सुणन्ती-ए ।
घरकम्मवावडा-ए बहु-ए सी-अन्ति अङ्गा-इं

मूल पाठ: Kāvyaprakāśa · Edition: Ganganatha Jha: Kāvyaprakāśa of Mammaṭa, with English translation, rev. ed., Varanasi : Bharatiya Vidya Prakaśan, 1967 (2 parts). With occasional corrections according to the ed. by N.S. Venkatanathacharya: The Kavyaprakasha of Mammata, with Sanketa of Acharya Manikyachandra, Madhumati of Ravi Bhattacharya and Bhavukapriya tippani, Mysore : Oriental Research Institute, 1974 (2 vols). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc