काव्यप्रकाश · अध्याय 3
}
(मेण्ठकृतं हयग्रीववधम्)
इति काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो नाम
प्रथम उल्लासः
==================================================
क्रमेण शब्दार्थयोः स्वरूपमाह
स्याद्वाचको लाक्षणिकः शब्दो ऽत्र व्यञ्जकस्त्रिधा ।
अत्रेति काव्ये । एषां स्वरूपं वक्ष्यते ॥
वाच्यादयस्तदर्थाः स्युः ...
वाच्यलक्ष्यव्यङ्ग्याः ॥
... तात्पर्यार्थो ऽपि केषुचित् ॥ म्क्प्र्-
आकाङ्क्षायोग्यतासंनिधिवशाद्वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थो ऽपि वाक्यआर्थः समुल्लसतीत्यभिहितान्वयवादिनां मतम् ॥
वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः
सर्वेषां प्रायशो ऽर्थानां व्यञ्जकत्वमपीष्यते ।
अत्र वाच्यस्य यथा
{मा_ए घरोव_अरणं अज्ज हु णत्थि त्ति साहि_अं तुम_ए ।
ता भण किं करणिज्जं एमे_अ ण वासरो ठा_इ
}
[मातः गृहोपकरणं अद्य खलु नास्तीति साधितं त्वया ।
तद्भण किं करणीयं एवमेव न वासरः स्थीयी ॥]
(हालऽस् गाथासप्तशती)
अत्र स्वैरविहारार्थिनीति व्यज्यते ।
लक्ष्यस्य यथा
{साहेन्ती सहि सुह_अं खणे खणे दुम्मिआसि मज्झक_ए ।
सब्भावणेहकरणिज्जसरिस_अं दाव विर_इ_अं तुम_ए
}
[साधयन्ती सखि सुभगं क्षणेक्षणे दूनाऽसि मत्कृते ।
सद्भावस्नेहकरणीयसदृशं तावत् विरचितं त्वया ॥]
(हालऽस् गाथासप्तशती)
अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम् । व्यङ्ग्यस्य यथा
{उ_अ णिच्चलणिप्पन्दा भिसिणीपत्तम्मि रेहै वला_आ ।
णिम्मलमरग_अभा_अणपरिट्टिआ संखसुत्तिव्व
}
[पश्य निश्चलनिष्पन्दा विसिनीप्त्रे राजते बलाका ।
निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥]
(हालऽस् गाथासप्तशती 1.4)
अत्र निष्पन्दत्वेन आश्वस्तत्वम् । तेन च जनरहितत्वम् । अतः संकेतस्थानमेतदिति कयाचित् कञ्चित्प्रत्युच्यते । अथवा मिथ्या वदसि न त्वमत्रागतोभूरिति व्यज्यते ॥
वाचकादीनां क्रमेण स्वरूपमाह ।
साक्षात्संकेतितं यो ऽर्थमभिधत्ते स वाचकः ॥ म्क्प्र्-
इहागृहीतसंकेतस्य शब्दस्यार्थप्रतीतेरभावात्संकेतसहाय एव शब्दो ऽर्थविशेषं प्रतिपादयतीति यस्य यत्राव्यवधानेन संकेतो गृह्यते स तस्य वाचकः
सङ्केतितश्चतुर्भेदो जात्यादिर्जातिरेव वा ।
यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव तथाप्यानन्त्याद् व्यभिचाराच्च तत्र संकेतः कर्तुं न युज्यत इति
गौः शुक्लश्चलो डित्थ इत्यादीनां विषयविभागो न प्राप्नोतीति च । तदुपाधावेव संकेतः ।
उपाधिश्च द्विविधः ---- वस्तुधर्मो वक्तृयदृच्छासंनिवेशितश्च । वस्तुधर्मो ऽपि द्विविधः ---- सिद्धः साध्यश्च । सिद्धो ऽपि द्विविधः ---- पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च । तत्राद्यो जातिः । उक्तं हि वाक्यपदीये ----
{न हि गौः स्वरूपेण गौर्नाप्यगौः । गोत्वाभिसंवन्धातु गौः} इति ।
द्वितीयो गुणः । शुक्लादिना हि लब्धसत्ताकं वस्तु विशिष्यते । साध्यः पूर्वापरीभूतावयवः क्रियारूपः ।
डित्थादिशब्दानामन्त्यबुद्धिनिर्ग्राह्यं संहृतक्रमं स्वरूपं वक्त्रा तदृच्छया डित्थादिष्वर्थेषूपाधित्वेन संनिवेश्यत इति सो ऽयं संज्ञारूपो यदृच्छात्मक इति ।
{गौःशुक्लश्चलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः} इति महाभाष्यकारः । परमाण्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणत्वम् । गुणक्रियायदृच्छानां वस्तुत एकरूपाणाम् अप्याश्रयभेदाद् भेद इव लक्ष्यते । यथैकस्य मुखस्य खड्गमुकुरतैलाद्यालम्बनभेदात् ।
हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्ल इत्याद्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तत् शुक्लत्वादि सामान्यम् । गुडतण्डुलादिपाकादिष्वेवमेव पाकत्वादि ।
बालवृद्धशुकाद्युदीरितेषु डित्थादिशब्देषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यऽर्थेषु वा डित्थत्वाद्यस्तीति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमित्तमित्यन्ये । तद्वान् अपोहो वा शब्दार्थः कैश्चिदुक्तं इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च न दर्शितम्
स मुख्यो ऽर्थस्तत्र मुख्यो व्यापारो ऽस्याभिधोच्यते ॥ म्क्प्र्-
स इति साक्षात्संकेतितः । अस्येति शब्दस्य
मुख्यार्थबाधे तद्योगे रूढितो ऽथ प्रयोजनात् ।
अन्यो ऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ म्क्प्र्-
{कर्मनि कुशलः} इत्यादौ दर्भग्रहणाद्ययोगात् {गङ्गआयां घोषः} इत्यादौ च गङ्गादीनां घोषाद्याधारत्वासंभवात् मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च संबन्धे रूढितः प्रसिद्धेः
तथा गङ्गातटे घोष इत्यादैः प्रयोगात् येषां न तथा प्रतिपत्तिः तेषां पावनत्वादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनाच्च मुख्येन अमुख्यो ऽर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो
लक्षणा
स्वासिद्धये पराक्षेपः परार्थं स्वसमर्पणम् ।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ म्क्प्र्-
{कुन्ताः प्रविशन्ति} {यष्टयः प्रविशन्ति} इत्यादौ कुन्तादिभिरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तत उपादानेने ऽयं लक्षणा ।
{गौरनुबन्ध्यः} इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते
{विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे} इति न्यायादित्युपादानलक्षणा तु नोदाहर्तव्या ।
न ह्यत्र प्रयोजनमस्ति न वा रूढिरियम् । व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते । यथा क्रियतामित्यत्र कर्ता । कुर्वित्यत्र कर्म । प्रविश पिण्डीमित्यादौ गृहं भक्षयेत्यादि च ।
{पीनो देवदत्तो दिवा न भुङ्क्ते} इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेरर्थापत्तेर्वा तस्य विषयत्वात् ।
{गङ्गायां घोषः} इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थमर्पयति इत्येवमादौ लक्षणेनैषा लक्षणा । उभयरूपा चेयं शुद्धा । उपचारेणामिश्रितत्वात् ।
अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थ्यम् । तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्त्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसंप्रत्ययः । गङ्गासंबन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः
सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा ।
आरोप्यमाणः आरोपविषयश्च यत्रानपह्नुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा ॥
विष्यय्यन्तःकृते ऽन्यस्मिन् सा स्यात्साध्यवसानिका ॥ म्क्प्र्-
विषयिणारोप्यमाणेनान्तःकृते निगीर्णे अन्यस्मिन्नारोपविषये सति साध्यवसाना स्यात्
भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा ।
गौणौ शुद्धौ च विज्ञेयौ ...
इमावारोपाध्यवसानरूपौ सादृश्यहेतू भेदौ {गौर्वाहीकः} इत्यत्र {गौरयम्} इत्यत्र च ।
अत्र हि स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तत्वमुपयान्तिं इति केचित् । स्वार्थसहचारिगुणाभेदेन पदार्थगता गुणा एव लक्ष्यन्ते न
परार्थो ऽभिधीयते इत्यन्ये । साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यते इत्यपरे ।
उक्तं चान्यत्र
{अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते ।
लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणतां} इति ।
([कुमारिल, तन्त्रवार्तिक 3,4.12])
अविनाभावो ऽत्र संबन्धमात्रं न तु नान्तरीयकत्वम् । तत्त्वे हि {मञ्चाः क्रोशन्ति} इत्यादौ न लक्षणा स्यात् ।
अविनाभावे चाक्षेपेणैव सिद्धेर्लक्षणाया नोपयोग इत्युक्तम् ।
{आयुर्धृतम्} {आयुरेवेदम्} इत्यादौ च सादृश्यादन्यत् कार्यकारणभावादि संबन्धान्तरम् । एवमादौ च कार्यकारणभावादिलक्षणपूर्वे आरोपाध्यवसाने ।
अत्र गौणभेदयोर्भेदे ऽपि ताद्रूप्यप्रतीतिः सर्वथैवाभेदावगमश्च प्रयोजनम् । शुद्धभेदयोस्त्वन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि ।
क्वचित् तादर्थ्यादुपचारः । यथा इन्द्रार्था स्थूणा इन्द्रः । क्वचित् स्वस्वामिभावात् । यथा राजकीयः पुरुषो राजा । क्वचित् अवयवावयविभावात् । यथा अग्रहस्त इत्यत्राग्रमात्रे ऽवयवे हस्तः । क्वचित् तात्कर्म्यात् । यथा अतक्षा तक्षा ॥
... लक्षणा तेन षड्विधा ॥ म्क्प्र्-
आद्यभेदाभ्यां सह
सा च
व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने ।
प्रयोजनं हि व्यञ्जनव्यापारगम्यमेव ॥
तच्च गूढमगूढं वा ...
तच्चेति व्यङ्ग्यम् । गूढं यथा
{मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं
समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः ।
उरो मुकुलितस्तनं जघनमंसवन्धोद्धुरं
बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन)
अगूढं यथा
{श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् ।
उपदिशति कामिनीनां यौवनमद एव ललितानि
}
(वल्लभदेवऽस् सुभाषितावलि)
अत्रोपदिशतीति ॥
... तदेषा कथिता त्रिधा ॥ म्क्प्र्-
अव्यङ्ग्या गूढव्यङ्ग्या अगूढव्यङ्ग्या च
तद्भूर्लाक्षिणिकस् ...
शब्द इति संबध्यते । तद्भूस्तदाश्रयः ॥
... तत्र व्यापारो व्यञ्जनात्मकः ।
कुत इत्याह
यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ म्क्प्र्-
फले शब्दैकगम्ये ऽत्र व्यञ्जनान्नापरा क्रिया ।
प्रयोजनप्रतिपिपादयिषया यत्र लक्षणया शब्दप्रयोगस्तत्र नान्यतस्तत्प्रतीतिरपि तु तस्मादेव शब्दात् ।
न चात्र व्यञ्जनादृते ऽन्यो व्यापारः ॥
तथाहि
नाभिधा समयाभावात् ...
गङ्गायां घोष इत्यादौ ये पावनत्वादयो धर्मास्तटादौ प्रतीयन्ते न तत्र गङ्गादिशब्दाः संकेतिताः ॥
हेत्वभावान्न लक्षणा ॥ म्क्प्र्-
मुख्यार्थबाधादित्रयं हेतुः
तथा च
लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो ।
न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः ॥ म्क्प्र्-
यथा गङ्गाशब्दः स्रोतसि सबाध इति तटं लक्षयति तद्वत् यदि तटे ऽपि सबाधः स्यात् तत् प्रयोजनं लक्षयेत् ।
न च तटं मुख्यो ऽर्थः । नाप्यत्र बाधः । न च गङ्गाशब्दार्थस्य तटस्य पावनत्वाद्यैर्लक्षणीयैः संबन्धः । नापि प्रयोजने लक्ष्ये किञ्चित् प्रयोजनम् । नापि गङ्गाशब्दस्तटमिव प्रयोजनं प्रतिपादयितुमसमर्थः
एवमप्यनवस्था स्याद् या मूलक्षयकारिणी ।
एवमपि प्रयोजनं चेल्लक्ष्यते तत् प्रयोजनान्तरेणेति तदपि प्रयोजनान्तरेणेति प्रकृताप्रतीतिकृत् अनवस्था भवेत् ॥
ननु पावनत्वादिधर्मयुक्तमेव तटं लक्ष्यते । {गङ्गायास्तटे घोषः} इत्यतो ऽधिकस्यार्थस्य प्रतीतिश्च प्रयोजनमिति विशिष्टे लक्षणा तत्किं व्यञ्जनयेत्याह
प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥ म्क्प्र्-
कुत इत्याह
ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम् ।
प्रत्यक्षादेर्नीलादिर्विषयः फलं तु प्रक्टता संवित्तिर्वा ॥
विशिष्टे लक्षणा नैवं ...
व्याख्यातम् ॥
... विशेषाः स्युस्तु लक्षिते ॥ म्क्प्र्-
तटादौ विशेषाः पावनत्वादयस्ते चाभिधातात्पर्यलक्षणाभ्यो व्यापारान्तरेण गम्याः । तच्च व्यञ्जनध्वननद्योतनादिशब्दवाच्यमवश्यमेषितव्यम्
एवं लक्षणामूलं व्यञ्जकत्वमुक्तम् ॥ अभिधामूलं त्वाह ----
अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥ म्क्प्र्-
{संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥}
([भर्तृहरि, वाक्यपदीय 2.315-316])
इत्युक्तदिशा
सशङ्खचक्रो हरिः अशङ्खचक्रो हरिरित्युच्यते । रामलक्ष्मणाविति दाशरथौ । रामार्जुनगतिस्तयोरिति भार्गवकार्तवीर्ययोः । स्थाणुं भज भवच्छिदे, इति हरे । सर्वं जानाति देव इति युष्मदर्थे ।
कुपितो मकरध्वज इति कामे । देवस्य पुरारातेरिति शंभौ । मधुना मत्तः कोकिल इति वसन्ते । पातु वो दयितामुखमिति सांमुख्ये । भात्यत्र परमेश्वर इति राजधानीरूपात् देशाद्राजनि । चित्रभानुर्विभातीति दिने रवौ रात्रौ वह्नौ ।
मित्रं भातीति सुहृदि मित्रो भातीति रवौ । इन्द्रशत्रुरित्यादौ वेदे एव न काव्ये स्वरो विषेषप्रतीतिकृत् ।
आदिग्रहणात्
{एद्दहमेत्तत्थणिआ एद्दहमेत्तेहि अच्छिवत्तेहिं ।
एद्दहमेत्तावत्था एद्दहमेत्तेहिं दिअएहिं
}
[एतावन्मात्रस्तन्का एतावन्मात्राभ्यामक्षिपत्राभ्याम् ।
एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः ॥]
(हालऽस् गाथासप्तशती 973)
इत्यादावभिनयादयः ।
इत्थं संयोगादिभिरर्थान्तराभिधायकत्वे निवारिते ऽप्यनेकार्थस्य शब्दस्य यत् क्वचिदर्थान्तरप्रतिपादनं तत्र नाभिधा नियमनात्तस्याः । न च लक्षणा मुख्यार्थबाधाद्यभावात् । अपि त्वञ्जनं व्यञ्जनमेव व्यापारः । यथा
{भद्रात्मनो दुरधिरोहतनोर्विशाल
वंशोन्नतेःकृतशिलीमुखविग्रहस्य ।
यस्यानुपप्लुतगतेः परवारणस्य
दानाम्बुसेकसुभगः सततं करोभूत्
}
(शिवस्वामिन्ऽस् कप्फिनाभ्युदय 1.38)
तद्युक्तो व्यञ्जकः शब्दो ...
तद्युक्तो व्यञ्जनयुक्तः
... यत्सो ऽर्थान्तरयुक् तथा ।
अर्थो ऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥ म्क्प्र्-
तथेति व्यञ्जकः
मूल पाठ: Kāvyaprakāśa · Edition: Ganganatha Jha: Kāvyaprakāśa of Mammaṭa, with English translation, rev. ed., Varanasi : Bharatiya Vidya Prakaśan, 1967 (2 parts). With occasional corrections according to the ed. by N.S. Venkatanathacharya: The Kavyaprakasha of Mammata, with Sanketa of Acharya Manikyachandra, Madhumati of Ravi Bhattacharya and Bhavukapriya tippani, Mysore : Oriental Research Institute, 1974 (2 vols). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0