काव्यप्रकाश · अध्याय 5
(8)}
[वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वन्त्याः ।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥]
(हालऽस् गाथासप्तशती 876)
अत्र दत्तसंकेतः कश्चिल्लतागहनं प्रविष्ट इति व्यङ्ग्यात् सीदन्त्यङ्गानीति वाच्यं सचमत्कारम् ॥
एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् ॥ म्क्प्र्-
यथायोगमिति
{व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तदा ।
ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात् ॥}
इति ध्वनिकारोक्तदिशा वस्तुमात्रेण यत्रालङ्कारो व्यज्यते न तत्र गुणीभूतव्यङ्ग्यत्वम् ।
सालङ्कारैर्ध्वनेस्तैश्च योगः संसृष्टिसङ्करैः ।
सालङ्कारैरिति तैरेवालङ्कारैः अलङ्कारयुक्तैश्च तैः । तदुक्तं ध्वनिकृता
{स गुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः ।
संकरसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा ॥}
इति ।
अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी ॥ म्क्प्र्-
एवमनेन प्रकारेण अवान्तरभेदगणनेतिप्रभूततरा गणना । तथाहि--शृङ्गस्यैव भेदप्रभेदगणनायामानन्त्यम् । का गणना तु सर्वेषाम् ।
संकलनेन पुनरस्य ध्वनेस्त्रयो भेदाः । व्यङ्ग्यस्य त्रिरूपत्वात् । तथाहि--किञ्चिद्वाच्यतां सहते किञ्चित्त्वन्यथा । तत्र वाच्यतासहम् अविचित्रं विचित्रं चेति । अविचित्रं वस्तुमात्रं विचित्रं त्वलङ्काररूपम् ।
यद्यपि प्राधान्येन तदलङ्कार्यं तथापि ब्राह्मणश्रमणन्यायेन तथोच्यते । रसादिलक्षणस्त्वर्थः स्वप्ने ऽपि न वाच्यः । स हि रसादिशब्देन शृङ्गारादिशब्देन वाभिधीयेत । न चाभिधीयते तत्प्रयोगे ऽपि विभावाद्यप्रयोगे तस्याप्रतिपत्तेस्तदप्रयोगे ऽपि विभावादिप्रयोगे तस्य प्रतिपत्तेश्चेत्यन्वयव्यतिरेकाभ्यां विभावाद्यभिधानद्वारेणैव प्रतीयते इति निश्चीयते ।
तेनासौ व्यङ्ग्य एव । मुख्यार्थबाधाद्यभावान्न पुनर्लक्षणीयः । अर्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्ययोर्वस्तुमात्ररूपं व्यङ्ग्यं विना लक्षणैव न भवतीति प्राक् प्रतिपादितम् । शब्दशक्तिमूले तु अभिधाया नियन्त्रणेनानभिधेयस्यार्थान्तरस्य तेन सहोपमादेर[रं]लङ्कारस्य च निर्विवादं व्यङ्गत्वम् । ([रं] इस् नेएद्लेस्स्)
अर्थशक्तिमूले ऽपि विशेषे संकेतः कर्तु[ं] न युज्यते इति सामान्यरूपाणां पदार्थानामाकाङ्क्षा-संनिधि-योग्यतावशात्परस्परसंसर्गो यत्रापदार्थो ऽपि विशेषरूपो वाक्यार्थस्तत्राभिहितान्वयवादे
का वार्त्[त्]आ व्यङ्ग्यस्याभिधेयतायाम् ।
यंअप्याहुः
{शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति ।
श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया
अन्यथानुपपत्त्या तु बोधेच्छक्तिं द्वयात्मिकाम् ।
अर्थापत्त्यावबोधेत संबन्धं त्रिप्रमाणकम्
}
([कुमारिलभट्ट,श्लोकवार्तिक141])
इति प्रतिपादितदिशा देवदत्त गामानय इत्याद्युत्तमवृद्धवाक्यप्रयोगाद्देशान्तरं सास्नादिमन्तमर्थं मध्यमवृद्धे नयति सति अनेनास्माद्वाक्यादेवंविधो ऽर्थः प्रतिपन्नः इति तच्चेष्टयानुमाय तयोरखण्डवाक्यवाक्यार्थयोरर्थापत्त्या वाच्यवाचकभावलक्षणं संबन्धमवधार्य बालस्तत्र व्युत्पद्यते । परतः चैत्र गामानय देवदत्त अश्वमानय देवदत्त गां नय इत्यादिवाक्यप्रयोगे तस्य तस्य
शब्दस्य तं तमर्थमवधारयतीति अन्वयव्यतिरेकाभ्यां प्रवृत्तिनिवृत्तिकारि वाक्यमेव प्रयोगयोग्यमिति वाक्यस्थितानामेव पदानामन्वितैः पदा[र्]थैरन्वितानामेव संकेतो गृह्यते इति विशिष्टा एव पदार्था वाक्यार्थाः ।
न तु पदार्थानां वैशिष्ट्यम् ।
यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येवैतानि पदानि निश्चीयन्त इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेतगोचरः । तथापि सामान्यावच्छादितो विशेषरूप एवासौ
प्रतिपद्यते व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधानवादिनः ।
तेषामपि मते सामान्यविशेषरूपः पदार्हः संकेतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोसंकेतितत्वादवाच्य एव यत्र पदार्थः प्रतिपद्यते तत्र दूरे अर्थान्तरभूतस्य निःशेषच्युतेत्यादौ विध्यादेश्चर्चा ।
अनन्वितो ऽर्थो ऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्त्वन्विताभिधाने अन्वितविशेषस्त्ववाच्य एव इत्युभयनये ऽप्यपदार्थ एव वाक्यार्थः ।
यदप्युच्यते नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते इति ।
तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा शब्दस्य । प्रकाशकत्वान्न कारकत्वम् । ज्ञापकत्वं तु अज्ञातस्य कथम् । ज्ञातत्वञ्च संकेतेनैव स चान्वितमात्रे एवं च निमित्तस्य नियतनिमित्तत्वं
यावन्न निश्चितं तावन्नैमित्तिकस्य प्रतीतिरेव कथम् इति ऽनैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते ऽ; इत्यविचारिताभिधानम् ।
ये त्वभिदधति सो ऽयमिषोरिव दीर्घदीर्घतरो व्यापारः इति यत्परः शब्दः स शब्दार्थः इति विधिरेवात्र वाच्य इति । ते ऽप्यतात्पर्यज्ञास्तात्पर्यवाचोयुक्तेर्देवानांप्रियाः । तथाहि {भूतव्यसमुच्चारणे भूतं भव्यायोपदिश्यते} इति कारकपदार्थाः क्रियाभिसण्बन्धात् साध्यामानतां प्राप्नुवन्ति । ततश्चादग्धदहनन्यायेन यावदप्राप्तं तावद्विधीयते । यथा ऋत्विक्प्रचरणे प्रमाणान्तरात् सिद्धे
{लोहितोष्णीषा ऋत्विजः प्रचरन्ति} इत्यत्र लोहितोष्णीषत्वमात्रं विधेयं हवनस्यान्यतः सिद्धेः {दध्ना जुहोति} इत्यादौ दध्यादेः करणत्वमात्रं विधेयम् ॥
क्वचिदुभयविधिः क्वचित्त्रिविधिरपि यथा {रक्तं पटं वयः} इत्यादौ एकविधिर्द्विविधिस्त्रिविधिर्वा । ततश्च {यदेव विधेयं तत्रैव तात्पर्यम्} इत्युपात्तस्यव शब्दस्यार्थे तात्पर्य न तु प्रतीतमात्रे एवं हि {पूर्वो धावति} इत्यादावपराद्यथपि क्वचित्तात्पर्यं स्यात् ।
यत्तु {विषं भक्षय मा चान्य गृहे भुङ्क्थाः} इत्यत्र {एतद्गृहे न भोक्तव्यम्} इत्यत्र तात्पर्यमिति स एव वाक्यार्थ इति, उच्यते तत्र चकार एकवाक्यतासूचनार्थः न चाख्यातवाक्ययोर् द्वयोरङ्गाङ्गिभाव इति विषभक्षणवाक्यस्य सुहृद्वाक्यत्वेनाङ्गता कल्पनीयेति {विषभक्षणादपि दुष्टमेतद्गृहे भोजनमिति सर्वथा मास्य गृहे भुङ्क्थाः} इति, उपात्तशब्दार्थे एव तात्पर्यम् ।
यदि शब्दश्रुतेरन्तरं यावानर्थो लभ्यते तावति शब्दस्याभिधैव व्यापारः ततः कथं ऽब्राह्मण पुत्रस्ते जातः ब्राह्मण कन्या ते गर्भिणीऽ; इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम् । कस्माच्च लक्षणा लक्षणीये ऽप्यर्थे दीर्घदीर्घतराभिधाव्यआपारेणैव प्रतीतिसिद्धेः । किमिति च श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वपूर्वबलीयस्त्वम् इत्यन्विताभिधानवादे ऽपि विधेरपि सिद्धं व्यङ्ग्यत्वम् ॥
किं च {कुरु रुचिम्} इति पदयोर्वैपरीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम् । न ह्मत्रासभ्यो ऽर्थः पदार्थान्तरैरन्वितः इत्यनभिधेय एवेति एवमादि अपरित्याज्यं स्यात् ।
यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्ग्यव्यञ्जकभावो नाभ्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं कष्टत्वादीनामनित्यदोषत्वमिति
विभागकरणमनुपपन्नं स्यात् । न चानुपपन्नं सर्वस्यैव विभक्ततया प्रतिभासात् । वाच्यवाचकभावव्यतिरेकेण व्यङ्ग्यव्यञ्जकताश्रयणे तु व्यङ्ग्यस्य बहुविधत्वात् क्वचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था ॥
{द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।}
इत्यादौ पिनाक्यादिपदवैलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम् ।
अपि च वाच्यो ऽर्थः सर्वान् प्रतिपत्तॄन् प्रति एकरूप एवेति नियतो ऽसौ । न हि {गतोस्तमर्कः} इत्यादौ वाच्यो ऽर्थः क्वचिदन्यथा भवति । प्रतीयमानस्तु तत्तत्प्रकरणवक्तृप्रतिपत्त्रादिविशेषसहायतया नानात्वं
भजते । तथा च {गतो ऽस्तमर्कः} इत्यतः सपत्नं प्रत्यवस्कन्दनावसर इति अभिसरणमुपक्रम्यतामिति प्राप्तप्रायस्ते प्रेयानिति कर्मकरणान्निवर्तामह इति सांध्यो विधिरुपक्रम्यतामिति दूरं मा गा इति सुरभयो गृहं प्रवेश्यन्तामिति संतापोधुना न भवतीति विक्रेयवस्तूनि संह्रियन्तामिति नागतोद्यापि प्रेयानित्यादिरनवधिर्व्यङ्ग्यो ऽर्थः तत्र तत्र प्रतिभाति ।
वाच्तव्तञ्ज्ययोः निःशेषेत्यादौ निषेधविध्यात्मना
{मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु ।
सेव्यानितम्बाः किमुभूधराणामुतस्मरस्मेरविलासिनीनाम्
}
(भर्तृहरिऽस् शृङ्गारशतक 36)
इत्यादौ संशयशान्तशृङ्गार्यन्तरगतनिश्चयरूपेण,
{कथमवनिप दर्पो यन्निशातासिधारा-
दलनगलितमूर्ध्ना विद्विषां स्वीकृता श्रीः ।
ननु तव निहतारेरप्यसौ किं न नीता
त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य ।
पूर्वपश्चाद्भावेन प्रतीतेः कालस्य शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णघटनाश्रयत्वेन च आश्रयस्य शब्दानुशासबज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य बोद्धृमात्रविदग्धव्यपदेशयोः प्रतीतिमात्रचमत्कृत्योश्च करणात् कार्यस्य "गतो ऽस्तमर्कः" इत्यादौ प्रदर्शितनयेन संख्यायाः
{कस्स व ण हो-इ रोसो दट्ठूण पि-आ-इ सव्वणं अहरं ।
सभमरपडमग्धा-इणि वारि-अवामे सहसु एण्हिं
}
[कस्य वा न भवति रोषो दृष्ट्वा प्रियाया सव्रणमषरम् ।
सभ्रमरपद्माघ्रायिणि वारितवासे सहस्वेदानीम् ॥]
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन)
इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदे ऽपि यद्येकत्वम् तत् क्वचिदपि नीलपीतादौ भेदो न स्यात् ।
उक्तं हि {अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्च} इति ।
([ज्ञानश्रीमित्रनिबन्धावलौ,क्षणभङ्गाध्यायः])
वाचकानामर्थापेक्षा व्यञ्जकानां तु न तदपेक्षत्वमिति न वाचकत्वमेव व्यञ्जकत्वम् । किं च {वाणीरकुडङ्गु} -- इत्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्यं स्वरूप एव यत्र विश्राम्यति तत्र
गुणीभूतव्यङ्ग्येतात्पर्य्भूतो ऽप्यर्थः स्वशब्दानभिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयतामवलम्बतामिति ।
ननु {रामो ऽस्मि सर्वं सहे} इति {रामेण प्रियजीवितेन तु कृतं
प्रेम्णः प्रिये नोचितम्} इति {रामो ऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्} इत्यादौ लक्षणीयो ऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्च भवति । तदवगमश्च शब्दार्थायत्तः
प्रकरणादिसव्यपेक्षश्च इति को ऽयं नूतनः प्रतीयमानो नाम ।
उच्यते ---- लक्षणीयस्यार्थस्य नानात्वे ऽपि अनेकार्थशब्दाभिधेयवन्नियतत्वमेव । न खलु मुख्येनार्थेनानियतसंबन्धो लक्षयितुं शक्यते । प्रतीयमानस्तु प्रकरणादिविशेषवशेन नियत संबन्धः अनियतसंबन्धः संबद्धसंबन्धश्च द्योत्यते ।
न च
{अत्ता एत्थ णिमज्ज-इ एत्थ अहं दि-अह-ए पलो-एहि ।
मा पहि-अ रत्ति-अन्ध-अ सेज्जा-ए मह णिमज्जहिसि
}
[श्वश्रूतत्र निमज्जति अत्राहं दिवसके प्रलोकय ।
मा पथिक रात्र्यन्धक शय्यायामावयोर्निमङ्क्ष्यसि ॥]
(हालऽस् गाथासप्तशती 7.67)
इत्यादु विवक्षितान्यपरवाच्ये ध्वनौ मुख्यार्थबाधः । तत्कथमत्र लक्षणा । लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यमिति प्रतिपादितम् ।
यथा च समयसव्यपेक्षा अभिधा तथा मुख्यार्थबाधादित्रयसमयविशेषसव्यपेक्षा लक्षणा । अत एवाभिधापुच्छभूता सेत्याहुः ।
न च लक्षणात्मकमेव ध्वननं तदनुगमेन तस्य दर्शनात् । न च तदनुगतमेव अभिधावलम्बनेनापि तस्य भावात् । न चोभयानुसार्येव अवाचकवर्णानुसारेणापि तस्य दृष्टेः । न च शब्दानुसार्येव अशब्दात्मकनेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य प्रसिद्धेः इति अभिधातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती ध्वननादिपर्यायो व्यापारोनपह्नवनीय एव ॥
तत्र {अत्ता एत्थ} इत्यादौ नियतसंबन्धः {कस्य व ण हो-इ रोसो} इत्यादौ, अनियतसंबन्धः ।
{विपरी-अर-ए लच्छी बम्हं दटठूण णाहिकमलट्ठं ।
हरिणो दाहिणण-अणं रसा-उला झत्ति ढक्के-इ
}
[विपरीतरते लक्ष्मीर्व्रह्माणं दृष्ट्वा नाभिकमलस्थम् ।
हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति ॥]
(हालऽस् गाथासप्तशती 816)
इत्यादौ संबद्धसंबन्धः । अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मकता व्यज्यते . तन्निमीलनेन सूर्यास्तमयः । तेन पद्मस्य संकोचः । ततो ब्रह्मणः स्थगनम् । तत्र सति गो ऽप्याङ्गस्यादर्शनेन अनिर्यन्त्रणं निधुवनविलसितमिति ।
{अखण्डबुद्धिनिर्ग्राह्यो वाक्यार्थ एव वाच्यः वाक्यमेव च वाचकम्} ॥
([बृहद्देवी])
इति ये ऽप्याहुः तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति तत्पक्षे ऽप्यवश्यमुक्तोदाहरणादौ विध्यादिर्व्यङ्ग्य एव ।
ननु वाच्यादसंबद्धं तावन्न प्रतीयते यतः कुतश्चित् यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात् । एवं च संबन्धात् व्यङ्ग्यव्यञ्जकभावोप्रतिबन्धेवश्यं न भवतीति व्याप्तत्वेन नियतधर्मिनिष्ठत्वेन च त्रिरूपाल्लिङ्गाल्लिङ्गिज्ञानमनुमानं यत् तद्रूपः पर्यवस्यति । तथाहि----
{भम धम्मि-अ वीसद्धो सो सुण-ओ अज्ज मारि-ओ तेण ।
गोलाण-इकच्छकुडङ्गवासिणा दरि-असीहेण
}
[भ्रम धार्मिक विश्रब्धः स शूनको ऽद्य मारितस्तेन ।
गोदानदीकच्छकुञ्जवासिना दृप्तसिंहेन ॥]
(हालऽस् गाथासप्तशती 175(2.75))
अत्र गृहे श्वनिवृत्त्या भ्रमणं विहितं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति । यत् यत भीरुभ्रमणं तत्तद्भयकारणनिवृत्त्युपलब्धिपूर्वकं गोदावरीतीरे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धिः ।
अत्रोच्यते ---- भीरुरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण अन्येन चैवंभूतेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिको हेतुःशुनो बिभ्यदपि बीरत्वेन सिंहान्न बिभेतीति विरुद्धो ऽपि गोदावरीतीरे
सिंहसद्भावः प्रत्यक्षादनुमानाद्वा न निश्चितः । अपि तु वचनात् । न च वचनस्य प्रामाण्यमस्ति ।
अर्थेनाप्रतिबन्धादित्यअसिद्धश्च तत्कथमेवंविधाद्धेयोः साध्यसिद्धिः ।
तथा {निःशेषच्युत- } इत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतो ऽपि भवन्ति । अतश्चात्रैव स्नानकार्यत्वेनोक्तानीति नोपभोगे एव प्रतिबद्धानीत्यनैकान्तिकानि ।
व्यक्तिवादिना चाधमपदसहायानामेषां व्यञ्जकत्वमुक्तम् । न चात्राधमत्वं प्रमाणप्रतिपन्नमिति कथमनुमानम् । एवंविधादर्थादेवंविधो ऽर्थ उपपत्त्यनपेक्षत्वे ऽपि प्रकाशते इति व्यक्तिवादिनः पुनस्तत् अदूषणम् ॥
इति काव्यप्रकाशे ध्वनिगुणीभूतव्यङ्ग्यसंकीर्णभेदनिर्णयो नाम पञ्चम उल्लासः
=============================================================
अथ षष्ठ उल्लासः
शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् ।
गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः ॥ म्क्प्र्-
न तु शब्दचित्रे अर्थस्याचित्रत्वमर्थचित्रे वा शब्दस्य । तथा चोक्तम्
{रूपकादिरलङ्कारस्तस्यान्यैर्बहुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनिताननम् ॥
रूपकादिमलङ्कारं बाह्यमाचक्षते परे ।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिम् ॥
तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ।
शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः ॥}
इति ॥
शब्दचित्रं यथा
{प्रथममरुणच्छायस्तावत्ततः कनकप्रभ-
स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः
}
([भवभूति,मालिनीमाधव)
अर्थचित्रं यथा
{ते दृष्टिमात्रपतिता अपि कस्य नात्र
क्षोभाय पक्ष्मलदृशामलकाः खलाश्च ।
नीचाः सदैव सविलासमलीकलग्ना
ये कालतां कुटिलतामिव न त्यजन्ति
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
यद्यपि सर्वत्र काव्येन्ततः विभावादिरूपतयैव पर्यवसानं तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यद्वयमुक्तम् । अत्र च शब्दार्थालङ्कारभेदाद्बहवो भेदाः ते चालङ्कारनिर्णये निर्णेष्यन्ते ॥
इति काव्यप्रकाशे शब्दार्थचित्रनिरूपणं नाम षष्ठ उल्लासः
=============================================================
अथ सप्तम उल्लासः
काव्यस्वरूपं निरूप्य दोषाणां सामान्यलक्षणमाह
मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः ।
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ म्क्प्र्-
हतिरपकर्षः । शब्दाद्याः इत्याद्यग्रहणाद्वर्णरचने ।
विशेषलक्षणमाह
दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् ।
निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाश्लीलम् ॥ म्क्प्र्-
सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् ।
अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥ म्क्प्र्-
(1) {श्रुतिकटु} परुषवर्णरूपं दुष्टम् । यथा
{अनङ्गमन्गलगृहापाङ्गभङ्गितरङ्गितैः ।
आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा)
अत्र कार्तार्थ्यमिति ॥
(2) {च्युतसंस्कृति} व्याकरणलक्षणहीनम्
यथा
{एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर-
प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लभ्यते ।
तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना-
दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रानुनाथते इति । {सर्पिषो नाथते} इत्यादावाशिष्येव नाथतेरात्मनेपदं विहितम् । {आशिषि नाथः} इति ।
अत्र तु याचनमर्थः । तस्मात् {अनुनाथति स्तनयुगम्} इति पठनीयम् ।
(3) {अप्रयुक्तं} तथा आम्नातमपि कविभिर्नादृतम् । यथा
{यथायं दारुणाचारः सर्वदैव विभाव्यते ।
तथा मन्ये दैवतो ऽस्य पिशाचो राक्षसो ऽथ वा
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र दैवतशब्दो {दैवतानि पुंसि वा} इति पुंस्याम्नातो ऽपि न केनचित्प्रयुज्यते ॥
(4) {असमर्थं} यत्तदर्थं पठ्यते न च तत्रास्य शक्तिः । यथा
{तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः ।
सुरस्रोतस्विनीमेष हन्ति संप्रति सादरम्
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
अत्र हन्तीति गमनार्थम् ॥
(5) {निहतार्थं} यदुभयार्थमप्रसिद्धे ऽर्थे प्रयुक्तम् । यथा
{यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन ।
मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 77)
अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोज्ज्वलीकृतत्वरूपो ऽर्थो व्यवधीयते ॥
(6) {अनुचितार्थं} यथा
{तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्त्रिभिरिष्यते च या ।
प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधेपशुतामुपागताः
}
(महिमभट्टऽस् व्यक्तिविवेक)
अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम् ॥
(7) {निरर्थकं} पादपूरणमात्रप्रयोजनं चादिपदम् । यथा
{उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि ।
अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन
}
(हर्षऽस् नागानन्द 1.14)
अत्र हिशब्दः ॥
(8) {अवाचकं} यथा
{अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः
}
(भारविऽस् किरातार्जुनीय 1.33)
अत्र जन्तुपदमदातर्यर्थे विवक्षितं तत्र च नाभिधायकम् । यथा वा
{हाधिक सा किल तामसी शशिमुखी दृष्टा मया यत्र सा
तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम् ।
किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं
तादृग्यामवतीमयो भवति मे नो जीवलोकोधुना
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र दिनमिति प्रकाशमयमित्यर्थे वाचकम् ।
यच्चोपसर्गसंसर्गादर्थान्तरगतम्
यथा
{जङ्घाकाण्डोरुनालो नखकिरणलसत्जेसरालीकरालः
प्रत्यग्रालक्तकाभाप्रसरकिसकयो मञ्जुमञ्जीरभृङ्ग ।
भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी-
संभूताम्भोजशोभां विदधदभिबवो दण्डपादो भवान्याः
}
(महिमभट्टऽस् व्यक्तिविवेक)
अत्र दधदित्यर्थे विदधदिति ॥
(9) {अश्लीलम्} त्रैधेति व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात् । यथा
{साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः को ऽन्यः सहतारालितां भ्रुवम्
(1)}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा)
{लीलातामरसाहतो ऽन्यवनितानिःशङ्कदष्टाधरः
कश्च्वित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तत्र सा
भ्रान्त्या धूर्ततयाथ वानतिमृतेतेनानिशञ्चुम्बिता
(2)}
([अमरुशतक 72(ओर् 70),ओर् 88)])
{मृदुपवनविभिन्नो मत्प्त्रियाया विनाशाद्
घनरुचिरकलापो निःसपत्नो ऽद्य जातः ।
रतिविगलितबन्धे केशपाशे सुकेश्याः
सति कुसुमसनाथे कं हरेदेष बर्ही
(3)}
(कालिदासऽस् विक्रमोर्वशीय 4.22)
एषु साधनवायुविनाशशब्दाः व्रीडादिव्यञ्जकाः ॥
(10) {संदिग्धं} यथा
{आलिङ्गितस्तत्रभवान् संपराये जयश्रिया ।
आशीःपरंपरां वन्द्यां कर्णे कृत्वा कृपां कुरु
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा)
अत्र वन्द्यां किं हठहृतमहिलायां किं वा नमस्यामिति संदेहः ॥
(11) {अप्रतीतं} यत्केवले शास्त्रे प्रसिद्धम् । यथा
{सम्यग्ज्ञानमहाज्योतिर्दलिताशयताजुषः ।
विधीयमानमप्येतन्न भवेत्कर्मबन्धनम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
(12) {ग्राम्यं} यत्केवले लोके स्थितम् । यथा
{राकाविभावरीकान्तसंक्रान्तद्युति ते मुखम् ।
तपनीयशिलाशोभा कटिश्च हरते मनः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 86)
अत्र कटिरिति ॥
(13) {नेयार्थम्}
{निरूढा लक्षणाः काश्चित् सामर्थ्यात् अभिधानवत् ।
क्रियन्ते सांप्रतं काश्चित् काश्चिन्नैव त्वशक्तितः ॥}
(कुमारिल,तन्त्रवार्तिकपूर्व 700)
इति
यन्निषिद्धं लाक्षणिकम् । यथा
{शरत्कालसमुल्लासिपूर्णिमाशर्वरीप्रियम् ।
करोति ते मुखं तन्वि चपेटापातनातिथिम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र चपेटापातनेन निर्जितत्वं लक्ष्यते ।
अथ समासगतमेव दुष्टमिति संबन्धः, अन्यत् केवलं समासगतं च ॥
(14) {क्लिष्टं} यतः अर्थप्रतिपत्तिर्व्यवहिता । यथा
{अत्रिलोचनसंभूतज्योतिरुद्गमभासिभिः ।
सदृशं शोभतेत्यर्थं भूपाल तव चेष्टितम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रात्रिलोचनसंभूतस्य चन्द्रस्य ज्योतिरुद्गमेन भासिभिः कुमुदैरित्यर्थः ॥
(15) {अविमृष्टविधेयांशम्} अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत् । यथा
{मूर्द्ध्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा-
धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् ।
कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां
दोष्णां चैषां किमेतत् फलमिह नगरीरक्षणे यत् प्रयासः
}
(हर्षऽस् नागानन्द 8)
अत्र मिथ्यामहिमत्वं नानुवाद्यम् अपि तु विधेयम् । यथा वा
{स्रस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरदामकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य
}
(कालिदासऽस् कुमारसंभव 3.55)
अत्र द्वितीयत्वमात्रमुत्प्रेक्ष्यम् । मौर्वीं द्वितीयामिति युक्तः पाठः । यथा वा
{वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने
}
(कालिदासऽस् कुमारसंभव 5.12)
अत्र {अलक्षिता जनिः} इति वाच्यम् । यथा वा
{आनन्दसिन्धुरतिचापलशालिचित्त-
संदाननैकसदनं क्षणमप्यमुक्ता ।
या सर्वदैव भवता तदुदन्तचिन्ता
तान्तिं तनोति तव संप्रति धिग्धिगस्मान्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र {न मुक्ता} इति संनद्धो ऽयं विधेयः । यथा
{नवजलधरः संनद्धो ऽयं न दृप्तनिशाचरः
सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरंपरा
कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी
}
(कालिदासऽस् विक्रमोर्वशीय 4.7)
इत्यत्र । न त्वमुक्ततानुवादेनान्यदत्र किञ्चिद्विहितम् । यथा
{जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सो ऽर्थानसक्तः सुखमन्वभूत्
}
(कालिदासऽस् रघुवंश 1.21)
इत्यत्र अत्रस्तत्वाद्यनुवादेनात्मनो गोपनादि ॥
(16) {विरुद्धमतिकृत्} यथा
{सुधाकरकराकारविशारदविचेष्टितः ।
अकार्यमित्रमेको ऽसौ तस्य किं वर्णयामहे
}
(शार्ङ्गधरपद्धति)
अत्र {कार्यं विना मित्रम्} इति विवक्षितम् {अकार्ये मित्रम् इति} तु प्रतीतिः । यथा वा
{चिरकालपरिप्राप्तलोचनानन्ददायिनः ।
कान्ता कान्तस्य सहसा विदधाति गलग्रहम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र {कण्ठग्रहम्} इति वाच्यम् । यथा वा
{न त्रस्तं यदि नाम भूतकरुणासंतानशान्तात्मनः
तेन व्यारुजता धनुर्भगवतो देवाद्भवानीपतेः ।
तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सवः
स्कन्दः स्कन्द इव प्रियो ऽहमथ वा शिष्यः कथं विस्मृतः
}
(भवभ्तूतिऽस् महावीरचरित 2.28)
अत्र भवानीपतिसब्दो भवान्याः पत्यन्तरे प्रतीतिं करोति । यथा वा
{गोरपि यद्वाहनतां प्राप्तवतः सो ऽपि गिरिसुतासिंहः ।
सविधे निरहङ्कारः पायाद्वः सो ऽम्बिकारमणः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्राम्बिकारमण इति विरुद्धां धियमुत्पादयति ॥
{श्रुतिकटु} ससासगतं यथा
{सा दूरे च सुधासान्द्रतरङ्गितविलोचना ।
बहिर्निर्ह्रादनार्हो ऽयं कालश्च समुपागतः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 93)
एवमन्यदपि ज्ञेयम् ॥
अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् ।
वाक्ये ऽपि दोषाः सन्त्येते पदस्यांशे ऽपि केचन ॥ म्क्प्र्-
केचन न पुनः सर्वे । क्रमेणोदाहरणम्
[(1) श्रुतिकटु]
{सो ऽध्यौष्ट वेदांस्त्रिदशानयष्ट पितृनतार्प्सीत्सममंस्त बन्धून् ।
व्यजेष्ट षडवर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्च
}
(भट्टिकाव्य 1.2)
[(2) अप्रयुक्तम्)]
{स रातु वो दुश्च्यवनो भावुकानां परंपराम् ।
अनेडमूकताद्यैश्च द्यतु दोषैरसंमतान्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र दुश्च्यवन इन्द्रः अनेडमूको मूकबधिरः ॥
[(3) निहत-अर्थम्]
{सायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः ।
अब्जरुचिभास्वरस्ते भातितरामवनिप श्लोकः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र सायकादयः शब्दः खड्गाब्धिभूचन्द्रयशःपर्यायाः शराद्यर्थतया प्रसिद्धः ॥
[(4) अनुचित-अर्थम्]
{कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो
यशो गायन्त्येते दिशि दिशि च नग्नास्तव विभो ।
शरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा
तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र कुविन्दादिशब्दो ऽर्थान्तरं प्रतिपादयन्नुपश्लोक्यमानस्य तिरस्कारं व्यनक्तीत्यनुचितार्थः ।
[(5) निरर्थकम्]
{प्राभ्रभ्राड्विष्णुधामाप्य विषमाश्वः करोत्ययम् ।
निद्रां सहस्रपर्णानां पलायनपरायणाम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र प्राभ्रभ्राड्विष्णुधामच्विषमाश्वनिद्रापर्णशब्दाः प्रकुष्टजलदगगनसप्ताश्वसंकोचदलानामवाचकाः ॥
[(6) अश्लीलम्, व्रीड]
{भूपतेरुपसर्पन्ती कम्पना वामलोचना ।
तत्तत्प्रहरणोत्साहवती मोहनमादधौ
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रोपसर्पणप्रहरणमोहनशब्दा व्रीडादायित्वादश्लीलाः ।
[जुगुप्सा]
{तेन्यैर्वान्तं समश्नन्ति परोत्सर्गं च भुञ्जते ।
इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः ।
[अमङ्गल]
{पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे ।
भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम्
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 83)
अत्र पितृगृहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम् ।
[(7) संदिग्धम्]
{सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः ।
मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः किं मदिराद्यर्थाः इति संदेहः ॥
[(8) अप्रतीतम्]
{तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः ।
दृढभूमिः प्रियप्राप्तौ यत्नः स फलितः सखे
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्राधिमात्रोपायादयः शब्दा योगशास्त्रमात्रप्रयुक्तत्वादप्रतीताः ॥
[(9)वुल्गर् (ग्राम्यम्)]
{ताम्बूलभृतगल्लोयं भल्लं जल्पति मानुषः ।
करोति खादनं पादं सदैव तु यथा तथा
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र गल्लादयः शब्दाः ग्राम्याः ॥
[(10) नेयार्थम्]
{वस्त्रवैदूर्यचरणैः क्षतसत्त्वरजःपरा ।
निष्कम्पा रचिता नेत्रयुद्धं वेदय सांप्रतम्
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 37)
अत्राम्बररत्नपादैः क्षततमा अचला भूः कृता नेत्रद्वन्द्वं बोधयेति नेयार्थता ॥
[(11) क्लिष्टम्]
{धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 2,1.22)
अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धे क्लिष्टत्वम् ॥
[(12) अविमृष्टविधेयांशम्]
{न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गगामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः
}
(हर्षऽस् नागानन्द 9.55 ; अभिनवगुप्तऽस् ध्वन्यालोकलोचन)
अत्र ऽअयमेव न्यक्कारःऽ; इति वाच्यम् । उच्छूनत्वमात्रं चानुवाद्यम्, न वृथात्वविशेषितम् । अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो न वाक्यार्थस्य । यथा वा
{अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोररालान्तविलासि वेल्लितम् ।
विसारि रोमाञ्चनकञ्चुकं तनोस्तनोति यो ऽसौ सुभगे तवागतः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र यो ऽसाविति पदद्वयमनुवाद्यमात्रप्रतीतिकृत् ।
तथाहि ---- प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते । क्रमेणोदाहरणम् ।
{कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः
}
(कालिदासऽस् रघुवंश 17.47)
{द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥186[=252]॥}
(कालिदासऽस् कुमारसंभव 5.71)
{उत्कम्पिनी भयपरिस्खलितांशुकान्ता
ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा
धूमान्धितेन दहनेन न वीक्षितासि
}
(हर्षऽस् रत्नावलि ; आनन्दवर्दनऽस् ध्वन्यालोक)
यच्छब्दस्तूत्तरवाक्यानुगतत्वेनोपात्तः सामर्थ्यात्पूर्ववाक्यानुगतस्य तच्छब्दस्योपादानं नापेक्षते । यथा
{साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके ।
उद्यता जयनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः
}
(अभिनन्दऽस् रामचरित 2.95)
प्रागुपात्तस्तु यच्छब्दस्तच्छब्दोपादानं विना साकाङ्क्षः । यथा अत्रैव श्लोके आद्यपादयोर्व्यत्यासे । द्वयोरुपादाने तु निराकाङ्क्षत्वं प्रसिद्धम् । अनुपादाने ऽपि सामर्थ्यात्कुत्रचिद्द्वयमपि गम्यते । यथा
{ये नाम केचिदिह नः प्रथयन्त्यवज्ञां
जानन्ति ते किमपि तान् प्रति नैष यत्नः ।
उत्पत्स्यतेस्ति मम को ऽपि समानधर्मा
कालो ह्ययं निरवधिर्विपुला च पृथ्वी
}
(भवभूतिऽस् मालतीमाधव 1.7)
अत्र य उत्पत्स्यते तं प्रतीति । एवं च तच्छब्दानुपादाने ऽत्र साकाङ्क्षत्वम् । न चासाविति
तच्छब्दार्थमाह ।
{असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः ।
वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः
}
(हर्षऽस् नागानन्द 6.4)
अत्र हि न तच्छब्दार्थप्रतीतिः ।
प्रतीतौ वा
{करबालकरालदोः सहायो युधि योसौ विजयार्जुनैकमल्लः ।
यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र स इत्यस्यानर्थक्यं स्यात् ।
अथ
{योविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः ।
आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम्
}
(महिमभट्टऽस् व्यक्तिविवेक)
इतीदंशब्दवददःशब्दस्तच्छब्दार्थमभिधत्ते इति उच्यते । तर्ह्यत्रैव वाक्यान्तरे उपादानमर्हति न तत्रैव । यच्छब्दस्य हि निकटे स्थितः प्रसिद्धिं परामृशति । यथा
{यत्तदूर्जितमत्युग्रं क्षात्रं तेजोस्य भूपतेः ।
दीव्यताक्षैस्तदानेन नूनं तदपिं हारितम्
}
(भट्टनारायणऽस् वेणीसंहार 1.13)
इत्यत्र तच्छब्दः ।
ननु कथम्
{कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते
धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद ।
यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे
भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय
}
(भवभूतिऽस् मालतीमाधव 1.4)
अत्र यद्यदित्युक्त्वा तन्मे इत्युक्तम् । उच्यते ---- यद्यदिति येन केनचिद्रूपेण स्थितं सर्वात्मकं वस्त्वाक्षिप्तं तथाभूतमेव तच्छब्देन परामृश्यते ।
यथा वा
{किं लोभेब विलङ्घितः स भरतो येनतदेवं कृतं
मात्रा स्त्रीलघुतां गता किमथ वा मातैव मध्यमा ।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोसौ गुरु-
र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतं
}
(धनञ्जयऽस् दशरूपक 3.29 ; भवभूतिऽस् उत्तररामचरित)
अत्रार्यस्येति तातस्येति च वाच्यम् । न त्वनयोः समासे गुणीभावः कार्यः । एवं समासान्तरे ऽप्युदाहार्यम् ॥
विरुद्धमतिकृद्यथा
[(13) विरुद्धमतिकृत्)]
{श्रितक्षमा रक्तभुवः शिवालिङ्गितमूर्तयः ।
विग्रहक्षपणेनाद्य शेरते ते गतासुखाः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 97)
अत्र क्षमादिगुणयुक्ताः सुखमासते इति विवक्षिते हता इति विरुद्धा प्रतीतिः ॥
पदैकदेशे यथासंभवं क्रमेणोदाहरणम्
[(1) श्रुतिकटु]
{अलमतिचपलत्वात्स्वप्नमायोपमत्वात्
परिणतिविरसत्वात्संगमेनाङ्गनायाः ।
इति यदि शतकृत्वस्तत्त्वमालोचयाम-
स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा
}
(बिल्हणचरित[ओर् बिल्हणकाव्य] 58)
अत्र त्वादिति । यथा वा
{तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थो ऽयमर्थान्तरलभ्य एव ।
अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजाङ्कुरः प्रागुदयादिवाम्भः
}
(कालिदासऽस् कुमारसंभव 3.18)
अत्र द्ध्यै व्ध्यै, इति कटु ॥
[(2)]
{यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति ।
बलाहकच्छेदविभक्तरागाम्कालसंध्यामिव धातुमत्ताम्
}
(कालिदासऽस् कुमारसंभव 1.4)
अत्र मत्ताशब्दः क्षीबार्थे निहतार्थः ॥
[(3)]
{आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिल्लोल्लासित-
प्रोत्सर्पद्धिरहानलेन च ततः संतापितानां दृशाम् ।
संप्रत्येव निषेकमश्रुपयसा देवस्य चेत्तोभुवो
भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र दृशामिति बहुवचनं निरर्थकम् कुरङ्गेक्षणाया एकस्या एवोपादानात् । न चालसवलितैरित्यादिवत् व्यापारभेदाद्बहुत्वम् व्यापाराणामनुपात्तत्वात् । न च व्यापारेत्र दृक्शब्दो वर्तते । अत्रैव ऽकुरुते ऽ; इत्यात्मनेपदमप्यनर्थकम् । प्रधानक्रियाफलस्य कर्त्रसंबन्धे कर्त्रभिप्रायक्रियाफलाभावात् ॥
[(4)]
{चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः ।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः
}
(राजशेखरऽस् बालरामायण 2.37)
अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थवाचकः ॥
[(5)]
{अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठः ।
परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा)
अत्र पेलवशब्दः ॥
{यः पूयते सुरसरिन्मुखतीर्थसार्थ-
स्नानेन शास्त्रपरिशीलनकीलनेन ।
सौजन्त्यमान्यजनिरूर्जितमूर्जितानां
यो ऽयं दृशोः पतति कस्यचिदेव पुंसः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र पूयशब्दः ॥
{विनयप्रणऐककेतनं सततं योभवदङ्ग तादृशः ।
कथमद्य स तद्वदीक्ष्यतआं तदभिप्रेतपदं समागतः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 104)
अथ प्रेतशब्दः ॥
[(6)]
{कस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् ।
अयं साध्य्चरस्तस्मादञ्जलिर्बध्यतामिह
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा)
अत्र किं पूर्वं साधुः उत साधुषु चरतीति संदेहः ॥
[(7)]
{किमुच्यते ऽस्य भूपालमौलिमालामहामणेः ।
सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र वचःशब्देन गीःशब्दो लक्ष्यते । अत्र खलु न केवलं पूर्वपदम् यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते । जलध्यादावुत्तरपदमेव वडवानलादौ पूर्वपदमेव ॥
यद्यप्यसमर्थस्यैवाप्रयुक्तादयः केचन भेदाः तथाप्यन्यैरालङ्कारिकैर्विभागेन प्रदर्शिता इति भेदप्रदर्शनेनोदाहर्तव्या इति च विभज्योक्ताः
[वाक्यदोष]
प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् ।
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥ म्क्प्र्-
अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् ।
अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिहतम् ॥ म्क्प्र्-
भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा ।
(1) रसानुगुणत्वं वर्णानां वक्ष्यते । तद्विपरीतं प्रतिकूलवर्णम् । यथा शृङ्गारे
{अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् ।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 107,325)
रौद्रे यथा
{देशः सो ऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः
क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः ।
तान्येवाहितहेतिघस्मरगुरूण्यस्त्राणि भास्वन्ति मे
यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः
}
(भट्टनारायणऽस् वेणीसंहार 3.33)
अत्र हि विकटवर्णत्वं दीर्घसमासत्वं चोचितम् । यथा
{प्राग्प्राप्तनिशुम्भशांभवधनुर्द्वेधाविधाविर्भवत्-
क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्स्.अणात् ।
उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि-
र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते
}
(भवभ्तूतिऽस् महावीरचरित 2.33)
यत्र तु न क्रोधस्तत्र चतुर्थपादाभिधाने तथैव शब्दप्रयोगः ॥
(2) उपहत उत्वं प्राप्तो (3) लुप्तो वा विसर्गो यत्र तत् । यथा
{धीरो विनीतो निपुणो वराकारो नृपो ऽत्र सः ।
यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
(4) विसंधि संधेर्वैरूप्यम् विश्लेषोश्लीलत्वं कष्टत्वं च । तत्राद्यं यह्ता
{राजन्विभान्ति भवतश्चरितानि तानि
इन्दोर्द्युतिं दधति यानि रसातलेन्तः ।
धीदोर्बले अतितते उचितानुवृत्ती
आतन्वती विजयसंपदमेत्य भातः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 109)
यथा वा
{तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः ।
निजवंश उदात्तकान्तकान्तिर्बत मुक्तामणिवच्चकास्त्यनर्घः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
संहितां न करोमीति स्वच्छया सकृदपि दोषः प्रगृह्यादिहेतुकत्वे त्वसकृत् ॥
{वेगादुड्डीय गगने चलण्डामरचेष्टितः ।
अयमुत्तपते पस्त्री ततो ऽत्रैव रुचिङ्कुरु
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र संधावश्लीलता ॥
{उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः ।
मात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक्
}
(रुद्रटऽस् काव्यालङ्कार 2.10)
(5) हतं लक्षणानुसरणे ऽप्यश्रव्यम् । अप्राप्तगुरुभावान्तलघु रसाननुगुणं च वृत्तं यत्र तत् हतवृत्तम् । क्रमेणोदाहरणम् ----
{अमृतममृतं कः संदेहो मधून्यपि नान्यथा
मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो
वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात्
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 3,2.10)
अत्र ऽयदिहान्यत्स्वादु स्यात्ऽ; इत्यश्रव्यम् । यथा वा
{जं परिहरि_उं तीर_इ मण_अंपि ण सुन्दरत्तणगुणेण ।
अह णवरं जस्स दोसो पडिपक्खेहिं पि पडिवण्णो
}
[यत् परिहर्तुं तीर्यते मनागपि न सुन्दरत्वगुणेन ।
अथ केवलं यस्य दोषः प्रतिपक्षैरपि प्रतिपन्नः ॥]
(आनन्दवर्धनऽस् विषमबाणलीला ; हालऽस् गाथासप्तशती)
अत्र द्वितीयततीयगणौ सकारभकारौ ।
{विकसितसहकारतारहारिपरिमलगुञ्जितपुञ्जितद्विरेफः ।
नवकिसलयचारुचामरश्रीहरति मुनेरपि मानसं वसन्तः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र हारिशब्दः । हारिप्रमुदितसौरभेति पाठो युक्तः । यथा वा
{अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा
संभाराः खलु तेन्य एव विधिना यैरेष सृष्टो युवा ।
श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां नितम्बस्थलात्
दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र ऽवस्त्राण्यपिऽ; इति पाठे लघुरपि गुरुतां भजते ॥
{हा नृप हा बुध हा कविबन्धो विप्रसहस्रसमाश्रय देव ।
मुग्धविदग्धसभान्तररत्न क्वासि गतः क्व वयं च तवैते
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
हास्यरसव्यञ्जकमेतद्वृत्तम्
(6) न्यूनपदं यथा
{तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥220[= 15]॥}
(भट्टनारायणऽस् वेणीसंहार 1.11)
अत्रास्माभिरिति "खिन्न" इत्यस्मात्पूर्वमित्थमिति च ॥
(7) अधिकं यथा
{स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्त्वः ।
अविरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स को ऽपि
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र आकृतिशब्दः । यथा वा
{इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः ।
यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा
}
(भर्तृहरिऽस् शृङ्गारशतक 27)
अत्र कृतमिति । कृतं प्रत्युत प्रक्रमभङ्गमावहति । तथा च ऽयदपि च न कुरङ्गलोचनानाम्ऽ; इति पाठे निराकाङ्क्षैव प्रतीतिः ॥
(8) कथितपदं यथा
{अधिकरतलतल्पं कल्पितस्वापलीला-
परिमिलननिमीलत्पाण्डिमा गण्डपाली ।
सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव
स्मरनरपतिलीलायौवराज्याभिषेकम्
}
(कुन्तक, वक्रोक्तिजीवित 1.109)
अत्र लीलेति ॥
(9) पतत्प्रकर्षं यथा
{कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः
कः कः कं कमलाकरं विकमकं कर्तुं करी नोद्यतः ।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 115)
(10) समाप्तपुनरात्तं यथा
{क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवः
झङ्कारो रतिमञ्करीमधुलिहां लीलाचकोरीध्वनिः ।
तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण-
क्वाणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 116)
(11) द्वितीयार्धगतैकवाचकशेषप्रथमार्धं यथा
{मसृणचरणपातं गम्यतां भूः सदर्भा
विरचय सिचयान्तं मूर्ध्नि घर्मः कठोरः ।
तदिति जनकपुत्री लोचनैरश्रुपूर्णैः
पथि पथिकवधूभिर्वीक्षिता शिक्षिता च
}
(राजशेखरऽस् बालरामायण 6.36)
(12) अभवन् मतः (इष्टः) योगः (संबन्धः) यत्र तत् । यथा
{येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि-
र्लीलापानभुवश्च नन्दनवनच्छायासु यैः कल्पिताः ।
येषां हुङ्कृतयः कृतामरपतिक्षोभाः क्षपाचारिणां
किं तैस्त्वत्परितोषकारि विहितं किञ्चित्प्रवादोचितम्
}
(महिमभट्टऽस् व्यक्तिविवेक)
अत्र {गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्} इत्युक्तनयेन यच्छब्दनिदश्यानामर्थानां परस्परसमन्वयेन यैर् इत्यत्र विशेषस्याप्रतीतिरिति । {क्षपाचारिभिः} इति पाठे युज्यते समन्वयः । यथा वा
{त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः
कलानां सीमानं परमिह युवामेव भजथः ।
अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वाम्
अतः शेषं यत्स्याज्जितमिह तदानीं गुणितया
}
(भवभूतिऽस् मालतीमाधव)
अत्र यदित्यत्र तदिति तदानीमित्यत्र यदेति वचनं नास्ति । {चेत्स्यात्} इति युक्तः पाठः । यथा वा
{संग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
अत्राकर्णनक्रियाकर्मत्वे कोदण्डं शरानित्यादि वाक्यार्थस्य
कर्मत्वे कोदण्डः शरा इति प्राप्तम् । न च यच्छब्दार्थस्तद्विशेषणं
वा कोदण्डादि । न च केन केनेत्यादि प्रश्नः । यथा वा
{"चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः ।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्द्धस्तव परशुना लज्जते चन्द्रहासः"
}
(राजशेखरऽस् बालरामायण 2.37)
इत्यादौ भार्गवस्य निन्दायां तात्पर्यम् । कृतवतेति परशौ सा प्रतीयते । ऽकृतवतःऽ; इति तु पाठे मतयोगो भवति । यथा वा
{चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः
संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता ।
कौरव्याः पशवः प्रियापरिरभवक्लेशोपशान्तिः फलं
राज्यन्योपनिमन्त्रणाय रसति स्फीतं हतो दुन्दुभिः
}
(भट्टनारायणऽस् वेणीसंहार 1.25)
अत्राध्वरशब्दःसमासे गुणीभूत इति न तदर्थः सर्वैः संयुज्यते । यथा वा
{जङ्घाकाण्डोरुनालो नखकिरणलसत्लेसरालीकरालः
प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्तुर्नृत्तानुकार जयति निजतनुस्वच्छलावण्यवापी-
संभूताम्भोजशोभां विदधवभिनवो दण्डपादो भवान्याः ॥232[=150]॥}
(महिमभट्टऽस् व्यक्तिविवेक)
अत्र दण्डपादगता निजतनुःप्रतीयते भवान्याः संबन्धिनी तु विवक्षिता ॥
(13) अवश्यवक्तव्यमनुक्तं यत्र । यथा
{अप्राकृतस्य चरितातिशयैश्च दृष्टै-
रत्यद्भुतैरपहृतस्य तथापि नास्था ।
को ऽप्येष वीरशिशुकाकृतिरप्रमेय-
सौन्दर्यसारसमुदायमयः पदार्थः
}
(भवभ्तूतिऽस् महावीरचरित 2.39)
अत्र ऽअपहृतो ऽस्मिऽ; इत्यपहृतत्वस्य विधिर्वाच्यः तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः । यथा वा
{एषो ऽहमद्रितनयामुखपद्मजन्मा
प्राप्तः सुरासुरमनोरथदूरवर्ती ।
स्वप्नेनिरुद्धघटनाधिगताभिरूप-
लक्ष्मीफलामसुरराजसुतां विधाय
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र मनोरथानामपि दूरवर्तीत्यप्यर्थो वाच्यः । यथा वा
{त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः ।
कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः
}
(कालिदासऽस् विक्रमोर्वशीय 4.55)
अत्र ऽअपराधस्य लवमपिऽ; इति वाच्यम् ॥
(14) अस्थानस्थपदं यथा
{प्रियेण संग्रथ्य विपक्षसंनिधा-
वुपाहितां वक्षसि पीवरस्तने ।
स्रजं न काचिद्विजहौ जलाविलां
वसन्ति हि प्रेम्णि गुणा न वस्तुषु
}
(भारविऽस् किरातार्जुनीय 8.37)
अत्र ऽकाचिन्न विजहौऽ; इति वाच्यम् । यथा वा
{लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे
मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्त.ग्कप्पोलस्थलम् ।
पार्वत्या नखलक्ष्मशङ्कितसखीनर्मस्मितह्रीतया
प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र नखलक्ष्मेत्यतः पूर्वं ऽकुटिलताम्र ...ऽ; इति वाच्यम् ॥
(15) अस्थानस्थसमासं यथा
{अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः ।
प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी
}
(हर्षऽस् नागानन्द 2.41)
अत्र क्रुद्धस्योक्तौ समासो न कृतः कवेरुक्तौ तु कृतः ॥
(16) संकीर्णम् यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति । यथा
{किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणेमम् ।
ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम्
}
(रुद्रटऽस् काव्यालङ्कार 6.42)
अत्र पादगतं बहुगुणं हृदयनार्थं किमिति न पश्यसि । इमं कण्ठे गृहाण मनसस्तमोरूपं कोपं मुञ्चेति । एकवाक्यतायां तु क्लिष्टमिति भेदः ॥
(17) गर्भितम् यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति । यथा
{परापकारनिरतैर्दुर्जनैः सह संगतिः ।
वदामि भवतस्तत्त्वं न विधेया कथञ्चन
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः । यथा वा
{लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्ट्यारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तो ऽयं न किञ्चिद्गणयति विदितं ते ऽस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः
}
(वेणिदत्तऽस् पद्यवेणी 2)
अत्र {विदितं तेस्तु} इति एतत्कृतम् । प्रत्युत लक्ष्मीस्ततोपसरतीति विरुद्धमतिकृत् ॥
(18)
{मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति ।
स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम् ॥}
इति प्रसिद्धिमतिक्रान्तम् । यथा
{महाप्रलयमारुतक्षुभितपुष्करावर्तक-
प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः ।
रवः श्रवणभैरवः स्थगितरोदसीकन्दरः
कुतो ऽद्य समरोदधेरयम्भूतपूर्वः पुरः
}
(भट्टनारायणऽस् वेणीसंहार 3.4)
अत्र रवो मण्डूकादिषु प्रसिद्धो न तूक्तविशेषे सिंहनादे ॥
(19) भग्नः प्रक्रमः प्रस्तावः यत्र । यथा
{नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता ।
कुलाङ्गनानां हि दशानुरूपं नातःपरं भद्रतरं समस्ति
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 122)
अत्र {गते} इति प्रक्रान्ते {याता} इति प्रकृतेः । {गता निशापि} इति तु युक्तम् ।
ननु {नैकं पदं द्विः प्रयोज्यं प्रायेण} इत्यन्यत्र कथितपदं दुष्टमिति चेहैवोक्तम् । तत्कथमेकस्य पदस्य द्विःप्रयोगः । उच्यते । उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो विषय एकपदप्रयोगनिषेधस्य । तद्वति विषये प्रत्युत तस्यैव पदस्य सर्वनाम्रो वा प्रयोगं विना दोषः । तथाहि ----
{उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
संपत्तौ च विपत्तौ च महतामेकरूपता
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 123)
अत्र रक्त एवास्तमेतीति यदि क्रियेत तदा पदान्तरप्रतिपादितः स एवार्थो ऽर्थान्तरतयेव प्रतिभासमानः प्रतीतिं स्थगयति ॥ यथा वा
{यशोधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः
}
(भारविऽस् किरातार्जुनीय 3.40)
अत्र प्रत्ययस्य । ऽसुखमीहितुं वाऽ; इति युक्तः पाठः ।
{ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्धिसृष्टा क्खमुद्ययुः
}
(कालिदासऽस् कुमारसंभव 6.94)
अत्र सर्वनाम्नः । ऽअनेन विसृष्टाःऽ; इति तु वाच्यम् ।
{महीभृतः पुत्रवतो ऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा
}
(कालिदासऽस् कुमारसंभव 1.27)
अत्र पर्यायस्य । {महीभृतोपत्यवतो ऽपि} इति युक्तम् । {अत्र सत्यपि पुत्रे कन्यारूपे ऽप्यपत्ये स्नेहो ऽभूत्} इति केचित्समर्थयन्ते ।
{विपदो ऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः
}
(भारविऽस् किरातार्जुनीय 2.14)
अत्रोपसर्गस्य पर्यायस्य च । {तदभिभवः कुरुते निरायतिम्} । लघुतां भजते निरायतिर्लघुतावान्न पदं नृपश्रियः ॥ इति युक्तम् ।
{काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवज्त्रेन्दुलक्ष्मी-
रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः
प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः
}
(माघऽस् सिशुपालवध 15.96)
अत्र वचनस्य । ऽकाशिचित्कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवक्त्रेन्दुशोभा निःश्रीकाःऽ; इति ऽकम्पमानाःऽ; इत्यत्र ऽकम्पमापुःऽ; इति च पठनीयम् ।
{गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतां ।
विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः
}
(कालिदासऽस् अभिज्ञानशकुन्तलम् 2.6)
अत्र कारकस्य । {विश्रब्धा रचयन्तु शूकरवरा मुस्ताक्षतिम्} इत्यदुष्टम् ।
{अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा-
ववितथमदाध्माते रोषान्मुनावभिगच्छति ।
अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे
स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च
}
(भवभ्तूतिऽस् महावीरचरित 2.30)
अत्र क्रमस्य । पादोपसंग्रहणायति पूर्वं वाच्यम् । एवमन्यदप्यनुसर्तव्यम् ॥
(20) अविद्यमानः क्रमो यत्र । यथा
{द्वयं गतं संप्रति शोचनीयतां
समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतः
त्वमस्य लोकस्य च नेत्रकौमुदी ॥252[=186]॥}
(कालिदासऽस् कुमारसंभव 5.71)
अत्र त्वंशब्दानन्तरं चकारो युक्तः । यथा वा
{शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्री-
र्वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टनी खड्गयष्टिः ।
आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते
प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम्
}
(वेणिदत्तऽस् पद्यवेणी 2)
अत्र {इत्थं प्रोच्येव} इति न्याय्यम् । तथा
{लग्नं रागावृताङ्ग्या- ...... ॥253 (क) ॥}
इत्यदौ {इति श्रीनियोगात्} इति वाच्यम् ॥
(21) अमतः प्रकृतविरुद्धः परार्थो यत्र । यथा
{राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा
}
(कालिदासऽस् रघुवंश 11.20)
अत्र प्रकृते रसे विरुद्धस्य शृङ्गारस्य व्यञ्जकोपरो ऽर्थः
अर्थदोषानाह
अर्थो ऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ॥ म्क्प्र्-
संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ।
अनवीकृतः सनियमानियमविशेषा विशेषपरिवृत्ताः ॥ म्क्प्र्-
साकाङ्क्षो ऽपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्धः ।
विध्यनुवादायुक्तस्त्यक्तपुनःस्वीकृतो ऽश्लीलः ॥ म्क्प्र्-
दुष्ट इति संबध्यते । क्रंएणोदाहरणम् ----
(1) [अपुष्ट]
{अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः ।
मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 126)
अत्रातिविततत्वादयो ऽनुपादाने ऽपि प्रतिपाद्यमानमर्थं न बाधन्त इत्यपुष्टाः न त्वसंगताः पुनरुक्ता वा ॥
(2) [कष्ट-अर्थ]
{सदा मध्ये यासामियममृतनि[ः]स्यन्दमधुरा
सरस्वत्युद्दामा वहति बहुमार्गा परिमलम् ।
प्रसादं ता एता घनपरिचिताः केन महतां
महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 127)
अत्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकत्रिमार्गा भारती चमत्कारं वहति ताः गम्भीरकाव्यपरिचिताः कथमितरकाव्यवत् प्रसन्ना भवन्तु । यासामादित्यप्रभाणां मध्ये त्रिपथगा वहति ता मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः ॥
(3) [व्याहत-अर्थ]
{जगति जयिनस्ते ते भावा नवेन्दुकलादयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये ।
मम तु यदियं याता लोके विलोचनचन्द्रिका
नयनविषयं जन्मन्येकः स एव महोत्सवः
}
(भवभूतिऽस् मालतीमाधव 1.36)
अत्रेन्दुकलादयो यं प्रति पस्पशप्रायाः स एव चन्द्रिकात्वम् उत्कर्षार्थमारोपयतीति व्याहतत्वम् ॥
(4) [पुनरुक्तः]
{कृतमनुमतमित्यादि ॥258[=39]॥}
[कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्ध तेषां सभीमकिरीटिना-
मयमह[म]सृङ्मेदोमांसैः करोमि दिशां बलिम्
]
(भट्टनारायणऽस् वेणीसंहार 3.24)
अत्रार्जुनार्जुनेति भवद्भिरिति चोक्ते सभीमकिरीटिनामिति किरीटिपदार्थः पुनरुक्तः । यथा वा
{अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे
सेनानाथे स्थितेस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् ।
कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां
ताते चापद्धितीये वहति रणधुरं को भयस्यावकाशः
}
(भट्टनारायणऽस् वेणीसंहार 3.7)
अत्र चतुर्थपादवाक्यार्थः पुनरुक्तः ॥
(5) [दुष्क्रमः]
{भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सव ।
विश्राणय तुरङ्गं मे मातङ्गं वा मदालसम्
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 126)
अत्र मातङ्गस्य प्राङ्निर्देशो युक्तः ।
(6) [ग्राम्यः]
{स्वपिति यावदयं निकटे जनः स्वपिमि तावदहं किमपैति ते ।
तदपि सांप्रतमाहर कूर्परं त्वरितमूरुमुदञ्चय कुञ्चितम्
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा)
एषो ऽविदग्धः ॥
(7) [सन्दिग्धः]
{मात्सर्यमुत्सार्येत्यादि ॥262[=133]॥}
[मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु ।
सेव्या नितम्बाः किमु भूधराणाम् उत स्मरस्मेरविलासिनीनाम्
]
(भर्तृहरिऽस् शृङ्गारशतक, सुभाषितत्रिशती 36)
अत्र प्रकरणाद्यभावे संदेहः शान्तशृङ्गार्यन्यतराभिधाने तु निश्चयः ॥
(8) [निर्हेतुः]
{गृहीतं येनासीः परिभवभयान्नोचितमपि
प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः ।
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया-
द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते
}
(भट्टनारायणऽस् वेणीसंहार 3.19)
अत्र [द्वितीय]शस्त्रमोचने हेतुर्नोपात्तः ॥
(9) [प्रसिद्धिविरोधः]
{इदं ते केनोक्तं कथय कमलातङ्कवदने
यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् ।
इदं तद् दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा
तव प्रीत्या चक्रं करकमलमूले विनिहितम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र कामस्य चक्रं लोके ऽप्रसिद्धम् । यथा वा
(9अ)
{उपपरिसरं गोदावर्याः परित्यजताध्वगाः
सरणिमपरो मार्गस्त्वद्भवद्भिरिहेक्ष्यताम् ।
इह हि विहितो रक्ताशोकः कयापि हताशया
चरणलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र पादाघातेनाशोकस्य पुष्पोद्गमः कविषु प्रसिद्धो न पुनरङ्कुरोद्गमः ।
({सुसितवसनालङ्कारायां कदाचन कौमुदी-
महसि सुदृशि स्वैरं यान्त्यां गतोस्तमभूद्चिधुः ।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा
प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 121)
अत्रामूर्तापि कीर्तिः ज्योत्स्नावत्प्रकाशरूपा कथितेति लोकविरुद्धमपि कविप्रसिद्धेर्न दुष्टम् ॥)
(10) [विद्याविरोधः]
{सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः ।
नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 132)
ग्रहोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रण विरुद्धम् ।
(10 अ)
{अनन्यसदृशं यस्य बलं बाह्वोः समीक्ष्यते ।
षाडगुण्यानुसृतिस्तस्य सत्यं सा निष्प्रयोजना
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप 240)
एतत् अर्थशास्त्रेण ।
(10 आ)
{विधाय दूरे केयूरमनङ्गाङ्गणमङ्गना ।
बभार कान्तेन कृतां करजोल्लेखमालिकाम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र केयूरपदे नखक्सटं न विहितमिति । एतत्कामशास्त्रेण ।
(10 इ)
{कष्टाङ्गयोगपरिशीलनकीलनेन
दुःसाधसिद्धिसविधं विदधद्विदूरे ।
आसादयन्नभिमतामधुना विवेक-
ख्यातिं समाधिधनमौलिमर्णिर्विमुक्तः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र विवेकख्यातिस्ततः संप्रज्ञातसमाधिः पश्चादसंप्रज्ञातस्ततो मुक्तिर्न तु विवेकख्यातौ । एतत् योगशास्त्रेण ॥
एवं विद्यान्तरैरपि विरुद्धमुदाहार्यम् ॥
(11) [अनवीकृतः]
{प्राप्ताः श्रियः सकलकामदुघास्ततः किम्
दत्तं पदं शिरसि विद्विषतां ततः किम् ।
संतर्पिताः प्रणयिनो विभवैस्ततः किम्
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम्
}
(भर्तृहरिऽस् वैराग्यशतक 67)
अत्र ततः किमिति न नवीकृतम् । तत्तु यथा
{यदि दहत्यनलोत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता
}
(आनन्दवर्धनऽस् देविशतक)
(12) [सनियमपरिवृत्तः]
{यत्रानुल्लिखितार्थमेव निखिलं निर्माणमेतद्विधेर्-
उत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा ।
याताः प्राणभृतां मनोरथगतीरुल्लङ्घ्य यत्संपदस्
तस्याभासमणीकृताश्मसुमणेरश्मत्वमेवोचितम्
}
(कुन्तकऽस् वक्रोक्तिजीवित [1.29])
अत्र {छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिता} इति सनियमत्वं वाच्यम् ॥
(13) [अनियमपरिवृत्तः]
{वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्षणं
स्वच्छेन्तर्मानसेस्मिन् कथमवनिपते तेम्बुपानाभिलाषः
}
(बल्लालऽस् भोजप्रबन्ध 230)
अत्र {शोण एव} इति नियमो न वाच्यः ॥
(14) [विशेषपरिवृत्तः]
{श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकैर्
मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम् ।
चन्द्रं चर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके
येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः
}
(राजशेखरऽस् विद्धशालभञ्जिका 3.1)
अत्र ऽज्यौत्स्नीम्ऽ; इति श्यामाविशेषो वाच्यः ॥
(15) [अविशेषपरिवृत्तः]
{कल्लोलवेल्लितदृषत्परुषप्रहारै
रत्नान्यमूनि मकरालय मावमंस्थाः ।
किं कौस्तुभेन विहितो भवतो न नाम
या[ञ्च्]आप्रसारितकरः पुरुषोत्तमे ऽपि
}
(भल्लटशतक 62)
अत्र {एकेन किं न विहितो भवतः स नाम} इति सामान्यं वाच्यम् ।
(16) [साकाङ्क्षः]
{अर्थित्वे प्रकटीकृते ऽपि न फलप्राप्तिः प्रभोः प्रत्युत
द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः
स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते
}
(भवभ्तूतिऽस् महावीरचरित 2.9)
अत्र स्त्रीरत्नम् ऽउपेक्स्.इतुम्ऽ; इत्याकाङ्क्षति । नहि परस्येत्यनेन संबन्धो योग्यः ॥
(17) [अपदयुक्तः]
{आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं
भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते
स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः
}
(राजशेखरऽस् बालरामायण 1.36)
अत्र ऽस्याच्चेदेष न रावणःऽ; इत्यत्र एव समाप्यम् ॥
(18) [सहचरभिन्नः]
{श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा ।
निशा शशाङ्केन धृतिःसमाधिना नयेन चालङ्क्रियते नरेन्द्रता
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 140)
अत्र श्रुतादिभिरुत्कृष्टैः सहचरितैर्व्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम् ।
(19) [प्रकाशितविरुद्धः]
{लग्नं रागावृताङ्ग्या- ....... ॥280[=241]॥}
[लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्ट्यारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तो ऽयं न किञ्चिद्गणयति विदितं तेस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः
]
(वेणिदत्तऽस् पद्यवेणी 2)
इत्यत्र विदितं तेस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यते ॥
(20) [विध्ययुक्तः]
{प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा-
मकेशवमपाण्डवं भुवनमद्य निःसोमकम् ।
इयं परिसमाप्यते रणकथाद्य दोःशालिना-
मपैतु रिपुकाननातिगुरुरद्य भारो भुवः
}
(भट्टनारायणऽस् वेणीसंहार 3.34)
अत्र {शयितः प्रयत्नेन बोध्यसे} इति विधेयम् । यथा वा
{वाताहारतया जगद्विषधरैराश्वास्य निःशषितं
ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः ।
ते ऽपि क्रुरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर्-
दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते
}
(भल्लटशतक 87)
अत्र वाताहारादित्रयं व्युत्क्रमेण वाच्यम् ॥
(21) [अनुवादायुक्तः]
{अरे रामाहस्ताभरण भसलश्रेणिशरण
स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन ।
सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे
सखेदो ऽहं मोहं श्लथय कथय क्वेन्दुवदना
}
(कालिदासऽस् विक्रमोर्वशीय)
अत्र ऽविहहिप्राणदमनऽ; इति नानुवाद्यम् ॥
(22) [त्यक्तपुनःस्वीकृतः]
{लग्नं रागावृताङ्ग्येत्यादि ॥284=41॥}
[लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्ट्यारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तो ऽयं न किञ्चिद्गणयति विदितं तेस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः
]
(वेणिदत्तऽस् पद्यवेणी 2)
अत्र {विदितं तेस्तु} इत्युपसंहृतो ऽपि तेनेत्यादिना पुनरुपात्तः ॥
(23) [अश्लीलः]
{हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।
यथास्य जायते पातो न तथा पुनरुन्नतिः
}
(भामहऽस् काव्यालङ्कार 1.51)
अत्र पुंव्यञ्जनस्यापि प्रतीतिः ॥
यत्रैको दोषः प्रदर्शितस्तत्र दोषान्तराण्यपि सन्ति तथापि तेषां तत्राप्रकृतत्वात्प्रकाशनं न कृतम् ॥55-57॥
कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः ।
संनिधानादिबोधार्थं ...
अवतंसादीनि कर्णाद्याभरणान्येवोच्यन्ते । तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपत्तये । यथा
{अस्याः कर्णावतंसेन जितं सर्वं विभूषणम् ।
तथैव शोभतेत्यर्थमस्याः श्रवणकुण्डलम्
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 2,2.14)
{अपूर्वमधुरामोदप्रमोदितदिशस्ततः ।
आययुर्भृङ्गमुखराः शिरःशेखरशालिनः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र कर्णश्रवणशिरःशब्दाः संनिधानप्रतीत्यर्थाः ॥
{विदीर्णाभिमुखारातिकराले संगरान्तरे ।
धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 2,2.13)
अत्र धनुःशब्द आरूठत्वावगतये ॥
अन्यत्र तु
{ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वमद्वक्त्रपरंपरेण ।
कारागृहे निर्जितवासवने लङ्केश्वरेणोषितमा प्रसादात्
}
(कालिदासऽस् रघुवंश 6.20)
इत्यत्र केवलो ज्याशब्दः ।
{प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।
मुक्ताहारेण लसता हसतीव स्तनद्वयम्
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 2,2.15)
अत्र मुक्तानामन्यरत्नामिश्रितत्वबोधनाय मुक्ताशब्दः ।
{सौन्दर्यसंपत् तारुण्यं यस्यास्ते ते च विभ्रमाः ।
षट्पदान् पुष्पमालेव कान् नाकर्षति सा सखे
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः । निरुपपदो हि मालाशब्दः पुष्पस्रजमेवाभिधत्ते ॥
... स्थितेष्वेतत्समर्थनम् ॥ म्क्प्र्-
{न खलु कर्णावतंसादिवज्जघनकाञ्चीत्यादि क्रियते ।
जगाद मधुरां वाचं विशदाक्षरशालिनीम्
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 2,2.18)
इत्यादौ क्रियाविशेषणत्वे ऽपि विवक्षितार्थप्रतीतिसिद्धौ {गतार्थस्यापि विशेष्यस्य विशेषणदानार्थं क्वचित्प्रयोगः कार्यः} इति न युक्तम् । युक्तत्वे वा
{चरणत्रपरित्राणरहिताभ्यामपि द्रुतम् ।
पादाभ्यां दूरमध्वानं व्रजन्नेष न खिद्यते
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
इत्युदाहार्यम्
ख्याते ऽर्थे निर्हेतोरदुष्टता- ...
यथा
{चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः
}
(कालिदासऽस् कुमारसंभव 1.43)
अत्र रात्रौ पद्मस्य संकोचः दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमिति ऽन भुङ्क्ते ऽ; इति हेतुं नापेक्षते ॥
... अनुकरणे तु सर्वेषाम् ।
सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम् । यथा
{मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम् ।
पश्यैष च गवित्याह सूत्रामाणं यजेत च
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 147)
वक्त्राद्यौचित्यवशाद्दोषो ऽपि गुणः क्वचित्क्वचिन्नोभौ ॥ म्क्प्र्-
वकृप्रतिपाद्यव्यङ्गवाच्यप्रकरणादीनां महिम्ना दोषो ऽपि क्वचिदगुणः क्वचिन्न दोषो न गुणः । तत्र व्याकरणादौ वक्तरि प्रतिपाद्ये च रौद्रादौ च रसे व्यङ्गे कष्टत्वं गुणः । क्रमेणोदाहरणम् ----
{दीर्घीङ्वेवीङ्समः कश्चिद्गुणवृद्ध्योरभाजनम् ।
क्विप्प्रत्ययनिभः कश्चिद्यत्र संनिहिते न ते
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 43)
{यदा त्वामहमद्राक्षं पदविद्याविशारदम् ।
उपाध्यायं तदास्मार्षं समस्प्राक्षं च संमदम्
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 149)
{अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण-
प्रायप्रेङ्खितभूरिभूषणरवैराघोषयन्त्यम्बरम् ।
पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लस-
द्व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति
}
(भवभ्तूतिऽस् महावीरचरित 1.35)
वाच्यवशाद्यथा
{मातङ्गाः किमु विल्गितैः किमफलैराडम्बरैर्जम्बुकाः
सारङ्गा महिषा मदं व्रजथ किं शून्येषु शरा न के ।
कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः पुरः
सिन्धुध्वानिनि हुङ्कृते स्फुरति यत् तद्गर्जितं गर्जितम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र सिंहे वाच्ये परुषाः शब्दाः ॥
प्रकरणवशाद्यथा
{रक्ताशोक कृशोदरी क्क नु गता त्यक्त्वानुरक्तं जनं
नो दृष्टेति मुधैव चालयसि किं वातावधूतं शिरः ।
उत्कण्ठाघटमानषड्पदघटासंघट्टदष्.टच्छद-
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमो ऽयं कुतः
}
(कालिदासऽस् विक्रमोर्वशीय 4)
अत्र शिरोधूननेन कुपितस्य वचसि ॥
क्वचिन्नीरसे न गुणो न दोषः । यथा
{शीर्णघ्राणाङ्घ्रपाणीन् व्रणिभिरपघनैर्घराव्यक्तघोषान्
दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः ।
घर्मांशोस्तस्य वोन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेर्
दत्तार्घाः सिद्धसंघैर्विदधतु घृणयः शीघ्रमंहोविघातम्
}
(मयूरऽस् सूर्यशतक 6)
अप्रयुक्तनिहतार्थौ श्लेषादावदुष्टौ । यथा
{येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो
यश्चोद्धृत्तभुजङ्गहारवलयोगङ्गां च योधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्युत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः
}
(वल्लभदेवऽस् सुभाषितावलि ; अभिनवगुप्तऽस् ध्वन्यालोकलोचन [2.21,22])
अत्र माधवपक्षे शशिमदन्धकक्षयशब्दाप्रयुक्तनिहतार्थौ ॥
अश्लीलं क्वचिद्गुणः । यथा सुरतारम्भगोष्ठ्याम् {द्व्यर्थेः
पदैः पिशुनयेच्च रहस्यवस्तु} इति कामशास्त्रस्थितौ
{करिहस्तेन संबाधे प्रविश्यान्तर्विलोडिते ।
उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 154)
शमकथासु
{उत्तानोच्छनमण्डूकपाटितोदरसंनिभे ।
क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 155)
{निर्वाणवैरदहनाः प्रशमादरीणां
नन्दन्तु पाण्डुतनया सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः
}
(भट्टनारायणऽस् वेणीसंहार 1.7)
अत्र भाव्यमङ्गकसूचकम् ॥
संदिग्धमपि वाच्यमहिम्ना क्वचिन्नियतार्थप्रतीतिकृत्त्वेन व्याजस्तुतिपर्यवसायित्वे गुणः । यथा
{पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं संप्रति सममावयोः सदनम्
}
(सुभाषितरत्नाकर 1644)
प्रतिपाद्यप्रतिपादकयोर्ज्ञत्वे सत्यप्रतीतं गुणः । यथा
{आत्मारामा विहितरतयो निर्विकल्पे समादौ
ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात्
तं मोहान्धः कथमयममुं वेत्ति देवं पुराणं
}
(भट्टनारायणऽस् वेणीसंहार 1.23)
स्वयं वा परामर्शे । यथा
{षडधिकदशनाडीचक्रमध्यस्थितात्मा
हृदि विनिहितरूपः सिद्धिदस्तद्धितां यः ।
अविचलितमनोभिः साधकैर्मृग्यमाणः
स जयति परिणद्धः शक्तिभिः शक्तिनाथः
}
(भवभूतिऽस् मालतीमाधव 5.1)
अधमप्रकृत्युक्तिषु ग्राम्यो गुणः । यथा
{फुल्लुक्करं कलमकूरणिहं वहन्ति
जे सिन्धुवारविडवा मह वल्लहा दे ।
जे गालिदस्स महिसीदहिणो सरिच्छा
दे किं च मुद्धवि_अ_इल्लपसूणपुञ्जा
}
[पुष्पोत्करं कलमभक्तनिभं वहन्ति
ये सिन्धुवारविटपा मम वल्लभास्ते ।
ये गालितस्य महिषीदघ्नः सदृक्षा
स्तेकिं च मुग्धविचकिलप्रसूनपुञ्जाः ॥]
(राजशेखरऽस् कर्पूरमञ्जरी 1.19)
अत्र कलमभक्तमहिषीदधिशब्दा ग्राम्या अपि विदूषकोक्तौ ॥
न्यूनपदं क्वचिद्गुणः । यथा
{गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा
सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्
}
(अमरुशतक 36)
क्वचिन्न गुणो न दोषः । यथा
{तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावाद्रमस्या मनः ।
तां हर्तुं विबुधद्विषो ऽपि न च मे शक्ताः पुरोवर्तिनीं
सा चात्यन्तमगोचरं नयनयोर्यातेति को ऽयं विधिः
}
(कालिदासऽस् विक्रमोर्वशीय 4.9)
अत्र पिहिता इत्यतोनन्तरं ऽनैतद्यतःऽ; इत्येतैर्न्यूनैः पदैर्विशेषबुद्धेरकरणान्न गुणः । उत्तरा प्रतिपत्तिः पूर्वां प्रतिपत्तिं बाधते इति न दोषः ॥
अधिकपदं क्वचिद्गुणः । यथा
{यद्वञ्चनाहितमतिर्बहुचाटुगर्भं
कार्योन्मुखः खलजनः क्र्टकं ब्रवीति ।
तत्साधवो न न विदन्ति विदन्ति किन्तु
कर्तुं वृथा प्रणयमस्य न पारयन्ति
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन 3.16)
अत्र {विदन्ति} इति द्वितीयमन्ययोगव्यवच्छेदपरम् । यथा वा
{वद वद जितः स शत्रुर्न हतो जल्पंश्च तव तवास्मीति ।
चित्रं चित्रमरोदीद्धा हेति परं मृते पुत्रे
}
(रुद्रटऽस् काव्यालङ्कार 6.30)
इत्येवमादौ हर्षभयादियुक्ते वक्तरि ॥
कथितपदं क्वचिद्गुणः लाटानुप्रासे अर्थान्तरसंक्रमितवाच्ये विहितस्यानुवाद्यत्वे च । क्रमेणोदाहरणम् ----
{सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः ।
पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥314(च्f.359)॥}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 195)
{ताला जा_अन्ति गुणा जाला दे सहि_अ_एंहि घेप्पन्ति ।
र_इकिरणाणुग्गहि_आ_इं होन्ति कमला_इं कमला_इं
}
[तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥]
(हालऽस् गाथासप्तशती 989 ; अभिनवगुप्तऽस् ध्वन्यालोकलोचन; आनन्दवर्धनऽस् विषमबाणलीला)
{जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनोनुरज्यते जनानुरागप्रभवा हि संपदः
}
(वल्लभदेवऽस् सुभाषितावलि)
{पतत्प्रकर्षमपि क्वचिद्गुणः । यथा उदाहृते प्रागप्राप्त-इत्यादौ
}
(भवभ्तूतिऽस् महावीरचरित 2.33)
समाप्तपुनरात्तं क्वचिन्न गुणो न दोषः । यत्र न विशेषणमात्रदानार्थः पुनर्ग्रहणम् अपि तु वाक्यान्तरमेव क्रियते । यथा
{अत्रैव प्रागप्राप्त इत्यादौ
}
अपदस्थसमासं क्वचिद् गुणः । यथा
{उदाहृते रक्ताशोकैत्यादौ
}
गर्भितं तथैव । यथा ----
{हुमि अवहत्थि_अरेहो णिरङ्कुसो अह विवे_अरहि_ओ वि ।
सिविणे वि तुमम्मि पुणो पत्तिहि भत्तिं ण पसुमरामि
}
[भवाम्यपहस्तितरेखो निरङ्गुशो ऽथ विवेकरहितो ऽपि ।
स्वप्ने ऽपि त्वयि पुनः प्रतीहि भक्तिं न प्रस्मरामि ॥]
(आनन्दवर्धनऽस् विषमबाणलीला ; अभिनवगुप्तऽस् ध्वन्यालोकलोचन)
अत्र प्रतीहीति मध्ये दृढप्रत्ययोत्पादनाय । एवमन्यदपि लक्ष्याल्लक्ष्यम्
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता ।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥ म्क्प्र्-
प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः ।
अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ॥ म्क्प्र्-
अङ्गिनो ऽननुसंधानं प्रकृतीनां विपर्ययः ।
अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ॥ म्क्प्र्-
(1) स्वशब्दोपादानं व्यभिचारिणो यथा
{सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रे ऽमृतस्यन्दिनि ।
सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे
पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 164)
अत्र व्रीडादीनाम् ।
{व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे
सोत्कम्पा भुजगे निमेषरहिता चन्द्रेमृतस्यन्दिनि ।
मीलद्भूः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे}
इत्यादि तु युक्तम् ॥
(2) रसस्य स्वशब्देन शृङ्गारादिशब्देन वा वाच्यत्वम् । क्रमेणोदाहरणम् ----
{तामनङ्गजयमङ्गलश्रियं किञ्चिदुच्चभुजमूललोकिताम् ।
नेत्रयोः कृतवतो ऽस्य गोचरे को ऽप्यजायत रसो निरन्तरः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 166)
{आलोक्य कोमलकपोलतलाभिषिक्त
व्यक्तानुरागसुभगामभिराममूर्तिम् ।
पश्यैष बाल्यमतिवृत्य विवर्तमानः
शृङ्गारसीमनि तरङ्गितमातनोति
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
(3) स्थायिनो यथा
{संप्रहारे प्रहरणैः प्रहाराणां परस्परम् ।
ठणत्कारैः श्रुतिगतैरुत्साहस्तस्य को ऽप्यभूत्
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 167)
अत्रोत्साहस्य ॥
(4)
{कर्पूरधूलिधवलद्युतिपूरधौत-
दिङ्मण्डले शिशिररोचिषि तस्य यूनः ।
लीलाशिरो ऽंशुकनिवेशविशेषकॢ.प्ति-
व्यक्तस्तनोन्नतिरभून्नयनावनौ सा
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावपर्यवसायिनः स्थिता इति कष्टकल्पना ॥
(5)
{परिहरति रतिं मतिं लुनीते स्खलति भृशं परिवर्तते च भूयः ।
इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरूपो विभावो यत्नतः प्रतिपाद्यः ॥
(6)
{प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं
प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः ।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं
न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन ; शार्ङ्गधरपद्धति)
अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निर्वेदश्च व्यभिचारी उपात्तः ॥
{णिहु_अरमणम्मि लो_अणपहम्मि पडि_ए गुरु_अणमज्झम्मि ।
स_अलपरिहारहि_अ_आ वणगमणं एव्व मह_इ वहू
}
[निभृतरमणे लोचनपथे पतिते गुरुजनमध्ये ।
सकलपरिहारहृदया वनमनमेवेच्छति वधूः ॥]
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र सकलपरिहारवनगमने शान्तानुभावौ । इन्धनाद्यानयनव्याजेनोपभोगार्थं वनगमनं चेत् न दोषः ॥
(7) दीप्तिः पुनः पुनर्यथा कुमारसंभवे रतिविलापे ॥
(8) अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेङ्केनेकवीरक्षये प्रवृत्ते भानुमत्या सह दुर्योधनस्य शृङ्गारवर्णनम् ।
(9) अकाण्डे छेदो यथा वीरचरिते द्वितीयेङ्के राघवभार्गवयोर्धाराधिरूढे वीररसे {कङ्कणमोचनाय गच्छामि} इति राघवस्योक्तौ ॥
(10) अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम् । यथा हयग्रीववधे हयग्रीवस्य ॥
(11) अङ्गिनो ऽननुसंधानम् । यथा रत्नावल्यां चतुर्थेङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ॥
(12) प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्च वीररौद्रशृङ्गारशान्तरसप्रधाना
धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ताः उत्तमाधममध्यमाश्च । तत्र रतिहासशोकाद्भुतानि अदिव्योत्तमप्रकृतिवत् दिव्येष्वपि । किं तु रतिः संभोगशृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया । तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम् ।
{क्रोधं प्रभो संहर संहरेति यावद् गिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार
}
(कालिदासऽस् कुमारसंभव 3.32)
इत्युक्तवत् भ्रुकुट्यादिविकारवर्जितः क्रोधः सद्यःफलदः स्वर्गपातालगगसमुद्रोल्लङ्घनाद्युत्साहश्च दिव्येष्येव । अधिकं तु निबध्यमानमसत्यप्रतिभासेन ऽनायकवद्वर्तितव्यं न प्रतिनायकवत्ऽ; इत्युपदेशे न पर्यवस्येत् । दिव्यादिव्येषु उभयथापि । एवमुक्तस्यौचित्यस्य दिव्यादीनामिव धीरोदात्तादीनामप्यन्यथावर्णनं विपर्ययः । तत्रभवन् भगवन्नित्युत्तमेन न अधमेन मुनिप्रभृतौ न राजादौ भट्टारक-इति नोत्तमेन राजादौ प्रकृतिविपर्ययापत्तेर्वाच्यम् । एवं देशकालवयोजात्यादीनां वेषव्यवहारादिकमुचितमेवोपनिबन्द्धव्यम् ॥
(13) अनङ्गस्य रसानुपकारकस्य वर्णनम् । यथा कर्पूरमञ्जर्या नायिकया स्वात्मना च कृतं वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य राज्ञा प्रशंसनम् ॥
{ईदृशाः} इति । नायिकापादप्रहारादिना नायककोपादिवर्णनम् । उक्तं हि ध्वनिकृता
{अनौचित्यादृत्ते नान्यद् रसभङ्गस्य कारणम् ।
औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥} इति ॥60-62॥
इदानीं क्वचिददोषा अप्येते इत्युच्यन्ते ।
न दोषः स्वपदेनोक्तावपि संचारिणः क्वचिद् ।
यथा
{औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे
संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः
}
(हर्षऽस् रत्नावलि 1.2)
अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् । अत एव ऽदूरादुत्सुकम्ऽ; इत्यादौ व्रीडाप्रेमाद्यनुभावानां । विवलितत्वादीनामिवोत्सुकत्वानुभावस्य सहसा प्रसरणादिरूपस्य तथा प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ॥
संचार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ म्क्प्र्-
बाध्यत्वेनोक्तिर्न परमदोषः यावत् प्रकृतरसपरिपोषकृत् । यथा
{ऽक्वाकार्यं शशलक्ष्मणः क्व च कुलम्ऽ; इत्यादौ ॥331[=53]॥}
[क्वाकार्यं शशलक्षणः क्व च कुलं भूयो ऽपि दृश्येत सा
दोषाणां प्रशमाय न श्रुतमहो कोपे ऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्ने ऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्यो ऽधरं धास्यति
]
(कालिदासऽस् विक्रमोर्वशीय 4.4)
अत्र वितर्कादिषु उद्गतेष्वपि चिन्तायामेव विश्रान्तिरिति प्रकृतरसपरिपोषः ॥
{पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन)
इत्यादौ साधारणत्वं पाण्डुतादीनामिति न विरुद्धम् ॥
{सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम्
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन 3.30)
इत्यत्राद्यमर्धं बाध्यत्वेनैवोक्यम् । जीवितादपि अधिकमपाङ्गभङ्गस्यास्थिरत्वमिति प्रसिद्धभङ्गुरोपमानतयोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गाप्रतिपत्तेर्ः । न तु विनेयोन्मुखीकरणमत्र परिहारः शान्तशृङ्गारयोर्नैरन्तर्यस्याभावात् । नापि काव्यशोभाकरणं रसान्तरादनुप्रासमात्राद्वा तथाभावात्
आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः ।
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ म्क्प्र्-
वीरभयानकयोरेकाश्रयत्वेन विरोध इति प्रतिप्रक्षगतत्वेन भयानको निवेशयितव्यः । शान्तशृङ्गारयोस्तु नैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम् यथा नागानन्दे शान्तस्य जीमूतवाहनस्य ऽअहो गीतम् अहो वादित्रम्ऽ; इत्यद्भूतमन्तर्निवेश्य
मलयवतीं प्रति शृङ्गारो निबद्धः । न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधिना विरोधो निवर्तते । यथा
{भूरेणुदिग्धान् नवपारिजात-
मालारजोवासितबाहुमध्या ।
गाढं शिवाभिः परिरभ्यमाणान्
सुराङ्गनाश्लिष्टभुजान्तरालाः
}
(आनन्दवर्दनऽस् ध्वन्यालोक)
{सशोणितैः क्रव्यभुजां स्फुरद्भिः
पक्षैः खगानामुपवीज्यमानान् ।
संवीजिताश्चन्दनवारिसेकैः
सुगन्धिभिः कल्पलतादुकूलैः
(अ)॥}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{विमानपर्यङ्कतले निषण्णाः
कुतूहलाविष्टितया तदानीम् ।
निर्दिश्यमानान् ललनाङ्गुलीभिर्-
वीराः स्वदेहान् पतितानपश्यन्
}
(आनन्दवर्दनऽस् ध्वन्यालोक)
अत्र बीभत्सशृङ्गारयोरन्तर्वीररसो निवेशितः
स्मर्यमाणो विरुद्धो ऽपि साम्येनाथ विवक्षितः ।
अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥ म्क्प्र्-
{अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः
}
(महाभारत स्त्रीपर्वन् 24-19)
एतद् भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूरभिदधौ । अत्र पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुणं परिपोषयति ॥
{दन्तक्षतानि करजैश्च विपाटितानि
प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे ।
दत्तानि रक्तमनसा मृगराजवध्वा
जातस्पृहैर्मुनिभिरप्यवलोकितानि
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन 3.43)
अत्र कामुकस्य दन्तक्षतादीनि यथा चमत्कारकारीणि तथा जिनस्य । यथा वा परः शृङ्गारी तदलोकनात्सस्पृहस्तद्वत् एतद्दृशो मुनय इति साम्यविवक्षा ॥
{क्रामन्त्यः क्षतकोमललाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः
पादैः पातितयावकैरिव गलद्बाष्पाम्बुधौतानना ।
भीता भर्तृकरावलम्बितकरास्त्वच्छत्रुनार्योधुना
दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव
}
(आनन्दवर्दनऽस् ध्वन्यालोक 3.20)
अत्र चाटुके राजविषया रतिः प्रतीयते । तत्र करुण इव शृङ्गारो ऽप्यङ्गमिति तयोर्न विरोधः । यथा
{एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनो ऽर्थिभिः
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन 3.44)
इत्यत्र एहीति क्रीडन्ति गच्छेति क्रीडन्तीति क्रीडनापेक्षयोः आगमनगमनयोर्न विरोधः ।
{क्षिप्तो हस्तावलग्नः प्रसभमभिहतो ऽप्याददानो ऽंशुकान्तं
गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन् योवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाभवो वः शराग्निः
}
(अमरुशतक 2)
इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणो ऽङ्गम् । तस्य तु शृङ्गारः । तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव । अथवा प्राक् यथा कामुक आचरति स्म तथा शराग्निरिति शृङ्गारपोषितेन करुणेण मुख्य एवार्थ उपोद्बल्यते ।
उक्तां हि
{गुणः कृतात्मसंस्कारः प्रधानं प्रतिमद्यते ।
प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥} इति ॥
(ध्वन्यालोकलोचन 3.22)
प्राक्प्रतिपादितस्य रसस्य रसान्तरेण न विरोधः नाप्यङ्गाङ्गिभावो भवति इति रसशब्देनात्र स्थायिभाव उपलक्ष्यते
इति काव्यप्रकाशे दोषदर्शनो नाम सप्तम उल्लासः
====================================================
अथ अष्टम उल्लासः
एवं दोषानुक्त्वा गुणालङ्कारविवेकमाह --
ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ म्क्प्र्-
आत्मन एव हि यथा शौर्यादयो नाकारस्य तथा रसस्यैव माधुर्यादयो गुणा न वर्णानाम् ॥
क्वचित्तु शौर्यादिसमुचितस्याकारमहत्त्वादेर्दर्शनात् ऽआकार एवास्य शूरःऽ; इत्यादेर्व्यवहारादन्यत्राशूरे ऽपि वितताकृतित्वमात्रेण {शूरःऽ; इति क्वापि शूरे ऽपि मूर्तिलाघवमात्रेण ऽअशूरः} इति अविश्रान्तप्रतीतयो यथा व्यवहरन्ति तद्वन्मधुरादिव्यञ्जकसुकुमारादिवर्णानां मधुरादिव्यवहारप्रवृत्तेरमधुरादिरसाङ्गानां
वर्णानां सौकुमार्यादिमात्रेण माधुर्यादि मधुरादिरसोपकरणानां
तेषामसौकुमार्यादेरमाधुर्यादि रसपर्यन्तविश्रान्तप्रतीतिबन्ध्या
व्यवहरन्ति । अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्यज्यन्ते न तु
वर्णमात्राश्रयाः । यथैषां व्यञ्जकत्वम् तथोदाहरिष्यते
उपकुर्वन्ति तं सन्तं ये ऽङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्ते ऽनुप्रासोपमादयः ॥ म्क्प्र्-
ये वाचकवाच्यलक्षणाङ्गातिशयमुखेन मुख्यं रसं संभविनम् उपकुर्वन्ति ते कण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणो ऽपि उपकारका हारादय इवालङ्काराः । यत्र तु नास्ति रसस्तत्रोक्तिवैचित्र्यमात्रपर्यवसायिनः । क्वचित्तु सन्तमपि नोपकुर्वन्ति ।
यथाक्रममुदाहरणानि ----
{अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैरिति वदति दिवानिशं बाला
}
(दामोदरगुप्तऽस् कुट्टनीमत 102)
इत्यादौ वाचकमुखेन
{मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं
प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव ।
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो
न मां त्रातुं तातः प्रभवति न चाम्बा न भवती
}
(भवभूतिऽस् मालतीमाधव 2.1)
इत्यादौ वाच्यमुखेनालङ्कारौ रसमुपकुरुतः ॥
{चित्ते चिहुत्टदि ण टुट्टदि सा गुणेसुं
सेज्जासु लोट्टदि विसप्पदि दिमुंहेसुं ।
बोलम्मि वट्टदि पवट्टदि कव्वबन्धे
झाणेण टुट्टदि चिरं तरुणी तरट्टी
}
[चित्ते विघटते न त्रुट्यति सा गुणेषु
शय्यासु लुठति विसर्पति दिङ्मुखेषु ।
वचने वर्तते प्रवर्तते काव्यबन्धे
ध्यानेन त्रुट्यति चिरं तरुणी प्रगल्भा ॥]
(राजशेखरऽस् कर्पूरमञ्जरी 2.4)
इत्यादौ वाचकमेव ।
{मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसम् ।
चक्राह्वेन वियोगिना बिसलता नास्वादिता नोज्झिता
कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 176)
इत्यादौ वाच्यमेव न तु रसम् । अत्र बिसलता न जीवं रोद्धुं क्षमेति प्रकृताननुगुणोपमा ॥
एष एव च गुणालङ्कारप्रविभागः । एवं च "समवायवृत्त्या शौर्यादयः संयोगवृत्त्या तु हारादय इत्यस्तु गुणालङ्काराणां भेदः । ओजःप्रभृतीनामनुप्रासोपमादीनां चोभयेषामपि समवायवृत्त्या स्थितिरिति
गड्डलिकाप्रवाहेणैवैषां भेदः" इत्यभिधानमसत् ॥
यदप्युक्तम् {काव्यशोभायाः कर्तारो धर्मा गुणास् तदतिशयहेतवस्त्वलङ्काराः} इति तदपि न युक्तम् । यतः किं समस्तैर्गुणैः काव्यव्यवहारः उत कतिपयैः । यदि समस्तैः तत्कथमसमस्तगुणा गौडी पाञ्चाली च रीतिः काव्यस्यात्मा ।
अथ कतिपयैः ततः
{अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 114)
इत्यादावोजः प्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तिः ।
{स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी ।
अस्या रदच्छदरसो न्यक्करोतितरां सुधाम्
}
इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षौ काव्यव्यवहारस्य प्रवर्तकौ
इदानीं गुणानां भेदमाह
माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश ।
एषां क्रमेण लक्षणमाह
आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥ म्क्प्र्-
शृङ्गारे अर्थात् संभोगे । द्रुतिर्गलितत्वमिव । श्रव्यत्वं पुनरोजःप्रसादयोरपि
करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।
[अतिशयान्वितमिति] अत्यन्तद्रुतिहेतुत्वात् ॥
दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ म्क्प्र्-
चित्तस्य विस्ताररूपदीप्तत्वजनकमोजः
बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च ।
वीराद्वीभत्से ततो सातिशयमोजः ॥
शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः ॥ म्क्प्र्-
व्याप्नोत्यन्यत् प्रसादो ऽसौ सर्वत्र विहितस्थितिः ।
अन्यदिति । व्याप्यमिह चित्तम् । सर्वत्रेति । सर्वेषु रसेषु सर्वासु रचनासु च ॥
गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ म्क्प्र्-
गुणवृत्त्या उपचारेण । तेषाङ्गुणानाम् । आकारे शौर्य्स्येव ॥70-71॥
कुतस्त्रय एव न दश इत्याह
केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः ।
अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥ म्क्प्र्-
बहुनामपि पदानामेकपदवद्भासनात्मा यः श्लेषः यश्चारोहाबरोहक्रमरूपः समाधिः या च विकटत्वलक्षणा उदारता यश्चौजोमिश्रितशैथिल्यात्मा प्रसादः
तेषामोजस्तन्तर्भावः । पृथक्पदत्वरूपं माधुर्यं भङ्ग्या साक्षादुपात्तम् । प्रसादेनार्थव्यक्तिर्गृहीता । मार्गाभेदरूपा समता क्वचिद्दोषः । तथाहि {मातङ्गाः किमु वल्गतैः} इत्यादौ सिंहाभिधाने मसृणमार्गत्वायो गुणः । कष्टत्वग्राम्यत्वयोर्दुष्टाभिधानात्तन्निराकरणेनापारुष्यरूपं सौकुमार्यम् औज्ज्वल्यरूपा कान्तिश्च स्वीकृता ॥
एवं न दश शब्दगुणाः ॥
{पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा ।
प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥}
(वामन, काव्यालङ्कारसूत्रवृत्ति 3,2.2)
इति या प्रौढिः ओज इत्युक्तं तद् वैचित्र्यमात्रम् न गुणः । तदभावे ऽपि काव्यव्यवहारप्रवृत्तेः । अपुष्टार्थत्वाधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलग्राम्याणां निराकरणेन च
साभिप्रायत्वरूपमोजः अर्थवैमल्यात्मा प्रसादः उक्तिवैचित्र्यरूपं माधुर्यम् अपारुष्यरूपं सौकुमार्यम् अग्राम्यत्वरूपा उदारता च स्वीकृतानि । अभिधास्यमानस्वभावोक्त्यलङ्कारेण रसध्वनिगुणीभूतव्यङ्ग्याभ्यां च वस्तुस्वभावस्फुटत्वरूपा अर्थव्यक्तिः, दीप्तरसत्वरूपा कान्तिश्च स्वीकृता । क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा श्लेषो ऽपि विचित्रत्वमात्रम् । अवैषम्यस्वरूपा समता दोषाभावमात्रं न पुनर्गुणः । कः खल्वनुन्मत्तोन्यस्य
प्रस्तावेन्यदभिदध्यात् । अर्थस्यायोनेर्ऽन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यम् इत्यर्थदृष्टिरूपः समाधिरपि न गुणः
तेन नार्थगुणा वाच्याः ...
न वाच्याः न वक्तव्याः ॥
... प्रोक्ताः शब्दगुणाश्च ये ।
वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ॥ म्क्प्र्-
के कस्य इत्याह
मुर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू ।
आवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥ म्क्प्र्-
टठडढवर्जिताः कादयो मान्ताः शिरसि निजवर्गान्त्ययुक्ताः तथा रेफणकारौ ह्रस्वान्तरिताविति वर्णाः समासाभावो मध्यमः समासो वेति समासः तथा माधुर्यवती पदान्तरयोगेन रचना माधुर्यस्य व्यञ्जिका ॥ उदाहरणम्
{अनङ्गरङ्गप्रतिअं तदङ्गं
भङ्गीभ्रङ्गीकृतमानताङ्ग्याः ।
कुर्वन्ति यूनां सहसा यथैताः
स्वान्तानि शान्तापरचिन्तनानि
74॥।}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 179)
योग आद्यतृतीयाम्यामन्त्ययो रेण तुल्ययोः ।
टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धृत ओजसि ॥ म्क्प्र्-
वर्गप्रथमतृतीयाभ्यामन्त्ययोः द्वितीयचतुर्थयोः रेफेण अध उपरि उभयत्र वा यस्य कस्यचित् तुल्ययोः तेन तस्यैव संबन्धः टवर्गो ऽर्थात् णकारवर्जः शकारषकारौ दीर्घसमासः विकटा संघटना ओजसः ।
उदाहरणम् ----
{मूर्ध्नामुद्धृत्तक्र्ट्त_इत्यादि ॥348[=159(इन्चोर्र्.285)]
}
[मूर्द्ध्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा-
धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् ।
कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां
दोष्णां चैषां किमेतत् फलमिह नगरीरक्षणे यत् प्रयासः
]
(हर्षऽस् नागानन्द 8)
श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् ।
साधारणः समग्राणां स प्रसादो गुणो मतः ॥ म्क्प्र्-
समग्राणां रसानां संघटनानां च । उदाहरणम्
{परिम्लानं पीनस्तनजघनसंगादुभयतस्-
तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्ग्याः संतापं वदति बिसिनीपत्रशयनम्
76॥}
(कालिदासऽस् रघुवंश 2.12)
यद्यपि गुणपरतन्त्राः संघटनादयस्तथापि
वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ म्क्प्र्-
क्वचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः । यथा
{मन्थायस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्.णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोसौ
}
(भट्टनारायणऽस् वेणीसंहार 1.22)
अत्र हि न वाच्यं क्रोधादिव्यञ्जकम् । अभिनेयार्थं च च काव्यमिति तत्प्रतिकूला उद्धता रचनादयः । वक्ता चात्र भीमसेनः ॥
क्वचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव रचनादयः ॥
यथा
{प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात-
त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् ।
कुर्वत् काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां
भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
क्वचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव ते ॥
तथाहि ----
आख्यायिकायां शृङ्गारे ऽपि न मसृणवर्णादयः । कथायां रौद्रे ऽपि नात्यन्तमुद्धताः । नाटकादौ रौद्रे ऽपि न दीर्घसमासादयः ॥
एवमन्यदपुऔचित्यमनुसर्तव्यम्
इति काव्यप्रकाशे गुणालङ्कारभेदनियतगुणनिर्णयो नाम अष्टम उल्लासः
=======================================================
अथ नवम उल्लासः
गुणविवेचने कृते ऽलङ्काराः प्राप्तावसराः इति संप्रति शब्दालङ्कारानाह ----
यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्त्रोक्तिस्तथा द्विधा ॥ म्क्प्र्-
तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । तर पदभङ्गश्लेषेण यथा
{नारीणामनुकूलमाचरसि चेज्जानासि कश्चेतनो
वामानां प्रियमादधाति हितकृन्नैवाबलानां भवान् ।
युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः
सामर्थ्यं भवतः पुरन्दरमतच्छेदं विधातुं कुतः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अभङ्गश्लेषेण यथा
{अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित्
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
काक्वा यथा
{गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमये ऽसौ
78॥}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 191)
वर्णसाम्यमनुप्रासश् ...
स्वरवैसादृश्ये ऽपि व्यञ्जनसदृशत्वं वर्णसाम्यम् । रसाद्यनुगतः प्रकृष्टो न्यासो ऽनुप्रासः ॥
... छेकवृत्तिगतो द्विधा ।
छेकाः विदग्धाः । वृत्तिर्नियतवर्णगतो रसविषयो व्यापारः । गत इति छेकानुप्रासो वृत्त्यनुप्रासश्च ॥
किं तयोः स्वरूपम् इत्याह ----
सो ऽनेकस्य सकृत्पूर्वः ...
अनेकस्य अर्थात् व्यञ्जनस्य सकृदेकवारं सादृश्यं छेकानुप्रासः । उदाहरणम्
{ततो ऽरुणपरिस्पन्दमन्दीकृतवपुः शशी ।
दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्
}
(कुन्तकऽस् वक्रोक्तिजीवित 1.19)
... एकस्याप्यसकृत्परः ॥ म्क्प्र्-
एकस्य अपिशब्दादनेकस्य व्यञ्जनस्य द्विर्बहुकृत्वो वा सादृश्यं वृत्त्यनुप्रासः
तत्र
माधुर्यव्य्ञ्जकैर्वर्णैरुपनागरिकोच्यते ।
ओजःप्रकाशकैस्तैस्तु परुषा ...
उभयत्रापि प्रागुदाहृतम् ।
... कोमला परैः ॥ म्क्प्र्-
परैः शेषैः । तामेव केचित् ग्राम्येति वदन्ति । उदाहरणम्
{अपसारस्य घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणाकैरिति वदति दिवानिशं बाला ॥356[=341]॥}
(दामोदरगुप्तऽस् कुट्टनीमत 102)
केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः ।
एतास्तिस्रो वृत्तयः वामानादीनां मते वैदर्भीगौडीपाञ्चाल्याख्या रीतयो मताः ॥
शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥ म्क्प्र्-
शब्दगतो ऽनुप्रासः शब्दार्थयोरभेदे ऽप्यन्वयमात्रभेदात् लाटजनवल्लभत्वाच्च लाटानुप्रासः । एष पदानुप्रास इत्यन्ये
पदानां सः ...
स इति लाटानुप्रासः । उदाहरणम्
{यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 161)
... पदस्यापि ...
अपिशब्देन स इति समुच्चीयते । उदाहरणम्
{वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः ।
सुधाकरः क्व नु पुनः कलङ्कविकलो भवेत्
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 194)
... वृत्तावन्यत्र तत्र वा ।
नाम्नः स वृत्त्यवृत्त्योश्च ...
एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम् । उदाहरणम्
{सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः ।
पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥359 [=314]॥}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 195)
... तदेवं पञ्चधा मतः ॥ म्क्प्र्-
अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः ।
यमकं ...
समरसमरसो ऽयमित्यादावेकेषामर्थवत्त्वे अन्येषामनर्थकत्वे भिन्नार्थानामिति न युज्यते वक्तुम् इति अर्थे सतीत्युक्तम् । सेति सरोरस इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिता ।
... पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ म्क्प्र्-
प्रथमो द्वितीयादौ द्वितीयस्तृतीयादौ तृतीयश्चतुर्थे प्रथमस्त्रिष्वपीति सप्त । प्रथमो द्वितीये तृतीयश्चतुर्थे प्रथमश्चतुर्थे द्वितीयस्तृतीये, इति द्वे । तदेवं पादजं नवभेदम् । अर्धावृत्तिः श्लोकावृत्तिश्चेति द्वे ।
द्विधा विभक्ते पादे प्रथमादिपादादिभागः पूर्ववत् द्वितीयादिपादादिभागेषु अन्तभागो ऽनन्तभागेष्विति विंशतिर्भेदाः श्लोकान्तरे हि नासौ भागावृत्तिः । त्रिखण्डे त्रिंशत् चतुःखण्डे चत्वारिंशत् ।
प्रथमपादादिगतान्त्यार्घादिभागो द्वितीयपादादिगते आद्यार्धादिभागे यम्यते इत्याद्यन्वर्थतानुसरणेनानेकभेदम् । अन्तादिकम् । आद्यन्तिकम् । तत्समुच्छयः । मध्यादिकम् । आदिमध्यम् । अन्तमध्यम् । मध्य्ञ्तिकम् । तेषां समुच्चयः । तथा तस्मिन्नेव पादे
आद्यादिभागानां मध्यादिभागे अनियते च स्थाने आवृत्तिरिति प्रभूततमभेदम् । तदेतत्काव्यान्तर्गडुभूतम् इति नास्य भेदलक्षणं कृतम् । दिङ्मात्रमुदाह्रियते ।
{सन्नारीभरणोमायमाराध्य विधुशेखरम् ।
सन्नारीभरणोमायस्ततस्त्वं पृथिवीं जय
}
(रुद्रटऽस् काव्यालङ्कार 10.27)
{विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना ।
महाजनोदीयत मानसादरं महाजनोदी यतमानसादरम्
}
(रुद्रटऽस् काव्यालङ्कार 3.5)
{स त्वारम्भरतोवश्यमबलं विततारवम् ।
सर्वदा रणमानैषीदवानलसमस्थितः
}
(रुद्रटऽस् काव्यालङ्कार 3.18)
{सत्त्वारम्भरतोवश्यमवलम्बिततारवम् ।
सर्वदारणमानैषी दवानलसमस्थितः
}
(रुद्रटऽस् काव्यालङ्कार3-19)
{अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् ।
या च मातेव भजते प्रणते मानवे दयाम्
}
(आनन्दवर्धनऽस् देविशतक 1)
{यदानतो ऽयदा नतो नयात्ययं न यात्ययम् ।
शिवेहितां शिवे हितां स्मरामितां स्मरामि ताम्
}
(आनन्दवर्धनऽस् देविशतक 49)
{सरस्वति प्रसादं मे स्थितिं चित्तसरस्वति ।
सर स्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति
}
(आनन्दवर्धनऽस् देवीशतक 50)
{ससार साकं दर्पणे कन्दर्पेण ससारसा ।
शरन्नवाना बिभ्राणा नाविभ्राणा शरन्नवा
}
(रुद्रटऽस् काव्यालङ्कार 3.35)
{मधुपराजिपराजितमानीजनमनःसुमनःसुरभि श्रियम् ।
अभृत वारितवारिजविप्लवं स्फुटितताम्रतताम्रवणं जगत्
}
(रत्नाकरऽस् हरविजय 3.57)
एवं वैचित्र्यसहस्रैः स्थितमन्यदुन्नेयम्
वाच्यभेदेन भिन्ना तद् युगपद्भाषणस्पृशः ।
श्लिष्यन्ति शब्दाः श्लेषो ऽसावक्षरादिभिरष्टधा ॥ म्क्प्र्-
{अर्थभेदेन शब्दभेदः} इति दर्शने {काव्यमार्गे स्वरो न गण्यते} इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यत् युगपदुच्चारणेन श्लिष्यन्ति भिन्नं स्वरूपमपह्नुवते स श्लेषः ।
स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचन्ञनां भेदादष्टधा । क्रमेणोदाहरणम् ----
[(1) वर्ण]
{अलङ्कारः शङ्काकरनरकपालं परिजनो
विशीर्णाङ्गो भृङ्गी अव्सु च वृष एको बहुवयाः ।
अवस्थेयं स्थाणोर्ऽपि भवति सर्वामरगुरोर्-
विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी
}
(सुभाषितरत्नाकर 1344)
[(2) पद]
{पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥370[=306]॥}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
[(3) लिङ्ग, (8) वचन]
{भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये ।
लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः
}
(वल्लभदेवऽस् सुभाषितावलि)
एष वचनश्लेषो ऽपि ।
[(4) भाषा]
{महदेसुरसंधम्मे तमवसमासंगमागमाहरणे ।
हरबहुसरणं तं चित्तमोहमवसर_उमे सहसा
}
[मम देहि रसं धर्मे तमोअशाम् आशां गमागमात् हर नः ।
हरवधु शरणं त्वं चित्तमोहो ऽपसरतु मे सहसा ॥]
(हालऽस् गाथासप्तशती 991 ; आनन्दवर्धनऽस् देविशतक)
[(5) प्रकृति]
{अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।
सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
[(6) प्रत्यय]
{रजनिरमणमौलेः पादपद्मावलोक-
क्षणसमयपराप्तापूर्वसंसहस्रम् ।
प्रमथनिवहमध्ये जातुचित्त्वत्प्रसादाद्
अहमुचितरुचिः स्यान्नन्दिता सा तथा मे
}
[(7) विभक्ति]
{सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः ।
नयोपकारसांमुख्यमायासि तनुवर्तनम्
84॥}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
भेदाभावात्प्रकृत्यादेर्भेदो ऽपि नवमो भवेत् ।
नवमोपीत्यपिर्भिन्नक्रमः । उदाहरणम् ----
{योसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः ।
शतकोटिदतां बिभ्रद्चिबुधेन्द्रः स राजते
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 201)
अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थौ वाच्यौ ॥
ननु स्वरितादिगुणभेदाद् भिन्नप्रयत्नोच्चार्याणां तदभावादभिन्नप्रयत्नोच्चार्याणां च शब्दानां बन्धे ऽलङ्कारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषो ऽर्थश्लेषश्चेति द्विविधो ऽप्यर्थालङ्कारमध्ये परिगणितो ऽन्यैरिति कथमयं शब्दालङ्कारः ।
उच्यते ---- इह दोषगुणालङ्काराणां शब्दार्थगतत्वेन यो विभागः सः अन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते । तथाहि ---- कष्टवादिगाढत्वाद्यनुप्रासादयः व्यर्थत्वादिप्रौढ्याद्युपमादयस्तद्भावतदभावानुविधायित्वादेव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते ।
स्वयं च पल्लवाताम्रभास्वत्करविराजिता । इत्यभङ्गः
{प्रभातसंध्येवास्वापफललुब्धेहितप्रदा
}
इति सभङ्गः इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दश्लेषत्वमुपपन्नं
न त्वाद्यस्यार्थश्लेषत्वम् । अर्थश्लेषस्य तु स विषयः यत्र शब्दपरिवर्तने ऽपि न श्लेषत्वखण्डना । यथा
{स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च
}
(कालिदासऽस् पञ्चस्तवी 1.150)
न चायमुपमाप्रतिभोत्पत्तिहेतुः श्लेषः अपि तु श्लेषप्रतिभोत्पत्तिहेतुरुपमा । तथापि ---- यथा
{कमलमिव मुखं मनोज्ञमेतत्कचतितराम्} इत्यादौ गुणसाम्ये क्रियासाम्ये उभयसाम्ये वा उपमा । तथा ऽसकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिवऽ; इत्यादौ शब्दमात्रसाम्ये ऽपि सा युक्तैव । तथा ह्युक्तं रुद्रटेन
{स्फुटमर्थालङ्कारावेतावुपमासमुच्चयौ किं तु ।
आश्रित्य शब्दमात्रं स्श्मान्यमिहापि संभवतः ॥} इति ।
(रुद्रट, काव्यालङ्कार)
न च {कमलमिव मुखम्} इत्यादिः साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तं युक्तं पूर्णोपमाया निर्विषयत्वापत्तेः ॥
{देव त्वमेव पातालमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः
}
इत्यादिः श्लेषस्य चोपमाद्यलङ्कारविविक्तोस्ति विषय इति । द्वयोर्योगे संकर एव । उपपत्तिपर्यालोचने तु उपमाया एवायं युक्तो विषयः । अन्यथा विषयापहार एव पूर्णोपमायाः स्यात् ।
न च ऽअबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुकाऽ; इत्यादौ विरोधप्रतिभोत्पत्तिहेतुः श्लेषः अपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोधः । न ह्यत्रार्थद्वयप्रतिपादकः शब्दश्लेषः द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावात् । न च विरोधाभास इव विरोधः श्लेषाभासः श्लेषः ।
तदेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारान्तरमेव । तथा च
{ सद्वंशमुक्तामणिः
}
(रुद्रटऽस् काव्यालङ्कार 10.27)
{नाल्पः कविरिव स्वल्पश्लोको देव महान् भवान्
}
{अनुरागवती संध्या दिवसस्तत्पुरःसरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः
}
(आनन्दवर्दनऽस् ध्वन्यालोक 1.9)
{आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः ।
यश्चित्रमच्युतशरो लक्ष्यमभाङ्क्षीन्नमस्तस्मै
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
इत्यादावेकदेशविवर्तिरूपकश्लेषव्यतिरेकसमासोक्तिविरोधत्वमुचितं न तु श्लेषत्वम् ॥
शब्दश्लेष इति चोच्यते अर्थालङ्कारमध्ये च लक्ष्यते इति को ऽयं नयः । किं च चैचित्र्यमलङ्कार इति य एव कविप्रतिभासंरम्भगोचरस्तत्रेव विचित्रता इति सैवालङ्कारभूमिः । अर्थमुखप्रेक्षित्वमेतेषां शब्दानामिति चेत् अनुप्रासादीनामपि तथैवेति ते ऽप्यर्थालङ्काराः किं नोच्यन्ते । रसादिव्यञ्जकस्वरूपवाच्यविशेषसव्यपेक्षत्वे ऽपि ह्यनुप्रासादीनाम्
अलङ्कारता । शब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदोषता । अर्थगुणदोषालङ्काराणां शब्दापेक्षयैव व्यवस्थितिरिति ते ऽपि शब्दगतत्वेनोच्यन्ताम् । {विधौ वक्रे मूर्ध्नि} इत्यादौ च वर्णादिश्लेषे एकप्रयत्नोच्चार्यत्वे ऽर्थश्लेषत्वं शब्दभेदे ऽपि प्रसज्यतामित्येवमादि स्वयं
विचार्यम् ॥
तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ॥ म्क्प्र्-
संनिवेशविशेषेण यत्र न्यस्ता वर्णाः खड्गमुरजपद्माद्याकारमुल्लासयन्ति तच्चित्रं काव्यम् । कष्टं काव्यमेतदिति दिङ्मात्रं प्रदर्श्यते । उदाहरणम् ----
{मारारिशक्ररामेभमुखैरासाररंहसा ।
सारारब्धस्तवा नित्यं तदार्तिहरणक्षमा
}
(रुद्रटऽस् काव्यालङ्कार 5.6)
{माता नतानां संघट्टःश्रियां बाधितसंभ्रमा ।
मान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा
}
(रुद्रटऽस् काव्यालङ्कार 5.7)
(खङ्गबन्धः)
{सरला बहुलारम्भतरलालिबलारवा ।
वारलाबहुलामन्दकरलाबहुलामला
}
(रुद्रटऽस् काव्यालङ्कार 5.19)
(मुरजबन्धः)
{भासते प्रतिभासार रसाभाताहताविभा ।
भावितात्मा शुभा वादे देवाभा बत ते सभा
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
(पद्मबन्धः)
{रसासार रसा सारसायताक्षक्षतायसा ।
सातावात तवातासा रक्षतस्त्वस्त्वतक्षर
}
(रुद्रटऽस् काव्यालङ्कार 3.399)
(सर्वतोभद्रम्)
संभविनो ऽप्यन्ये प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपतां दधतीति न प्रदर्श्यन्ते
पुनरेक्तवदाभासो विभिन्नाकारशब्दगा ।
एकार्थतेव ...
भिन्नरूपसार्थकानर्थकशब्दनिष्ठमेकार्थत्वेन मुखे भासनं पुनरुक्तवदाभासः । स च
... शब्दस्य ...
सभङ्गाभङ्गरूपकेवलशब्दनिष्ठः । उदाहरणम् ----
{अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः ।
भाति सदानत्यागः स्थिरतायामवनितलतिलकः
}
(उद्भटऽस् काव्यालङ्कारसारसङ्ग्रह 1)
{चकासत्यङ्गनारामाः कौतुकानन्दहेतवः ।
तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 207)
... तथा शब्दार्थयोरयम् ॥ म्क्प्र्-
उदाहरणम् ----
{तनुवपुरजघन्यो ऽसौ करिकुञ्जररुधिररक्तखरनखरः ।
तेजोधाम महःपृथुमनसामिन्द्रो हरिर्जिष्णुः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रैकस्मिन् पदे परिवर्तिते नालङ्कार इति शब्दाश्रयः अपरस्मिंस्तु परिवर्तिते ऽपि स न हीयते इत्यर्थनिष्ठ इत्युभयालङ्कारो ऽयम्
इति काव्यप्रकाशे शब्दालङ्कारनिर्णयो नाम नवम उल्लासः ॥
=========================================================
अथ दशम उल्लासः
अर्थालङ्कारानाह
साधर्म्यमुपमा भेदे ...
उपमानोपमेययोरेव न तु कार्यकारणादिकयोः साधर्म्यं भवतीति तयोरेव समानेन धर्मेण संबन्ध उपमा ।
... पूर्णा लुप्ता च ...
उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानामुपादाने पूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता ॥
... साग्रिमा ।
श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥ म्क्प्र्-
अग्रिमा पूर्णा ।
यथेवादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिरिति यद्यप्युपमानविशेषणान्येते तथापि शब्दशक्तिमहिम्ना श्रुत्यैव षष्ठीवत् संबन्धं प्रतिपादयन्तीति तत्सद्भावे श्रौती उपमा ।
तथैव {तत्र तस्येव} इत्यनेनेवार्थे विहितस्य वतेरुपादाने ॥
{तेन तुल्यं मुखम्} इत्यादावुपमेये एव {तत्तुल्यमस्य} इत्यादौ चोपमाने एव {इदं च तच्च तुल्यम्} इत्युभयत्रापि तुल्यादिशब्दानां विश्रान्तिरिति साम्यपर्यालोचनया तुल्यताप्रतीतिरिति साधर्म्यस्यार्थत्वात्तुल्यादिशन्दोपादाने आर्थी तद्वत् ऽतेन तुल्यं क्रिया चेद्वतिःऽ; इत्यनेन
विहितस्य वतेः स्थितौ ।
{इवेन नित्यसमासो विभक्त्यपोलः पूर्वपदकृतिस्वरत्वं च} इति नित्यसमासे इवशब्दयोगे समासगा ॥ क्रमेणोदाहरणम् ----
{स्वप्ने ऽपि समरेषु त्वां विजयश्रीर्न मुञ्छति ।
प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारिकान्ति ।
सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्ते
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 211)
{अत्यायतैर्नियमकारिभिरुद्धतानां
दिव्यैः प्रभाभिरनपायमयैरुपायैः ।
शौरिर्भुजैरिव चतुर्भिरदः सदा यो
लक्ष्मीविलासभवनैर्भुवनं बभार
}
(शिवस्वामिन्ऽस् कप्फिनाभ्युदय 1.39)
{अवितथमनोरथपथप्रथनेषु प्रगुण गरिमगीतश्रीः ।
सुरतरुसदृशः स भवान् अभिलषणीयः क्षितीश्वरो न कस्य
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{गाम्भीर्यगरिमा तस्य सत्यङ्गङ्गाभुजङ्गवत् ।
दुरालोकः स समरे निदाघाम्बररत्नवत्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
स्वाधीनपतिका कान्तं भजमाना यथां लोकोत्तरचमत्कारभूः तथा जयश्रीस्त्वदासेवनेनेत्यादिना प्रतीयमानेन विना यद्यपि नोक्तेर्वैचित्र्यम् । वैचित्र्यं चालङ्कारः । तथापि न ध्वनिगुणीभूतव्यङ्ग्यव्यवहारः । न खलु व्यङ्ग्यसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः । अपि तु वाच्य वैचित्यप्रतिभासादेव ॥
रसादिस्तु व्यङ्ग्योर्ऽर्थालङ्कारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वैव तदलङ्कारा उदाहृताः । तद्रहितत्वेन तु उदाह्रियमाणा विरसतामावहन्तीति पूर्वापरचिरुद्धाभिधानमिति न चोदनीयम्
तद्वद् धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः ।
धर्मः साधारणः । तद्धिते कल्पवादौ त्वार्थ्येव ॥ तेन पञ्च ॥
उदाहरणम् ----
{धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः ।
करणीयं वचश्चेतः सत्यं तस्यामृतं यथा
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{आकृष्टकरवालो ऽसौ संपराये परिभ्रमन् ।
प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{करवाल इवाचारस्तस्य वागमृतोपमा ।
विषकल्पं मनो वेत्सि यदि जीवसि तत्सखे
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
उपमानानुपादाने वाक्यगाथ समासगा ॥ म्क्प्र्-
{स_अलकरणपरवीसामसिरिविअरणं ण सरसकव्वस्स ।
दीस_इ अह वा णिसम्म_इ सरिसं अंसंसमेत्तेण
}
[सकलकरणपरचिश्रामश्रीवितरणं न सरसकाव्यस्य ।
दृश्यते ऽथ वा निशम्यते सदृशमंशांशमात्रेण ॥]
(हालऽस् गाथासप्तशती 995)
कव्वस्सेत्र्यत्र कव्वसममिति सरिसमित्यत्र च णूणमिति पाठे एषैव समासगा
वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि ।
कर्मकर्त्रोर्णमुलि ...
वाशब्दः उपमाद्योतक इति । वादेरुपमाप्रतिपादकस्य लोपे षट् समासेन कर्न्णो ऽधिकरणाच्चोत्पन्नेन क्यचा कर्तुः क्यङा कर्मकर्त्रोरुपपदयोर्णमुला च भवेत् ॥
उदाहरणम् ----
{ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता
}
(महाभारत द्रो.[184-46])
तथा
{असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः ।
पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेयमासीत्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{पौरं सुतीयति जनं समरान्तरेसा-
वन्तःपुरीयति विचित्रचरित्रचुञ्चुः ।
नारीयते समरसीम्नि कृपाणपाणेर्
आलोक्य तस्य चरितानि सपत्नसेना
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 217)
{मृधे निदाघघर्मांशुदर्शं पश्यन्ति तं परे ।
स पुनः पार्थसंचारं संचरत्यवनीपतिः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 218)
... एतद्द्विलोपे क्विप्समासगा ॥ म्क्प्र्-
एतयोर्ध्र्मवाद्योः । उदाहरणम् ----
{सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः ।
यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 219)
{परिपन्थिमनोज्यशतैरपि दुराक्रमः ।
संपरायप्रवृत्तौसौ राजते राजकुञ्जरः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते ।
{टुटुण्णन्तो मरिहिसि कण्टअकलिआइं केऐवणाइं ।
मालैकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि
}
[टुण्टुणायमानो मरिष्यसि कण्टककलितानि केतकीवनानि ।
मालतीकुसुमसदृक्षं भ्रमर भ्रमन् न प्राप्स्यसि ॥]
(हालऽस् गाथासप्तशती 979 ; अभिनवगुप्तऽस् ध्वन्यालोकलोचन)
कुसुमेण सममिति पाठे वाक्यगा ।
क्यचि वाद्युपमेयासे ...
आसे निरासे ।
{अरातिविक्रमालोकविकस्वरविलोचनः ।
कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रात्मा उपमेयः ।
... त्रिलोपे च समासगा ॥ म्क्प्र्-
त्रयाणां वादिधर्मोपमानानाम् । उदाहरणम् ----
{तरुणमनि कृतावलोकना ललितविलासवितीर्णविग्रहा ।
स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मनः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र सप्तम्युपमानेत्यादिना यदा समासलोपौ भवतः । तदेदमुदाहरणम् ॥
क्रूरस्याचारस्यायःशूलतयाध्यवसायाद् अयःशूलेनान्विच्छति {आयःशूलिकः} इत्यतिशयोक्तिर्न तु क्रूराचारोपमेयतैक्ष्ण्यधर्मवादीनां लोपे त्रिलोपे ऽयमुपमा ।
एवमेकोनविंशतिर्लुप्ताः पूर्णाभिः सह पञ्चविंशतिः ॥
{अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता ।
मम्लौ साथ विषादेन पद्मिनीव हिमाम्भसा
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 222)
इत्यभिन्ने साधारणे धर्मे ॥
{ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् ।
प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
इत्य् भिन्ने च तस्मिन् एकस्यैव बहूपमानोपादाने मालोपमा ।
यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नधर्मत्वे
{अनवरतकनकवितरणजललवभृतकरतरङ्गितार्थिततेः ।
भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{मतिरिव मूर्तिर्मधुरा मूर्तिरिव सभा प्रभावचिता ।
तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम्
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 223)
इत्यादिका रशनोपमा च न लक्षिता एवंविधवैचित्र्यसहस्रसंभवात्
उक्तभेदानतिक्रमाच्च
उपमानोपमेयत्वे एकस्यैवैकवाक्यगे ।
अनन्वयः ...
उपमानान्तरसंबन्धाभावो ऽनन्वयः । उदाहरणम् ----
{न केवलं भाति नितान्तकान्तिर्नितम्बनी सैव नितम्बिनीव ।
यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
... विपर्यास उपमेयोपमा तयोः ॥ म्क्प्र्-
तयोः उपमानोपमेययोः । परिवृत्तिः अर्थात् वाक्यद्वये । इतरोपमानव्यवच्छेदपरा उपमेयेनोपमा इति उपमेयोपमा । उदाहरणम् ----
{कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः ।
धरणीव धृतिर्धृतिरिव धरणी सततं विभाति बत यस्य
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 225)
संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ।
समेन उपमानेन । उदाहरणम् ----
{उन्मेषं यो मम न सहते जातिवैरी निशायाम्
इन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः ।
नीतिः शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षाल्
लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता
}
(शूद्रकऽस् मृच्छकटिका 1.32)
इत्यादौ व्यापनादि लेपनादिरूपतया संभावितम् ॥
ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥ म्क्प्र्-
भेदोक्तौ यथा
{अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनो ऽसाविति चिरं
समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
भेदोक्तावित्यनेन न केवलमयं निश्चयगर्भो यावन्निश्चयान्तो ऽपि संदेहः स्वीक्र्टः ।
यथा
{इन्दुः किं क्व कलङ्कः सरसिजमेतत् किमम्बु कुत्र गतम् ।
ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
किं तु निश्चयगर्भ इव नात्र निश्चयः प्रतीयमान इति उपेक्षितो
भट्टोद्भटेन । तदनुक्तौ यथा
{अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः
}
(कालिदासऽस् विक्रमोर्वशीय 1.8)
तद्रूपकमभेदो य उपमानोपमेययोः ।
अतिसाम्याद् अनपह्नुतभेदयोः अभेदः ।
समस्तवस्तुचिष्यं श्रौता आरोपिता यदा ॥ म्क्प्र्-
आरोपविषया इव आरोप्यमाणाः यदा शब्दोपात्ताः तदा समस्तानि वस्तूनि विषयोस्येति समस्तवस्तुविषयम् । आरोपिता इति बहुवचनमविवक्षितम् । यथा
{ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी-
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् ।
द्वीपाद् द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्यच्छलेन
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
अत्र पादत्रये, अन्तर्धानव्यसनरसिकत्वमारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्तीतितत्संकराशङ्का न कार्या
श्रौता आर्थश्च ते यस्मिन्नेकदेशविवर्ति तत् ।
केविदारोप्यमाणाः शब्दो ऽपात्ताः केचिदर्थसामर्थ्यादवसेयाः इत्येकदेशविवर्तनात् एकदेशविवर्ति । यथा
{जस्स रणन्ते_उर_ए करे कुणन्तस्स मण्डलग्गल_अं ।
रससंमुही वि सहसा परमुही हो_इ रि_उसेणा
}
[यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम् ।
रससंमुख्यपि सहसा पराञ्मुखी भवति रिपुसेना ॥]
(हालऽस् गाथासप्तशती 980)
अत्र रणस्यान्तःपुरत्वमारोप्यमाणं शब्दो ऽपात्तम् मण्डलाग्रलतायाः नायिकात्वम् रिपुसेनायाश्च प्रतिनायिकात्वम् अर्थसामर्थ्यादवसीयते इति एकदेशे विशेषेण वर्तनादेकदेशविवर्ति ।
साङ्गमेतत् ...
उक्तद्विभेदं सावयवम् ॥
... निरङ्गं तु शुद्धं ...
यथा
{कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्
सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् ।
अनिद्रं यच्चान्तः स्वपिति तदहो वेद्म्यभिनवां
प्रवृत्तो ऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन ; अभिनवगुप्तऽस् अभिनवभारती)
... माला तु पूर्ववत् ॥ म्क्प्र्-
मालोपमायामिवैकस्मिन् बहव आरोपिताः । यथा
{सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः
कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः ।
विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया
वाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
नियतारोपणोपायः स्यादारोपः परस्य यः ।
तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥ म्क्प्र्-
यथा
{विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते
दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर ।
सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो
साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
अत्र मानसमेव मानसम् कमलायाः संकोच एव कमलानामसंकोचः दुर्गाणाममार्गणमेव दुर्गायाः मार्गणम् समितां स्वीकार एव समिधां स्वीकारः सत्ये प्रतीतिरेव सत्यामप्रीतिः विजयः परपराभव एव विजयोर्जुनः एवमारोपणनिमित्तो हंसादेरारोपः ।
यद्यपि शब्दार्थालङ्कारो ऽयमित्युक्तं वक्ष्यते च तथापि प्रसिद्ध्यनुरोधादत्रोक्तः । एकदेशविवर्ति हीदमन्यैरभिधीयते ॥
भेदभाजि यथा
{आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः
पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः ।
संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो
राजन् राजति वीरवैरिवनितावैधव्यदस्ते भुजः
}
(महिमभट्टऽस् व्यक्तिविवेक)
अत्र जयादेर्भिन्नशब्दवाच्यस्य कुञ्जरत्वाद्यारोपे भुजस्य आलानत्वाद्यारोपो युज्यते ।
{अलौकिकमहालोकप्रकाशितजगत्त्रयः ।
स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रप्ञ्चम् ।
प्रथम इह भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 3,4.32)
इति च अमालारूपोअकमपि परंपरितं द्रष्टव्यम् ॥
{किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति ।
नलिनीनां कमलमुखैः मुखेन्दुभिर्योषितां मदनः
}
(रुद्रटऽस् काव्यालङ्कार 8.50)
इत्यादि रशनारूपकं न वैचित्र्यवदिति न लक्षितम्
प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः ।
उपमेयम् असत्यं कृत्वोपमानं सत्यतया यत् स्थाप्यते सा तु अपह्नुतिः उदाहरणम् ----
{अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये
कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि ।
अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे
रतिश्रान्ता शेते रजनिरमणी गाढमुरसि
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
इत्थं वा
{बत सखि कियदेतत् पश्य वैरं स्मरस्य
प्रियविरहकृशेस्मिन् रागिलोके तथा हि ।
उपवनसहकारोद्भासिभृङ्गच्छलेन
प्रतिविशिखमनेनोट्टङ्कितं कालकूटम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र हि न सभृङ्गाणि सहकाराणि अपि तु सकालकूटा शरा इति प्रतीतिः । एवं वा
{अमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।
यदङ्गाङ्गारणां प्रथमपिशुना नाभिकुहरे
शिखा धूमस्येयं परिणंमति रोमावलिवपुः
}
(वल्लभदेवऽस् सुभाषितावलि, बोम्बय् सन्क्रित् अन्द् प्रक्रित् सेरिएस्. 1558)
अत्र न रोमावलिः धूमशिखेयमिति प्रतिपत्तिः ॥
एवमियं भङ्ग्यन्तरैरप्यूह्या ॥
श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् ॥ म्क्प्र्-
एकार्थप्रतिपादकानामेव शब्दानां यत्रानेको ऽर्थः स श्लेषः । उदाहरणम् ----
{उदयमयते दिङ्मालिन्यं निराकुरुतेतरां
नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः ।
रचयतितरां स्वैराचारप्रवर्तनकर्तनं
बत बत लसत्तेजःपुञ्जो विभाति विभाकरः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 237)
अत्राभिधाया अनियन्त्रणात् द्वावप्यर्कभूपौ वाच्यौ
परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिर् ...
प्रकृतार्थप्रतिपादकवाक्येन श्लिष्टविशेषणमाहात्म्यात् न तु विशेष्यस्य सामर्थ्यादपि यत् अप्रकृतस्यार्थस्याभिधानम् सा समासेन संक्षेपेणार्थद्वयकथनात् समासोक्तिः । उदाहरणम् ----
{लहिऊण तुज्झ बाहुप्फंसं जीए स को वि उल्लासो ।
जअलच्छी तुब विरहे ण हुज्जला दुब्बला णं सा
}
[लब्ध्वा तव बाहुस्पर्श यस्याः स को ऽप्युल्लासः ।
जयलक्ष्मीस्तव विरहे न खलूज्ज्वला दुर्बला ननु सा ॥]
(हालऽस् गाथासप्तशती, निर्नय सगर् प्रेस्स्. 428)
अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति ॥
... निदर्शना ।
अभवन्वस्तुसंबन्ध उपमापरिकल्पकः ॥ म्क्प्र्-
निदर्शनं दृष्टान्तकरणम् । उदाहरणम् ----
{क्व सूर्यप्रभावो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्
}
(कालिदासऽस् रघुवंश1-2)
अत्र उडुपेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमायां पर्यवस्यति ।
यथा वा
{उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्
}
(माघऽस् सिशुपालवध, निर्नय सगर् प्रेस्स्. 4.20)
अत्र कथ्मन्यस्य लीलामन्यो वहतीति तत्सदृशीमित्युपमायां पर्यवसानम् ।
{दोर्भ्यां तितीर्षति तरङ्गवतीभुजङ्गम्
आदातुमिच्छति करे हरिणाङ्कबिम्बम् ।
मेरुंलिलङ्घयिषति ध्रुवमेष देव
यस्ते गुणान् गदितुमुद्यममादधति
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 241)
इत्यादौ मालारूपाप्येषा द्रष्टव्या
स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापरा ।
क्रिययैव स्वस्वरूपस्वकारणयोः संबन्धो यदवगम्यते सा अपरा निदर्शना । यथा
{उन्नतं पदमवाप्य यो लघुहेलयैव पतेदिति ब्रुवन् ।
शैलशेखरगतो दृषत्कणश्चारुमारुतधुतः पतत्यधः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 242)
अत्र पातक्रियया पतनस्य लाघवे सति उन्नतपदप्राप्तिरूपस्य च संबन्धः ख्याप्यते ॥
अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥ म्क्प्र्-
अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेपो ऽप्रस्तुतप्रशंसा
कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ म्क्प्र्-
तदन्यस्य कारणादेः । क्रमेणोदाह्यणम् ----
{याता किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे मयि ।
लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः
}
(अमरुशतक 10)
अत्र प्रस्थानात्किमिति निवृत्तो ऽसीति कार्ये पृष्टे कारणमभिहितम् ।
{राजन्राजसुता न पाठयति मां देव्यो ऽपि तूष्णीं स्थिताः
कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते ।
इत्थं नाथ शुकस्तवारिभवने मुक्तोध्वगैः पञ्जराच्
चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
अत्र प्रस्थानोद्यतं भवन्तं ज्ञात्वा सहसैव त्वदरयः पलाय्य गताः इति कारणे प्रस्तुते कार्यमुक्तम् ।
{एतत्तस्य मुखात्कियत् कमलिनीपत्रे कणं वारिणो
यन्मुक्तामणिरित्यमंस्त स जडःशृण्वन्यदस्मादपि ।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः
कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा
}
(भल्लटशतक 94)
अत्रास्थाने जडानां ममत्वसंभावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः ।
{सुहृद्वधूबाष्पजलप्रमार्जनं करोति वैरप्रतियातनेन यः ।
स एव पूज्यः स पुमान्स नीतिमान्सुजीवितं तस्य स भाजनं श्रियः
}
(उद्भटऽस् काव्यालङ्कारसारसङ्ग्रह)
अत्र ऽकृष्णं निहत्य नरकासुरवधूनां यदि दुःखम् प्रशमयसि तत् त्वमेव श्लाघ्यःऽ; इति विशेषे प्रकृते सामान्यमभिहितम् । तुये प्रस्तुते तुल्याभिधाने त्रयः प्रकाराः । श्लेषः समासोक्तिः सादृश्यमात्रं वा तुल्यात् तुल्यस्य ह्याक्षेपे हेतुः । क्रमेणोदाहरणम् --
{पुंस्त्वादपि प्रविचलेत् यदि यद्यधो ऽपि
यायाद् यदि प्रणयने न महानपि स्यात् ।
अभ्युद्धरेत्तदपि विश्वमितीदृशीयं
केनापि दिक् ओरकटिता पुरुषोत्तमेन
}
(भल्लटशतक 79)
{येञास्यभ्युदितेन चन्द्र गमितः क्लान्तिं रवौ तत्र ते
युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः ।
क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनाग्
अस्त्वेवं जडधामता तु भवतो यद् व्योम्नि विस्फूर्जसे
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{आदाय वारि परितः सरितां मुखेभ्यः
किं तावदर्जितमनेन दुरर्णवेन ।
क्षारीकृतं च वडवादहने हुतं च
पातालकुक्षिकुहरे विनिवेशितं च
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
इयं च काचित् वाच्ये प्रतीयमानार्थानध्यारोपेणैव भवति । यथा
{अब्धेरम्भः स्थगितभुवनाभोगपातालकुक्षेः
पोतोपाया इह हि बहवो लङ्घने ऽपि क्षमन्ते ।
आहो रिक्तः कथमपि भवेदेष दैवात् तदानीं
को नाम स्यादवटकुहरालोकने ऽप्यस्य कल्पः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
क्वचिदध्यारोपेणैव । यथा
{कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन 3.51)
क्वचिदंशेष्वध्यारोपेण । यथा
{सो ऽपूर्वो रसनाविपर्ययविधिः तत् कर्णयोश्चापलं
दृष्टिः सा मदविस्मृतस्वपरदिक् किं भूयसोक्तेन वा ।
सर्वं विस्मृतवानसि भ्रमर हे यद्वारणो ऽद्याप्यसौ
अन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः
}
(भल्लटशतक 18)
अत्र रसनावपर्यासः शून्यकर्त्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः मदः प्रत्युत सेवते निमित्तम्
निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् ।
प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ म्क्प्र्-
कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः ।
विज्ञेयातिशयोक्तिः सा ...
उपमानेनान्तर्निगीर्णस्योपमेयस्य यदध्यवसानं सैका । यथा
{कमलमनम्भसि कमले च कुबलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरंपरा केयम्
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
अत्र मुखादि कमलादिरूपतयाध्यवसितम् । यच्च तदेवान्यत्वेनाध्यवसीयते सा अपरा । यथा
{अण्णं लडहत्तण_अं अण्णा वि_अ का वि वत्तणच्छा_आ ।
सामा सामण्णप_आव_इणो रेहच्चि_अ ण हो_इ
}
[अन्यत्सौकुमार्यम् अन्यैव च कापि वर्तनच्छाया ।
श्यामा सामान्यप्रजापतेः रेक्षैव च न भवति ॥]
(हालऽस् गाथासप्तशती 969)
(अर्थात् असंभविनो ऽर्थस्य) सा तृतीया । यथा
{राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः ।
तस्या मुखं तदा साम्यपराभवमवाप्नुयात्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
कारणस्य शीघ्रकारितां वक्तुं कार्यस्य पूर्वमुक्तौ चतुर्थी । यथा
{हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ लोचनविषयं त्वया भजता
}
(दामोदरगुप्तऽस् कुट्टनीमत 96)
... प्रतिवस्तूपमा तु सा ॥ म्क्प्र्-
सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः ।
साधारणो धर्मः उपमेयवाक्ये उपमानवाक्ये च कथितपदस्य दुष्टतयाभिहितत्वात् शब्दभेदेन यत् उपादीयते सा वस्तूनो वाक्यार्थस्योपमानत्वात् प्रतिवस्तूपमा । यथा
{देवीभावं गमिता परिवारपदं कथं भजत्वेषा ।
न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम्
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 4,2.4)
{यदि दहत्यनलो ऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥454[=272]॥}
(आनन्दवर्धनऽस् देविशतक)
इत्यादिका मालाप्रतिवस्तूपमा द्रष्टव्या । एवमन्यत्राप्यनुसर्तव्यम् ॥
दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥ म्क्प्र्-
एतेषां साधारणधर्मादीनां दृष्टो ऽन्तो निश्चयो यत्र स दृष्टान्तः ।
{त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् ।
आलोके हि हिमांशोर्विकसति कुसुमं कुमुद्वत्याः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 251)
एष साधर्म्येण । वैधर्म्येण तु
{तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः ।
भटः परेषां विशरारुतामगुः दधत्यवाते स्थिरतां हि पांसवः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
॥100-102॥
सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ म्क्प्र्-
प्राकरणिकाप्राकरणिकानाम् अर्थात् उपमानोपमेयानां धर्मः क्रियादिः एकवारमेव यत् उपादीयते तत् एकस्थस्यैव समस्तवाक्यदीपनाद् दीपकम् । यथा
{किवणाणं धणं णागाणं फणमणी केशरा_इं सीहाणं ।
कुलबालि_आणं त्थण_आ कुत्तो छिप्पन्ति अमु_आणं
}
[कृपणानां धनं नागानां फणमणिः केसरा सिंहानाम् ।
कुलबालिकानां स्तनाः कुतः स्पृश्यन्ते ऽमृतानाम् ॥]
(हालऽस् गाथासप्तशती, निर्नय सगर् प्रेस्स्. 976)
कारकस्य च बह्वीषु क्रियासु सकृद्वृत्तिदीर्पकम् । यथा
{स्विद्य[त्]इ कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक् ।
अन्तर्नन्दति चुम्बतुमिच्छति नवपरिणया वधूः शयने
}
(सुभाषितरत्नभाण्डागार 317।3)
मालादीपकमाद्यं चेत्यथोत्तरगुणावहम् ।
पूर्वेण पूर्वेण वस्तुना उत्तरमुत्तरं चेदुपक्रियते तत् मालादीपकम् । यथा
{संग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाक्रणय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥ म्क्प्र्-
नियतानां प्राकरणिकानामेव अप्राकरणिकानामेव वा । क्रमेणोदाहरणम् ----
{पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन)
{कुमुदकमलनीलनीरजालिर्ललितविलासजुषोर्दृशोः पुरः का ।
अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
उपमानाद्यदन्यस्य व्यतिरेकः स एव सः ।
अन्यस्योपमेयस्य व्यतिरेक आधिक्यम् ।
{क्षीणः क्षीणो ऽपि शशी भूयो भूयो विवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु
}
(अमरुशतक)
तद्युक्तम् । अत्र यौवनगतास्तैर्याधिक्यं हि विवक्षितम् ॥
हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते ॥ म्क्प्र्-
शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् ।
व्यतिरेकस्य हेतुः उपमेयगतमुत्कर्षनिमित्तम् । उपमानगतमपकर्षकारणम् । तयोर्द्वयोरुक्तिः, एकतरस्य द्वयोर्वा अनुक्तिरित्यनुक्तित्रयम् । एतद्भेदचतुष्टयमुपमानोपमेयभावे शब्देन प्रतिपादिते आर्थेन च क्रमेणोक्ताश्चत्वार एव भेदाः । आक्षिप्ते चौपम्ये तावन्त एव । एवं द्वादश ॥ एते श्लेषे ऽपि भवन्तीति चतुर्विशतिर्भेदाः । क्रमेणोदाहरणम् ----
{असिमात्रसहायस्य प्रभूतारिपराभवे ।
अन्यतुच्छजनस्येव न स्मयो ऽस्य महाधृतेः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रैव तुच्छेति महाधृतेरित्यनयोः पर्यायेण युगपद्वानपादानेन्यत् भेदत्रयम् । एवमन्येष्वपि द्रष्टव्यम् । अत्र इवशब्दस्य सद्भावाच्छाब्दमौपम्यम् ।
{असिमात्रसहायो ऽपि प्रभूतारिपराभवे ।
नैवान्यतुच्छजनवत्सगर्वो ऽयं महाधृतिः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र् त्रुल्यार्थे वतिरित्यार्थमौपम्यम् ।
{इयं सुनयना दासीकृततामरसश्रिया ।
आननेनाकलङ्केन जयतीन्दुं कलङ्किनम्
}
(उद्भटऽस् काव्यालङ्कारसारसङ्ग्रह)
अत्रेवादितुल्यादिपदविरहेण आक्षिप्तैवोपमा ।
{जितेन्द्रियतया सम्यग्विद्यावृद्धनिषेविणः ।
अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुणाः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रेवार्थे वतिः । गुणशब्दः श्लिष्टः । शाब्दमौपम्यम् ॥
{अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः ।
न निशाकरवज्जातु कलावैकल्यमागतः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र तुल्यार्थे वतिः । कलाशब्दः श्लिष्टः ।
मालाप्रतिवस्तूपमावत् मालाव्यतिरेको ऽपि संभवति । तस्यापि भेदा एवमूह्याः । दिङ्मात्रमुदाह्रियते । यथा
{हरवन्न विषमदृष्टिर्हरिवन्न विभो विधूतविततवृषः ।
रतिवन्न चातिदुःसहकरतापितभूः कदाचिदसि
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 256)
अत्र तुल्यार्थे वतिः । विषमादयश्च शब्दाः श्लिष्टाः ।
{नित्योदितप्रतापेन त्रियामामीलितओरभः ।
भास्वतानेन भूपेन भास्वानेष विनिर्जितः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र ह्याक्षिप्तैवोपमा भास्वतेतिश्लिष्टः । यथा वा
{स्वच्छात्मतागुणसमुल्लसितेन्दुबिम्बं
बिम्बप्रभाधरमकृत्रिमहृद्यगन्धम् ।
यूनामतीव पिबतां रजनीषु यत्र
तृष्णां जहार मधु नाननमङ्गनानाम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रेवादीनां तुल्यादीनां च पदानामभावे ऽपि श्लिष्टविशेषणैराक्षिप्तैवोपमा प्रतीयते । एवञ्जातीयकाः श्लिष्टोक्तियोग्यस्य पदस्य पृथग्पादाने ऽन्येपि भेदाः संभवन्ति । ते ऽपि अनयैव दिशा द्रष्टव्याः ॥
निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ म्क्प्र्-
वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ।
विवक्षितस्य प्राकरणिकत्वादनुपसर्जनीकार्यस्य अशक्यवक्तव्यत्वम् अतिप्रसिद्धत्वं वा विशेषं वक्तुं निषेधो निषेध इव यः स वक्ष्यमाणविषय उक्तविषयश्चेति द्विधा आक्षेपः ।
क्रमेणोदाहरणम् ----
{ए एहि किंअपि कीएवि अ_एण णिक्किव भणामि अलमह वा ।
अविआरि_अकज्जारम्भ_आरिणी मरौ ण भणिस्सं
}
[ए एहि किमपि कस्या अपि कृते निष्कृप भणामि अलमथ वा ।
अविचारितकार्यारम्भकारिणी म्रियतां न भनिष्यामि ॥]
(हालऽस् गाथासप्तशती 7.2)
{ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः
कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः ।
अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर-
व्यापाराय भवन्ति हन्त किमनेनोक्तेन न ब्रूमहे
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
क्रियायाः प्रतिषेधे ऽपि फलव्यक्तिर्विभावना ॥ म्क्प्र्-
हेतुरूपक्रियायाः निषेधे ऽपि तत्फलप्रकाशनं विभावना । यथा
{कुसुमितलताभिरहताप्यधत्त रुजमलिकुलैरदष्टापि ।
परिवर्तते स्म नलिनीलहरीभिरलोलिताप्यघूर्णत सा
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा)
॥105-107॥
विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।
मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिः । अनुक्तनिमित्ता उक्तनिमित्ता अचिन्त्यनिमित्ता च । क्रमेणोदाहरणम् ----
{निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं पराप्ते ।
श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोङ्गना सा
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{कर्पूर इव दग्धो ऽपि शक्तिमान् यो जने जने ।
नमो ऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे
}
(राजशेखरऽस् बालरामायण 3.11)
{स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न बलं हृतम्
}
(भामहऽस् काव्यालङ्कार 3.24)
यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥ म्क्प्र्-
यथा
{एकस्त्रिधा वससि चेतसि चित्रमत्र
देव द्विषां च विदुषां च मृगीदृशां च ।
तापं च संमदरसं च रतिं च पुष्णन्
शौर्योष्मणा च विनयेन च लीलया च
}
(सुभाषितरत्नाकर 1438)
सामान्यं वा विशेषो वा तदन्येन समर्थ्यते ।
यत्तु सो ऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ म्क्प्र्-
साधर्म्येण वैधर्म्येण वा सामान्यं विशेषेण यत् समर्थ्यते विशेषो वा सामान्येन सो ऽर्थान्तरन्यासः । क्रमेणोदाहरणम् ----
{निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् ।
पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम्
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 265)
{सुसितवसनालङ्कारायां कदाचन कौमुदी-
महसि सुदृशि स्वैरं यान्त्यां गतो ऽस्तमभूद्विधुः ।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा
प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः ॥479[=266]॥}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 121)
{गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते ।
असंजातकिणस्कन्धः सुखं स्वपिति गौर्गलिः
}
(भोजऽस् सरस्वतीकाण्ठाभरण 4.125)
{अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
विरोधः सोविरोधे ऽपि विरुद्धत्वेन यद्वचः ।
वस्तुवृत्तेनाविरोधे ऽपि विरुद्धयोरिव यदभिधानं स विरोधः ।
जातिश्चतुर्भिजात्याद्यैर्विरुद्धा स्याद्गुणैस्त्रिभिः ॥ म्क्प्र्-
क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश ।
क्रमेणोदाहरणम् ----
{अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः ।
सुभग कुरङ्गदृशोस्या विधिवशतस्त्वद्वियोगपविपाते
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप 267)
{गिरयो ऽप्यनुन्नतियुजो मरुदप्यचलोब्धयो ऽप्यगम्भीराः ।
विश्वंभराप्यतिलघुर्नरनाथ तवान्तिके नियतम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{येषां कण्ठपरिग्रहप्रणयितां संप्राप्य धाराधरस्
तीक्ष्णः सो ऽप्यनुरज्यते च कमपि स्नेहं पराप्नोति च ।
तेषां संगरसङ्गसक्तमनसां राज्ञां त्वया भूपते
पांसूनां पटलैः प्रसाधनविधिर्निर्वर्त्यते कौतुकम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् ।
अवसरवशतः शफरो जनार्दनः सो ऽपि चित्रमिदम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते ।
द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{पेशलमपि खलवचनं दहतितरां मानसं सत्तत्त्वविदाम् ।
परुषमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{कौञ्चाद्रिरुद्दामदृषद्दृढोसौ यन्मार्गणानर्गलशातपाते ।
अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः को ऽप्यन्तर्जडयति च तापं च कुरुते
}
(भवभूतिऽस् मालतीमाधव 1.30)
{अयं वारामेको निलय इत रत्नाकर इति
श्रितोस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः
}
(भल्लटशतक 108)
{समदमतङ्गजमदजलनिस्यन्दतरङ्गिणीपरिष्वङ्गात् ।
क्षितितिलक त्वयि तटजुषि शङ्करचूडापगापि कालिन्दी
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥ म्क्प्र्-
स्वयोस्तदेकाश्रयोः । रूपं वर्णः संस्थानं च । उदाहरणम् ----
{पश्चादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैर्
आसज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूभ्रां विधूय ।
घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो
मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण
}
(बाणऽस् हर्षचरित 3.5)
॥110-111॥
व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा ।
व्याजरूपा व्याजेन वा स्तुतिः । क्रमेणोदाहरणम् ----
{हित्वा त्वामुपरोधबन्ध्यमनसां मन्ये न मौलिः परो
लज्जावर्जनमन्तरेण न रमामन्यत्र संदृश्यते ।
यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः
प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थितिः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे
नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो-
भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः
}
(कुन्तकऽस् वक्रोक्तिजीवित 1.90; पुञ्जराज, वाक्यपदीयटीका 2.249)
सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ म्क्प्र्-
एकार्थाभिधायकमपि सहार्थबलात् यत् उभयस्याप्यवगमकं सा सहोक्तिः । यथा
{सह दिअहणिसांहि दीहरा सासदण्डा
सह मणिवलयेंहि बाहधारा गलन्ति ।
तुह सुहअ विओए तीअ उब्बिग्गिरीए
सह अ तणुलदाए दुब्बला जीविदासा
}
[सह दिवसनिशाभिर्दीर्घाः श्वासदण्डाः
सह मणिबलयैर्वाष्पधारा गलन्ति ।
तव सुभग वियोगे तस्या उद्विग्नायाः
सह च तनुलतया दुर्बला जीविताशा ॥]
(राजशेखरऽस् कर्पूरमञ्जरी 2.9)
श्वासदण्डादिगतं दीर्घत्वादि शाब्दम् दिवसनिशादिगतं तु सहार्थसामर्थ्यात्प्रतिपद्यते
विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः ।
क्वचिदशोभनः क्वचिच्छोभनः । क्रमेणोदाहरणम् ----
{अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः ।
उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{मृगलोचनया विना विचित्रच्व्यवहारप्रतिभाप्रभाप्रगल्भः ।
अमृतद्युतिसुन्दराशयो ऽयं सुहृदा तेन विना नरेन्द्रसूनुः
}
(रुय्यकऽस् अलङ्कारसर्वस्व 50)
परिवृत्तिर्विनिमयो यो ऽर्थानां स्यात्समासमैः ॥ म्क्प्र्-
परिवृत्तिरलङ्कारः । उदाहरणम् ----
{लतानामेतासामुदितकुसुमानां मरुदयं
मतं लास्यं दत्त्वा श्रयति भृशमामोदमसमम् ।
लतास्त्वध्वन्यानामहह दृशमादय सहसा
ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र प्रथमेर्घे समेन समस्य द्वितीये उत्तमेने न्यूनस्य ।
{नानाविधप्रहरणैर्नृप संप्रहारे
स्वीकृत्य दारुणनिनादवतः प्रहारान् ।
दृप्तारिवीरविसरेण वसुंधरेयं
निर्विप्रलम्भपरिरम्भविधिर्वितीर्णा
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र न्यूनेनोत्तमस्य
प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः ।
तद्भाविकं ...
भूताश्च भाविनश्चेति द्वन्द्वः । भावः कवेरभिप्रायो ऽत्रास्तीति भाविकम् । उदाहरणम् ----
{आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम्
}
(भल्लटशतक 69)
आद्ये भूतस्य द्वितीये भाविनो दर्शनम् ॥
... काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ म्क्प्र्-
वाक्यार्थता यथा
{वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा
पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान् ।
नमन् मुक्तः संप्रत्यहमतनुरग्रे ऽप्यनतिभाङ्
महेश क्षन्तव्यं तदिदमपराधद्वयमपि
}
(सुभाषितरत्नाकर 36)
अनेकपदार्थता यथा
{प्रणयिसखी सलीलपरिहासरसाधिगतैर्
ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः
पततु शिरस्यकाण्डयमदण्ड इवैष भुजः
}
(भवभूतिऽस् मालतीमाधव 5.31)
एकपदार्थता यथा
{भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं
हा सोपानपरंपरां गिरिसुताकान्तालयालङ्कृतिं ।
अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा-
लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
एषु अपराधद्वये पूर्वापरजन्मनोरनमनम् भुजपाते शस्त्रोपक्षेपः महामोहे सुखावलोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतुः
पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः ।
वाच्यवाचकभावव्यतिरिक्तेनावगमनव्यापारेण यत् प्रतिपादनं तत् पर्यायेण भङ्ग्यन्तरेण कथनात् पर्यायोक्तम् । उदाहरणम् ----
{यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झता ।
मदेनैरावणमुखे मानेन हृदये हरेः
}
(मेण्ठ,हयग्रीववधम्)
अत्र ऐरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्ग्यमपि शब्देनोच्यते । तेन यदेवोच्यते तदेव व्यङ्ग्यम् । यथा तु व्यङ्ग्यं न तथोच्यते । यथा गवि शुक्ले चलति दृष्टे {गौः शुक्लश्चलति} इति विकल्पः । यदेव दृष्टं तदेव विकल्पयति न तु यथा दृष्टं तथा ।
यतो ऽभिन्नासंसृष्टत्वेन दृष्टम् भेदसंसर्गाभ्यां विकल्पयति ॥
उदात्तं वस्तुनः संपत् ...
संपत् समृद्धियोगः । यथा
{मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः
प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः ।
दूराद्दाडिमबीजशङ्कितधिंयः कर्षन्ति केलीशुकाः
यद्विद्वद्भवनेषु भोजनृपतेस्तत् त्यागलीलायितम्
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
... महतां चोपलक्षणम् ॥ म्क्प्र्-
उपलक्षणमङ्गभावः अर्थादुपलक्षणीये ऽर्थे । उदाहरणम् ----
{तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी ।
निवसन् बाहुसहायश्चकार रक्षःक्षयं रामः
}
(रुद्रटऽस् काव्यालङ्कार 7.104)
न चात्र वीरो रसः तस्येहाङ्गत्वात्
तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् ।
समुच्चयो ऽसौ ...
तस्य प्रस्तुतस्य कार्यस्य एकस्मिन् साधके स्थिते साधकान्तराणि यत्र संभवन्ति स समुच्चयः । उदाहरणम् ----
{दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोत्युत्सुकं
गाढं प्रेम नवं वयोतिकठिनाः प्राणाः कुलं निर्मलम् ।
स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तोक्षमो
नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः
}
(शार्ङ्गधरपद्धति)
अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति । तदुपरि प्रियतमदूरस्थित्यादि उपात्तम् ॥
एष एव समुच्चयः सद्योगे ऽसद्योगे सदसद्योगे च पर्यवस्यतीति न पृथक् लक्ष्यते । तथाहि ----
{कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् ।
प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो
व्रजति सुतरां दर्पं राजन् त एव तवाङ्कुशाः
}
(भोजऽस् सरस्वतीकाण्ठाभरण 5.368)
अत्र सतां योगः । उक्तोदाहरणे त्वसतां योगः ।
{शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिकं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे
}
(भर्तृहरिऽस् नीतिशतक 45)
अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः ॥
... स त्वन्यो युगपद् या गुणक्रियाः ॥ म्क्प्र्-
गुणौ च क्रिये च गुणक्रिये च गुणक्रियाः । क्रमेणोदाहरणम् ----
{विदलितसकलारिकुलं तव बलमिदमभवदा‘उ विमलं च ।
प्रखलमुखानि नराधिप मलिनानि च तानि जातानि
}
(रुद्रटऽस् काव्यालङ्कार 7.28)
{अयमेकपदे तया वियोगः प्रयया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः
}
(कालिदासऽस् विक्रमोर्वशीय 4.10)
{कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः ।
पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः
}
(विश्वनाथऽस् साहित्यदर्पण 10.85)
{धुनोति चासिं तनुते च कीर्तिम्} इत्यादेः {कृपाणपाणिश्च भवान् रणक्षितौ ससाधुवादाश्च सुराः सुरालये} इत्यादेश्च दर्शनात् {व्यधिकरणे} इति {एकस्मिन् देशे} इति च न वाच्यम्
एकं क्रमेणानेकस्मिन् पर्यायः ...
एकं वस्तु क्रमेणानेकस्मिन् भवति क्रियते वा स पर्यायः । क्रमेणोदाहरणम् ----
{नन्वाश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा ।
प्रागर्णवस्य हृदये वृषलक्ष्मणो ऽथ
कण्ठेधुना वससि वाचि पुनः खलानाम्
}
(भल्लटशतक 4)
यथा वा
{बिम्बोष्ट एव रागस्ते तन्वि पूर्वमदृश्यत ।
अधुना हृदये ऽप्येष मृगशावाक्षि लक्ष्यते
}
(पद्मगुप्त अलिअस् परिमलऽस् नवसाहसाङ्कचरित 6.60)
रागस्य वस्तुतो भेदे ऽप्येकतयाध्यवसितत्वादेकत्वमविरुद्धम् ।
{तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसं ।
बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेण
}
[तत्तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम् ।
विम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥]
(आनन्दवर्धनऽस् विषमबाणलीला)
... अन्यस्ततो ऽन्यथा ।
अनेकमेकस्मिन् क्रमेण भवति क्रियते वा सो ऽन्यः ॥
क्रमेणोदाहरणम् ----
{मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति ।
अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 286)
{तद्गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः
सा धेनुर्जरती नदम्ति करिणामेता घनाभा घटाः ।
स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं योषिताम्
आश्चर्यं दिवसैर्द्विजोयमियतीं भूमिं समारोपितः
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन 3.16)
अत्र एकस्यैव हानोपादानयोरविवक्षितत्वात् न परिवृत्तिः ॥
अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः ॥ म्क्प्र्-
पक्षधर्मान्वयव्यतिरेकित्वेन त्रिरूपो हेतुः साधनम् । धर्मिणि अयोगव्यवच्छेदो व्यापकस्य साध्यत्वम् । यथा
{यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रुवं
यत् तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः ।
तच्चक्रीकृतचापमञ्चितशरप्रेङ्खत्करः क्रोधनो
धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
साध्यसाधन्योः पौर्वापर्यविकल्पे ने किञ्चिद्वैचित्र्यमिति न तथा दर्शितम्
विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः ।
अर्थाद्विशेष्यस्य । उदाहरणम् ----
{महौजसो मानधना धनार्चिता
धनुर्भृतः संयति लब्धकीर्तयः ।
न संहतास्तस्य न भेदवृत्तयह्
प्रियाणि वाञ्छन्त्यसुभिः समीहितुम्
}
(भारविऽस् किरातार्जुनीय 1.19)
यद्यप्युष्टार्थस्य दोषताभिधानात्तन्निराकरणेन पुष्टार्थस्वीकारः कृतः तथाप्येकनिष्ठत्वेन बहुनां विशेषणानामेवमुपन्यासे वैचित्र्यम् इत्यलङ्कारमध्ये गणितः ॥
व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ॥ म्क्प्र्-
निगूढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यदपह्नूयते सा व्याजोक्तिः ।
न चैषापह्नुतिः प्रकृताप्रकृतो ऽभयनिष्ठस्य साम्यस्येहासंभवात् । उदाहरणम् ----
{शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्-
रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः ।
हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं
शैलान्तःपुरमातृमण्डलगणैर्दृष्टो ऽवताद्वः शिवः
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
किञ्चित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते ।
तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ म्क्प्र्-
प्रमानान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तराभावात् सदृशवस्त्वनतरव्यवच्छेदाय यत् पर्यवस्यति सा भवेत्परिसंख्या । अत्र च कथनं प्रश्नपूर्वकं तदन्यथा च परिदृष्टम् ।
तथा उभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारो भेदाः ॥ क्रमेणोदाहरणम् ----
{किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः
किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः ।
किमाराध्यं पुण्यं किंअभिलषणीयं च करुणा
यदासक्त्या चेतो निरवधिविमुक्त्यै प्रभ[व्]अति
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
{किं भूषणं सुदृढमत्र यशो न रत्नं
किं कार्यमार्यचरितं सुकृतं न दोषः ।
किं चक्षुरप्रतिहतं धिषणा न नेत्रं
जानाति कस्त्वददपरः सदसद्विवेकम्
}
(विश्वनाथऽस् साहित्यदर्पण 10.82)
{कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते ।
काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति
}
(रुद्रटऽस् काव्यालङ्कार 7.81)
{भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे ।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम्
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता ।
तदा कारणमाला स्यात् ...
उत्तरमुत्तरं प्रति यथोत्तरम् । उदाहरणम् ----
{जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनो ऽनुरज्यते जनानुरागप्रभवा हि संपदः
}
(वल्लभदेवऽस् सुभाषितावलि ; श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 162)
{हेतुमता सह हेतोरव्हिधानमभेदयो हेतुः ।}
इति हेत्वलङ्कारो न लक्षितः । आयुर्धृतमित्यादिरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात् ।
{अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः ।
रम्यो ऽयमेति संप्रति लोकोत्कण्ठाकरः कालः
}
(रुद्रटऽस् काव्यालङ्कार 7.83)
इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाम्नासिषुर्न पुनर्हेत्वलङ्कारकल्पनयेति पूर्वोक्तकाव्यलिङ्गमेव हेतुः ॥
... क्रियया तु परस्परम् ॥ म्क्प्र्-
वस्तुनोर्जनने ऽन्योन्यम् ...
अर्थयोरेकक्रियामुखेन परस्परं कारणत्वे सति अन्योन्यनामा अलङ्कारः । उदाहरणम् ----
{हंसाणं सरेहिं सिरी सारिज्जै अह सराण हंसेहिं ।
अण्णोण्णं विअ एए अप्पाण्णं णवर गरुअन्ति
}
[हंसानां सरोभिः श्रीः सार्यते अथ सरसां हंसैः ।
अन्योन्यमेव एते आत्मानं केवलं गरयन्ति ॥]
(हालऽस् गाथासप्तशती, निर्नय सगर् प्रेस्स्. 953)
अत्रोभयेषानपि परस्परजनकता मिथः श्रीसारतासंपादनद्वारेण ॥
... उत्तरश्रुतिमात्रतः ।
प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ॥ म्क्प्र्-
असकृद् यदसंभाव्यमुत्तरं स्यात् तदुत्तरम् ।
प्रतिवचनोपलम्भादेव पूर्ववाक्यं यत्र कल्प्यते तदेकं तावदुत्तरम् । उदाहरणम् ----
{वाणिअ_अ हत्थिदन्ता कुत्तो अम्हाण वग्धकित्ती अ ।
जाव लुलिआल_अमुही धरम्मि परिसक्कए सोण्हा
}
[वाणिजक हस्तिदन्ताः कुतो ऽस्माकं व्याघ्रकृतयश्च ।
यावत् लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ॥]
(हालऽस् गाथासप्तशती 951; अभिनवगुप्तऽस् ध्वन्यालोकलोचन 3.17)
हस्तिदन्तव्याघ्रकृत्तीनामहमर्थी ताः मूल्येन प्रयच्छेति क्रेतुर्वचनम् अमुना वाक्येन समुन्नीयत ॥
न चैतत् काव्यलिङ्गम् उत्तरस्य ताद्रूप्यानुपपत्तेः । नहि प्रश्नस्य प्रतिवचनं जनको हेतुः । नापीदमनुमानम् एकधर्मिनिष्ठतया साद्यसाधनयोरनिर्देशादित्यलङ्कारान्तरमेवोत्तरं साधीयः ।
प्रश्नादनन्तरं लोकातिक्रान्तगोचरतया यत् असंभाव्यरूपं प्रतिवचनं स्यात् तत् अपरमुत्तरम् । अनयोश्च सकृदुपादाने न चारुताप्रतीतिरित्यसकृदित्युक्तम् । उदाहरणम् ----
{का विसमा देव्वगरि किं लब्धं जं जणो गुण्ग्गाही ।
किं सोक्खं सुकलत्तं किं दुक्खं जं खलो लो_ओ
}
[का विषमा दैवगतिः किं लब्धव्यं यत् जनो गुणग्राही ।
किं सौख्यं सुकलत्रं किं दुःखं यत् खलो लोकः ॥]
(हालऽस् गाथासप्तशती, निर्नय सगर् प्रेस्स्. 975)
प्रश्नपरिसंख्यायामन्यव्यपोहे एव तात्पर्यम् । इह तु वाच्ये एव विश्रान्तिरित्यनयोर्विवेकः ॥
कुतो ऽपि लक्षितः सूक्ष्मो ऽप्यर्थो ऽन्यस्मै प्रकाश्यते ॥ म्क्प्र्-
धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते ।
कुतो ऽपि आकारादिङ्गिताद्वा सूक्ष्मस्तीक्ष्णमतिसंवेद्यः ॥
उदाहरणम् --
{वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे ।
पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
अत्र आकृतिमवलोक्य कयापि वितर्कितं पुरुषायितम् असिलतालेखनेन वैदग्ध्यादभिव्यक्तिमुपनीतम् पुंसामेव कृपाणपाणिता योग्यत्वात् ॥
यथा वा
{संकेतकालमनसं विट्.अम् ज्ञात्वा विदग्धया ।
ईषन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्
}
(अभिनवगुप्तऽस् ध्वन्यालोकलोचन 2.36)
अत्र जिज्ञासितः संकेतकालः कयाचिदिङ्गितमात्रेण विदितो निशासमयशंसिना कमलनिमीलनेन लीलया प्रतिपादितः ॥
उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ॥ म्क्प्र्-
परः पर्यन्तभागः अवधिर्यस्य धाराधिरोहितया तत्रैवोत्कर्षस्य विश्रान्तेः । उदाहरणम् ----
{राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम्
}
(रुद्रटऽस् काव्यालङ्कार 7.97)
भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः ।
युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ॥ म्क्प्र्-
इह यद्देशं करणं तद्देशमेव कार्यमुत्पद्यमानं दृष्टम् यथा धूमादि । यत्र तु हेतुफलरूपयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनं सा तयोः स्वभावोत्पन्नपरस्परसंगतित्यागात् असंगतिः । उदाहरणम् ----
{जस्से_अ वणो तस्से_अ वे_अणा भणै तं जणो अलि_अं ।
दन्तक्ख_अं कवोले बहु_ए वे_अणा सवत्तीणं
}
[यस्यैव व्रणस्तस्यैव वेदना भणति तज्जनो ऽलीकम् ।
दन्तक्षतं कपोले वध्वाः वेदना सपत्नीनाम् ॥]
(हालऽस् गाथासप्तशती 981)
एषा च विरोधबाधिनी न विरोधः भिन्नाधरतयैव द्वयोरिह विरोधितायाः प्रतिभासात् । विरोधे तु विरोधित्वम् एकाश्रयनिष्टमनुक्तमपि पर्यवसितम् अपवादविषयपरिहारेणोत्सर्गस्य व्यवस्थितेः । तथा चैवं निदर्शितम्
समाधिः सुकरं कार्यं कारणान्तरयोगतः ।
साधनान्तरोपकृतेन कर्त्रा यत् अक्लेशेन कार्यमारब्धं समाधीयते स समाधिर्नाम । उदाहरणम् ----
{मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्
}
(दण्डिन्ऽस् काव्यादर्श 2.299)
समं योग्यतया योगो यदि संभावितः क्वचित् ॥ म्क्प्र्-
इदमनयोः श्लाघ्यमिति योग्यतया संबन्धस्य नियतविषयमध्यवसानं चेत्तदा समम् तत् सद्योगे ऽसद्योगे च ॥
उदाहरणम् ----
{धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी
रूपे देवो ऽप्ययमनुपमो दत्तपत्रः स्मरस्य ।
जातं दैवात्सदृशमनयोः संगतं यत् तदेत-
च्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
जातो दैवादुचितरचनासंविधाता विधाता ।
यन्निम्बानां परिणतफलस्फीतिरास्वादनीया
यच्चैतस्याः कवलनकलाकोविदः काकलोकः
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् ।
कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ॥ म्क्प्र्-
गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये ।
क्रमेण च विरुद्धे यत् स एष विषमो मतः ॥ म्क्प्र्-
द्वयोरत्यन्तविलक्षणतया यत् अनुपपद्यमानतयैव योगः प्रतीयते (1) यच्च किञ्चिदारभमाणः कर्ता क्रियायाः प्रणाशात् न केवलमभीष्टं यत् फलं न लभेत् यावदप्रार्थितमप्यनर्थं विषयमासादयेत् (2) तथा सत्यपि कार्यस्य कारणरूपानुकारे तत् तयोर्गुणौ क्रिये च परस्परं विरुद्धतां व्रजतः (3।4) स समविपर्ययात्मा चतूरूपो विषमः ॥
क्रमेणोदाहरणम् ----
{शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना ।
अयं क्व च कुकूलाग्निकर्कशो मदनानलः
}
(पद्मगुप्तऽस् नवसाहसाङ्कचरित 1.28)
{सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः ।
जग्रसे साश्रयं तत्र तमन्यः सिंहिकासुतः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 303)
{सद्यःकरस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूते
}
(पद्मगुप्तऽस् नवसाहसाङ्कचरित 1.62)
{आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् ।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे
}
(रुद्रटऽस् काव्यालङ्कार 9.47)
अत्रानन्ददानं शरीरतापेन विरुध्यते ।
एवम्
{विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा
}
(माघऽस् सिशुपालवध 13.40)
इत्यादावपि विषमत्वं यथायोगभवगन्तव्यम्
महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् ।
आश्रयाश्रयिणौ स्यातां तनुत्वे ऽप्यधिकं तु तत् ॥ म्क्प्र्-
आश्रितम् आधेयम् आश्रयस्तदाधारः । तयोर्महतोरपि विषये तदपेक्षया तनू अप्याश्रयाश्रयिणौ प्रस्तुतवस्तुप्रकर्षविअव्क्षया यथाक्रमं यत् अधिकतरतां व्रजतः । तदिदं द्विविधम् अधिकं नाम ।
क्रमेणोदाहरणम् ----
{अहो विशालं भूपाल भुवनत्रितयोदरम् ।
माति मातुमशक्यो ऽपि यशोराशिर्यदत्र ते
}
(दण्डिन्ऽस् काव्यादर्श 2.297)
{युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत ।
तनौ मनुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः
}
(माघऽस् सिशुपालवध 1.23)
प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया ।
या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥ म्क्प्र्-
न्यक्कृतिपरमपि विपक्षं साक्षान्निरसितुमशक्तेन केनापि यत् तमेव प्रतिपक्षमुत्कर्षयितुं तदाश्रितस्य तिरस्करणम् तत् अनीकप्रतिनिधितुल्यत्वात् प्रत्यनीकमभिधीयते । यथा अनीके अभियोज्ये तत्प्रतिनिधीभूतमपरं मूढतया केनचिदभियुज्यते तथेह प्रतियोगिनि विजेये तदीयोन्यो विजीयते इत्यर्थः । उदाहरणम् ----
{त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता ।
पञ्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 306)
यथा वा
{यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते
}
(माघऽस् सिशुपालवध 14.78)
इन्दोरत्र तदीयता संबन्धिसंबन्धात्
समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते ।
निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ म्क्प्र्-
सहजम् आगन्तुकं वा किमपि साधारणं यत् लक्षणम् तद्द्वारेण यत् किञ्चित् केनचिद्वस्तु वस्तुस्थित्यैव वलीयस्तया तिरोधीयते तत् मीलितमिति द्विधा स्मरन्ति ॥
{अपाङ्गतरले दृशौ मधुरवक्रवर्णागिरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।
इति स्फुरितमङ्गके मृगदृशःस्वतो लीलया
तदत्र न मदोदयः कृतपदो ऽपि संलक्ष्यते
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र दृक्तरलतादिकमङ्गस्य लिङ्गं स्वाभाविकं साधारणं च महोदयेन तत्राप्येतस्य दर्शनात् ।
{ये कन्दरासु निवसन्ति सदा हिमाद्रेस्
त्वत्पातशङ्कितधियो विवशा द्विषस्ते ।
अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं
तेषामहो बत भियां न बुधो ऽप्यभिज्ञः
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
अत्र तु सामर्थ्यादवसितस्य शैत्यस्य आगन्तुकत्वात्तत्प्रभवयोरपि कम्पपुलकयोस्ताद्रूप्यं समानता च भयेष्वपि तयोरुपलक्षितत्वात्
स्थाप्यतेपोह्यते वापि यथापूर्वं परं परम् ।
विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ म्क्प्र्-
पूर्वं पूर्वं प्रति यथोत्तरस्य वस्तुनो वीप्सया विशेषणभावेन यत् स्थापनं निषेधो वा संभवति सा द्विधा बुधैरेकावली भण्यते । क्रमेणोदाहरणम् ----
{पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः ।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासः कुसुमायुधस्य
}
(पद्मगुप्तऽस् नवसाहसाङ्कचरित 1.22)
{न तज्जलं यन्न सुचारुपङ्कजं
नपङ्कजं तद् यदलीनषट्पदम् ।
च षट्पदो ऽसौ कलगुञ्जितो न यो
न गुञ्जितं तन्न जहार यन्मनः
}
(भट्टिकाव्य 2.19)
पूर्वत्र पुराणां वराङ्गनाः तासामङ्गविशेषणमुखेन रूपम् तस्य विलासाः तेषामप्यस्त्रमित्यमुना क्रमेण विशेषणं विधीयते । उत्तरत्र प्रतिषेधे ऽप्येवं योज्यम्
यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः ।
स्मरणं ...
यः पदार्थः केनचिदाकारेण नियतः यदा कदाचित् अनुभूतो ऽभूत् स कालान्तरे स्मृतिप्रतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति यत् तथैव स्मर्यते तत् भवेत् स्मरणम् । उदाहरणम् ----
{निम्ननाभिकुहरेषु यदम्भः प्लावितं चलदृशां लहरीभिः ।
तद्भवैः कुहरुतैः सुरनार्यः स्मारिता सुरतकण्ठरुतानाम्
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 310)
यथा वा
{करजुअगहिअजसोआत्थणमुहविणिवेसिआहरपुडस्स ।
समरिअपञ्चजण्णस्स णमह कण्हस्स रोमाञ्चं
}
[करयुगगृहीतयशोदास्तनमुखविनिवेशिताधरपुटस्य ।
संस्मृतपाञ्चजन्यस्य नमत कृष्णस्य रोमाञ्चम् ॥]
(हालऽस् गाथासप्तशती 974)
... भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने ॥ म्क्प्र्-
तदिति अन्यत् अप्राकरणिकं निर्दिश्यते । तेन समानम् अर्थादिह प्राकरणिकम् आश्रीयते । तस्य तथाविधस्य दृष्टौ सत्यां यत् अप्राकरणिकतया संवेदनं स भ्रान्तिमान् ।
न चैष रूपकं प्रथमातिशयोक्तिर्वा तत्र वस्तुतो भ्रमस्याभावात् इह च, अर्थानुगमनेन संज्ञायाः प्रवृत्तेः तस्य स्पष्टमेव प्रतिपन्नत्वात् । उदाहरणम् ----
{कपाले मार्जारः पय इति करान् लेढि शशिनस्
तरुच्छिद्रप्रोतान् बिसमिति करी संकलयति ।
रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति
प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति
}
(भोजऽस् सरस्वतीकाण्ठाभरण 3.38 ; सुभाषितरत्नाकर 905)
आक्षेप उपमानस्य प्रतीपमुपमेयता ।
तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥ म्क्प्र्-
अस्य धुरं सुतरामुपमेयमेव वोढुं प्रौढमिति कैमर्थ्येन यत् उपमानमाक्षिप्यते यदपि तस्यैवोपमानतया प्रसिद्धस्य उपमानान्तरविवक्षयानादरार्थमुपमेयभावः कल्प्यते तत् उपमेयस्योपमानप्रतिकूलवर्तित्वात् उभ्यरूपं प्रतीपम् । क्रमेणोदाहरणम् ----
{लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा ।
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमदो मुधैव किममी सृष्टाः कुलक्ष्माभृतः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{ए एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जं ।
तुज्झ मुहेण किसोअरि चन्दो उअमिज्जै जणेण
}
[अयि एहि तावत् सुन्दरि कर्णन्दत्त्वा शृणुष्व वचनीयम् ।
तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥]
(हालऽस् गाथासप्तशती 972)
अत्र मुखेनोपमीयमानस्य शशिनः स्वल्पतरगुणत्वात् उपमित्यनिष्पत्त्या ऽव_अणिज्जंऽ; इति वचनीयपदाभिव्यङ्ग्यस्तिरस्कारः ।
क्कचित्तु निष्पन्नैवोपमितिक्रिया अनादरनिबन्धनम् । यथा
{गर्वमसंवाह्यमिमं लोच्रनयुगलेन किं वहसि मुग्धे ।
सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि
}
(रुद्रटऽस् काव्यालङ्कार 8.78)
इहोपमेयीकरणमेवोत्पलानामनादरः ।
अनयैव रीत्या यत् असामान्यगुणयोगात् नोपमानभावमपि अनुभूतपूर्वि तस्य तत्कल्पनायामपि भवति प्रतीपमिति प्रत्येतव्यम् । यथा
{अहमेव गुरुः सुदारुणानाम्
इति हालाहल तात मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भूयो
भुवनेस्मिन् वचनानि दुर्जनानाम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र हालाहलस्योपमानत्वमसंभाव्यमेवोपनिबद्धम् ॥
प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया ।
ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥ म्क्प्र्-
अतादृशमपि तादृशतया विवक्षितुं यत् अप्रस्तुतार्थेन संपृक्तमपरित्यक्तनिजगुणमेव तदेकात्मतया निबध्यते तत् समानगुणनिबन्धनात् सामान्यम् । उदाहरणम् ----
{मलयजरसविलिप्तनवो नवहारलताविभूषिताः
सिततरदन्तपत्र कृतवक्त्ररुचो रुचिरामलांशुकाः ।
शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः ।
प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियो ऽभिसारिकाः
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 4,3.10)
अत्र प्रस्तुततदन्ययोरन्यूनानतिरिक्ततया निबद्धं धवलत्वमेकात्मताहेतुः । अत एव पृथग्भावेन न तयोरुपलक्षणम् । यथा वा
{वेत्रत्वचा तुल्यरुचां चधूनां कर्णाग्रतो गण्डतलागतानि ।
भृङ्गा सहेलं यदि नापतिष्यन् कोवेदयिष्यन्नवचम्पकानि
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 311)
अत्र निमित्तान्तरजनितापि नानात्वप्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युद्सितुमुत्सहते प्रतीतत्वात्तस्य प्रतीतेश्च बाधायोगात् ॥
विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः ।
एकात्मा यगपद्दृत्तिरेकस्यानेकगोचरा ॥ म्क्प्र्-
अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः ।
तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥ म्क्प्र्-
प्रसिद्धार्धपरिहारेण यत् आधेयस्य विशिष्टा स्थितिरभिधीयते स प्रथमो विशेषः ।
उदाहरणम् ----
{दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः
}
(रुद्रटऽस् काव्यालङ्कार 9.6)
एवमपि वस्तु यत् एकेनैव स्वभावेन युगपदनेकत्र वर्तते स द्वितीयः । उदाहरणम् ----
{सा वसै तुज्झ हिअए सा च्चिअ अच्छीसु सा अ वअणेसु ।
अह्मारिसाण सुन्दर ओसासो कत्थ पावाणं
}
[सा वसति तव हृदये सैवाक्षिषु सा च वचनेषु ।
अस्मादृशीनां सुन्दर अवकाशः कुत्र पापानाम् ॥]
(हालऽस् गाथासप्तशती 947)
यद्यपि किञ्चिद्रभसेन आरभमाणस्तेनैव यत्नेनाशक्यमपि कार्यान्तरमारभते सोपरो विशेषः । उदाहरणम् ----
{स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् ।
विधिना ससृजे नवो मनोभूर्भुविसत्यं सविता वृहस्पतिश्च
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 315)
यथा वा
{गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां बत किं न मे हृतम्
}
(कालिदासऽस् रघुवंश 8.67)
सर्वत्र एवंविधविषये ऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते तां विना प्राउएणालङ्कारत्वायोगात् । अत एवोक्तम्
{सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नोस्यां कविना कार्यः को ऽलङ्कारो ऽनया विना ॥} इति ॥
स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् ।
वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ म्क्प्र्-
वस्तु तिरस्कृतनिजरूपं केनापि समीपगतेन प्रगुणया स्वगुणसंपदोपरक्तं तत्प्रतिभासमेव यत्समासादयति स तद्गुणः । तस्याप्रकृतस्य गुणोत्रास्तीति । उदाहरणम् ----
{विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः
}
(माघऽस् सिशुपालवध, निर्नय सगर् प्रेस्स्. 4.14)
अत्र रवितुरगापेक्षया गरुडाग्रजस्य तदपेक्षया च हरिन्मणीनां प्रगुणवर्णता
तद्रूपाननुहारश्चेदस्य तत् स्यादतद्गुणः ।
यदि तु तदीयं वर्णं संभवन्त्यामपि योग्यतायाम् इदं न्यूनगुणं न गृहणीयात् तदा भवेदतद्गुणो नाम । उदाहरणम् ----
{धवलोसि जहवि सुन्दर तह वि तुए मज्झ रञ्जिअं हिअअं ।
राअभरिएवि हिअए सुहअ णिहित्तो ण रत्तोसि
}
[ध्वलो ऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् ।
रागभरिते ऽपि हृदये सुभग निहितो न रक्तो ऽसि ॥]
(हालऽस् गाथासप्तशती [665,7-64])
अत्रातिरक्तेनापि मनसा संयुक्तो न रक्ततामुपगत इत्यतद्गुणः ।
किञ्च तदिति अप्रकृतम् अस्येति च प्रकृतमत्र निर्दिश्यते । तेन यत् अप्रकृतस्य रूपं प्रकृतेन कुत्प्ऽपि निमित्तात् नानुविधीयते सो ऽतदगुण इत्यपि प्रतिपत्तव्यम् । यथा
{गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते
}
(रुय्यकऽस् अलङ्कारसर्वस्व)
यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥ म्क्प्र्-
तथैव यद्विधीयेत स व्याघात इति स्मृतिः ।
येनोपायेन यत् एकेनोपकल्पितम् तस्यान्येन जिगीषुतया तदुपायकमेव यत् अन्यथाकरणम् स साधितवस्तुव्याहतितेतुत्वात् व्याघातः । उदाहरणम् ----
{दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः
}
(राजशेखरऽस् विद्धशालभञ्जिका 1.4)
सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ म्क्प्र्-
एतेषां समनन्तरमेवोक्तस्वरूपाणां यथासंभवनन्योन्यनिरपेक्षतया यत् एकत्र शब्दभागे एव अर्थविषये एव उभयत्रापि वा अवस्थानम् सा एकार्थसमवायस्वभावा संसृष्टिः ।
तत्र शब्दालङ्कारसंसृष्टिर्यथा
{वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखलाकलकलोलकलोलदृशान्यया
}
(माघऽस् सिशुपालवध 6.14)
अर्थालङ्कारसंसृष्टिस्तु
{लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥568[=417]॥}
(शूद्रकऽस् मृच्छकटिका 1.32)
पूर्वत्र परस्परनिरपेक्षौ यमकानुप्रासौ संसृष्टिं प्रयोजयतः उत्तरत्र तु तथाविधे उपमोत्प्रेक्षे ।
शब्दार्थालङ्कारयोस्तु संसृष्टिः ।
{सो णत्थि एत्थ गामे जो ए_अं महमहन्तला_अण्णं ।
तरुणाण हिअअलूडिं परिसक्कन्तीं णिवारे_इ
}
[स नास्त्यत्र ग्रामे य एनां महमहायमानलावण्याम् ।
तरुणानां हृदयलुण्ठाकिं परिष्वक्कमाणां निवारयति ।]
(हालऽस् गाथासप्तशती 997)
अत्रानुप्रासो रूपकं चान्योन्यानपेक्षे । संसर्गश्च तयोरेकत्र वाक्ये छन्दसि वा समवेतत्वात्
अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः ।
एते एव यत्रात्मनि अनासादितस्वतन्त्रभावाः प्रस्परम् अनुग्राह्यानुग्राहकतां दधति स एषां संकीर्यमाणस्वरूपत्वात् संकरः । उदाहरणम् ----
{आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे
लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते ।
शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
राजन् गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्र तद्गुणमपेक्ष्य भ्रान्तिमता प्रादुर्भूतम् तदाश्रयेण च तद्गुणः सचेतसां प्रभूतचमत्कृतिनिमित्तमित्यनयोरङ्गाङ्गिभावः । यथा वा
{जटाभाभिर्भाभिः करधृतकलङ्काक्षवलयो
वियोगिव्यापत्तेरिव कलितवैराग्यविशदः ।
परिप्रेङ्खत्तारापरिकरकपालाङ्किततले
शशी भस्मापाण्डुः पितृवन इव व्योम्नि चरति
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
उपमा रूपकम् उत्प्रेक्षा श्लेषश्चेति चत्वारो ऽत्र पूर्ववत् अङ्गाङ्गितया प्रतीयन्ते ।
कलङ्क एवाक्षवलयमिति रूपकपरिग्रहे करधृतत्वमेव साधकप्रमाणतां प्रतिपद्यते । अस्य हि रूपकत्वे तिरोहितकलङ्करूपम् अक्षवलयमेव मुख्यतयावगम्यते तस्यैव च करग्रहणयोग्यतायां सार्वत्रिकी प्रसिद्धिः । श्लेषच्छायया तु कलङ्गस्य कलङ्कस्य मूर्त्यैव उद्वहनात् । कलङ्को ऽक्षवलयमिवेति तु, उपमायां
कलङ्कस्य, उत्कटतया प्रतिपत्तिः । न चास्य करधृतत्वं तत्त्वतोस्तीति मुख्ये ऽप्युपचार एव शरणं स्यात् ।
एवंरूपश्च संकरः शब्दालङ्कारयोरपि परिदृश्यते । यथा
{राजति तटीयमभिहतदानवरासातिपातिसारावनदा ।
गजता च यूथम्विरतदानवरा सातिपाति सारा वनदा
}
(रत्नाकरऽस् हरविजय 5.137)
अत्र यमकामनुलोमप्रतिलोमश्च चित्रभेदः पादद्वयगते परस्परापेक्षे ।
एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ म्क्प्र्-
द्वयोर्बहूनां वा अलङ्काराणामेकत्र समावेशे ऽपि विरोधात् न यत्र युगपदवस्थानम् न चैकतरस्य परिग्रहे साधकम् तदितरस्य वा परिहारे बाधकमस्ति येनैकतर एव परिगृह्यते स निश्चयाभावारूपो
द्वितीयः संकरः समुच्चयेन संकरस्यैवाक्षेपात् । उदाहरणम् ----
{जह गहिरो जह रअणणिव्भरो जह अ णिम्मलच्छाओ ।
तह किं विहिणा एसो सरसवाणीओ जलणिही ण किओ
}
[यथा गभीरो यथा रत्ननिर्भरो यथा च निर्मलच्छायः ।
तथा किं विधिना एष सरसपानीयो जलनिधिर्न क्र्टः ॥]
(हालऽस् गाथासप्तशती 976)
अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः किम् अब्धेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतीतेः इयमप्रस्तुतप्रशंसा इति संदेहः । यथा वा
{नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति ।
अधुनापि निरुद्धाशमविशीर्णमिदं तमः
}
(क्षेमेन्द्रऽस् औचित्यविचारचर्चा)
अत्र किं कामस्योद्दीपलः कालो वर्तते इति भङ्ग्यन्तरेणाभिधानात् पर्यायोक्तम् । उत वदनस्येन्दुबिम्बतया अध्यवसानात् अतिशयोक्तिः किं वा । एतदिति वक्त्रं निर्दिश्य तद्रूपारोपवशात् रूपकम् । अथवा तयोः समुच्चयविवक्षायां दीपकम् ।अथवा तुल्ययोगिता । किमु प्रदोषसमये विशेषणसाम्यादाननस्यावगतौ समासोक्तिः । आहोस्वित् मुखनैर्मल्यप्रस्तावात् अप्रस्तुतप्रशंसा इति बहूनां संदेहादयमेव संकरः ।
यत्र तु न्यायदोषयोरन्यरस्यावतारः तत्र एकतरस्य निश्चयात् न संशयः ॥
न्यायश्च साधकत्वम् अनुकूलता दोषो ऽपि बाधकत्वं प्रतिकूलता । तत्र
{सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासद्युतिः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 321)
इत्यत्र मुख्यतया अवगम्यमाना हासद्युतिर्वक्त्रे एवानुकूल्यं भजते इत्युपमायाः साधकम् । शशिना तु न तथा प्रतिकूलेति रूपकं प्रति तस्या अबाधकता ।
{वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्यतः
}
(हर्षऽस् रत्नावलि [3.23 च्द्])
इत्यत्रापरत्वमिन्दोरनुगुणं न तु वक्त्रस्य प्रतिकूलमिति रूपकस्य साधकतां प्रतिपद्यते न तूपमाया बाधकताम् ।
{राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्
}
(उद्भटऽस् काव्यालङ्कारसारसङ्ग्रह)
इत्यत्र पुनरालिङ्गनमुपमां निरस्यति सदृशं प्रति परप्रेयसीप्रयुक्तस्यालोङ्गनस्यासंभवात् ।
{पादाम्बुजं भवतु नो विजयाय मञ्जु-
मञ्जीरशिज्जितमनोहरमम्बिकायाः
}
(कालिदास, पञ्चस्तवी 3.1)
इत्यत्र मञ्जीरशिञ्जितम् अम्बुजे प्रतिकूलम् असंभवादिति रूपकस्यबाधकम् न तु पादे ऽनुकूलमित्युपमायाः साधकमभिधयते विध्युपमर्दिनो बाधकस्य तदपेक्षयोत्कटत्वेन प्रतिपत्तेः ॥
एवमन्यत्रापि सुधीभिः परीक्ष्यम्
स्फुटमेकत्र विषये शब्दार्थालङ्कृतिद्वयम् ।
व्यवस्थितं च ...
अभिन्ने एव पदे स्फुटतया, यत् उभावपि शब्दार्थालङ्कारौ व्यवस्थां समासादयतः सो ऽप्यपरः संकरः । उदाहरणम् ----
{स्पष्टोल्लसत्किरणकेसरसूर्यबिम्ब-
विस्तीर्णकणिकमथो दिवसारविन्दम् ।
श्लिष्टाष्टदिग्दलकलापमुखावतार-
बद्धान्धकारमधपावलि संचकोच
}
(रत्नाकरऽस् हरविजय 19.1)
अत्र एकापदानुप्रविष्टौ रूपकानुप्रासौ ॥
... तेनासौ त्रिरूपः परिकीर्तितः ॥ म्क्प्र्-
तदयमनुग्राह्यानुग्राहकतया संदेहेन एकपदप्रतिपाद्यतया च व्यवस्थितत्वात्त्रिप्रकार एव संकरो व्याकृतः । प्रकारान्तरेण तु न शक्यो व्याकर्तुम् आनन्त्यात्तत्प्रभेदानामिति प्रतिपादिताः
शब्दार्थोभयगतत्वेन त्रिविध्यजुषो ऽलङ्काराः ॥
कुतः पुनरेष नियमो यदेतेषां तुल्ये ऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलङ्कारः शब्दस्य कश्चिदर्थस्य कश्चिच्चोभयस्य इति चेत् । उक्तम्त्र यथा काव्ये दोषगुणाळङ्काराणां शब्दार्थोभयगतत्वेन
व्यवस्थायामन्वयव्यतिरेकावेव प्रभवतः निमित्तान्तरस्याभावात् । ततश्च यो ऽलङ्कारो यदीयान्वयव्यतिरेकावनुविधत्ते स तदलङ्कारो व्यवस्थाप्यते इति ।
एवं च यथा पुनरुक्तवदाभासः परंपरितरूपकं चोभयोर् भावानुविधायितया, उभयालङ्कारौ तथा शब्दहेतुकार्थान्तरन्यासप्रभृतयो ऽपि द्रष्टव्याः । अर्थस्य तु तत्र वैवित्र्यम् उत्कटतया प्रतिभासते, इति वाच्यालङ्कारमध्ये वस्तुस्थितिमनपेक्ष्यैव लक्षिताः ॥
यो ऽलङ्कारो यदाश्रितः स तदलङ्कार इत्यपि कल्पनायाम् अन्वयव्यतिरेलावेव समाश्रयितव्यौ तदाश्रयणमन्तरेण विशिष्टस्याश्रयिभावस्याभावादित्यलङ्काराणां यथोक्तनिमित्त एव परस्परव्यतिरेको ज्यायान्
एषां दोषा यथायोगं संभवन्तो ऽपि केचन ।
उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ॥ म्क्प्र्-
तथाहि ---- अनुप्रासस्य प्रसिद्ध्यभावो वैफल्यं वृत्तिविरोध इति ये त्रयो दोषाः । ते प्रसिद्धिविरुद्धताम् अपुष्टाथत्वम् प्रतिकूलवर्णतां च यथाक्रमं न व्यतिक्रामन्ति तत्स्वभावत्वात् । क्रमेणोदाहरणम् ----
{चक्री चक्रारपङ्क्तिं हरिरपि च हरीन् धूर्जटिर्धूर्ध्वजाग्रान्
अक्षं नक्षत्रनाथोरुणमपि वरुणः कूबराग्रं कुबेरः ।
रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
स्तौति प्रीतिप्रसन्नोन्वहमहिमरुचेः सोवतात्स्यन्दनो वः
}
(मयूरऽस् सूर्यशतक 71)
अत्र कर्तृकर्मप्रतिनियमेन स्तुतिः अनुप्रासानुरोधेनैव कृता न पुराणेतिहासादिषु तथा प्रतीतेति प्रसिद्धिविरोधः ॥
{भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ।
यदि सल्लीलोल्लापिनि गच्छसि तत् किं त्वदीयं मे
}
(रुद्रटऽस् काव्यालङ्कार 2.22)
{अनुणुरणन्मणिमेखलमविरतशिञ्जानमञ्जुमञ्जीरम् ।
परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥582 (=207)॥}
(रुद्रटऽस् काव्यालङ्कार 2.23)
अत्र वाव्यस्य विचिन्त्यमानं न किञ्चिदपि चारुत्वं प्रतीयते, इत्यपुष्टार्थतैवानुप्रासस्य वैफल्यम् ॥
अकुण्ठोत्कण्ठया इति अत्र शृङ्गारे परुषवर्णाडम्बरः पूर्वोक्तरीत्या विरुध्यते इति परुषानुप्रासो ऽत्र प्रतिकूलवर्णतैव वृत्तिविरोधः ॥
यमकस्य पादत्रयगतत्वेन यमनमप्रयुतत्वं दोषः ॥ यथा
{भुजङ्गमस्येव मणिः सदम्भा ग्राहावकीर्णेव नदी सदम्भाः ।
दुरन्ततां निर्णयतो ऽपि जन्तोः कर्षन्ति चेतः प्रसभं सदम्भाः
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
उपमायाम् उपमानस्य जातिप्रमाणगतन्यूनत्वम् अधिकता वा तादृशी अनुचितार्थत्वं दोषः । धर्माश्रये तु न्यूनाधिकत्वे यथाक्रमं हीनपदत्वमधिकपदत्वं च न व्यभिचरतः ॥ क्रमेणोदाहरणम् --
{चण्डालैरिव युष्माभिः साहसं परमं कृतम्
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 4,2.9)
{वह्निस्फुलिङ्ग इव भानुरयं चकास्ति
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 4.2)
{अयं पद्मासनासीनश्चक्रवाको विराजते ।
युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः
}
(भामहऽस् काव्यालङ्कार 2.25; वामनऽस् काव्यालङ्कारसूत्रवृत्ति 4,2.11)
{पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ ।
वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 4,2.11)
अत्र चण्डालादिभिरुपमानः प्रस्तुतो ऽर्थो ऽत्यर्थमेव कदर्थित इत्यनुचिताथन्ता ॥
{स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन् ।
व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान्
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 4,2.9)
अत्रोपमानस्य मौञ्जीस्थानीयस्तडिल्लक्षणो धर्मः केनापि पदेन न प्रतिपादित इति हीनपदत्वम् ॥
{स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः ।
शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः
}
(भामहऽस् काव्यालङ्कार 2.58)
अत्रोपमेयस्य शङ्खादेरनिर्देशे शशिनो ग्रहणमतिरिच्यते इत्यधिकपदत्वम् ॥
लिङ्गवचनभेदो ऽपि उपमानोपमेययोः साधारणं चेत् धर्ममन्यरूपं कुर्यात् । तदा एकतरस्यैव तद्धर्मसमन्वयावगतेः सविशेषणस्यैव तस्योपमानत्वमुपमेयत्वं वा प्रतीयमानेन धर्मेण
प्रतीयते इति प्रकान्तस्यार्थस्य स्फुटमनिर्वाहादस्य भग्नप्रक्रमरूपत्वम् । यथा ----
{चिन्तारत्नमिव च्युतोसि करतो धिङ्मन्दभाग्यस्य मे
}
(रुद्रट, काव्यालङ्कार 11.20)
{सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 334)
यत्र तु नानात्वे ऽपि लिङ्ग्गवचनयोः सामान्याभिधायि पदं द्वरूपभेदं नापद्यते न तत्रैतद्दूषणावतारः उभयथापि अस्य अनुगमक्षमस्वभावत्वात् । यथा
{गुणैरनर्घ्यैः प्रथितो रत्नैरिव महार्णवः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 335)
{तद्वेषोसदृशोन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 336)
कालपुरुषविध्यादिभेदे ऽपि न तथा प्रतीतिरस्खलितरूपतया विश्रान्तिमासादयतीत्यसावपि भग्नप्रक्रमतयैव व्याप्तः । यथा
{अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती ।
पश्चिमाद् यामिनीयामात् प्रसादमिव चेतना
}
(कालिदासऽस् रघुवंश 17.1)
अत्र चेतना प्रसादमाप्नोति न पुनरापेति कालभेदः ।
{प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः
कौसुम्भरागरुचिरस्फुरदंशुकान्ताः ।
विभ्राजसे मकरकेतनमर्चयन्ती
बालप्रबालविटपप्रभवा लतेव
}
(हर्षऽस् रत्नावलि 1.20)
अत्र लता विभ्राजते न तु विभ्राजसे इति संबोध्यमाननिष्ठस्य परभागस्य असंबोध्यमानविषयतया व्यत्यासात् पुरुषभेदः ।
{गङ्गेव प्रवहतु ते सदैव कीर्तिः
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 339)
इत्यादौ च गङ्गा प्रवहति न तु प्रवहतु इति अप्रवृत्तप्रवर्तनात्मनो विधेः । एवञ्जातीयकस्य चान्यस्यार्थस्य उपमानगतस्यासंभवाद्विध्यादिभेदः ॥
ननु समानम् उच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय पर्यवसितायाम् उपमायाम् उपमेयस्य प्रकृतधर्मामिसंबन्धान्न कश्चित्कालादिभेदो ऽस्ति । यत्राप्युपात्तेनैव सामान्यधर्मेण उपमा
अवगम्यते यथा {युधिष्ठिर इवायं सत्यं वदति} इति तत्र युधिष्थिर इव सत्यवाद्ययं सत्यं वदतीति प्रतिपत्स्यामहे । सत्यवादी सत्यं वदतीति च न पौनरुक्त्यम् आशङ्कनीयम् रैपोषं पुष्णातीतिवत्
युधिष्थिर इव सत्यवदनेन सत्यवाद्ययमित्यर्थावगमात् । सत्यमेतत् किं तु स्थितेषु प्रयोगेषु समर्थनमिदं न तु सर्वथा निरवद्यम् प्रस्तुतवस्तुप्रतीतिव्याधातादिति सवेतस एवात्र प्रमाणम् ॥
असादृश्यासंभवावप्युपमायाम् अनुचितार्थतायामेव पर्यवस्यतः । यथा
{ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्
}
(वामनऽस् काव्यालङ्कारसूत्रवृत्ति 2,4.16)
अत्र काव्यस्य शशिना अर्थानां च रश्मिभिः साधर्म्यं कुत्रापि न प्रतीतमित्यनुचितार्थत्वम् ।
{निपेतुरास्यादिव तस्य दीप्ताः
शरा धनुर्मण्डलमध्यभाजः ।
जाज्वल्यमाना इव वारिधारा
दिनार्धभाजः परिवेषिणोर्कात्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
अत्रापि ज्वलन्त्योम्बुधाराः सूर्यमण्डलात् निष्पतन्त्यो न संभवन्तीत्युपनिबध्यमानो ऽर्थो ऽनौचित्यमेव पुष्णाति ॥
उत्प्रेक्षायामपि संभावनं ध्रुवेवादय एव शब्दा वक्तुं सहन्ते न यथाशब्दो ऽपि केवलस्यास्य साधार्म्यमेव प्रतिपादयितुं पर्याप्तत्वात् तस्य चास्यामविवक्षितत्वादिति तत्राशक्तिरस्यावाचकत्वं दोषः ।
यथा
{उद्ययौ दीर्घिकागर्भान्मुकुलं मेचकोत्पलम् ।
नारीलोचनचातुर्यशङ्कासंकुचितंय था
}
(श्रिवत्सलाञ्छनाचार्यऽस् काव्यपरीक्षा 340)
उत्प्रेक्षितमपि तात्त्विकेन रूपेण परिवर्जितत्वात् निरुपाख्यप्रख्यम् । तत्समर्थनाय यत् अर्थान्तरन्यासोपादानम् तत् आलेख्यमिव गगनतलेत्यन्तमसमीचीनमिति निर्विषयत्वमेतस्य । अनुचितार्थतैव दोषः । यथा
{दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् ।
क्षुद्रे ऽपि नूनं प्रपन्ने ममत्वमुच्चैः शिरसामतीव
}
(कालिदासऽस् कुमारसंभव 1.12)
अत्राचेतनस्य तमसो दिवाकरात्त्रास एव न संभवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम् । संभावितेन तु रूपेण प्रतिभासमानस्यास्य न काचिदनुपपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्नः ।
साधारणविशेषणवशादेव समासोक्तिरनुक्तमपि उपमानविशेषं प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावात् अनुपादेयत्वं यत् तत् अपुष्टार्थत्वं पुनरुक्तं वा दोषः । यथा
{स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया ।
अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया
}
(रत्नाकरऽस् हरविजय 3.37)
अत्र तिग्मरुचेः ककुभां च यथा सदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया नायिकात्वेन च व्यक्तिः, तथा ग्रीष्मदिवसश्रियो ऽपि प्रतिनायिकात्वेन भविष्यतीति किं दयितयेति स्वशब्दोपादानेन ॥
श्लेषोपमायास्तु स विषयः यत्रोपमानस्योपादानमन्तरेण साधारणेष्वपि विशेषणेषु न तथा प्रतीतिः । यथा
{स्वयं च पल्लवाताम्र भास्वत्करविराजिता ।
प्रभातसंध्येवास्वापफललुब्धेहितप्रदा
} इति॥
(उद्भटऽस् काव्यालङ्कारसारसङ्ग्रह 4.15)
अप्रस्तुतप्रशंसायामपि उपमेयम् अनयैव रीत्या प्रतीतं न पुनः प्रयोगेण कदर्थतां नेयम् । यथा
{आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते
मध्येवारिधि वावसंस्तृणमणिर्धत्ते मणीनां रुचम् ।
खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां
धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम्
}
(भल्लटशतक 67)
अत्र अचेतनस्य प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तौ न युक्तमेव पुनः कथनम् ॥
तदेत अलङ्कारदोषाः यथासंभाविनोन्ये ऽप्येवञ्जातीयकाः पूर्वोक्तयैव दोषजात्या अन्तर्भाविताः न पृथग् प्रतिपादनमर्हन्तीति संपूर्णमिदं काव्यलक्षणम्
मूल पाठ: Kāvyaprakāśa · Edition: Ganganatha Jha: Kāvyaprakāśa of Mammaṭa, with English translation, rev. ed., Varanasi : Bharatiya Vidya Prakaśan, 1967 (2 parts). With occasional corrections according to the ed. by N.S. Venkatanathacharya: The Kavyaprakasha of Mammata, with Sanketa of Acharya Manikyachandra, Madhumati of Ravi Bhattacharya and Bhavukapriya tippani, Mysore : Oriental Research Institute, 1974 (2 vols). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0