काव्यप्रकाश · अध्याय 2
एवमस्य कारणमुक्त्वा स्वरूपमाह ----
तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि ।
दोषगुणालङ्काराः वक्ष्यन्ते । क्वापीत्यनेनैतदाह यत् सर्वत्र
सालङ्कारौ क्वचित्तु स्फुटालङ्कारविरहे ऽपि न काव्यत्वहानिः ।
यथा
{यः कौमरहरः स एव हि वरस्ता एव चैत्रक्षपास्ते
चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविदौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते
}
([शीलाभट्टारिका], एत्च्.)
अत्र स्फुटो न कश्चिदलङ्कारः । रसस्य च प्राधान्यान्नालङ्कारता ।
तद्भेदान् क्रमेणाह
इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ॥ म्क्प्र्-
इदमिति काव्यम् । बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिर् इति व्यवहारः कृतः । ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य ।
यथा
{निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोछरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्
}
(अमरुशतक 105)
अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यते
अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ।
अतादृशि वाच्यादनतिशायिनि । यथा ----
{ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया
}
(रुद्रटऽस् काव्यालङ्कार 7.39)
अत्र वञ्जुललतागृहे दत्तसंकेता न गतेति व्यङ्ग्यं गुणीभूतं
तदपेक्षया वाच्यस्यैव चमत्कारित्वात् ॥
शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥ म्क्प्र्-
चित्रमिति गुणालङ्कारयुक्तम् । अव्यङ्ग्यमिति स्फुटप्रतीयमानार्थरहितम् ।
अवरम् अधमम् । यथा ----
{स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्नाय वः ।
भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुम-
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम्
}
(गोविन्दठक्कुरऽस् काव्यप्रदीप)
{विनिर्गतं मानदमात्ममन्दिराद् भवत्युपश्रुत्य यदृच्छयापि यम् ।
ससंभ्रमेन्द्र्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती
मूल पाठ: Kāvyaprakāśa · Edition: Ganganatha Jha: Kāvyaprakāśa of Mammaṭa, with English translation, rev. ed., Varanasi : Bharatiya Vidya Prakaśan, 1967 (2 parts). With occasional corrections according to the ed. by N.S. Venkatanathacharya: The Kavyaprakasha of Mammata, with Sanketa of Acharya Manikyachandra, Madhumati of Ravi Bhattacharya and Bhavukapriya tippani, Mysore : Oriental Research Institute, 1974 (2 vols). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0