काव्यमीमांसा · भाग 2140
यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वाक्यानि विधेयानीति दिव्यम् ।
इह हि प्रयोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासुदेवस्य वचो वैष्णवं तन्मानुषमिति व्यपदिशन्ति ।
तच्च त्रिधा रीतित्रयभेदेन ।
तदाहुः-
"वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः ।
आशु च साक्षान्निवसति सरस्वती तेन लक्ष्यन्ते" ॥
रीतिरुपं वाक्यत्रितयं काकुः पुनरनेकयति ।
"काकुर्वक्रोक्तिर्नाम शब्दालङ्कारोयम्" इति रुद्रटः ॥
"अभिप्रायावान्पाठधर्मः काकुः, स कथमलङ्कारी स्यात्?" इति यायावरीयः ।
सा च द्विधा साकाङ्क्षा निराकाङ्क्षा च ।
वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा, वाक्योत्तरभाविनी निराकाङ्क्षा ।
तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् ।
तदेव काकुमन्तरेणनिराकाङ्क्षम् ।
आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा चेति साकाङ्क्षा ।
विधिरुपा, उत्तररुपा, निर्णयरुपेति निराकाङ्क्षा ।
तत्राक्षेपगर्भा-
"यदि मे वल्लभा दूती तदाहमपि वल्लभा ।
यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः" ॥
एवमेव निर्देष्टुर्विधिरुपा ।
प्रश्नगर्भा-
"गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु ।
वर्त्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः" ॥
इयमेवोपदेष्टिरुत्तररुपा ।
वितर्कगर्भा-
"नवजलधरः सन्नद्धो ऽयं न दृत्पनिशाचरः सुकधनुरिदं दूराकृष्टं न नाम शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी" ॥
इयमेवोपदेष्टुर्निर्णयरुपा ।
ता इमास्तिस्रो ऽपि नियतनिबन्धाः ।
तद्विपरीताः पुनरनन्ताः ।
तत्राभ्युपगमानुनयकाकू-
"युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्रात्पा नाम विगर्हणा स्थितिमतां मध्ये ऽनुजामामपि ।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव" ॥
अभ्यनुज्ञोपहासकाकू-
"मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पुबाम्युरस्तः ।
सञ्चूर्णयामि गदया न सुयोधनोरु सन्धिं करोतु भवतां नृपतिः पणेन" ॥
एवं त्रिचतुरकाकुयोगो ऽपि ।
तत्र त्रियोगः-
"सेयं पश्यति नो कुरङ्गकवधूस्त्रस्तैवमरद्वीक्षते तस्याः पाणिरयं न मारुतवलत्पत्राङ्गुलिः पल्लवः ।
तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति" ॥
चदुर्योगः-
"उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि सार्ध्वी ।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः" ॥
"सख्या वा नायिकाया वा सखीनायिकयोरथ ।
सखीनां भूयसीनां वा वाक्ये काकुरिह स्थिता" ॥
पदवाक्यविदां
मार्गो यो ऽन्यथैव व्यवस्थितः ।
स त्वाङ्गाभिनयद्योत्या तं काकुः कुरुते ऽन्यथा ॥
अयं काकुकृतो लोके व्यवहारो न केवलम् ।
शास्त्रेष्वप्यस्य साम्राज्यं काव्यस्याप्येष जीवितम् ॥
कामं विवृणुते काकुरर्थान्तरमतन्द्रिता ।
स्फुटीकरोति तु सतां भावाभिनयचातुरीम् ॥
इत्थं कविर्निबध्नीयादित्थं च मतिमान्पठेत् ।
यथा निबन्धनिगदश्छायां काञ्चिन्निषिञ्चति ॥
करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा ।
पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती ॥
यथा जन्मान्तराभ्यासात्कण्ठे कस्यापि रक्तता ।
तथैव पाठसौन्दर्यं नैकजन्मविनिर्मितम् ॥
ससंस्कृतमपभ्रंशं लालित्यालिङ्गितं पठेत् ।
प्राकृतं भूतभाषां च सौष्ठवोत्तरमुद्गिरेत् ॥
प्रसन्ने मन्द्रयोद्वाचं तारयेत्तद्विरोधिनि ।
मन्द्रतारौ च रचयेन्निर्वाहिणि यथोत्तरम् ॥
ललितं काकुसमन्वितमुज्ज्वलमर्थवशकृतपरिच्छेदम् ।
श्रुतिसुखविविक्तवर्णं कवयः पाठं प्रशंसन्ति ॥
अतितूर्णमतिविलम्बितमुल्बणनादं च नादहीनं च ।
अपदच्छिन्नमनावृतमतिमृदुपरुषं च निन्दन्ति ॥
गम्भीरत्वमनैश्चर्यं निर्व्यूढिस्तारमन्द्रयोः ।
संयुक्तवर्णलावण्यमिति पाठगुणाः स्मृताः ॥
यथा व्यघ्री हरेत्पुत्रान् दंष्ट्राभिश्च न पीडयेत् ।
भीता पतनभेदाभ्यां तद्वदूर्णान्प्रयोजयेत् ॥
विभक्तयः स्फुटा यत्र समासश्चाकदर्थितः ।
अम्लानः पदसन्धिश्च तत्र पाठः प्रतिष्ठितः ॥
न व्यस्तपदयोरैक्यं न भिदां तु समस्तयोः ।
न चाख्यातपदम्लानिं विदधीत सुधीः पठन् ॥
आगोपालकमायोषिदास्तामेतस्य लेह्यता ।
इत्थं कविः पठन्काव्यं वाग्देव्या अतिवल्लभः ॥
ये ऽपि शब्दविदो नैव नैव चार्थविचक्षणाः ।
तेषामपि सतां पाठः सुष्ठु कर्णरसायनम् ॥
पठन्ति संस्कृतं सुष्ठु कुण्ठाः प्राकृतवाचि तु ।
वाराणसीतः पूर्वेण ये केचिन्मगधादयः" ॥
आह स्म-
"ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया ।
गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती ॥
नातिस्पष्टो न चाश्लिष्टो न रुक्षो नातिकोमलः ।
न मद्रो नातितारश्च पाठी गौडेषु वाडवः ॥
रसः को ऽप्यस्तु काप्यस्तु रीतिः को ऽप्यस्तु वा गुणः ।
सगर्वं सर्वकर्णाटाष्टङ्कारोत्तरपाठिनः ॥
गद्ये पद्ये ऽथवा मिश्रे काव्ये काव्यमना अपि ।
गेयगर्भे स्थितः पाठे सर्वो ऽपि द्रविडः कविः ॥
पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः ।
जिह्वया ललितोल्लापलब्धसौन्दर्यमुद्रया ॥
सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठवम् ।
अपभ्रंशावदंशानि ते संस्कृतवचांस्यपि ॥
शारतायाः प्रसादेन काश्मीरः सुकविर्जनः ।
कर्णो गुडूचीगण्डूषस्तेषां पाठक्रमः किमु ? ॥
ततः पुरस्तात्कवयो ये भवन्त्युत्तरापथे ।
ते महात्यपि संस्कारे सानुनासिकपाठिनः ॥
मार्गानुगेन निनदेन निधिर्गुणानां सम्पूर्णवर्णरचनो यतिभिर्विभक्तः ।
पाञ्चालमण्लभ्रुवां सुभगः कवीनां श्रोत्रे मधु क्षरति किञ्चन काव्यपाठः ॥
ललल्लकारया जिह्वां जर्जरस्फाररेफया ।
गिरा भुजङ्गाः पूज्यन्ते काव्यभाव्यधियो न तु ॥
पञ्चस्थानमुद्भववर्णेषु यथास्वरुपनिष्पत्तिः ।
अर्थवशेन च विरतिः सर्वस्वमिदं हि पाठस्य" ॥
सकाकुकलना पाठप्रतिष्टेयं प्रतिष्ठिता ।
अर्थानुशासनस्याथ प्रकारः परिकीर्त्त्यन्ते ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे सत्पमो ऽध्यायः वाक्यविशेषाः काकुकलना पाठप्रतिष्ठा च ॥
____________________________ अध्यय 8 _____________________________
अष्टमो ऽध्यायः 8
वाक्यार्थयोनयः "श्रुतिः, स्मृतिः, इतिहासः, पुराणं, प्रमाणविद्या, राजसिद्धान्तत्रयी, लोको, विरचना, प्रकीर्णकं च काव्यार्थानां द्वादश योनयः" इति आचार्याः ।
"उचितसंयोगेन, योक्तृसंयोगेन, उत्पाद्यसंयोगेन, संयोगविकारेण च सह षोडश" इति यायावरीयः ।
तत्र श्रौतः ।
"उर्वशी हाप्सराः पुरुरवसमैडं चकमे" ।
अत्रार्थे-
"चन्द्राद् बुधः समभवद्भगवान्नरेन्द्र-माद्यं पुरुरवसमैडमसावसूत ।
तं चाप्सराः स्मरवती चकमे किमन्यद् अत्रोर्वशी स्मितवशीकृतशक्रचेताः" ॥
यथा वा-
"यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां लोको ऽथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोतो ऽथ य एष तस्मिन्मण्डले पुरुषः सो ऽग्निस्तानि यजूंषां लोकः सैषा त्रय्येव विद्या तपति" ।
अत्रार्थे-
"एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचो ऽर्चींषि यानि द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डले ऽणुर्यजूंषि ।
एवं यं वेद वेदत्रियमयमयं वेदवेदी समग्रो वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सो ऽस्तु सूर्यः श्रिये वः" ॥
तच्चेदं वेदहरणं यदित्थं कथयन्ति---
"नमो ।
स्तु तस्यै श्रुतये यां दुहन्ति पदे पदे ।
ऋषयः शास्त्रकारश्च कवयश्च यथामति" ॥
स्मार्त्तः-
"बह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना ।
विभावितैकदेशेन देयं यदभियुज्यते" ॥
अत्रार्थे-
"हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ।
सम्भावितैकदेशेन देयं यदभियुज्यते" ॥
ऐतहासिकाः-
"न स सङ्कुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः" ॥
अत्र-
"मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वं समयो विमृश्यताम् ।
जगज्जिघत्सातुरकण्ठकद्धतिर्न बालिर्नैवाहततृत्पिरन्तकः" ॥
पौराणिकाः-
"हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत ।
भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः" ॥
अत्र-
"स सञ्चरिष्णुर्भुवनत्रये ऽपि यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः" ॥
अत्राहुः-
"श्रुतीनां साङ्गशाखानामितिहासपुराणयोः ।
अर्थग्रन्थः कथाभ्यासः कवित्वस्यैकमौषधम् ॥
इतिहासपुराणाभ्यां चक्षुर्भ्यामिव सत्कविः ।
विवेकाञ्जनशुद्धाभ्यां सूक्ष्ममप्यर्थमीक्षते ॥
वेदार्थस्य निवन्धेन श्लाध्यन्ते कवयो यथा ।
स्मृतीनामितिहासस्य पुराणस्य तथा तथा" ॥
द्विविधः प्रामाणिको मैमांसिकस्तार्किकश्च ।
तत्र प्रथमः शब्दस्य सामान्यमभिधेयं विशेषश्चार्थः ।
अत्र-
"सामान्यवाचि पदमप्यभिधीयमानं मां प्राप्य जातमभिधेयविशेषनिष्टम् ।
स्त्री काचिदित्यभिहिते सततं मनो मे तामेव वामनयनां विषयीकरोति" ॥
तर्केषु साङ्खयीयः-
"नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टो ऽन्तस्त्वनयोस्तत्त्वदर्शिभिः" ॥
अत्र-
"य एते यज्वानः प्रथितमहसो ये ऽप्यवनिपा मृगाक्ष्यो याश्वेताः कृतमपरसंसारकथया ।
अमी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो जगत्येवंरुपा विलसति मृदेषा भगवती" ॥
न्यायवैशेषिकीयः-स किंसामग्रीक ईश्वरः कर्त्ता? इति पूर्वपक्षः ।
निरतिशयैश्वर्यस्य तस्य कर्तृत्वमिति सिद्धान्तः ।
अत्र-
"किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हृतधियः कुतर्को ऽयं कांश्वन्मुखरयति मोहाय जगतः" ॥
बोद्धीयः-
विवक्षापूर्वा हि शब्दास्तामेव विवक्षां सूचयेयुः ।
अत्र-
"भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां बलात्परिचुम्बति ।
न न न म म मा मा मां स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम्" ॥
लौकायतिकः -
भूतेभ्यश्वैतन्यं मदशक्तिवत् ।
अत्र-
"बहुविधमिह साक्षिचिन्ताकाः प्रवदन्त्यन्यदितः कलेवरात् ।
अपि च सुदति ते सचिन्तकाः प्रलयं यान्ति सहैव चिन्तया" ॥
आर्हतः -
शरीरपरिमाण आत्मा, अन्यथा शरीराफल्यमात्माफल्यं वा ।
अत्र-
"शरीरमात्रमात्मानं ये वदन्ति जयन्ति ते ।
तच्चुम्बने ऽपि यज्जातः सर्वाङ्गपुलको ऽस्य मे" ॥
सर्वपार्षदत्वात्काव्यविद्यायाः तानिमानन्यांश्चार्थान्व्युत्यत्तये प्रत्यवेक्षेत ।
आहुश्च-
"यांस्तर्ककर्कशानर्थान्सीक्तिष्वाद्रियते कविः ।
सूर्यांशव इवेन्दौ ते काञ्चिदर्चन्ति कान्तताम्" ॥
समयविद्यासु शैवसिद्धान्तीयः-
"घोरघोरतरातीतब्रह्मविद्याकलातिगः ।
परापरपदव्यापी पायादूः परमेश्वरः" ॥
पञ्चरात्रः-
"नाद्यान्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तो ऽप्यनुशासितारः ।
सर्वज्वरान्ध्वन्तु ममानिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवाः" ॥
बौद्धसिद्धान्तीयः-
"कलिकृतकलुषाणि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः ।
मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनीं प्रयान्तु" ॥
एवं सिद्धान्तन्तान्तरेष्वपि ।
राजसिद्धान्तत्रय्यामर्थशास्त्रीयः -
"शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः परं प्रत्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् ।
बहुव्याजं राज्यं न सुकरमराजप्रणिधिभिर् दुराराधा लक्ष्मीरनवहिदचित्तं छलयति" ॥
नाट्यशास्त्रीयः-
"एवं धारय देवि बाहुलतिकामेवं कुरुष्वाङ्गकं मात्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् ।
देवीं नर्त्तयतः स्ववक्रमुरजेनाभ्भोधरध्वानिना शभ्भोर्वः परिपान्तु लम्बितलयच्छेदाहृतास्तालिकाः" ॥
कामसूत्रीयः-
"नाश्वर्यं त्वयि यल्लक्ष्मीः क्षिप्त्वाधोक्षमागता ।
असौ मन्दरतस्त्वं तु प्रात्पः समरतस्तया" ॥
लौकिकस्तु द्विधा प्राकृतो व्युत्पन्नश्च ।
तयोः प्रथमः-
"स्फुटितपिठरीबन्धश्लाध्यो विपक्षगृहेप्यभूत् प्रियतम ययोः स्नेहग्रन्थिस्तथा प्रथमं स नौ ।
जनवदधुना सद्मन्यावां वसाव इहैव तौ धिगपरिचिते प्रेम स्त्रीणां चिराय च जीवितम्" ॥
यथा वा-
"इक्षुदण्डस्य मण्डस्य दध्नः पिष्टकृतस्य च ।
वाराहस्य च मांसस्य शेषो गच्छति फाल्गुने" ॥
द्वितीयो द्विधा समस्तजनजन्यः कतिपयजनजन्यश्च ।
तयोः प्रथमो ऽनेकधा देशानां बहुत्वात् ।
तत्र दाक्षिणात्यः-
"पिबन्त्यास्वाद्य मरिचं ताम्बूलविशदैर्मुखैः ।
प्रियाधरावदंशानि मधूनि द्रविडाङ्गनाः" ॥
यथा वा-
"विरम मदन कस्त्वं चैत्रघ का शक्ति रिन्दोर् इह हि कुसुमबाणाः कुण्ठिताग्राः स्खलन्ति ।
हृदयभ्रुव इमास्ताः कुन्तलप्रेयसीनां प्रहतिकिणकठोरग्रन्थयो वज्रसाराः" ॥
उदीच्यः-
"नेपाल्यो वल्लभैः सार्द्धमार्द्रैणमदमण्डनाः ।
ग्रन्थिपर्णकपालीषु नयन्ति ग्रीष्मयामिनीः" ॥
द्वितीयः-
"मिथ्यामीलदरालपक्ष्मणि वलत्यन्तः कुरङ्गीदृशो दीर्घापाङ्गसरित्तरङ्गतरले तत्पोन्मुखं चक्षुषि ।
पत्युः केलिमतः कथां विरमयन्नन्योन्यपण्कूयनात् को ऽयं व्याहरतीत्युदीर्य निरगात्सव्याजमालीजनः" ॥
कविमनीषानिर्मितं कथातन्त्रमर्थमात्रं वा विरचना ।
तत्राद्या-
"अस्ति चित्रशिखो नाम खङ्गवीद्याधराधिपः ।
दक्षिणे मलयोत्सङ्गे रत्नवत्याः पुरः पतिः ॥
तस्य रत्नाकरसुता श्रियो देव्याः सहोदरी ।
स्वयंवरिधावासीत्कलत्रं चित्रसुन्दरी" ॥
द्वितीया-
"ज्योस्त्नां लिम्पति चन्दनेन स पुमान्सिञ्चत्यसौ मालतीमालां गन्धजलैर्मधीनि कुरुते स्वादून्यसौ फाणितैः ।
यस्तस्य प्रथितान्गुणन्प्रथयति श्रीवीरचूडामणेः तारत्वं स च शाणया मृगयते मुक्ताफलानामपि" ॥
अत्राहुः-
"नीचैर्नार्थकथासर्गे यस्य न प्रतिभाक्षयः ।
स कविग्रामणीरत्र शेषास्तस्य कुटुम्बिनः" ॥
अभिहितेभ्यो यदन्यत्तत्प्रकीर्णकम् ।
तत्र हस्तिशिक्षीयः-
"मेघानां क्षणहासतामुपगतो हारः प्रकीर्णो दिशाम् आकाशोल्लसितामरवधूपीनस्तनास्फालकः ।
क्षुण्णश्चन्द्र इवोल्बणो मदवशादैरावणप्रेरितः पायादूः परिपाकपाण्डुलवलीश्रीतस्करः शीकरः" ॥
रत्नपरीक्षीयः-
"द्वौ वज्रवर्णौ जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ ।
यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः" ॥
धनुर्वेदीयः-
"स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्" ॥
योगशास्त्रीयः-
"यः सर्वेषां हृदयकमले प्राणिनामेकहंसस् त्वं जागर्षि स्वपिषि च मुहुर्बुध्यसे नापि बुद्धः ।
तं त्वाराध्य प्रविततधियो बन्धभेदं विधाय ध्वस्तातङ्का विमलमहसस्ते भवन्तो भवन्ति" ॥
एवं प्रकीर्णकान्तरमपि ।
उचितसंयोगः-
"पाण्ड्यो ऽयमंसार्पितलम्बहारः कॢत्पाङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः" ॥
योक्तृसंयोगः-
"कुर्वद्भिः सुरदन्तिनो मधुलिहामस्वादु दानोदकं तन्वानैर्नमुचिद्रुहो भगवताश्चक्षुः सहस्रव्यथाम् ।
भज्जन् स्वर्गतरङ्गिणीजलभरे पङ्कीकृते पांसुभिर् यद्यात्राव्यसनं निनिन्द विमनाः स्वर्लोकनारीजनः" ॥
उत्पाद्यसंयोगः-
"उभौ यदि व्योम्नि पृथक्प्रवाहावकाशगङ्गापयसः पतेताम् ।
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः" ॥
संयोगविकारः-
"गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्द्धकुङ्कुमम्" ॥
यथा वा-
"उन्माद्यत्यम्बुराशिर्विदलति कुमुदं सङ्कुचन्त्यम्बुजानि स्यन्दन्ते चन्द्रकान्ताः पतितसुमनसः सन्ति शेफालिकाश्च ।
पीयन्ते चन्द्रिकाम्भः क्रमसरलगलं किं च किञ्चिञ्चकोराश् चन्द्रे कर्पूरगौवद्युतिभृति नभसो याति चूडामणित्वम्" ॥
इदं कविभ्यः कथितमर्थोत्पत्तिपरायणम् ।
इह प्रगल्भमानस्य न जात्वर्थकदर्थना ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे (अर्थानुशासने)षोडश काव्यार्थनयः अष्टमो ऽध्यायः ॥
____________________________ अध्यय 9 _____________________________
नवमो ऽध्यायः 9
अर्थानुशासनम् (अर्थव्यात्पिः) "स त्रिधा" इति द्रौहिणिः;दिव्यो, दिव्यमानुशषो, मानुषश्च ।
"सत्पधा"इति यायावरीयः पातालीयो,; मर्त्त्यपातालीयो, दिव्यपातालीयो, दिव्यमर्त्त्यपातालीयश्च ।
तत्र दिव्यः-
"स्मृत्वा यन्निजवारवासगतया वीणासमं तुम्बुरोर् उद्गीतं नलकूवरस्य विरहादुत्कञ्चुलं रम्भया ।
तेनैरावणकर्णचापलमुषा शक्रो ऽपि निद्रा जहद् भूयः कारित एव हासिनि शचीवक्त्रे दृशं सम्भ्रमम्" ॥
दिव्यमानुषस्ति चतुर्द्धा ।
दिव्यस्य मर्त्यागमने, मर्त्यस्य च स्वर्गगमन इत्येको भेदः ।
दिव्यस्य मर्त्यभावे, मर्त्यस्य च दिव्यभाव इति द्वितीयः ।
दिव्येतिवृत्तपरिकल्पनया तृतीयः ।
प्रभावाविर्भूतदिव्यरुपतया चतुर्थः ।
तत्र दिव्यस्य मर्त्यागमनम्---
"श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन्तदर्शावतरन्तरमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः" ॥
मर्त्यस्य स्वर्गगमनम् -
"पाण्डोर्नन्दन नन्दनं वनमिदं सङ्कल्पजैः शीधुभिः कॢत्पापानककेलिकल्पतरुषु द्वन्द्वैः सुधालेहिनाम् ।
अप्यत्रेन्दुशिलालवालवलयं सन्तानकानां तले ज्योत्स्नासंगलदच्छनिर्झरजलैर्यत्नं विना पूर्यते" ॥
दिव्यस्य मर्त्यभावः-
"इति विकसति तस्मिन्नन्ववाये यदूनां समजनि वसुदेवो देवकी यत्कलत्रम् ।
किमपरमथ तस्मात्षोडशस्त्रीसहस्र-प्रणिहितपरिरम्भः पद्मनाभो बभूव" ॥
मर्त्यस्य दिव्यभावः-
"आकाशयानतटकोटिकृतैकपादास् तद्वेमदण्डयुगलान्यवलम्ब्य हस्तैः ।
कौतूहलात्तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि" ॥
दिव्येतिवृत्तपरिकल्पना-
"ज्योत्स्नापूरप्रसरविशदे सैकते ऽस्मिन्सरय्वा वदद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।
एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम्" ॥
प्रभावाविर्भूतदिव्यभावः---
"मा गाः पातालमुर्वि स्फुरसि किमपरं पाट्यमानः कुदैत्यत? त्रैलोक्यं पादपीतप्रथिम, नहि बले? पूरस्यूनमङ्घ्रेः ।
इत्युत्स्वप्नायमाने भुवनभृति शिखावङ्कसुत्पे यशोदा पायाच्चक्राङ्कपादप्रणतिपुलकितस्मेरगण्डस्थला वः" ॥
मर्त्यः---
"वधूः श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे पदे रिक्ते रिक्ते विनिहितपदार्थान्तरमिति ।
नदीस्रोतोन्यायादकलितविवेकक्रमघनं न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च" ॥
पातालीयः-
"कर्कोटः कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सज्जः सेवाज्जलिस्ते कपिलकुलिकयोः स्तैति च स्वस्तिकस्त्वां ।
पद्मः सद्मैष भक्तेरवलगति पुरः कम्बलो ऽयं बलो ऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः" ॥
मर्त्यपातालीयः-
"आर्द्रावले!व्रज न वेत्स्यपकर्ण!कर्णं द्विः सन्दधाति न शरं हरशिष्यशिष्यः ।
तत्साम्प्रतं समिति पश्य कुतूहलेन मर्त्यैः शरैरपि किरीटिकिरीटमाथम्" ॥
इहापि पूर्ववस्तमस्तमिश्रभेदानुगमः ।
दिव्यपातालीयः-
"स पातु वो यस्य शिखाश्मकर्णिकं स्वदेहनालं फणपत्रसञ्चयम् ।
विभाति जिह्वायुगलोलकेसरं पिनाकिनः कर्णभुजङ्गपङ्कजम्" ॥
स्वर्गमर्त्यपातालीयः-
"आस्तीको ऽस्ति मुनिः स्म विस्मयकृतः पारीक्षितीयान्मखात् त्राता तक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च ।
उद्देल्लन्मलयाद्रिचन्दनलतास्वान्दोलनप्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते" ॥
सो ऽयमित्थङ्कारमुल्लिख्योपजीव्यमानो निःसीमोर्थसार्थः सम्पद्यते इत्याचार्याः ।
"अस्तु नाम निःसीमोर्थसार्थः ।
किन्तु द्विरुप एवासौ विचारितसुस्थो ऽविचारितरमणीयश्च ।
तयोः पूर्वमाश्रितानि शास्त्राणि तदुत्तरं काव्यानि" इत्यौद्भटाः ।
यथा-
"अपां लङ्घयितुं राशिं रुचा पिञ्जरयन्नभः ।
खमुत्पपात हनुमान्नीलोत्पलदलद्युतिः" ॥
यथा वा-
"त आकाशमसिश्याममुत्पस्त्य परर्षयः ।
आसेदुरोषधिप्रस्थं मनसा समरंहसः" ॥
यथा च-
"तदेव वारि सिन्धूनां महत्स्थेमार्चिषामिति" इत्यादि ॥
"न स्वरुपनिबन्धनमिदं रुपमाकाशस्य सरिल्सलिलादेर्वा किन्तु प्रतिभासनिबन्दनम् ।
न च प्रतिभासस्तादत्भ्येन वस्तुन्यवतिष्ठते, यदि तथा स्यात्सूर्याचन्द्रमसोर्मण्डले दृष्ट्या परिच्छिद्यमानद्वादशाङ्गुलप्रमाणे पुराणाद्यागमनिवेदितधरावलयमात्रे न स्तः इति यायावरीयः ।
एवं नक्षत्रादीनां सरित्सलिलादीनामन्येषां च ।
यथाप्रतिभासं च वस्तुनः स्वरुपं शास्त्रकाव्ययोर्निबन्धोपयोगि" ।
शास्त्रे यथा-
"प्रशान्तजलभृत्पङ्के विमले वियदम्भसि ।
ताराकुमुदसम्बन्धे हंसायत इवोडुराट्" ॥
काव्यानि पुनरेतन्मयान्येव ।
"अस्तु नाम निःसीमार्थसार्थः ।
कुन्तु रसवत एव निबन्धो युक्तो न नीरसस्य" इति आपराजितिः ।
यदाह-
"मज्जमपुष्पावजयनसन्ध्याचन्द्रोदयादिवाक्यमिह ।
सरसमपि नातिबहुलं प्रकृतरसानन्वितं रचयेत् ॥
यस्तु सरिदद्रिसागरपुरतुरगरथादिवर्णने यत्नः ।
कविशक्तिख्यातिफलो विततधियां नो मतः स इह" ॥
"आम्" इति यायावरीयः ।
अस्ति चानुभूयमानो रसस्यानुगुणो विगुणश्चार्थः, काव्ये तु कविवचनानि रसयन्ति विरसयन्ति च नार्थाः, अन्वयव्यतिरेकाभ्यां चेतमुपलभ्यते ।
तत्र सरिद्वर्णनरसवत्ता-
"एतां विलोकय तलोदरि ताम्रपर्णीम् अब्धोनिधौ विवृतशुक्तिपुटोद्धृतानि ।
यस्याः पयांसि परिणाहिषु हारमूर्त्त्या वामभ्रुवां परिणमन्ति पयोधरेषु" ॥
अद्रिवर्णनरसवत्ता-
"एतास्ता मलयोपकण्ठसरितामेणाक्षिरोधोभुवश् चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।
यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्दचञ्चु विचलत्कण्ठं चकोराङ्गनाः" ॥
सागरवर्णनरसवत्ता-
"धत्ते यत्किलकिञ्चितैकगुरुतामेणीदृशां वारुणी वैधुर्यं विदधाति दम्पतिरुषां यच्चन्द्रिकार्द्रं नभः ।
यच्च स्वर्गसदां वयः स्मरसुहृन्नित्यं सदा सम्पदां यल्लक्ष्मीरधिदैवतं च जलधेस्तत्कान्तमाचेष्टितम्" ॥
एवं पुरतुरगादिवर्णनरसवत्तापि ।
विप्रलम्भेप्यतिरसवत्ता-
"विधर्माणो भावास्तदुपहितवृत्तेर्न धृतये सरुपत्वादन्ये विहितविफलौत्सुक्यवरसाः ।
ततः स्वेच्छं पूर्वेष्वसजदितरेभ्यः प्रतिहतं क्व हीनं प्रेयस्या हृदयमिदमन्यत्र रमताम्" ॥
कुकविर्विप्रलम्भे ऽपि रसवत्तां निरस्यति ।
अस्तु वस्तुषु मा वा भूत्कविवाचि रसः स्थितः ॥
"यथा तथा वास्तु वस्तुनो रुपं, वक्तप्रकृतिविशेषायत्ता तु रसवत्ता ।
तथा च यमर्थं रक्तः स्तौति तं विरक्तो विनिन्दति मध्यस्थस्तु तत्रघोदास्ते" इति पाल्यकीर्तिः ।
"येषां वल्लभया समं क्षणमिव स्फारा क्षपा क्षीयते तेषां शीततरः शशी विरहिणामुल्केव सन्तापकृत् ।
अस्माकं न तु वल्लभा न विरहस्तेनोभयभ्रंशिनाम् इन्दू राजति दर्पणाकृतिरयं नोष्णो न वा शीतलः" ॥
"विदग्धभणितिभङ्गिनिवेद्यं वस्तुनो रुपं न नियतस्वभावम्" इति अवन्तिसुन्दरी ।
तदाह-
"वस्तुस्वभावो ऽत्र कवेरतन्त्रे गुणागुणावुक्तिवशेन काव्ये ।
स्तुवन्निवध्नात्यमृतांशुमिन्दुं निन्दुंस्ति दोषाकरमाह धूर्त्तः" ॥
"उभयमुपपन्नम्" इति यायावरीयः ।
स पुनर्द्विधा ।
मुक्तकप्रबन्धत्रिषयत्वेन ।
तावपि प्रत्येकं पञ्चधा ।
शुद्धः, चित्रः, कथोत्थः, संविधानकभूः, आख्यानकवांश्च ।
तत्र मुक्तेतिवृत्तः शुद्धः ।
स एव सप्रपञ्चश्चित्रः ।
वृत्तेतिवृत्तः कथोत्थः ।
सम्भावितेतिवृत्तः संविधानकभूः ।
परिकल्पितेतिवृत्तः आख्यानकवान् ।
तत्र ।
मुक्तके-शुद्धः-
"सा पत्युः प्रथमापराधकरणे शिक्षोपदेशं विना नो जनाति सविभ्रमाङ्गवलना वक्रोक्तिचित्रां गतिम् ।
स्वच्छैरच्छकपोलमूलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलोदकैरश्रुभिः" ॥
चित्रः-
"दूरादुत्सकमागते विवसितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूतलम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णां क्षणाच् चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि" ॥
कथोत्थः-
"दत्त्वा रुद्भगतिः खसाधिपतये देवीं ध्रुवस्वामिनीं यस्मात्खण्डितसाहसो निववृते श्रीशर्मगुत्पो नृपः ।
तस्मिन्नेव हिमालये गुरुगुहाकोणक्वणत्किन्नरे गीयन्ते तव कार्त्तिकेयनगरस्त्रीणां गणैः कीर्त्तयः" ॥
संविधानक्रभूः-
"दृष्ट्रवैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादराद् एकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसाम् अन्तर्हासलसत्कपोलफलकां धूर्तो ऽपरां चुम्बति" ॥
यथा च-
"कुवर्त्या कुङ्कुमाभ्भः कपिशितवपुषं यत्तदा राजहंसीं क्रीडाहंशो मयासावजानि विरहितश्चक्रवाकीभ्रमेण ।
तस्यैतत्पाप्मनो मे परिणमति फलं यत्पुरे प्रेमबन्धाद् एकत्रावां वसावो न च दयित दृशाप्यस्ति नौ सन्निकर्षः" ॥
आख्यानकवान्-
"अर्थिजनार्थधृतानां वनकरिणां प्रथमकल्पितैर्दशनैः ।
चक्रे परोपकारी हैहयजन्मा गृहं शम्भोः" ॥
निबन्धे शुद्धः-
"स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां सुचिरमहमभूवं पात्रमालोकितानाम्" ॥
चित्रः-
"अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैर् अधिकविकसदन्तर्विस्मयस्मेरतारैः ।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैर् अपहृतमपविद्धं पीतमुन्मीलितं च" ॥
कथोत्थ--
"अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रियामभिशत्पः फलमेतदन्वभूत्" ॥
संविधानकभूः-
"क्रोधं प्रभो संहर संहरेति यावद्भिरः रवे मरुतां चरन्ति ।
तावत्स वह्णिर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार" ॥
आख्यानकवान्-
"पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रज्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान" ॥
किञ्च-
संस्कृतवत्सर्वास्वपि भाषासु यथासामर्थ्यं यथारुचि यथा-
कौतुकं चावहितः स्यात् ।
शब्दार्थयोश्चाभिधानाभिधेयव्यापारप्रगुणतामवबुध्येत ।
तदुक्तम्-
एको ऽर्थः संस्कृतोक्त्या स सुकविरचनः प्राकृतेनापरो ऽस्मिन् अन्यो ऽपभ्रंशगीर्भिः किमपरमपरो भूतभाषाक्रमेण ।
द्वित्राभिः को ऽपि वाग्भिर्भवति चतसृभिः किञ्च कश्चिद्विवेक्तुं यस्येत्थं धीः प्रपन्ना स्नपयति सुकवेस्तस्य कीर्त्तिर्जगन्ति ॥
इत्थङ्कारं घनैरथैर्व्युत्पन्नमनसः कवेः ।
दुर्गमे ऽपि भवेन्मार्गे कुण्ठिता न सरस्वती ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे अर्थानुशासने (अर्थव्यात्पिः) नवमो ऽध्यायः ॥
____________________________ अध्यय 10 _____________________________
10 कविचर्या राजचर्या च ।
गृहीतविद्योपविद्यः काव्यक्रियायै प्रयतेत ।
नामधातुपारायणे, अभिधानकोशः, छन्दोविचितः, अलङ्कारतन्त्रं च काव्यविद्याः ।
कलास्तु चतुःषष्टिरुपविद्याः ।
सुजनोपजीव्यकविसन्निधः, देशवार्ता, विदग्धवादो, लोकयात्रा, विद्वद्गोष्ठ्यश्च काव्यमातरः पुरातनकविनिबन्धाश्च ।
किञ्च-
स्वास्थ्यं प्रतिभाभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता ।
स्मृतिदाढर्यमनिर्वेदश्च मातरो ऽष्टौ कवित्वस्य ॥
अपि च नित्यं शुचिः स्यात् ।
त्रिधा च शौचं वाक्शौचं, मनः-शौचं, कायशौचं च ।
प्रथमे शास्त्रजन्मनी ।
तार्तीयीकं तु सनखच्छेदौ पादौ, सताम्बूलं मुखं, सविलेपनमात्रं वपुः, महार्हमनुल्बणं च वासः, सुकुसुमं शिर इति ।
शुचिशीलनं हि सरस्वत्याः संवननमामनन्ति ।
स यत्स्वभावः कविस्तकदनुरुपं काव्यम् ।
यदृशाकारश्चित्रकारस्तादृशाकारमस्य चित्रमिति प्रायोवादः ।
स्मितपूर्वमभिभाषणं, सर्वत्रोक्तिगर्भमभिधानं, सर्वतो रहस्यान्वेषणं, परकाव्यद्षणवैमुख्यमनभिहितस्य अभिहितस्य तु यथार्थमभिधानम् ।
तस्य भवनं सुसंमृष्टं, ऋतुषट्कोचितविविधस्थानम्, अनेकतरुमूलकल्पितापाश्रयवृक्षवाटिकं, सक्रीडापर्वतकं, सदीर्धिकापुष्करिणीकं, ससरित्समुद्रावर्त्तकं, सकुल्याप्रवाहं, सविर्हिणहरिणहारितं, ससारसचक्रवाक्रहंसं, सचकोरक्रौञ्चकुररशुकसारिकं, धर्मक्लान्तिचौरं, सभू(ति)मिधारागृहयन्त्रलतामण्डपकं,, सदोलाप्रेङ्खं च स्यात् ।
काव्याभिनिवेशखिन्नस्य मनसस्तद्विनिर्वेदच्छेदाय आज्ञाभूकपरिजनं विजनं वा तस्य स्थानम् ।
अपभ्रंशभाषणप्रवणः परिचारकवर्गः, समागधभाषाभिनिवेशिन्यः परिचारिकाः ।
प्राकृतसंस्कृतभाषाविद आन्तःपुरिका, मित्राणि चास्य सर्वभाषाविन्दि भवेयुः ।
सदःसंस्कारविशुद्ध्यर्थं सर्वभाषाकुशलः, शीघ्रवाक्, चार्वक्षरः, इङ्गिताकारवेदी, नानालिपिज्ञः, कविः, लाक्षणिकश्च लेखकः स्यात् ।
तदसन्निधावतिरात्रादिषु पूर्वोक्तनामन्यतमः ।
स्वभवने हि भाषानियमं यथा प्रभुर्विदधाति तथा भवति ।
श्रूयते हि मगधेषु शिशुनागो नाम राजा;तेन दुरुञ्चारानष्टौ वर्णानपास्य स्वान्तःपुर एव प्रवर्त्ततो नियमः, टकारादयश्चत्वारो मूर्ध्दन्यास्तृतीयवर्जमूष्माणस्त्रयः क्षकारश्चेति ।
श्रूयते च सूरसेनेषु कुविन्दो नाम राजा; तेन परुषसंयोगाक्षरवर्जमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते च कुन्तलेषु सातवाहनो नाम राजा; तेन प्राकृतभाषात्मकमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते चोज्जयिन्यां साहसाङ्को नाम राजा; तेन च संस्कृतभाषात्मकमन्तःपुर एवेति समानं पूर्वेण ।
तस्य सम्पुटिका सफलकखटिका, समुद्गकः, सलेखनीकमषीभाजनानि ताडिपत्राणि भूर्जत्वचो वा, सलोहकण्टकानि तालदलानि सुसभ्मृष्टा भित्तयः, सततसन्निहिताः स्युः ।
"तद्धि काव्यविद्यायाः परिकरः"इति आचार्याः ।
"प्रतिभैव परिकरः" इति यायावरीयः ।
कविः प्रथममात्मानमेव कल्पयेत् ।
कियान्मे संस्कारः, क्व भाषाविषये शक्तो ऽस्मि, किं रुचिर्लोकः, परिवृढो वा, कीदृशि गोष्ठ्यां विनीतः, क्वास्य वा चेतः संसजत इति बुद्ध्वा भाषाविशेषमाश्रयेत"इति आचार्याः ।
"एकदेशकवेरियं नियमतन्त्रणा, स्वतन्त्रघस्य पुनरेकभाषावत्सर्वा अपि भाषाः स्युः" इति यायावरीयः ।
देशविशेषवशेन च भाषाश्रयणं दृश्यते ।
तदुक्तम्-
"गौडाद्याः संस्कृतस्थाः परिचितरुचयः प्राकृते लाटदेश्याः सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादानकाश्च ।
आवन्त्याः पारियात्राः सह दशपुरजैर्भूतभाषां भजन्ते यो मध्येमध्यदेशं निवसति स कविः सर्वभाषानिषण्णः ॥
जानीयाल्लोकसांमत्यं कविः कुत्र ममेति च ।
असंमतं परिहरेन्मते ऽभिनिविशेत च ॥
जनापवादमात्रेण न जुगुप्सेत चात्मनि ।
जानीयात्स्वयमात्मानं यतो लोको निरङ्कुशः ॥
गीतसूक्तिरतिक्रान्ते स्तोता देशान्तरस्थिते ।
प्रत्यक्षे तु कवौ लोकः सावज्ञः सुमहत्यपि ॥
प्रत्यक्षकविकाव्यं च रुपं च कुलयोषितः ।
गृहवैद्यस्य विद्या च कस्मैचिद्यदि रोचते ॥
इदं महाहासकरं विचेष्टितं परोक्तिपाटच्चरतारतो ऽपि यत् ।
सदुक्तिरत्नाकरतां गतान्कवीन् कवित्वमात्रघेण समेन निन्दति ॥
वचः स्वादु सतां लेह्यं लेशस्वाद्वपि कौतुकात् ।
बालस्त्रीहीनजातीनां काव्यं याति मुखान्मुखम् ॥
कार्यावसरसज्जानां परिव्राजां महीभ्रुजाम् ।
काव्यं सद्यः कवीनां च भ्रमत्यह्ना दिशो दश ॥
पितुर्गुर्रेर्नन्द्रस्य सुतशिष्यपदातयः ।
अविविच्यैव काव्यानि स्तुवन्ति च पठन्ति च" ॥
"किञ्च नार्द्धकृतं पठेदसमात्पिस्तस्य फलम्" इति कविरहस्यम् ।
न नवीनमेकाकिनः पुरतः ।
स हि स्वीयं ब्रुवाणः कतरेण साक्षिणा जीयेत ।
न च स्वकृतिं बहुमन्येत ।
पक्षुपातो हि गुणदोषौ विपर्यासयति ।
न च दृप्येत् ।
दर्पलवो ऽपि सर्वसंस्कारानुच्छिनत्ति ।
परैश्च परीक्षयेत् ।
यदुदासूनः पश्यति न तदनुष्ठातेति प्रायोवादः ।
कविमानिनं तु छन्दो ऽनुवर्त्तनेन रञ्जयेत् ।
कविंमन्यस्य हि पुरतः सूक्तमरण्यरुदितं स्याद्विप्लवेत च ।
तदाह-
"इदं हि वैदग्ध्यरहस्यमुत्तमं पठेन्न सूक्तिं कविमानिनः पुरः ।
न केवलं तां न विभावयत्यसौ स्वकाव्यबन्धेन विनाशयत्यपि" ॥
अनियतकालाः प्रवृत्तयो विप्लवन्ते तस्माद्दिवसं निशां च यामक्रमेण चतुर्द्धा विभजेत् ।
स प्रातरुत्थाप कृतसन्ध्यावरिवस्याः सारस्वतं सूक्तमधीयीत ।
ततो विद्यावसथे यथासुखमासीनः काव्यस्य विद्या उपविद्याश्चानुशीलयेदाप्रहरात् ।
न ह्येवंविधोन्यः प्रतिभाहेतुर्यथा प्रत्यग्रसंस्कारः ।
द्वितीये काव्यक्रियाम् ।
उपमध्याह्नं स्नायादविरुद्धं भुञ्जीत च ।
भोगनान्ते काव्यगोष्ठीं प्रवर्त्तयेत् ।
कदाचिच्च प्रश्नोत्तराणि भिन्दीत ।
काव्यसमस्याधारणा, मातृकाभ्यासः, चित्रा योगा इत्यायामत्रयम् ।
चतुर्थ एकाकिनः परिमितपरिषदो वा पूर्वाह्नभागविहितस्य काव्यस्य परीक्षा ।
रसावेशतः काव्यं विरचयतो न च विवेक्त्री दृष्टिस्तस्मादनुपरीक्षेत ।
अधिकस्य त्यागो, न्यूनस्य पूरणम्, अन्यतास्थितस्य परिवर्त्तनं, प्रस्मृतस्यानुसन्धानं चेत्यहीनम् ।
सायं सन्ध्यामुपासीत सरस्वतीं च ।
ततो दिवा विहितपरीक्षकस्याभिलेखनमाप्रदोशात् ।
यावदार्त्तं स्त्रियमभिमन्येत ।
द्वितीयतृतीयौ साधु शयीत ।
सम्यक्स्वापो वपुषः परमारोग्याय ।
चतुर्थे सप्रयन्तं प्रतिबुध्येत ।
ब्राह्मे मुहूर्त्ते मनः प्रसीदत्तांस्तानर्थानध्यक्षयतीत्याहोरात्रिकम् ।
चतुर्विधश्चासौ ।असूर्यम्पश्यो, निषण्णो, दत्तावसरः, प्रायोजनिकश्च ।
यो गुहागर्भभूमिगृहादिप्रवेशान्नैष्ठकवृत्तिः कवते, असावसूर्यम्पश्यस्तस्य सर्वे कालाः ।
यःकाव्यक्रियायामभिनिविष्टः कवते न च नौष्ठिकवृत्तिः, स निषाण्णस्तस्यापि त एव कालाः ।
यः सेवादिकमविरुन्धानः कवते, स दत्तावसरस्तस्य कतिपये कालाः ।
निशायास्तुरीययामार्द्धः, स हि सारस्वतो मुहूर्त्तः ।
भोजनान्तः, सौहित्यं हि स्वास्थ्यमुपस्थापयति ।
व्यवायोपरमः, यदर्त्तिविनिवृत्तिरेकमेकाग्रतायनम् ।
याप्ययानयात्रा, विषयान्तरविनिवृत्तं हि चित्तं यत्र यत्र प्रणिधीयते तत्र तत्र गुहूचीलागं लगति ।
यदा यदा चात्मनः क्षणिकतां मन्यते स स काव्यकरणकालः ।
यस्तु प्रस्तुतं किञ्चन संविधानकमुद्दिश्य कवते, स प्रायोजनिकस्तस्य प्रयोजनवशात्कालव्यवस्था ।
बुद्धिमदाहार्यबुद्धयोरियं नियममुद्रा ।औपदेशिकस्य पुनरिच्छैव सर्वे कालाः, सर्वाश्च नियममुद्राः ।
परुषवत् योषितो ऽपि कवीभवेयुः ।
संस्कारो ह्यात्मनि समवैति, न स्त्रैणं पौरुषं वा विभागमपेक्षते ।
श्रूयन्ते दृश्यन्ते च राजपुत्र्यो महामात्रदुहितरो गणिकाः कौतुकिभार्याश्च शास्त्रप्रहतबुद्धयः कवयश्च ।
सिद्धं च प्रबन्धमनेकादर्शगतं कुर्यात् ।
यदित्थं कथयन्ति-
"निक्षेपो विक्रयो दानं देशत्यागो ऽल्पजीविता ।
त्रुटिको वह्निरम्भश्च प्रबन्धोच्छेदहेतवः ॥
दारिद्रयं व्यसनासक्तिरवज्ञा मन्दभाग्यता ।
दुष्टे द्विष्टे च विश्वासः पञ्च काव्यमहापदः" ॥
पुनः समापयिष्यामि, पुनः संस्करिष्यामि, सुहृद्भिः सह विवेचयिष्यामीति कर्तुराकुलता राष्ट्रोपप्लवश्च प्रबन्धविनाशकारणानि ।
"अहर्निशाविभागेन य इत्थं कवते कृती ।एकावलीव तत्काव्यं सतां कण्ठेषु लम्बते ॥
यथा यथाभियोगश्च संस्कारश्च भवेत्कवेः ।
तथा तथा निबन्धानां तारतम्येन रम्यता ॥
मुक्तके कवयो ऽनन्ताः सङ्घाते कवयः शतम् ।
महाप्रबन्धे तु कविरेको द्वौ दुर्लभास्त्रयः" ॥
अत्राह स्म-
"बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ॥
रीतिं विचिन्त्य विगणय्य गुणान्विगाह्य शब्दार्थसार्थमनुसृत्य च सूक्तिमुद्राः ।
कार्यो निबन्धविषये विदुषा प्रयत्नः के पोतयन्त्ररहिता जलधौ प्लवन्ते ॥
लीढाभिधोपनिषदां सविधे बुधानाम् अभ्यस्यतः प्रतिदिनं बहुदृश्वनो ऽपि ।
किञ्चित्कदाचन कथञ्चन सूक्तिपाकाद् वाक्-तत्त्वमुन्मिषति कस्यचिदेव पुंसः ॥
इत्यनन्यमनोवृत्तेनिःशेषे ऽस्य क्रियाक्रमे ।
एकपत्नीव्रतं धत्ते कवेर्देवी सरस्वती ॥
सिद्धिः सूक्तिषु सा तस्य जायते जगदुत्तरा ।
मूलच्छायां न जानाति यस्याः सो ऽपि गिरां गुरुः" ॥
राजा कविः कविसमाजं विदधीत ।
राजनि कवौ सर्वो लोकः कविः स्यात् ।
स काव्यपरीक्षायै सभां कारयेत् ।
सा षोडशभिः स्तम्भैश्चतुर्भिर्द्वारैरष्टभिर्मत्तवारणीभिरुपेता स्यात् ।
तदनुलग्नं राज्ञः केलिगृहम् ।
मध्येसभं चतुःस्तम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिका वेदिका ।
तस्यां राजासनम् ।
तस्य चोत्तरतः संस्कृताः कवयो निविशेरन् ।
बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते ।
यस्त्वनेकत्र प्रवीणः स सङ्क्रम्य तत्र तत्रोपविशेत् ।
ततः परं वेदविद्याविदः प्रामाणिकाः पौराणिकाः स्मार्त्ता भिषजो मौहूर्त्तका अन्ये ऽपि तथाविधाः ।
पूर्वेण प्राकृताः कवयः, ततः परं नटनर्त्तकगायनवादकवाग्जीवनकुशीलवतालापचरा अन्ये ऽपि तथाविधाः ।
पश्चिमेनापभ्रंशिनः कवयः, ततः परं चित्रलेप्यकृतो माणिक्य वन्धका वैकटिकाः स्वर्णकारवर्द्धकिलोहकारा अन्ये ऽपि तथाविधाः ।
दक्षिणतो भूतभाषाकवयः ; ततः परं भुजङ्गणिकाः प्लवकशौभिकजभ्भकमल्लाः शस्त्रोपजीविनो ऽन्ये ऽपि तथाविधाः ।
तत्र यथासुखमासीनः काव्यगोष्टीं प्रवर्त्तयेद् भावयेत् परीक्षेत च ।
वासुदेवसातवाहनशूद्रकसाहसाङ्कादीन्सकलान्सभापतीन्दानमानाभ्यामनुकुर्यात् ।
तुष्टपुष्टाश्चास्य सभ्या भवेयुः स्थाने च पारितोषिकं लभेरन् ।
लोकोत्तरस्य काव्यस्य च यथार्हा पूजा कवर्वा ।
अन्तरान्तरा च काव्यगोष्ठीं शास्त्रवादाननुजानीयात् ।
मध्वपि नानवदंशं स्वदते ।
काव्यशास्त्रविरतौ विज्ञानिष्वभिरमेत ।
देशान्तरागतानां च वितुषामन्यद्वारा सङ्गं कारयेदौचित्याद्यावत्स्थिति पूजां च ।
वृत्तिकामांश्चोपजपत् ।
सङ्गृह्णीयाच्च ।
पुरुषरत्नानामेक एव राजोदन्वान्भाजनम् ।
राजचरितं च रजोपजीविनो ऽप्यनुकुर्युः ।
राज्ञ एव ह्यसावुपकारो यद्राजोपजीविनां संस्कारः ।
महानगरेषु च काव्यशास्त्रपरीक्षार्थं ब्रह्मसभाः कारयेत् ।
तत्र परीक्षोत्तर्णानां ब्रह्मारथयानं पट्टबन्धश्च ।
श्रूयते चोज्जयिन्यां काव्यकारपरीक्षा-
"इह कालिदासमेण्ठावत्रामररुपसूरभारवयः ।
हरिचन्द्रचन्द्रगुत्पौ परीक्षिताविह विशालायाम्" ॥
श्रूयते च पाटलिपुत्रे शास्त्रकारपरीक्षा-
"अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्यडिः ।
वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजग्मुः" ॥
इत्थं सभापतिर्भूत्वा यः काव्यानि परीक्षते ।
वशस्तस्य जगद्वयापि स सुखी तत्र तत्र च ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कविचर्या राजचर्यां च दशमो ऽध्यायः
____________________________ अध्यय 11 _____________________________
एकादशो ऽध्यायः 11
शब्दार्थहरणोपायाः कविविशेषाः, तत्र शब्दहरणोपायाः ।
शब्दहरणोपायाः ।
परप्रयुक्तयोः शब्दार्थयोरुपनिबन्धो हरणम् ।
तद्द्विधा परित्याज्यमनुग्राह्यं च ।
तयोः शब्दहरणमेव तावत्पञ्चधा पदतः, पादतः, अर्द्धतः, वृत्ततः, प्रबन्धतश्च ।
"तत्रैकपदरणं न दोषाय" इति आचार्याः ।
"अन्यत्र द्वयर्थपदात्" इति यायावरीयः ।
तत्र श्लिष्टस्य श्लिष्टपदेन हरणम्-
"दूरकृष्टशिलीमुखव्यतिकारान्नो किं किरातानिमा नाराद्वयावृतपीतलोहितमुखान्किं वा पलाशानपि ।
पान्थाः केसरिणं न पश्यत पुरोप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम्" ॥
यथा च-
"मा गाः पान्थ प्रियां त्यक्त्या दूराकृष्टशिलीमुखम् ।
स्थितं पन्थानमावृत्य किं किरातं न पश्यसि" ॥
श्लिष्टपदैकदेशेन हरणम्-
"नाश्चर्यं यदनार्यात्पावस्तप्रीतिरयं मयि ।
मांसोपयोगं कुर्वीत कथं क्षुद्रहितो जनः" ॥
यथा च-
"कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्ते ऽधरः किं वा चुम्बनकारणाद्दयित नो वायोर्विकारादयम् ।
तस्मात्सुभ्रु सुगन्धिमाहितरसं स्निग्धं भजस्वादरान् मुग्धे मांसरसं ब्रुवन्तिति तया गाढं समालिङ्गितः" ॥
श्लिष्टस्य यमकेन हरणम्-
"हलमपारयोनिधिविस्तृतं प्रहरता हलीना समराङ्गणे ।
निजयशश्च शशाङ्ककलामलं निरवधीरितमाकुलमासुरम्" ॥
यथा च-
"दलयता विशिखैर्बलमुन्मदं निरवधीरितमाकुलमालुरम् ।
दशसु दिक्षु च तेन यशः सितं निरवधीरितमाकुलमासुरम्" ॥
श्लिष्टस्य प्रश्नोत्तरेण हरणम्-
"यस्यां भुजङ्गवर्गः कर्णोयतेक्षणं कामिनीववदनं च" ॥
यथा च-
"किं करोति कियत्कालं वेश्यावेश्मनि कामुकः ।
कीदृशं वदनं वीक्ष्य तस्याः कर्णायतेक्षणम्" ॥
यमकस्य यमकेन हरणम्-
"वरदाय नमो हरये पतति जनो ऽयं स्मरन्नपि न मोहरये ।
बहुशश्चक्रन्द हता मनसि दितिर्येन दैत्यचक्रं दहता" ॥
यथा च-
चक्रं दहतारं चक्रन्द हतारं खङ्गेन तवाजौ राजन्नरिनारी ।
एवमन्योन्यसमन्वये ऽन्ये ऽपि भेदाः ।
नन्विदमुपदेश्यमेव न भवति ॥
यदित्थं कथयन्ति-
"पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यति ।
अपि पुत्रेषु पौत्रेषु वाक्चौर्यं च न शीर्यति" ॥
"अयमप्रसिद्धः प्रसिद्धिमानहम्ष, अयमप्रतिष्ठः प्रतिष्ठावानहम्, अप्रक्रान्तमिदमस्य संविधानकं प्रक्रान्तं मम, गूडूचीवचनो ऽयं मृद्वीकावचनो ऽहम्, अनादृतभाषाविश्षो ऽयमहमादृतभाषाविशेषः, प्रशान्तज्ञातृकमिदं, देशान्तरितकर्त्तृकमिदम्, उच्छन्ननिबन्धनमूलमिदं, म्लेच्छितकोपनिबन्धमूलमिदमित्येवमादि भिः कारणैः शब्दहरणे ऽर्थहरणे चाभिरमेत" ॥
इत्य् अवन्तिसुन्दरी ।
"त्रिभ्यः पदेभ्यः प्रभृति त्वश्लिश्टेभ्यो हरणम्"
इति आचार्याः-
यथा-
"स पातु वो यस्य जटाकलापे स्थितः शशाङ्कः स्फुटहारगौरः ।
नीलोत्पलानामिव नालपुञ्जे निद्रायमाणः शरदीव हंसः" ॥
यथा च-
"स पासु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु ।
लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु" ॥
"न" इति यायावरीयः ।
उल्लेखवान्पदसन्दर्भः परिहरणीयो नाप्रत्यभिज्ञायातः पादो ऽपि ।
तस्यापि साम्ये न किञ्चन दृष्टं स्यात् ।
यथा-
"इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ ।
उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः" ॥
यथा च-
"इत्युक्तवचनुक्तिविशेषरम्यं रामानुजन्मा विरराम मानी ।
संक्षित्पमात्पावसरं च वाक्यं सेवाविधिज्ञैः पुरतः प्रभूणाम्" ॥
उल्लेखवान्यथा-
"नमः संसारनिर्वाणविषामृतविधायिने ।
सत्पलोकोर्मिभङ्गाय शङ्करक्षीरसिन्धवे" ॥
यथा च-
"प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ।
नमो ऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे" ॥
"पाद एवान्यथात्वकरणकारणं न हरणम्, अपि तु स्वीकरणम्" इति आचार्याः ।
यथा---
"त्यागाधिकाः स्वर्गमुपाश्रयन्ते त्यागेन हीना नरक व्रजन्ति ।
न त्यागिनां किञ्चिदसाध्यमस्ति त्यागो हि सर्वव्यसनानि हन्ति" ॥
यथा च-
"त्यागो हि सर्वव्यसनानि हन्तीत्यलीकमेतद्भुवि सम्प्रतीतम् ।
जातानि सर्वव्यसनानि तस्यास्त्यागेन मे मुग्धविलोचनायाः" ॥
तदिदं स्वीकरणापरनामधेयं हरणमेव (इति यायावरीयः-) ।
तद्वदर्ध्दप्रयोगे ऽपि ।
यथा-
"पादस्ते नरवर दक्षिणे समुद्रे पादो ऽन्यो हिमवति हेमकूटलग्ने ।
आक्रामत्यलघु महीतलं त्वयीत्थं भूपालाः प्रणतिमपास्य किन्नु कुर्युः" ॥
यथा चोत्तरार्द्धे-
"इत्थं ते विधृतपदद्वयस्य राजन् नाश्चर्यं कथमिव सीवनी न भिन्ना" ॥
एवं व्यस्तार्द्धप्रयोगे ऽपि ।
यथा-
"तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति ।
अभ्युद्गते सकलधामनिधौ तु तस्मिन् निन्दोः सिताभ्रशकलस्य च को विशेषः" ॥
यथा च--
"तत्तावदेव शशिनः स्फिरितं महीयो यावन्न किञ्चिदपि गौरितरा हसन्ति ।
ताभिः पुनर्विहसिताननपङ्कजाभिर् इन्दोः सिताभ्रशकलस्य च को विशेषः" ॥
पाद एवान्यथात्वकरणं न स्वीकरणं पादोनहरणं वा ।
यथा-
"अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे ।
न्यासापह्नवने चैव दिव्या सम्भवति क्रिया" ॥
यथा चोत्तरार्द्धे-
"तन्वङ्गी यदी लभ्येत दिव्या सम्भगवति क्रिया" ।
यथा वा---
"यस्य केशेषु जीमूता नद्यः सर्वाङ्गमन्धिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः" ॥
यथा चोत्तरार्द्धे---
"कुक्षौ समुद्राश्चत्वारः स सहेत स्मरानलम्" ।
भिन्नार्थानां तु पादानामेकेन पादेनान्वयनं कवित्वमेव ।
यथा---
"किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरो ऽयं यन्न नास्तं कदाचित् ।
भ्रमति विहगसार्थानित्थमापृच्छमानो रजनिविरहभीतश्चक्रवाको वराकः" ॥
यथा च-
"जयति सितविलोलव्तयालयज्ञोपवीती घनकपिलटानतर्भान्तगङ्गाजलौघः ।
अविदितमृगजिह्नमिन्दुलेखां दधानः परिणतशितिकण्ठश्यामकण्ठः पिनाकी" ॥
यथा च-
"कुमुदवनमपश्रि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांसुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥
" यथा च-
"किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा घनकपिलजटान्तर्भ्रान्तगङ्गाजलौधः ।
निवसति स पिनाकी यत्र यायां तदस्मिन् हतविधिललितानां ही विचित्रो विपाकः" ॥
पादोनवत्कतिपयपदप्रयोगो ऽपि यथा-
"या व्यापारवती रसान् रसयितुं काचित्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।
ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वार्णयन्तो वयं श्रान्ता नैव लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम्" ॥
यथा च चतुर्थपादे-
"श्रान्ता नैव च लब्धमुत्पलदृशां प्रेम्णः समानं सुखम्" ॥
पादैकदेशाग्रहणमपि पदैकदेशोपलक्षणपरम् यथा-
"असकलहसित्वात्क्षालितानीव कान्त्या मुकुलितनयनत्वाद्व्यक्तकर्णोत्पलानि ।
पिबति मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः" ॥
यथा चोत्तरार्धे-
"पिबतु मधुसुगन्धीन्याननानि प्रियाणां मयि विनिहितभारः कुन्तलानामधीशः" ।
वाक्यस्यान्यथा व्याख्यानमपि न स्वीकरणं हरणं वा ।
यथा-
"सुभ्रु!त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां दूरादेव मयोज्भ्फताः सुरभयः स्रग्दामधूपादयः ।
कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सद्यस्त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः" ॥
एतञ्च कान्ताप्रसादनपरं वाक्यं कुपितदृष्टिपरतया व्यख्यातं, न स्वीकृतं हृतं वा ।
यत्तु परकीयं स्वीयमिति प्रोक्तानामन्यतमेन कारणेन विलपन्ति, तन्न केवलं हरणम्, अपि तु दोषोदाहरणम् ।
मुक्तकप्रबन्धविषयं तत् ।
मूल्यक्रयो ऽपि हरणमेव ।
वरमप्रात्पिर्यशसो न पुनर्दुर्यशः ।
(सभापतिस्तु द्विधा, उपजीव्य, उपजीवकश्च ।
तत्रोपजीवनमात्रेण न कश्चिद्दोषः ।
यतः सर्वो ऽपि परेभ्य एव व्युत्पद्यते, केवलं तत्र समुदायो गुरुः) "तद्वहक्तिहरणम्" इति आचार्याः ।
यथा -
"ऊरुद्वयं सरसकदलीकाण्डसब्रह्मचारि" ।
यथा च --
"उरुद्वयं कदलकन्दलयोः सवंशं श्रोणिः शिलाफलकसोदरसन्निवेशा ।
वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिसश्च मुखं मृगाक्ष्याः" ॥
उक्तयो ह्यर्थान्तरसङ्क्रान्ता न प्रत्यभियाज्ञन्ते, स्वदन्ते च; तदर्थस्तु हरणादपि हरणं स्युः" इति यायावरीयः ।
"नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः ।
स नन्दति विना वाच्यं यो जानात् निगूहितुम् ॥
उत्पादकः कविः कश्चित्कश्चिञ्च परिवर्त्तकः ।
आच्छादकस्तथा चान्यस्तथा संवर्गको ऽपरः ॥
शब्दार्थोक्तिषु यः पश्चेदिह किञ्चन नूतनम् ।
उल्लिखेत्किञ्चन प्राच्यं मन्यतां स महाकविः" ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे एकादशो ऽध्यायः शब्दहरणानि ॥
____________________________ अध्यय 12 _____________________________
द्वदशो ऽध्यायः 12
अर्थहरणोपायाः, कविप्रभेदाः, प्रतिबिम्ब-कल्पविकल्पस्य समीक्षा च ।
"पुराणकविक्षुण्णे वर्त्मनि दुरापमस्पृष्टं वस्तु, ततश्च तदेव संस्कृर्तुं प्रयतेत" इति आचार्याः ।
"न" इति वाक्पतिराजः ।
"आसंसारमुदारैः कविभिः प्रतिदिनगृहीतसारो ऽपि ।
अद्याप्यभिन्नमुद्रो विभाति वाचां परिस्यन्दः" ॥
तत्प्रतिभासाय च परप्रबन्धेष्ववदधीत ।
"तदवगाहने हि तदेकयोनयो ऽर्थाः पृथक् पृथक् प्रथन्ते" इत्येके ।
"तत्रत्यानामर्थानां छायया परिवृत्तिः फलम्" इत्यपरे ।
महात्मनां हि संवादिन्यो बुद्धय एकमेवार्थमुपस्थापयन्ति, तत्परित्यागायतानाद्रियेत इति च केचित् ।
"न" इति यायावरीयः ।
सारस्वतं चक्षुरवाङ्मनसगोचरेण प्रणिधानेन दृष्टमदृष्टं चार्थजातं स्वयं विभजति ।
तदाहुः-
सुत्पस्यापि महाकवेः शब्दार्थौ सरस्वती दर्शयति ।
तदितरस्य तत्र जाग्रतो ऽप्यन्धं चक्षुः ।
अन्यदृष्टचरे ह्यर्थे महाकवयो जात्यन्धास्तद्विपरीते तु दिव्यदृशः ।
न तत् त्र्यक्षाः सहस्रोक्षो वा यञ्चर्मचक्षुषो ऽपि कवयः पश्यन्ति ।
मदिदर्पणे कवीनां विश्वं प्रतिफलति ।
कथं नु वयं दृश्यामह इति महात्मनामहम्पूर्विकयैव शब्दार्थाः पुरो धावन्ति ।
यत्सिद्धप्रणिधाना योगिनः पश्यन्ति, तत्र वाचा विचरन्ति कवयः इत्यनन्ता महाकविषु सूक्तयः (इति) ।
"समस्तमर्स्ति" किन्तु त्रिपथमर्थमध्यगीष्महि ।
इति यायावरीयः ।
यदुतान्ययोनिर्निह्णुतयोनिरयोनिश्च ।
तत्रान्ययोनिद्विधा प्रतिबिम्बकल्पः, आलेख्ययप्रख्यश्च ।
निह्नुतयोनिरपि द्विधा तुल्यदेहितुल्यः परपुरप्रवेशसदृश्च ।
अयोनिः पुनरेकादृश एव ।
तत्र-
अर्थः स एव सर्वो वाक्यान्तरविरचनापरं यत्र ।
तदपरमार्थविभेदं काव्यं प्रतिबिम्बिकल्पं स्यात् ॥
यथा--
"ते पान्तु वः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः ।
चन्द्रामृदाम्बुकणसेकसुखप्ररुढैर् यैरङ्कुरैरिव विराजति कालकूटः" ॥
यथा च-
"जयन्ति नीलकण्ठस्य कण्ठे नीलाः महाहयः ।
गलद्गङ्गाम्बुसंसिक्तकालकूटाङ्कुरा इव" ॥
कियताषि यत्र संस्कारकर्मणा वस्तु भिन्नवद्भाति ।
तत्कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ॥
तत्रैवार्थे यथा-
"जयन्ति धवलव्यालाः शम्भोर्जूटावलम्बिनः ।
गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्कुरा इव" ॥
विषयस्य यत्र भेदे ऽप्यभेदबुद्धिर्नितान्तसादृश्यात् ।
तत्तुल्यदेहितुल्य काव्यं बध्नन्ति सुधियो ऽपि ॥
यथा--
"अवीनादौ कृत्वा भवति तुरगो यावदवधिः पशुर्धन्यस्तावत्प्रतिवसति यो जीवति सुखम् ।
अमीषां निर्माणं किमपि तदभूद्दग्धकरिणां वनं वा क्षेणीभृद्भवनमथवा येन शरणम्" ॥
अत्रार्थे--
"प्रतिगृहमुपलानामेक एव प्रकारो म्रुहुरुपकरणत्वादर्घिताः पूजिताश्च ।
स्फुरति हतमणीनां किन्तु तद्धाम येन क्षितिपतिभवने वा स्वाकरे वा निवासः" ॥
मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतो ऽनेकः ।
तत्परपुरप्रवेशप्रतिमं काव्यं सुकविभाव्यम् ॥
यथा--
"यस्यारातिनितम्बिनीभीरभितो वीक्ष्याम्बरं प्रावृषि स्फूर्जद्गर्जितनिर्जिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् ।
उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः किञ्चित्कुञ्चितलोचनाभिरसकृद् घ्राताः कदम्बानिलाः" ॥
अत्रार्थे--
"आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् ।
हृष्यद्भिः परिचुम्बुतं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथञ्चन ततः कार्णावतंसीकृतम् ॥
" तदेतच्चतुष्टयनिबन्धनाश्च कवीनां द्वात्रिंशद्धरणोपायाः ।
अमीषां चार्थानामन्वर्था अयस्कान्तवञ्चत्वारः कवयः पञ्चमश्चादृष्टचरार्थदर्शी ।
तदाहुः-
"भ्रामकश्चुम्बकः किञ्च कर्षको द्रावकश्च यः ।
स कविर्लौकिको ऽन्यस्तु चिन्तामणिरलौकिकः ॥
तन्वानो ऽनन्यदृष्टत्वं पुराणस्यापि वस्तुनः ।
यो ऽप्रसिद्धयादिभिर्भाभ्यत्यसौ स्याद् भ्रामकः कविः ॥
यश्चुम्बति परस्यार्थं वाक्येन स्वेन हारिणा ।
स्तोकार्पितनवच्छायं चुम्बकः स कविर्मतः ॥
परवाक्यार्थमाकृष्य यः स्ववाचि निवेशयेति ।
समुल्लेकेन केनापि स स्मृतः कर्षकः कविः ॥
अप्रत्यभिज्ञेयतया स्ववाक्ये नवतां नयेत् ।
यो द्रावयित्वा मूलार्थं द्रावकः स भवेत्कविः ॥
चिन्तासमं यस्य रसैकसूतिरुदेति चित्राकृतिरर्थसार्थः ।
अदृष्टपूर्वो निपुणैः पुराणैः कविः स चिन्तामणिरद्वितीयः" ॥
मूल पाठ: Kāvyamīmāṃsā 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0