भाषा

ENहिગુ
ग्रंथ पाठ

काव्यमीमांसा · भाग 120

शास्त्रसंग्रहः प्रथमो ऽध्यायः 1
काव्यमीमांसा ऽप्रकाशऽ अथ कविरहस्यम् प्रथमो ऽध्यायः 1
शास्त्रसंग्रहः
अथातः काव्यं मीमांसिष्यामहे, यथोपदिदेश श्रीकण्ठः परमेष्ठिवैकुण्ठादिभ्यश्तुःषष्टयोः ।
सो ऽपि भगवान्स्वयम्भूरिच्छाजन्मभ्यः स्वान्तेवासिभ्यः ।
तेषु सागस्वतेयो वृन्दीयसामपि वन्द्यः काव्यपुरुष आसीत् ।
तं च सर्वसमयविदं दिव्येन चक्षुषा भविष्यदर्थदशिनं भूर्भुवःस्वस्त्रितयवर्त्तिनीषु प्रजासु हतिकाम्यया प्रजापतिः काव्यविद्याप्रवर्त्तनायै प्रायुङ्क्त ।
सो ऽष्टादशाधिकरणीं दिव्येभ्यः काव्यविद्यास्नातकेभ्यः सप्रपञ्चं प्रोवाच ।
तत्र कविरहस्यं सहस्राक्षः समाम्नासीत्, औक्तिकमुक्तिगर्भः, रीतिनिर्णयं सुवर्णनाभः, आनुप्रासिकं प्रचेता, यमकं यमः, चित्रं चित्राङ्गदः, शब्दश्लेषं शेषः, वास्तुवं पुलस्त्यः, औपभ्यमौपकायनः, अतिशयं पराशरः, अर्थश्लेषम्रुतथ्यः, उभयालङ्कारिकं कुबेरः, वैनोदिकं कामदेवः, रुपकनिरुपणीयं भरतः, रसाधिकारिकं नन्दिकेश्वरः, दोषाधिकरणं धिषणः, गुणोपादानिकमुपमन्युः, औपनिषदिकं कुचुचारः, इति ।
ततस्ते पृथक् पृथक् स्वशास्त्राणि विरचयाञ्चक्रुः ।
इत्थङ्कारञ्च प्रकीर्णत्वात्वात् सा किञ्चिदुच्चिचच्छिदे ।
इतीयं प्रयोजकाङ्गवती सङ्क्षिप्य सर्वमर्थमल्पग्रन्थेन अष्टादशप्रकरणी प्रणीता ।
तस्या अयं प्रकरणाधिकरणसमुद्देशः ।
1 शास्त्रसंग्रहः, 2 शास्त्रनिर्देशः, 3 काव्यपुरुषोत्पत्तिः, 4 शिष्यप्रतिभे, 5 व्युत्पत्ति-विपाकाः, 6 पदवाक्यविवेकः, 7 वाक्यविधयः, 8 काकुप्रकाराः, 9 पाठप्रतिष्ठा, 10 काव्यार्थयोनयः, 11 अर्थानुशासनं, 12 कविचर्याः, 13 राजचर्या, 14 शब्दार्थहरणोपायाः, 15 कवि विशेषः, 16 कविसमयः, 17 देशकालविभागः, 18 भ्रुवनकोशः, इति कविरहस्यं प्रथममधिकरणमित्यादि ।
इति सूत्राण्यथैतेषां व्याख्याभाष्यं भविष्यति ।
समासव्यासविन्यासः सैष शिष्यहिताय नः ॥
चित्रोदाहरणैर्गुर्वी ग्रन्थेन तु लघीयसी ।
इयं नः काव्यमीमंसा काव्यव्युत्पत्तिकारणम् ॥
इयं सा काव्यमीमांसा मीमांसा यत्र वाग्लवः ।
वाग्लवं न स जानाति न विजानाति यस्त्विमाम् ॥
यायावरीयः सङ्क्षिप्य मुनीनां मतविस्तरम् ।
व्याकरोत्काव्यमीमांसां कविभ्यो राजशेखरः ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे प्रथमो ऽध्यायः शास्त्रसङ्ग्रहः ॥
____________________________ अध्यय 2 _____________________________
शास्त्रनिर्देशः द्वितीयो ऽध्यायः 2
शास्त्रनिर्देशः इह वाङ्मयमुभयथा शास्त्रं काव्यं च ।
शास्त्रपूर्वकत्वात् काव्यानां पूर्व शास्त्रेष्वभिनिविशेत ।
तच्च द्विधा अपौरुषेयं पौरुषेयं च ।
अफौरुषेय श्रुतिः ।
सा च मन्त्रब्राह्मणो ।
विवृतक्रियातन्त्रा मनन्त्राः ।
मन्त्राणां स्तुतिनिन्दाव्याख्यानविनियोगादिग्रन्थो ब्राह्मणम् ।
ऋग्यजुःसामवेदस्त्रयी ।
अथर्व तुरीयम् ।
तत्रार्थव्यवस्थितपादा ऋचः ।
ताः सगीकयः सामानि ।
अच्छन्दांस्यगीतानि यजूंषि ।
ऋचो यजूंषि सामानि चार्थर्वाणि त इमे चत्वारोबेदाः ।
इतिहासवेदधनुर्वेदौ गान्धर्वायुर्वेदावपि चोपवेदाः ।
ऽवेदोपवेदात्मा सार्ववर्णिकः पञ्चमो नाट्यवेदःऽ इति द्रौहिणिः ।

ऽशिक्षा, कल्पो, व्याकरणं, निरुक्तं, छन्दोविचितिः, ज्यौतिषं च षडङ्गानिऽ इत्याचार्याः ।
उपकारकत्वादलङ्कारः सत्पममङ्गम् ऽइति यायावरीयः ।
ऋते च तत्सरुपपरिज्ञानाद्वेदार्थानवगतिःऽ ।
यथा-
ऽद्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीतिऽ ॥
सेयं शास्त्रोक्तिः ।
प्रत्यधिकरणं च ऋचं यजुः सामाथर्वणां ब्राह्मणं चादाहृत्य भाषामुदाहरिष्यामः ।
तत्र वर्णानां स्थानकरणप्रयत्नादिभिः निष्पत्तिनिर्णयिनी शिक्षा आपिशलीयादिका ।
नानाशाखाधीतानां मन्त्राणां विनियोजकं सूत्रं कल्पः ।
सा च यजुर्विद्या ।
शब्दानामन्वाख्यानं व्याकरणम् ।
निर्वचनं निरुक्तम् ।
छन्दसां प्रतिपादियित्रीछन्दोविचितिः ।
ग्रहगणितं ज्यौतिषम्, अलङ्कारव्याख्यानं तु पुरस्तात् ।
पौरुषेयं तु पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रमिति चत्वारि शास्त्राणि ।
तत्र वेदाख्यानोपनिबन्धनप्रायं पुराणमष्टादशधा ।
यदाहुः-
ऽसर्गः प्रतिसंहारः कल्पो मन्वन्तराणि वंशविधिः ।
जगतो यत्र निबद्धं तद्विज्ञेयं पुराणमिति ॥
"पुराणप्रविभेद एवेतिहासःऽ इत्येके ।
स च द्विधा परक्रियापुराकल्पाभ्याम् ।
यदाहुः-
ऽपरक्रिया पुराकल्प इतिहासगतिद्विन्धा ।
स्यादेकनायका पूर्वा द्वितीया बहुनायकाऽ ॥
तत्र रामायणं भारतं चोदाहरणे ।
आन्वीक्षिकीं तु विद्यावसरे वक्ष्यामः ।
निगमवाक्यानां न्यायैः सहस्रेण विवेक्त्री मीमांसा ।
सा च द्विविधा विधिविवेचनी ब्रह्मनिदर्शनी च ।
अष्टादशैव श्रुत्यर्थस्मरणात्स्मृतयः ।
ऽतानीमानि चतुर्दश विद्यास्थानानि, यदुत वेदाश्रत्वारः, षडङ्गानि, चत्वारि शास्त्राणिऽ इत्याचार्याः ।
तान्येतानि कृत्स्नामपि भ्रूर्भुवःस्वस्त्रयीं व्यासज्य वर्त्तन्ते ।
तदाहुः-
ऽविद्यास्थानानां गन्तुमन्तं न शक्तो जीवेद्वर्षणां यो ऽपि साग्रं सहस्रम् ।
तस्मात्सङ्क्षेपादर्थसन्दोह उक्तो व्यासः संत्यक्तो ग्रन्थभीरुप्रियार्थम् ॥
"सकलविद्यास्थानैकायतनं पञ्चदशं काव्यं विद्यास्थानम्ऽ इति यायावरीयः ।
गद्यपद्यमयत्वात् कविधर्मत्वात् हितोरदेशकत्वाच्च ।
तद्वि शास्त्रण्यनुधावति ।
ऽवार्त्ता कामसूत्रं शिल्पशास्त्रं दण्डनीतिरिति पूर्वैः सहाष्टादश विद्यास्थानानिऽइत्यपरे ।
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्चेति विद्याः ऽ ।

दण्डनीतिरेवैका विद्याऽइत्यौशनसाः ।
दण्डभयाद्वि कृत्स्नो लोकः स्वेषु स्वेषु कर्मस्ववतिष्ठते ।
ऽवार्त्ता दण्डनीतिर्द्वे विद्येऽ इति बार्हस्पत्याः ।
वृत्तिर्विनयग्रहणं च स्थितिहेतुर्लोकयात्रायाः ।
ऽत्रयीवार्त्तादण्डनीतयस्तिस्रो विद्याःऽ इति मानवाः ।
त्रयी हि वार्त्तादण्डनीत्योरुपदेष्ट्री ।
ऽआन्वीक्षिकीत्रयीवार्त्तादण्डनीतयश्चतस्रो विद्याःऽइति कौटल्यः ।
आन्वीक्षिक्या हि विवेचिता त्रयी वार्त्तादण्डनीत्योः प्रभवति ।
ऽपञ्चमी साहित्यविद्याऽ इति यायावरीयः ।
सा हि वचसृणामपि विद्यानां निस्यन्दः ।
आभिर्द्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् ।
तत्र त्रयी व्याख्याता ।
द्विधा चान्वीक्षिकी पूर्वोत्ररपक्षाभ्याम् ।
अर्हद्भदन्तदर्शने लोकायत्तं च पूर्वः पक्षः ।
सङ्खयं न्यायवैशेषिकौ चोत्तरः ।
त इमे षट् तर्काः ।
तत्र च तिस्रः कथा भवन्ति वादो, जल्पो, वितण्डा च ।
मध्यस्थयोस्तत्त्वावबोधाय वस्तुतत्त्वपरामर्शो वादः ।
विजिगीषोः स्वपक्षसिद्धये छलजातिनिग्रहादिपरिग्रहो जल्पः ।
स्वपक्षस्यापरिग्रहित्री परपक्षस्य दूषयित्री वितण्डा ।
कृषिपाशुपाल्ये वणिज्या च वार्त्ता ।
आन्वीक्षिकीत्रयीवार्त्तानां योगक्षेमसाधनो दण्डस्तस्य नीतिर्दण्डनीतिः ।
तस्यामायत्ता लोकयात्रेति शास्त्राणि ।
सामान्यलक्षणं चैषाम्-
ऽसरितामिव प्रवाहास्तुच्छाः प्रथमं यथोत्तरं विपुलाः ।
ये शास्त्रसमारम्भा भवन्ति लोकस्य ते वन्द्याःऽ ॥
सूत्रादिभिश्चैषां प्रणयनम् ।
तत्र सूत्रणात् सूत्रम् ।
यदाहुः-
ऽअल्पाक्षरमसन्दिग्धं सारवद्विश्चतोमुखम् ।
अस्तोभमनवद्यञ्च सूत्रं सूत्रकृतो विदुःऽ ॥
सूत्राणां सकलसारविवरणं वृत्तिः ।
सूत्रवृत्तिविवेचनं पद्धतिः ।
आक्षिप्य भाषणाद्भाष्यम् ।
अन्तर्भाष्यं समीक्षा ।
अवान्तरार्थविच्छेदश्च सा ।
यथासम्भवमर्थस्य टीकनं टीका ।
विषमपदभञ्जिका पञ्जिका ।
अर्थप्रदर्शकारिका कारिका ।
उक्तानुक्तदुरुक्तचिन्ता वार्त्तिकमिति शास्त्रभेदाः ।

ऽभवति प्रथयन्नर्थं लीनं समभिप्लुतं स्फुटीकुर्वन् ।
अल्पमनल्पं रचयन्ननल्पमल्यं च शास्त्रकविःऽ ॥
शास्त्रैकदेशस्य प्रक्रिया प्रकरणम् ।
अध्यायादयस्त्ववान्तरविच्छेदाः क्वतिभिः स्वतन्त्रतया प्रणीता इत्यपरिसङ्ख्येया अनाख्येयाश्च ।
शाब्दार्थयोर्यथावत्सहभावेन विद्या साहित्यविद्या ।
उपविद्यास्तु चतुःषष्ठिः ।
ताश्च कला इति विदग्धवादः ।
स आजीवः काव्यस्य ।
तमौपनिषदिके वक्ष्यामः ।
इत्यनन्तो ऽभियुक्तानामत्र संसम्भविस्तरः ।
त्यक्तौ निपुणधीगम्यो ग्रन्थगौरवकारणात् ॥
इति राजशेखरकृतौ
काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे द्वितीयो ऽध्यायः शास्त्रनिर्देशः ॥
____________________________ अध्यय 3 _____________________________
काव्यपुरुषोत्पत्तिः तृतीयो ऽध्यायः 3
काव्यपुरुषोत्पत्तिः एवं गुरुभ्यो गिरः पुण्याः पुराणीः शृणुमः स्म, यत्किलधिशषणं शिष्याः कथाप्रसङ्गे पप्रच्छुः, कीदृशः पुनरसौ सारस्वतेयः काब्यपुरुषो वो गुरुः ? इति ।
स तान् बृहताम्पतिरुचे ।
पुरा पुत्रीयन्ती सरस्वती तुषारगिरौ तपस्यामास ।
प्रीतेन मनसा तां विरिञ्चः प्रोवाच-ऽपुत्रं ते सृजामि ऽ ।
अथैषा काव्यपुरुषं सुषुवे ।
सो ऽभ्युत्थाय सपादोपग्रहं छन्दस्वर्ती वाचमुदचीचरत्-
ऽयदेतद्वाङ्मयं विश्वमर्थमूर्त्त्या विवर्त्तते ।
सो ऽस्मि काव्यपुमानम्ब पादौ वन्देय तावकौऽ ॥
तामाम्नायदृष्टचरीमुपलभ्य भाषाविषये छन्दोमुद्रां देवी ससंमदमङ्कपर्यङ्केनादाय तमुदलापयत् ।
ऽवत्स ! सच्छन्दस्काया गिरः प्रणेतः ! वाङ्मयमातरमपि मातरं मां विचयसे ।
प्रशस्यतमं चेदमुदाहरन्ति यदुत ऽऽपुत्रात्पराजयो द्वितीयं पुत्रजन्मऽइति ।
त्वत्तः पूर्वे हि विद्वांसो गद्यं ददृशुर्न पद्यम् ।
त्वदुपज्ञमथातः छन्दस्वद्वचः प्रवर्त्स्यति ।
अहो श्लाघनीयो ऽसि ।
शब्दार्थौ ते शरीरं, संस्कृतं मुखं, प्रकृतं बाहुः, जघनमपर्भ्रंशः, पैशाचं पादौ, उरो मिश्रम् ।
समः प्रसन्नो मधुर उदार ओजस्वी चासि ।
उक्तिचणं ते वचो, रस आत्मा, रामाणि छन्दांसि, प्रश्नोत्तरप्रवह्लिकादिकं च वाक्केलिः, अनुप्रासोपमादयश्च त्वामलङ्कुर्वन्ति ।
भविष्यतो ऽर्थस्याभिधात्री श्रुरिरपि भवन्तमभिस्तौति-
ऽचत्वारि शृङ्गास्त्रयो ऽस्य पादा शीर्षे सप्तहस्तासो ऽस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देबो मर्त्यानाविवेशऽ ॥
ऽतथापि संवृणु प्रगल्भस्य पुंसः कर्म, बालोचितं चेष्टस्वऽ इति निगद्य निवेश्य चैनमनोकहाश्रयिणी गण्डशैलतलतल्पे स्नातुमभ्रगङ्गां जगामं ।
तावच्च कुशान् समिधश्च समाहत्तुं निःसृतो महामुनिरुशनाः परिवृत्ते पूषण्यूष्मोपष्लुतं तमद्राक्षीत् ।
कस्यायमनाथो बाल इति चिन्तयन्स्वमाश्रमपदमनैषीत् ।
क्षणादाश्वस्तश्च स सारस्वतेयस्तस्मै छन्दस्वतीं वाचं समचारयत् ।
अकस्माद्विस्मापयन्स चाभ्युवाच-

ऽया दुग्धापि न दुग्धेव कविदेग्धृभिरन्वहम् ।
हृदि नः सन्निधत्तां सा दूक्तिधेनुः सरस्वतीऽ ॥
इति ।
तत्पूर्वकमध्येतृणां च सुचेधस्त्वमादिदेश ।
ततः प्रभृति तमुशनसं सन्तः कविरित्याचक्षते ।
तदुपचाराञ्च कवयः कवय इति लोकयात्रा ।
कविशब्दश्च ऽकवृवर्णनेऽ इत्यस्य धातोः काव्यकर्मणो रुपमे ।
काव्यैकरुपत्वाच्च सारस्वतेये ऽपि काव्यपुरुष इति भक्त्या प्रयुञ्जते ।
ततश्च विनिवृत्ता वाग्देवी तत्र पुत्रमपश्यन्ती मध्येहृदयं चक्रन्द ।
प्रसङ्गागतश्च वाल्पीकिर्मुनिवृषा सप्रश्रयं तमुदन्तमुदाहृत्य भगवत्यै, भृगुसूतेराश्रमपदमदर्शयत् ।
सापि प्रस्तुतपयोधरा पुत्रायाङ्कपालीं ददाना शिरसि च चुम्बन्ती स्वस्तिमता चेतसा प्राचेतसायापि महर्षये निभृतं सच्छन्दांसि वचांसि प्रायच्छते ।
अनुप्रेषितश्च स तया निषादनिहतसहतसहचरीं क्रौञ्चयुवर्ति करुणक्रेङ्कारया गिरा क्रन्दन्तीमुदीक्ष्य शोकवान् श्लोकमुज्जगाद-
ऽमा निषाद प्रतिष्ठां त्वमगमः शास्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥
ऽततो दिव्यदृष्टिर्देवी तस्मा अपि श्लोकाय वरमदात्, यदुतान्यदनधीयानो यः प्रथममेनमध्येष्यते स सारस्वतः कविः संपत्स्यत इति ।
स तु महामुनिः प्रवृत्तवचनो रामायणमिदिहासं समदृभत् ; द्वैपायनस्तु श्लोकप्रथमाध्यायी तत्प्रभावेण शतसाहस्रीं संहितां भारतम् ।
एकदा तु ब्रह्मर्षिवृन्दारकयोः श्रुतिविवादे दाक्षिण्यवान्देवः स्वयम्भूस्तामिमां निर्णोत्रीमुद्दिदेश ।
उपश्रुतवृत्तान्तश्च मातरं व्रजन्तीं सो ऽनुवव्राज ।
वत्स!परमेष्ठिनाननुमतस्य ते न ब्रह्मलोकयात्रघा निःश्रेयसायेत्यभिदधाना हठान्न्यवर्तयदेनमात्मना तु प्रवर्तते ।
ततः स काव्यपुरुषो रुषा निश्चक्राम ।
प्रियं मित्रमस्य च कुमारः साक्रन्दं रुदन्नभ्यधीयत गौर्या तात! तूष्णीमाःस्व साहमेषा निषेधामीतिनिगदन्दी समचिन्तयत् ।
प्रायः प्राणभृतां प्रेमाणमन्तरेण नान्यद्वन्धनमस्ति, तदेतस्यवशीकरणं कामपि स्त्रियं सृजामीति विचिन्तयन्ती साहित्यविद्यावधूम्रुदपादयदादिशञ्चैनामेष ते रुषा धर्मपतिः पुरः प्रतिष्ठते तदनुवर्त्तस्वैनं निवर्त्तय च ।
भवन्तो ऽपि हन्त! मुनयः!काव्यविद्यास्नातकाश्चरितमेतयोः स्तुध्वमेतद्धि वः काव्यसर्वस्वं भविष्यतीत्यभिधाय भगवती भवानी जोषमासिष्ट ।
ते ऽपि तथाकर्त्तुमवतस्थिरे ।
अथ सर्वे प्रथमं प्राचीं दिशं शिश्रियुर्यत्राङ्गवङ्गसुह्नब्रह्मपुण्ड्राद्या जनपदा;, तत्राभियुज्जाना तमौमेयी यं वेषं यथेष्टम्सेविष्ट, स तत्रत्याभिः स्त्रीभिरन्वक्रियत ।
सा प्रवृत्ती रौद्रमागधी ।
तां ते मुनयो ऽभितुष्टुवुः-
ऽआर्दार्द्रचन्दनकुचापिन्तसूत्रहारः सीमन्तचुम्बिसिचयः स्फुटबाहुमूलः ।
दूर्वाप्रकाण्डरुचिरास्वगुरुपभोगाद्व गोडाङ्गनासु चिरमेष चकास्तु वेषःऽ ॥
यदृच्छयापि यादृङ्नेपथ्यः स सारस्वतेय आसीत् तद्वेषाश्च पुरुषा बभूवुः ।
सापि सैव प्रवृत्तिः ।
यदपरं नृत्तवाद्यादिकमेषा चक्रे सा भारत्ती वृत्तिः ।
तां ते मुनय इति समानं पूर्वेण ।
तथाविधाकल्पयापि तया यदवशंवदीकृतः समासवदनुप्रासवद्योगवृत्तिपरभ्परातद्गर्भं (वाक्यं) जगाद सा गौडीया रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
वृत्तिरीतिस्वरुपं यथावसरं वक्ष्यामः ।
ततश्च स, पञ्चालान्प्रत्युञ्चचाल ।
यत्र पाञ्चालशूरसेनहस्तिनापुरकाश्मीरवाहीकबाह्लिकबाह्लवेयादयो जनपदाः ।
तत्राभियुञ्जाना तमौमेयीति समानं पूर्वेण ।
सा पाञ्चालमध्यमाप्रवृत्तिः ।

तां ते मुनयो ऽभितुष्टुवुः-
ऽताटङ्कवल्गनतरङ्गितगण्डलेखमानाभिलम्बिदरदोलिततारहारम् ।
आश्रोणिगुल्फपरिमण्डलितान्तरीयं वेषं नमस्यत महोदयसुन्दरीणाम्ऽ ॥
किञ्चिदार्द्रमना यन्नेपथ्यः स सारस्वतेय आसीदिति समानं पूर्वेण ।
सापि सैवेति समानं पूर्वेण ।
यदीषन्नृत्तगीतवाद्यविलासादिकमेषा दर्शयांबभूव सा सात्वती वृत्तिः ।
आविद्धगतिमत्त्वात्सा चारभटी ।
तां ते मुनय इति समानं पूर्वेण ।
तथाविधाकल्पयापि तया यदीषदूशंवदीकृत ईषदसमासमीषदनुप्रासमुपचारगर्भञ्च (वाक्यं) जगाद सा पाञ्चाली रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
ततः सो ऽवन्तीन्प्रत्युच्चचाल ।
यत्रावन्तीवैदिशसुराष्ट्रमालवार्बुदभृगुकच्छादयो जनपदाः ।
जनपदाः ।
तत्राभियुञ्जना तमौमेयीति समानं पूर्वेण ।
सा प्रवृत्तिरावन्ती ।
पाञ्चालमध्यमादाक्षिणात्ययोरन्तरचारिणी हि सा ।
अत एव सात्वतीकैशिक्यौ तत्र वृत्ती ।
तां ते मुनयो ऽभितुष्टुवुः-
ऽपाञ्चालनेपथ्यविधिर्नराणां स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः ।
यज्जल्पितं यच्चरितादिकं तदन्योन्यसंभिन्नमवन्तिदेशेऽ ॥
ततश्च स दक्षिणां दिशमाससाद ।
यत्र मसयमेकलपालमञ्जराः पर्वताः ।
कुन्तलकेरलमहाराष्ट्रगाङ्गकलिङ्गादयो जनपदाः ।
तत्राभियुञ्जाना तमौमेयीति, समानं पूर्वेण ।
सा दाक्षिणात्या प्रवृत्तिः ।
तां ते मुनयो ऽभितुष्टुवुः ।
ऽआमूलतो वलितकुन्तलचारुचूडश्चूर्णालकप्रचयलाञ्छितभालभागः ।
कक्षानिवेशनिबिडीकृतनीविरेष विषश्चिरं जयति केरलकामिनीनाम्ऽ ॥
तामनुरक्तमनाः स यन्नेपथ्यः सारस्वतेय आसीदिति समानं पूर्वेण ।
सापि सैवेति मसानं पूर्वेण ।
यद्विचित्रनृत्तगीतवाद्यविलासादिकमेषाविर्भावयामास सा कैशिकी वृत्तिः ।
तां ते मुनय इति समानं पूर्वेण ।
यदत्यर्थं च स तया वशंवदीकृतः स्थानानुप्रासवदसमासं योगवृत्तिगर्भं च (वाक्यं)जगाद सा वैदर्भी रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
तत्र वेषविन्यासक्रमः प्रवृत्तिः, विलासविन्यासक्रमो वृत्तिः, वचनविन्यासक्रमो रीतिः ।
ऽचतुष्टयी गतिर्वृत्तीनां प्रवृत्तिनां च देशानां पुनरानन्त्यं तत्कथमिव कार्त्स्न्येन परिग्रहःऽ इत्याचार्याः ।
अनन्तानपि हि देशाश्चतुर्धैवाकल्प्य कल्पयन्ति ऽचक्रवर्तिक्षेत्रं सामान्येन तदवान्तरविशेषैः पुनरनन्ता एवऽइति यायावरीयः ।
दक्षिणात्समुद्रादुदीचीं दिशं प्रति योजनसहस्रं चक्रवर्तिक्षेत्रं, तत्रैव नेपथ्यविधिः ।
ततः परं दिव्याद्या अपि यं देशमधिवसेयुस्तद्देश्यं वेषमाश्रयन्तो निबन्धनीयाः ।
स्वभूमौ तु कामचारः ।

द्वीपान्तरभवानां तदनुसारेण वृत्तिप्रवृत्ती ।
रीतयस्तु तिस्रघस्तास्तु पुरस्तात् ।
तत्रास्ति मनोजन्मनो देवस्य क्रीडावासो विदर्भेषु वत्सगुल्मं नाम नगरम् ।
तत्र सारस्वतेयस्तामौमेयीं गन्धर्ववत्परिणिनाय ।
ततस्तदूधूवरं विनिवृत्त्य तेषु प्रदेशेषु विहरमाणं तुषारगिरिमेवाजगाम, यत्र गौरी सरस्वती च मिथः सम्बन्धिन्यौ तस्थतुः ।
तौ च कृतवन्दनौ दम्पतीदत्त्वाशिषं प्रभावमयेन वपुषा कविमानसनिवासिनौ चक्रतुः ।
तयोश्च तं सर्गं कविभ्यः स्वर्गलोकमकल्पतां, यत्र काव्यमयेन शरीरेण मर्त्त्यमधिवसन्तो दिव्येन देहेन कवय आकल्पं मोदन्ते ।
इत्येष काव्यपुरुषः पुरा सृष्टः स्वयम्भुवा ।
एवं विभज्य जानानः प्रेत्य चेह च नन्दति ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे तृतीयो ऽध्यायः काव्यपुरुषोत्पत्तिः
____________________________ अध्यय 4 _____________________________
शिष्यप्रतिभे चतुर्थो ऽध्यायः
शिष्यप्रतिभे द्विविधं शिष्यमाचक्षते यदुत बुद्धिमानाहार्यबुद्धिश्च ।
यस्य निसर्गतः शास्त्रमनुधावति बुद्धिः स बुद्धिमान् ।
यस्य च शास्त्राभ्यासः संस्कुरुते बुद्धिमसावाहार्यबुध्दिः ।
त्रिधा च सा, स्मृतिर्मतिः प्रज्ञेति ।
अतिक्रान्तस्यार्थस्य स्मर्त्रीस्मृतिः ।
वर्त्तमानस्य मन्त्री मतिः ।
अनागतस्य प्रज्ञात्री प्रज्ञेति ।
सा त्रिप्रकारापि कवीनामुपकर्त्री ।
तयोर्बुद्धिमान् शुश्रूषते शृणोति गृह्णीते धारयति विजानात्यूहते ऽपोहति तत्त्वं चाभिनिविशते ।
आहार्यबुद्धेरप्येत एव गुणाः किन्तु प्रशास्तारमपेक्षन्ते ।
अहरहः सुगुरुपासना तयोः प्रकृष्टे गुणः ।
सा हि बुद्धिविकासकामधेनुः ।
तदाहुः-
ऽप्रथयति पुरः प्रज्ञाज्योतिर्यथार्थपरिग्रहे तदनु जनयत्यूहापोहक्रियाविशदं मनः ।
अभैनिविशते तस्मात्तत्त्वं तदेकमुखोदयं सह परिचयो विद्यावृद्धैः क्रमादमृतायतेऽ ॥
ताभ्यामन्यथाबुद्धिर्दुर्बुद्धिः ।
तत्र बुद्धिमतः प्रतिपत्तिः ।
स खलु सकृदभिधानप्रतिपन्नार्थः कविमार्गं मृगयितुं गुरुकुलमुपासीत ।
आहार्यबुद्धेस्तु द्वयमप्रतिपत्तिः सन्देहश्च ।
स खल्वप्रतिपन्नमर्थं प्रतिपत्तुं सन्देहं च निराकर्तुमाचार्यानुपतिष्ठेत ।
दुर्बुद्धेस्तु सर्वत्र मतिविपर्यास एव ।
स हि नीलीमेचकितसिचयकल्पो ऽनाधेयगुणान्तरत्वात् तं यदि सारस्वतो ऽनुभावः प्रसादयति तमौपनिषदिके वक्ष्यामः ।
ऽकाव्यकर्मणि कवेः समाधिः परं व्याप्रियते इति श्यामदेवः ।
मनस एकाग्रता समाधिःऽ ।
समाहितं चित्तमर्थान्पश्यति, उक्तञ्च-
ऽसारस्वतं किमपि तत्सुमहारहस्यं दद्गोचरं च विदुषां निपुणैकसेव्यम् ।
तत्सिद्धये परमयं परमो ऽभ्यपायो यच्चेतसो विदितवेद्यविधेः समाधिः ॥
ऽऽअभ्यासःऽ इति मङ्गलः ।

अविच्छेदेन शीलनमभ्यासः ।
स हि सर्वगामी सर्वत्र निरतिशयं कौशलमाधत्ते ।
समाधिरान्तरः प्रयत्नो बाह्यस्त्वभ्यासः ।
तावुभावपि शक्तिमुद्भासयतः ।
ऽसा केवलं हेतुःऽ इति यायावरीयः ।
विप्रसृतिश्च सा प्रतिभाव्युत्पत्तिभ्याम् ।
शक्तिकर्तृकेहि प्रतिभाव्युत्पत्तिकर्मणी ।
शक्तस्य प्रतिभाति शक्तश्च व्युत्पद्यते ।
या शब्दग्राममर्थसार्थमलङ्कारतन्त्रमुक्तिमार्गमन्यदपि तथाविधमधिहृदयं प्रतिभासयति सा प्रतिभा ।
अप्रतिभस्य पदार्थसार्थः परोक्ष इव, प्रतिभावतः पुनरपश्यतो ऽपि प्रत्यक्ष इव ।
यतो मेघाविरुद्रकुमारदासादयो जात्यन्धाः कवयः श्रूयन्ते ।
किञ्चन महाकवयो ऽपि देशद्वीपान्तरकथापुरुषादिदर्शनेन तत्रत्यां व्यवहृर्ति निबध्नन्तिस्म ।
तत्र देशान्तरव्यवहारः-
ऽप्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया ।
ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तर्स्मिस्तपस्यन्त्यमी ॥
द्वीपान्तरव्यवहारः-
अनेन सार्द्धं विहराम्बुराशेस्तीरेषु ताडीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवे मरुद्भिः ॥
कथापुरुषव्यवहारः-
हरो ऽपि तावत्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्टे व्यापारयामास विलोचनानि ॥
आदिग्रहणात्-
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे ।
बाले व्रजामो ऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥
सा च द्विधा कारयित्री भावयित्री च ।
कवेरुपकुर्वाणा कारयित्री ।
सापि त्रिविधा सहजाऽहार्यौपदेशिकी च ।
जन्मान्तरसंस्कारापेक्षिणी सहजा ।
इह जन्मसंस्कारयोनिराहार्या ।
मन्त्रतन्त्राद्युपदेशप्रभवा औपदेशिकी ।
ऐहिकेन कियतापि संस्कारेण प्रथमां तां सहजेति व्यपदिशन्ति ।
महता पुनराहार्या ।
औपदेशिक्याः पुनरैहिक एव उपदेशकालः, ऐहिक एव संस्कारकालः ।
त इमे त्रयो ऽपि कवयः सारस्वतः, आभ्यासिकः, औपदेशिकश्च ।
जन्मान्तरसंस्कारप्रवृत्तसरस्वतीको बुद्धिमान्सारस्वतः ।
इह जन्माभ्यासोद्भासितभारतीक आहार्यबुद्धिराभ्यासिकः ।
उपदेशितदर्शितवाग्विभवा दुर्बुद्धिरौपदेशिकः ।
तस्मान्नेतरौ तन्त्रशेषमनुतिष्ठताम् ।
ऽनहि प्रकृतिमधुरा द्राक्षा फाणिततसंस्कारमपेक्षतेऽ इत्याचार्याः ।
ऽनऽइति यायावरीयः ।

एकार्थं हि क्रियाद्वयं द्वैगुण्याय सम्पद्यते ।
ऽतेषां पूर्वः पूर्वः श्रेयान्ऽ इति श्यामदेवः ।
सारस्वतः स्वतन्त्रघः स्याद्भवेदाभ्यासिको मितः ।
औपदेशकविस्त्वत्र वल्गु फल्गु च जल्यपि ॥
ऽउत्कर्षः श्रेयान्ऽ इति यायावरीयः ।
स चानेकगुणसन्निपाते भवति ।
किञ्च-
ऽबुद्धिमत्त्वं च काव्याङ्गविद्यास्वभ्यासकर्म च ।
कवेश्चोपनिषच्छक्तिस्त्रयमेकत्रघ दुर्लभम् ॥
काव्यकाव्याङ्गविद्यासु कृताभ्यासस्य धीमतः ।
मन्त्रानुष्ठाननिष्ठस्य नेदिष्ठा कविराजताऽ ॥
कवीनां तारतम्यतश्चैष प्रायोवादः ।
यथा-
ऽएकस्य तिष्ठति कवेर्गृह एव काव्यम् अन्यस्य गच्छति सुहृद्भवनानि यावत् ।
न्यस्याविदग्धवदनेषु पदानि शश्चत् कस्यापि सञ्चरति विश्चकुतूहलीवऽ ॥
सेयं कारयित्री ।
भावकस्योपकुर्वाणा भावयित्री ।
सा हि कवेः श्रममभिप्रायं च भावयति ।
तया खलु फलितः कवेर्व्यापारतरुः ।
अन्यथा सो ऽवकेशी स्यात् ऽकः पुनरनयोर्भेदो यत्कविर्भावयति भावकश्च कविःऽ इत्याचार्याः ।
तदाहुः-
ऽप्रतिभातारतम्येन प्रतिष्ठा भ्रुवि भूरिधा ।
भावकस्तु कविः प्रायो न भजत्यधमां दशम् ॥
"नऽइति कालिदासः ।
पृथगेव हि कवित्वाभ्दावकत्वं, भावकत्वाच्च कवित्वम् ।
स्वरुपभेदाद्विषयभेदाच्च ।
यदाहुः-
ऽकश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति ।
नह्येकस्मिन्नतिशयवतां सन्निपातो गुणानाम् एकः सूते कनकम्रुपलस्तत्परीक्षाक्षमो ऽन्यः ॥
"ते च द्विधारोचकिनः, सतृणाभ्यवहारिणश्चऽ इति मङ्गलः ।
ऽकवयोपि भवन्तिऽइति वामनीयाः ऽ ।
चतुर्धाऽ इति यायावरीयः ऽमत्सरिणस्तत्त्वाभिनिवेशिनश्चऽ ।
ऽतत्र विवेकिनः पूर्वे तद्विपरीतास्तु ततो ऽनन्तराःऽइति वामनीयाः ।
ऽअरोचकिता हि तेषां नैसर्गिकी, ज्ञानयोनिर्वा ।
नैसिर्गिकीं हि संस्कारशतेनापि वङ्गमिव कालिकां ते न जहति ।
ज्ञानयोनौ तु तस्यां विशिष्टज्ञायवति वचसि रोचकितावृत्तिरेवऽ इति यायावरीयः ।
. किञ्च सतृणाभ्यवहारिता सर्वसाधारणी ।
तथाहि-व्युत्पित्सोः कौतुकिनः सर्वस्य सर्वत्र प्रथमं सा ।
प्रतिभाविवेकविकलता हि न गुणागुणयोर्विभागसूत्रं पातयति ।
ततो बहु त्यजति बहु च गृह्णाति ।

विवेकानुसारेण हि बुद्धयो मधु निष्यन्दन्ते ।
परिणामे तु यथार्थदर्शी स्यात् ।
विभ्रमभ्रंशश्च निःश्रेयसं सन्तिधत्ते ।
मत्सरिणस्तु प्रतिभातमपि न प्रतिभातं, परगुणेषु वाचंयमत्वात् ।
स पुनरमत्सरी ज्ञाता च विरलः ।
तदुक्तम्-
ऽकस्त्वं भोः कविरस्मि काप्यभिनवा सूक्तिः सखे पठ्यतां त्यक्ता काव्यकथैव सम्प्रति मया कस्मादिदं श्रुयताम् ।
यः सम्पग्विविनक्ति दोषगुणयोः सारं, स्वयं सत्कविः सो ऽस्मिन्भावक एव नास्त्यथ भवेद्दैवान्न निर्मत्सरःऽ ॥
तत्त्वाभिनिवेशी तु मध्येसहस्रं यद्येकस्तदुक्तम्-
ऽशब्दानां विविनक्ति गुम्फनविधीनामोदते सूक्तिभिः सान्दं लेढि रसामृतं विचिनुते तात्पर्यम्रुद्रां च यः ।
पुण्यैः सङ्घटते विवेक्तृविरहादन्तर्मुखं ताम्यतां केषामेव कदाचिदेव सुधियां काव्यश्रमज्ञो जनः ॥
स्वानी मित्रं च मन्त्री च शिष्यश्याचार्य एव च ।
कवेर्भवति ही तित्रं किं हि तद्यन्न भावकः ॥
काव्येन किं कवेस्तस्य तन्मनोमात्रवृत्तिना ।
नीयन्ते भावकैर्यस्य न निबन्धा दिशो दश ॥
सन्ति पुस्तकविन्यस्ताः काव्यबन्धा गृहे गृहे ।
द्वित्रास्तु भावकमनः शिलापट्टनिकुट्टिताः ॥
सत्काव्ये विक्रियाः कश्चिद्भावकस्योल्लसन्ति ताः ।
सर्वाभिनयनिर्णीतौ दृष्टा नाट्यसृजा न, याः ॥
वाग्भवको भवेत्कश्चित्कश्चिद्धृदयभावकः ।
सात्त्विकैराङ्गिकैः कश्चिदनुभावैश्च भावकः ॥
गुणादानपरः कश्चिद्दोषादानपरो ऽपरः ।
गुणदोषाहृतित्यागपरः कश्चन भावकः ॥
अभियोगे समाने ऽपि विचित्रो यदयं क्रमः ।
तेन विद्मः, प्रसादे ऽत्र नृणां हेतुरमानुषः ॥
न निसर्गकविः शास्त्रे न क्षुण्णः कवते च यः ।
विडम्बयति सात्मानमाग्रहग्रहिलः किल ॥
कवित्वं न स्थितं यस्य काव्ये च कृतकैतुकः ।
तस्य सिद्धिः सरस्वत्यास्तन्त्रमन्त्रप्रयोगतः ॥
यदान्तरं वेत्ति सुधीः स्ववाक्यपरवाक्ययोः ।
तदा स सिद्धो मन्तव्यः, कुकविः कविरेव वा ॥
कारयित्रीभावयिघत्र्यावितीमे प्रतिभाभिदे ।
अथातः कथयिष्यामो व्युत्पत्तिं काव्यमातरम्ऽ ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे शिष्यप्रतिभाव्याख्यानः चतुर्थो ऽध्यायः
____________________________ अध्यय 5 _____________________________
व्युत्पत्तिकविपाकाः
पञ्चमो ऽध्यायः 5.
व्युत्पत्तिकविपाकाः ऽबहुज्ञाता व्युत्पत्तिःऽ इत्याचार्याः ।
सर्वतोदिक्का हि कविवाचः ।
तदुक्तम् -

ऽप्रसरति किमपि कथञ्चन नाभ्यस्ते गोचरे वचः कस्य ।
इदमेव तत्कवित्वं यद्वाचः सर्वतोदिक्का ॥
"उचितानुचितविवेको व्युत्पत्तिःऽ इति यायावरीयः ।
ऽप्रतिभाव्युत्पत्त्योः प्रतिभा श्रेयसीऽ इत्यानन्दः ।
सा हि कवेरव्युत्पत्तिकृतं दोषमशेषमाच्छादयति ।
तदाह-
ऽअव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः ।
यस्त्वशक्तिकृतस्तस्य भ्कगित्येवावभासतेऽ ॥
शक्तिशब्दश्चायमुपचरितः प्रतिभाने वर्त्तते ।
प्रतिभा यथा-
ऽएतत्किं शिरसि स्थितं मम पितुः, खण्डं सुधाजन्मनो लालाटं किमिदं विलोचनमिदं, हस्ते ऽस्य किं पन्नगाः ।
इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः ॥
"व्युत्पत्तिः श्रेयसीऽ इति मङ्गलः ।
सा हि कवेरशक्तिकृतं दोषमशेषमाच्छादयति ।
यथा हि-
ऽकवेः संव्रियते ऽशक्तिर्व्युत्पत्त्या काव्यवर्त्मनि ।
वैदग्धीचित्तानां हेया शब्दस्य गुम्फनाऽ ॥
व्युत्पत्तिर्यथा-
ऽकृतः कण्ठे निष्को नहि किमुत तन्वी मणिलता कृशं लीलापत्रं श्रवसि निहितं कुण्डलम्रचि ।
न कौशेयं चित्रं वसनमवदातं तु वसितं समासन्नीभूते निधुवनविलासे वनीतया ॥
"प्रतिभाव्युत्पत्ती मिथः समवेते श्रेयस्यौ इति यायावरीयः ।
न खलु लावण्यलाभादृते रुपसम्पदृते रुपसम्पदो वा लावण्यलब्धिर्महते सौन्दर्याय ।
उभययोगो यथा-
ऽजङ्घाकाण्डोरुनाले नखकिरणलसत्केसरासीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्त्तुर्नृत्यानुकारे जयति निजतनुस्वच्छलावण्यवापी-सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याःऽ ॥
प्रतिभाव्युत्पत्तिमांश्च कविः कविरित्युच्यते ।
स च त्रिधा ।
शास्त्रकविः काव्यकविरुभयकविश्च ।
ऽतेषामुत्तरोत्तरीयो गरीयान्ऽ इति श्यामदेवः ।
ऽनऽइति यायावरीयः ।
यथास्वविषये सर्वो गरीयान् ।
नहि राजहंसश्चन्द्रिकापानाय प्रभवति, नापि चकोरो ऽद्भयः क्षीरोद्धरणाय ।
यच्छास्त्रकविः काव्ये रससम्पदं विच्छिनत्ति ।
यत्काव्यकविःशास्त्रे तर्ककर्कशमप्यर्थमुक्तिवैचित्र्येण श्लथयति ।
उभयकविस्तूभयोरपि वरीयान्यद्युभयत्र परं प्रवीणः स्यात् ।
तस्मात्तुल्यप्रभावावेव शास्त्रकाव्यकवी ।
उपकार्योपकारकभावं तु मिथः शास्त्रकाव्योरनुमन्यामहे ।
यच्छास्त्रसंस्कारः काव्यमनुगृह्णाति शास्त्रैकप्रवणता तु निगृह्णाति ।
काव्यसंस्कारो ऽपि शास्त्रघवाक्यपाकमनुरुणद्धि काव्यैकप्रवणता तु विरुणद्धि ।
तत्रघ त्रिधा शास्त्रकविः ।

यः शास्त्रं विधत्ते, यश्च शास्त्रे काव्यं संवलिधत्ते, यो ऽपि काव्ये शास्त्रार्थं निधत्ते ।
काव्यकविः पुनरष्टधा ।
तद्यथा-रचनाकविः, शब्द-कविः, अर्थकविः, अलङ्कारकविः, उक्तिकविः, रसकविः, मार्गकविः, शास्त्रार्थकविरिति ।
तत्र रचनाकविः-
ऽलोलल्लाङ्गूलवल्लीवलयितबकुलानोकहस्कन्धगोलैर् गोलाङ्गूलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु ।
षण्डेषूद्दण्टपिण्डीतगरलनाः प्रतिरे येन वेलामालङ्घयोत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाःऽ ॥
त्रिधा च शब्दकविर्नामाख्यातोभयभेदेन ।
तत्र नामकविः-
ऽविद्येव पुंसो महिमेव राज्ञः प्रज्ञेव वैद्यस्य दयेव साधोः ।
लज्जेव शूरस्य मृजेव यूनो विभूषणं तस्य नृपस्य सैवऽ ॥
आख्यातकविर्यथा-
ऽउच्चैस्तरां जहसुराजहृषुर्जगर्जुराजध्निर भुजतटीनिकरैः स्फुरद्भिः ।
सन्तुष्टुवुर्मुमुदिरे बहु मेनिरे च वाचं गुरोरमृतसम्भवलाभगर्भाम्ऽ ॥
नामाख्यातकविः-
ऽहतत्विषो ऽन्धाः शिथिलांसबाहवः स्त्रियो विषादेन विचेतना इव ।
न चुक्रुशुर्नो रुरुदुर्न सस्वनुर्न चेलुरासुर्लिखिता इव क्षणम्ऽ ॥
अर्थकविः-
ऽदेवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे हर्षाद्भृङ्गिरिटाहृतगिरा चामुण्डयालिङ्गिते ।
पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयोर् अन्योन्याङ्कनिपातर्जरजरत्स्थूलास्थिजन्मा रवःऽ ॥
द्विधालङ्कारकविः शब्दार्थभेदेन ।
तयोः शब्दालङ्कारः-
ऽन प्रात्पं विषमरणं प्रात्पं पापेन कर्मणा विषमरणं च ।
न मृतो भागीरथ्यां मृतो ऽहमुपगुह्य मन्दभागी रथ्याम्ऽ ॥
अर्थालङ्कारः-
ऽभ्रान्तजिह्वापताकस्य फणच्छत्रस्य वासुकेः ।
दंष्ट्राशलाकादारिद्यं कर्त्तु योग्यो ऽस्ति मे भुजःऽ ॥
उक्तिकविः-
ऽउदरमिदनिन्द्यं मानिनीश्वासलाव्यं स्तनतटपरिणाहे दोर्लतालेह्यसीमा ।
स्फुरति च वदनेन्दुर्द्दक्प्रणालीनिपेयस्तद् इह सुदृशि कल्याः केलयो यौवनस्यऽ ॥
यथा वा-
ऽप्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् ।
परिम्लानप्रायामनुवदति दृष्टिः कमलिनीम् इतीयं माधुर्यं स्पृशति च तनुत्वं च भजतेऽ ॥
रसकविः-
ऽएतां विलाकय तनूदरि ताम्रपर्णीम् अम्भोनिधौ विवृतशुक्तिपुटोद्धृतानि ।
यस्याः पयांसि परिणाहिषु हारमूर्त्त्या वामभ्रुवां परिणमन्ति पयोधरेषुऽ ॥
मार्गकविः-
ऽमूलं बालकवीरुधां सुरभयो जातीतरुणां त्वचः सारश्चन्दनशाशिनां किसलयान्यार्द्राण्यशोकस्य च ।
शैरीषी कुसुमोग्दतिः परिणमन्मोचं च सो ऽयं गणो ग्रीष्मेणोष्महरः पुरा किल ददे दग्धाय पञ्चषवेऽ ॥
शास्त्रार्थकविः-
ऽआत्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।

यं वीक्षिन्ते कमपि तमसां ज्योतिषां वा परस्तात् तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम्ऽ ॥
एषां द्वित्रैर्गुणैः कनीयान्, पञ्चकैर्मध्यमः, सर्वगुणयोगी महाकविः ।
दश च कवेरवस्था भवन्ति ।
तत्र च बुद्धिमदाहार्यबुद्धयोः सत्प, तिस्त्रश्च औपदेशिकस्य ।
तद्यथा-काव्यविद्यास्नातको, हृदयकविः, अन्यापदेशी, सेविता, घटमानः, महाकविः, कविराजः, आविच्छेदी, सङ्क्रामयिता च ।
यः कवित्वकामः काव्यविद्योपविद्याग्रहणाय गुरुकुलान्युपास्ते स विद्यास्नातकः ।
यो हृदय एव कवते निह्नुते च स हृदयकविः ।
यः स्वमपि काव्यं दोषभयादन्यस्येत्यपदिश्य पठति सो ऽन्यापदेशी ।
यः प्रवृत्तवचनः पौरस्त्यानामन्यतमच्छायामभ्यस्यति स सेविता ।
यो ऽनवद्यं कवते न तु प्रबध्नाति स घटमानः ।
यो ऽन्यतरप्रबन्धे प्रवीणः स महाकविः ।
यस्तु तत्र तत्रघ भाषाविशेषे तेषु तेषु प्रबन्धेषु तस्मिंस्तस्मिंश्च रसे स्वतन्त्रः स कविराजः ।
ते यदि जगत्यपि कतिपये ।
यो मन्त्राद्युपदेशवशाल्लब्धसिद्धिरावेशसमकालं कवते स आविशिकः ।
यो यदैवेच्छति तदैवाविच्छिन्नवचनः सो ऽविच्छेदी ।
यः कन्याकुमारादिषु सिद्धमन्त्रः सरस्वतीं सङ्क्रामयति स सङ्क्रामयिता ।
सततमभ्यासवशतः सुकवेः वाक्यं पाकमायाति ।
ऽकः पुनरयं पाकः?ऽ इत्याचार्याः ।
ऽपरिणामःऽ इति मङ्गलः ।
ऽकः पुनरयं परिणामः?ऽ इत्याचार्याः ।
ऽसुपां तिङ्गां च श्रवः सैषा व्युत्पत्तिःऽइति मङ्गलः ।
सौशब्द्यमेतत् ।
ऽपदनिवेशनिष्कम्पता पाकःऽइत्याचार्याः ।
तदाहुः-
ऽआवापोद्धरणे तावद्यावद्दोलायते मनः ।
पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ॥
"आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्तिवैमुख्यं पाकःऽइति वामनीयाः ।
तदाहुः-
ऽयत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् ।
तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ॥
"इयमशक्तिर्न पुनः पाकःऽइत्यवन्तिसुन्दरी ।
यदेकस्मिन्वस्तुनि महाकवीनामिनेको ऽपि पाठः परिपाकवान्भवति, तस्माद्रसोचितशब्दार्थसूक्तिनिबन्धनः पाकः ।
यदाह-
ऽगुणालङ्काररीत्युक्तिशब्दार्थग्रथनक्रमः ।
स्वदते सुधियां येन वाक्यपाकः स मां प्रतिऽ ॥
तदुक्तम्-
ऽसति वक्तरि सत्यर्थे शब्दे सति रसे सति ।
अस्ति तन्न विना येन परिस्त्रवति वाङ्मधु ॥
"कार्यानुमेयतया यत्तच्छब्दनिवेद्यः परं पाको ऽभिधाविषयस्तत्सहृदयप्रसिद्धिसिद्ध एव व्यवहाराङ्गमसौऽइति यायावरीयः ।
स च कविग्रामस्यकाव्यमभ्यस्यते नवधा भवति ।

तत्राद्यन्तयोरस्वादु पिचुमन्दपाकम्, आदावस्वादु परिणामे मध्यमं बदरपाकम्, आदावस्वादु परिणामे स्वादु मृद्वीकापाकम्, आदौ मध्यममन्ते चास्वादु वार्त्ताकपाकम्, आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम्, आदौ मध्यममन्ते स्वादु सहकारपाकम्, आदावुत्तममन्ते चास्वादु क्रमुकपाकम्, आदावुत्तममन्ते मध्यमं त्रपुसपाकम्, आद्यन्तयोः स्वादु नालिकेरपाकमिति ।
तेषां त्रिष्वपि त्रिकेषु पाकाः प्रथमे त्याज्याः ।
वरमकविर्न पुनः कुकविः स्यात् ।
कुकविता हि सोच्छ्रवासं मरणम् ।
मध्यमाः संस्कार्याः ।
संस्कारो हि सर्वस्य गुणमुत्कर्षयति ।
द्वादशवर्णमपि सुवर्णं पावकपाकेन हेमीभवति ।
शेषा ग्राह्याः ।
स्वभावशुद्धं हि न संस्कारमपैक्षते ।
न मुक्तामणेः शाणस्तारतायै प्रभवति ।
अनवस्थितपाकं पुनः कपित्थपाकमामनिन्ति ।
तत्र पलालधूननेन अन्नकणलाभवत्सुभाषितलाभः ।
सभ्यगभ्यस्यतः काव्यं नवधा परिपच्यते ।
हानोपादानसूत्रेण विभजेत्तद्धि बुद्धिमान् ॥
अयमत्रैव शिष्याणां दर्शितस्त्रघिविधो विधिः ।
किन्तु वैविध्यमप्येतत्घत्रिजगत्यस्य वर्त्तते ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे व्युत्पत्तिकविपाकानां निरुपणं पञ्चमो ऽध्यायः ॥
____________________________ अध्यय 6 _____________________________
पदवाक्यविवेकः
षष्ठो ऽध्यायः 6
पदवाक्यविवेकः व्याकरणस्मृतिनिर्णीतः शब्दो निरुक्तनिघण्ट्वादिभिर्निर्दिष्टस्तदभिधेयो ऽर्थस्तौ पदम् ।
तस्य पञ्च वृत्तयः सुब्वृत्तिः, समासवृत्तिः, तद्धितवृत्तिः, कृद्वृत्तिः, तिङ्वृत्तिश्च ।
गौरश्वः पुरुषो हस्तीति जातिवाचिनः शब्दाः ।
हरो हरिर्हरण्यगर्भः काल आकाशं दिगिति द्रव्यवाचिनः ।
श्वेतः कृष्णो रक्तः पीत इति च गुणवाचिनुः ।
पाचकः पाठक इति क्रियावाचिनः प्रादयश्चादयश्वासत्त्ववचनाः ।
नगरमुप प्रस्थितः पन्थाः, वृक्षमनु द्योतते विद्युदिति कर्मप्रवचनीयाः ।
"सेयं सुब्वृत्तिः पञ्चतय्यपि वाङ्मयस्य माता"इति विद्वांसः ।
सुब्वृत्तिरेव समासवृत्तिः ।
व्याससमासावेसानयोर्भेदहेतू ।
सा च षोढा द्वन्दादिभेदेन ।
तत्र पट्समासीसमाससूक्तम्-
"द्वन्दो ऽस्मि द्विगुरस्मि च गृहे च मे सततमव्ययीभावः ।
तत्पुरुष कर्म धारय येनाङ्गं स्यां बहुव्रीहिः" ॥
तद्वितवृत्तिः पुनरनन्ता ।
तद्धि शास्त्रप्रायोवादो यदुततद्धितमूढाः पाणिनीयाः ।
माञ्जिष्टं रौचनिकं सौरं सैन्धवं वैयासीयमिति वद्धितान्ताः ।
प्रातिपदिकविषया चेयम् ।
कृद्वृत्तिश्च धातुविषया ।
कर्त्ता हर्त्ता कुम्भकारो नगरकार इति कृदन्ताः ।

तिङ्वृत्तिर्दशधा दशलकारीभेदेन ।
द्विधा च सा धातुसुब्धातुविषयत्वेन ।
अपाक्षीत् पचति पक्ष्यतीति धातवीयान्याख्यातानि ।
अपल्लवयत् पल्लवयति पल्लवयिष्यतीति सौब्धातवीयानि ।
तदिदमित्थङ्कारं पञ्चप्रकारमपि पदजातं मिथः समन्त्रीयमानमानन्त्याय कल्पते ।
तज्जन्मा चैष विदुषां वादो यत्किल दिव्यं समासहस्रं बृहस्पतिर्वक्ता शतक्रतुरध्येता तथापि नान्तः शब्दराशेरासीत् ।
तत्र दयितसुब्वृत्तयो विदर्भाः ।
वल्लभसमासवृत्तयो गौडाः ।
प्रियतद्धिता दाक्षिणात्याः ।
कृत्प्रयोगरुचय उदीच्याः ।
अभीष्टतिङ्गवृत्तयः सर्वे ऽपि सन्तः ।
तेषां च विशेषलक्षणानुसन्धानेनावर्द्धताख्यातगणः ।
उक्तञ्च-
"विशेषलक्षणविदां प्रयोगाः प्रतिभान्ति ये ।
आख्यातराशिस्तैरेष प्रत्यहं ह्युपचीयते" ॥
पदानामभिधित्सितार्थग्रन्थनाकरः सन्दर्भो वाक्यम् ।
"तस्य च त्रिधाभिधाव्यापारः" इत्यौद्भटाः ।
वैभक्तः शाक्तः शक्तिविभक्तिमयश्च ।
प्रतिपदं श्रूयमाणासूपपदविभक्तिषु कारकविभक्तिषु वा वैभक्तः ।
लुत्पास्वपि विभक्तिषु समाससामर्थ्यात्तदर्थावगतौ शाक्तः ।
उभयात्मा च शक्तिविभक्तिमयः ।
तत्र वैभक्तः-
"नमस्तस्मै वराहाय लीलयोद्धरते महीम् ।
खुरयोर्मध्यगो यस्य मेरुः खणखणायते" ॥
शक्तिः-
"वित्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदग्रसत्त्वः ।
अधिष्टितौदार्यगुणो ऽसिपत्रजितावनिर्नास्ति नृपस्त्वदन्यः" ॥
यथा वा-
"कण्ठदोलायितोद्दामनीलेन्दीवरदामकाः ।
हरिभीत्याश्रिताशेषकालियाहिकुला इव" ॥
शक्तिविभक्तिमयः-
"अथागादेकदा स्पष्टचतुराशामुखद्युतिः ।
तं ब्रह्मेव शरत्कालः प्रोत्फुल्लकमलासनः" ॥
तत्र वाक्यं दशधा ।
एकाख्यातम्, अनेकाख्यातम्, आवृत्ताख्यातम्, एकाभिधेयाख्यातं, परिणताख्यातम्, अनुवृत्ताख्यातं, समुचुताख्यातम्, अध्याहृताख्यातं, कृदभिहिताख्यातम्, अनपेक्षिताख्यातमिति ॥
तत्रैकाख्यातम्-
"जयत्येकपदाक्रान्तसमस्तभुवनत्रयः ।
द्वितीयपदविन्यासव्याकुलाभिनयः शिवः" ॥
अनेकाख्यातम्-
तच्च द्विधा सान्तरं निरन्तरम् ॥

तयोः प्रथमम्-
"देवासुरास्तमथ मन्थगिरां विरामे पद्मासनं जय जयेति बभाषिरे च ।
प्राग्भेजिरे च परितो बहु मेनिरे च ट स्वाग्रेसरं विदधिरे च ववन्दिरे च" ॥
द्वितीयम्-
"त्वं पासि हंसि तनुषे मनुषे बिभर्षि विभ्राजसे सृजसि संहरसे विरौषि ।
आःसे निरस्यसि सरस्यसि रासि लासि सङ्क्रीडसे ब्रुडसि मेघसि मोदसे च" ॥
"आख्यातपरतन्त्रघा वाक्यवृत्तिरतो यावदाख्यातमिह वाक्यानि" इत्याचार्याः ।
"एकाकारतया कारकग्रामस्यैकार्थतया च वचोवृत्तेरेकमेवेदं वाक्यम्" इति यायावरीयः ।
आवृत्ताख्यातम्-
"जयत्यमलकौस्तुभस्तबकितांसपीठो हरिर् जयन्ति च मृगेक्षणाश्चलदपाङ्गदृष्टिक्रमः ।
ततो जयति मल्लिका तदनु सर्वसंवेदना-विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः" ॥
एकाभिधेयाख्यातम्-
"हृष्यति चूतेषु चिरं तुष्यति बकुलेषु भोदते मरुति ।
इह हि मधौ कलकूजुषु पिकेषु च प्रीयते रागी" ॥
परिणताख्यातम्-
"सो ऽस्मिञ्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः ।
ते च चैत्रे विचित्रैलाकक्कोलीकेलयो ऽनिलाः" ॥
अनुवृत्ताख्यातम्-
"चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः ।
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते" ॥
समुचिताख्यातम्-
"परिग्रहभराक्रान्तं दौर्गत्यगतिचोदितम् ।
मनो गन्त्रीव कुपथे चीत्करोति च याति च" ॥
यथा च-
"स देवः सा दंष्ट्रा किटिकृतविलासस्मितसिता द्वयं दिश्यात्तुभ्यं मुदमिदमुदारं जयति च ।
उदञ्चद्भियस्तरलितनिवेशा वसुमत्ती यदग्रे यच्छ्रवासैर्गिरिगुडकलीलामुदवहति" ॥
अध्याहृताख्यातम्-
"दोर्दण्डताण्डवभ्रष्टमुडुखण्डं बिभर्ति यः ।
व्यस्तपुष्पाञ्जलिपदे चन्द्रचूडः श्रिये स वः" ॥
कृदभिहिताख्यातम्-
"अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकथोदयं ।
विनयवाधितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः" ॥
अनपेक्षिताख्यातम्-
"कियन्मात्रं जलं विप्र? जानुदध्नं नराधिप ।
तथापीयमवस्था ते न सर्वत्रघ भवादृशाः" ॥
गुणवदलङ्कृतञ्च वाक्यमेव काव्यम् ॥
"असत्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्"इत्येके ॥
यथा-
"स्तेमः स्तोको ऽपि नाङ्गे श्रसितमविकलं चक्षुषां सैव वृत्तिः मध्येक्षीराब्धि मग्नाः स्फुतमथ च वयं को ऽयमीदृक्प्रकारः ।
इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः" ॥

यथा च -
"भ्रश्यद्भूग्नभोगीश्वरफणपवनाध्मातपातालतालुः त्रुट्यन्नानागिरीन्द्रावलिशिखरखरास्फाललोलाम्बुराशिः ।
उद्यन्निरन्ध्रलीविधुरसुरवधूमुच्यमानोपशल्यः कल्योद्योगस्य यस्य त्रिभुवनदमनः सैन्यसंमर्द आसीत्" ॥
आहुश्च-
"दृष्टं किञ्चिददृष्टमन्यदपरं वाचालवार्त्तार्पितं भूयस्तुण्डपुराणतः परिणतं किञ्चिञ्च शास्त्रश्रुतम् ।
सूक्त्या वस्तु यदत्र चित्ररचनं तत्काव्यमव्याहतं रत्नस्येव न तस्य जन्म जलधेर्नो रोहणाद्वा गिरेः" ॥
"न" इति यायावरीयः-
"नासत्यं नाम किञ्चन काव्ये यस्तु स्तुत्येष्वर्थवादः ।
स न परं कविकर्मणि श्रुतौ च शास्त्रे च लोके च" ॥
तत्र श्रौतः-
"पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलेग्रहिः ।
शेरे ऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हृताः" ॥
शास्त्रीयः-
"आपः पवित्रं प्रथमं पृथिव्यामपां पवित्रं परमं च मन्त्राः ।
तेषां च सामर्ग्यजुषां पविघत्रं महर्षयो व्याकरणं निराहुः" ॥
किञ्च-
"यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्वयवहारकाले ।
सो ऽनन्तमान्पोति जयं परघत्र वाग्योगविदुष्यति चापशब्दैः" ॥
"कः? ।
वाग्योगविदेव ।
कुत एतत् ? ।
योहि शब्दाञ्जानात्यपशब्दानप्यसौ जानाति ।
यथैव हि शब्दज्ञाने धर्मः, एवमपशब्दज्ञघानेप्यधर्मः ।
अथवा भूयानधर्मः प्रान्पोति ।
भूयांसो हृपशब्दा अल्पीयांसः शब्दाः ।
एकैकस्य हि शब्दस्य बहवो ऽप्रभ्रंशाः ।
तद्यथा ।
गौरित्यस्य शब्दस्य गावो गोणी गोता गोपातलिकेत्येवमादयो ऽपभ्रंशाः ।
अथ यो ऽवाग्योगविद् अज्ञानं तस्य शरणम् ।
विषम उपन्यासः ।
नात्यन्तायाज्ञानं शरणं भवितुमर्हति ।
यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबेत्से ऽपि मन्ये पतितः स्यात् ।
एवं तर्हि सो ऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः ।
कः? ।
अवाग्योगविदेव ।
अथ यो वाग्योगविद् विज्ञघानं तस्य शरणम् ।
क्व पुनरिदं पठितम्? ।
भ्राजा नाम श्लोकाः ।
किञ्च भोः श्लोका अपि प्रमाणम्? ।
किञ्चातः? ।

यदि प्रमाणमयमपि श्लोकः प्रमाणं भवितुमर्हति ।
" "यद्युदुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत्" ॥
इति ।
"प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणमेव"इति गोनर्दीयः ।
लौकिकः-
"गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्द्धकुङ्कुमम्" ॥
"असदुपदेशकत्वात्तर्हि नोपदेष्टव्यं काव्यम्" इत्यपरे ।
यथा एवं-
"वयं बाव्ये डिम्भांस्तरुणिमनि यूनः परिणताव् अपीच्छामो दृद्धान्परिणयविधेस्तु स्थितिरियम् ।
त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोघत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत्" ॥
"अस्त्ययमुपदेशः किन्तु निषेध्यत्वेन न विधेत्वेन" इति यायावरीयः ।
य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबुध्येतेति कवीनां भावः ।
किञ्च कविवचनायत्ता लोकयात्रा ।
"सा च निःश्रेयसमूलम्" इति महर्षयः ।
यदाहुः-
"काव्यमय्यो गिरो यावञ्चरन्ति विशदा भुवि ।
तावत्सारस्वतं स्थानं कविरासाद्य मोदते" ॥
किञ्च-
"श्रीमन्ति राज्ञां चरितानि यानि प्रभुत्वलालाश्व सुधाशिनां याः ।
ये च प्रभावास्तपसामृषीणां ताः सत्कविभ्यः श्रुतयः प्रसूताः" ॥
उक्तञ्च-
"ख्याता नराधिपतयः कविसंश्रयेण राजाश्रयेण च गताः कवयः प्रसिद्धिम् ।
राज्ञा समो ऽस्ति न कवेः परमोपकारी राज्ञे न चास्ति कविना सदृशः सहायः" ॥
"बल्मीकजन्मा स कविः पुराणः कवीश्वरः सत्यवतीसुतश्च ।
यस्य प्रणेता तदिहानवद्यं सारस्वतं वर्त्म न कस्य वन्द्यम् ?" ॥
"असभ्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्" इति च केचित् ।
यथा-
"प्रसर्पन्प्रग्रीवैर्भृतभ्रुवनकुक्षिर्झणझणा-करालः प्रागल्भ्यं वदति तरुणीनां प्रणयिषु ।
विलासव्यत्यासाज्जघनफलकास्फालनघन-स्फुदच्छेदोत्सोक्तः कलकनककाञ्चीकलकालः" ॥
अपि च-
"नित्यं त्वयि प्रचुरचित्रकपत्रभङ्गी-ताटङ्कतानविपण्डुरगण्डलेखाः ।
स्निह्यन्तु रत्नरशनारणनाभिराम-कामार्तिनर्तितनितम्बतटास्तरुण्यः" ॥
"प्रकमापन्नो निबन्धनीय एवायमर्थः" इति यायावरीयः ।
यदिदं श्रुतौ शास्त्रे चोपलभ्यते ।
तत्र याजुषः-
"उपोप मे परामृश मा मे दभ्राणि मन्यथाः ।
सर्वाहमस्ति रोमशा गान्धारीणामिवाविका" ॥
शास्त्रीयः-

"यस्याः प्रसन्नधवलं चश्रुः पर्यन्तपक्ष्मलम् ।
नवनीतोपमं तस्या भवति स्मरमन्दिरम्" ॥
पदवाक्यविवेको ऽयमिति किञ्चित्प्रञ्चितः ।
अथ वाक्यप्रकारांश्च कांश्चिदन्यान्निबोधत ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे षष्ठो ऽध्यायः पदवाक्यविवेकः ॥
____________________________ अध्यय 7 _____________________________
वाक्यविधयः
सत्पमो ऽध्यायः 7
वाक्यविधयः, काकुप्रकाराः, पाठप्रतिष्ठा वाक्यं वचनमिति व्यवहरन्ति ।
तच्च त्रिधा प्रणेतृभेदेन ब्राह्यं, शैवं, वैष्णवमिति ।
तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत ब्राह्यं वचः पञ्चधा स्वायम्भुवमैश्वरमार्षमार्षीकपुत्रकं च ।
स्वयम्भूर्ब्रह्मा तस्य स्वायम्भुवम् ।
तन्मनोजन्मानो भृगुप्रभृतयः पुत्रास्ते ईश्वरास्तेषामैश्वरम् ।
ईश्वराणां सुता ऋषयस्तेषामार्षम् ।
ऋषीणामपत्यानि ऋणीकास्तेषामार्षीकम् ।
ऋषीकाणां सूनव ऋषिपुत्रकास्तेषामार्षिपुत्रकम् ।
स्वयम्भुवः प्रथमं वचः श्रुतिः, श्रुतेरन्यञ्च स्वायम्भुवम् ।
तदाहुः-
"सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् ।
क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत्" ॥
तदेव स्तोकरुपान्तरपरिणतमैश्वरं वचः ।
उक्तञ्च-
"व्यक्तक्रममसंक्षित्पं दीत्पगम्भीरमर्थवत् ।
प्रत्यक्षं च परोक्षं च लक्ष्यतामैश्वरं वचः" ॥
आर्षम्-
"यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः ।
प्रत्यक्षाभिहितार्थं च तदृषोणां वचः स्मृतम्" ॥
आर्षीकम्-
"नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् ।
न चापि सुमहद्वाक्यमृषीकाणां वचस्तु तत्" ॥
आर्षिपुत्रकम्-
"अविस्पष्टपदप्रायं यच्च स्याद्वहुसंशयम् ।
ऋषिपुत्रवचस्तत्स्यात् ससर्वपरिदेवनम्" ॥
तदुदाहरणानि पुराणेभ्य उपलभेत ।
सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति ।
ब्रह्मविष्णुरुद्रगुहबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरम् ।
क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति व्यपदिश्यते ।
देवयोनयस्तु-
"विद्याधरोप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।
सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः" ॥

तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनः, मर्त्ये तु भूतभाषया व्यवहरन्तो निबन्धनीयाः ।
अत्सरसस्तु प्राकृतभाषया ।
तद्दिव्यं वचश्चतुर्द्धा ।
वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च ।
शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन ।
तत्र वैबुधम्-
"समासव्याससंदृब्धं शृङ्गाराद्भुतसम्भृतम् ।
सानुप्रासमुदारं च वचः स्यादमृताशिनाम्" ॥
यथा-
"यञ्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटाकुहरे हरस्य ।
तद्वः पुनातु हिमशैलशिलानिकुञ्ज-भ्फात्कारडम्बरविरावि सुरापगाम्भः ॥
" वैद्याधरम्-
"स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च ।
द्राधीयसा समासेन विद्धि वैद्याधरं वचः ॥
" यथा-
"प्रणतसुरकिरीटप्रांशुरत्नांशुवंशच्छुरित-नखशिखाग्रोद्भासमानारुणाङ्घ्रे ।
उदिततरणिवृन्दोद्दामधामोर्ध्वनेत्र-ज्वलननिकरदग्धानङ्गमूर्ते नमस्ते" ॥
यथा वा-
"भ्रमति भ्रमरकरविम्बतनन्दरवनचम्पकस्तबकगौरः ।
वात्याहत इव वियति स्फुटलक्ष्मा रोहणीरमणः" ॥
गान्धर्वम्-
"ह्रस्वैः समासैर्भूयोभिर्विभूषितपदोच्चया ।
तत्त्वार्थग्रथनग्राह्या गन्धर्वाणां सरस्वती" ॥
यथा-
"नमः शिवाय सोमाय सगणाय ससूनवे ।
सवृषव्यालशूलाय सकपालय सेन्दवे" ॥
योगिनीगतम्-
"समासरुपकप्रायं गम्भीरार्थपदक्रमम् ।
सिद्धान्तसमयस्थायि योगिनीनामिदं वचः" ॥
यथा-
"दुःखेन्धनैकदहनामृतवर्शषमेघ? संसारकूपपतनैकरावलंब? ।
योगीन्द्रदर्पण? जगद्गतकृत्स्नतेजः-प्रत्यक्षचौरवर? वीरपते? नमस्ते" ॥
महाप्रभावत्वाद्भौजङ्गममपि दिव्यमित्युपचर्यते ।
"प्रसन्नमधुरोदात्तसमासव्यासभागवत् ।
अनोजस्विपदप्रायं वचो भवति भोगिनाम्" ॥
यथा-
"सुसर्जितां श्रोतसुखां सुरुपामनेकरत्नोज्ज्वलचित्रिताङ्गीम् ।
विद्याधरेन्द्रः प्रतिगृह्य वीणां पिनाकिने गायति मङ्गलानि" ॥
"किमर्थं पुनरनुपदेश्ययोर्ब्राह्यपारमेश्वरयोर्वाक्यमार्गयोरुपमन्यासः?" इत्याचार्याः ।
"सो ऽपि कवीनामुपदेशपरः" इति यायावरीयः ।

मूल पाठ: Kāvyamīmāṃsā 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc