काव्यमीमांसा · भाग 4160
तस्य चाचोनिरर्थः ।
स च त्रिधा लौकिकालौकिकभेदेन, तयोर्मिश्रत्वेन च ।
लौकिकः -
"मा कोशकारलतिके वह वर्णगर्वं किं डम्बरेण चणिके तव कौसुमेन ।
पुण्ड्रेक्षुयष्टिरियमेकतरा चकास्तु या स्यन्दते रसमृते ऽपि हि यन्त्रयोगात्" ॥
अलौकिकः-
"देवी पुत्रमसून नृत्यत गणाः किं तिष्ठतेत्युद्भुजे" हर्षाद्भृङ्गिरिटावुदाः हृतगिरा चामुण्डयालिङ्गिते ।
पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयोर् अन्योन्याङ्कनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः" ॥
मिश्रः-
"स्थिते कुक्षेरन्तर्मुरचयिनि निःश्वासमरुतो जनन्यास्तन्नाभीसरसिजपरागोत्करमुचः ।
निपाताः सानन्दं रचितफणचक्रेण हलिना लमन्तादस्यासुः प्रतिदिवसमेनांसि भवतः" ॥
तेषां च चतुर्णामर्थानाम्-
चत्वार एते कथिता मयैव ये ऽर्थाः कवीनां हरणोपदेशे ।
प्रत्तयेकमष्टत्ववशाद्भवन्ति द्वात्रिंशता ते ऽनुगताः प्रभेदैः ॥
तत्र प्रतिबिम्बकल्पविकल्पाः ।
स एवार्थः पौर्वापर्यविपर्यासाद् व्यस्तकः ।
यथा-
"दृष्ट्वान्येभं छेदमुत्पाद्य रज्ज्वा यन्तुर्वाचं मन्यमानस्तृणाय ।
गच्छन्दघ्रे नागराजः करिण्या प्रेम्णा तुल्यं बन्धनं नास्ति जन्तोः" ॥
अत्रार्थे-
"निर्विवेकमनसो ऽपि हि जन्तोः प्रेमबन्धनमशृङ्खलदाम ।
यत्प्रति प्रतिगजं गजराजः प्रस्थितश्चिरमधारि करिण्या" ॥
बृहतो ऽर्थस्यार्द्धप्रणयनं खण्डम् ।
"पुरा पाण्डुप्रायं तदनु कपिशिन्मा कृतपदं ततः पाकोद्रेकाररुणगुणसंवर्गितवपुः ।
शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामोदं बदरमरसत्वं कलयति" ॥
अत्रार्थे-
"पाकक्रियापरिचयप्रगुणीकृतेन संवर्द्धितारुणगुणं वपुषा निजेन ।आपादितस्थपुटसंस्यितिशोषपोषादेतद्वने विरसतां बदरं बिभर्त्ति" ॥
संक्षित्पार्थविस्तरेण तैलबिन्दुः ।
यथा-
"यस्य तन्त्रभराक्रान्त्या पातालतलगामिनी ।
महावराहृदंष्ट्राया भूयः सस्मार मेदिनी" ॥
अत्रार्थे-
"यत्तन्त्राक्रान्तिमज्जत्पृथुलमणिशिलाशल्यवेल्लत्फणान्ते क्लान्ते पत्यावहीनां चलदचलमहास्तम्भसम्भारसीमा ।
सस्मार स्फारचन्द्रद्युति पुनरवनिस्तद्धिरण्याक्षवक्षः-स्थूलास्थिश्रेणिशाणानिकाषणसितमप्याशु दंष्ट्राग्रमुग्रम्" ॥
अन्यतमभाषानिबन्द्धं भाषान्तरेण परिवर्त्त्यत इति नटनेपथ्यम् ।
यथा-
"नेच्छै पासासंकी काओ दिण्णं पि पहिअघरिणीए ।
ओहत्तकरयलोग्गलियवलयमज्झदिट्रिठां पिण्डं" ॥
("नेच्छति पाशाशङ्की काको दत्तमपि पथिकगृहिण्या ।
अनवरतकरतलोद्गतवलयमध्यस्थितं पिण्डम्" ॥
) अत्रार्थे-
"दत्तं पिण्डं नयनसलिलक्षालनाधौतगण्डं द्वारोपान्ते कथमपि तया सङ्गमाशानुबन्धात् ।
वक्रग्रीवश्चलनतशिराः पार्श्रसञ्चारिचक्षुः पाशाशङ्की गलितवलयं नैनमश्नाति काकः" ॥
छन्दसा परिवृत्तिश्छन्दोविनिमयः ।
यथा-
"कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणधृतं किञ्चिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः को ऽसौ कास्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः" ॥
अत्रार्थे-
"धन्यास्तु याः कथयथ प्रियसङ्गमे ऽपि विश्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि" ॥
कारणपरावृत्त्या हेतुव्यत्ययः ।
यथा-
"ततो ऽरुणपरिस्पन्दमन्दीकृतरुचिः शशी ।
दघ्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्" ॥
अत्रार्थे--
"समं कुसुमचापेन गर्भिणीगण्डपाण्डुना ।
उदयाद्रिशिरःसीम्नि निहितं पदमिन्दुना" ॥
दृष्टस्य वस्तुनो ऽन्यत्र संक्रमितिः सङ्क्रान्तकम् ।
यथा-
"स्नानार्द्रैर्विधुतकवरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् ।
अप्येतेभ्यो नभसि पततः पङ्किशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां कोलिहंसाः पिबन्ति" ॥
अत्रार्थे-
"सद्यः स्नातजपत्तपोधनजटाप्रान्तस्त्रुताः प्रोन्मुखैः पीयन्ते ऽम्बुकणाः कुरङ्गशिशुभिस्तृष्णाव्यथाविक्लवैः ।
एतां प्रेमभरालसां च सहसा शुष्यन्मुखीमाकुलः श्लिष्यन् रक्षति पक्षसम्पुटकृतच्छायः शकुन्तः प्रियाम्" ॥
उभयवाक्यार्थोपादानं सम्पुटः ।
यथा-
"विन्ध्यस्याद्रेः परिसरनदी नर्मदा सुभ्रु सैषा यादोभर्त्तुः प्रथमगृहिणीं यां विदुः पश्चिमस्य ।
यस्यामन्तः स्फुरितशफरत्रासहासाकुलाक्षी स्वैरं स्वैरं कथमपि मया तीरमृत्तारितासि" ॥
यथा-
"नाभीगुहाबिलविशश्चलवीचिजातमञ्जुध्वनिश्रुतिकणत्कलकुक्कुभानि ।
रेवाजलान्यविरलं ग्रहिलीक्रियन्ते लाटाङ्गनाभिरपराह्ननिमज्जनेषु" ॥
अत्रार्थे-
"यद्वर्ग्याभिर्जगाहे गुरुशकुलकुलास्फालनत्रासहास-व्यस्तोरुस्तम्भिकाभिदिंशि दिशि सरितां दिग्जयप्रक्रमेषु ।
अम्भो गम्भीरनाभीकुहरकवलनोन्मुक्तिपर्यायलोलत्-कल्लोलाबद्धमुग्धध्वनिचकितरणत्कुक्कुभं कामिनीभिः" ॥
सो ऽयं कवेरकवित्वदायी सर्वथा प्रतिबिम्बकल्पः परिहरणीयः ।
यतः--
"पृथक्त्वेन न गृह्णान्ति वस्तु काव्यान्तरस्थितम् ।
पृथक्त्वेन न गृह्णन्ति स्ववपुः प्रतिबिम्बितम्" ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकणे शब्दार्थहरणोपायाः कविप्रभेदाः प्रतिबिम्बकल्पविकल्पस्य समीक्षा द्वादशो ऽध्यायः ॥
____________________________ अध्यय 13 _____________________________
राजचर्या त्रयोदशो ऽध्यायः 13 अर्थहरणेष्वालेख्यप्रख्यादिभेदाः आलेख्यप्रख्यपरिसङ्ख्याः ।
सदृशञ्चारणं समक्रमः ।
यथा-
"अस्ताद्रिवेश्मनि दिशो वरुणप्रियायास् तिर्यक्कथञ्चिदपयन्त्रणमास्थितायाः ।
गण्डैकपार्श्वमिव कुङ्कुमपङ्कचिम्बु बिम्बं रुचामधिपतेरगुणं रराज" ॥ 1॥
यथा च-
"प्राग्दिशः प्रतिकलं विलसन्त्याः कुङ्कुमारुणकपोलतलेन ।
साम्यमेति कलितोदयरागः पश्य सुन्दरि तुषारमयूखः" ॥
अलङ्कृतमनलङ्कृत्याभिधीयत इति विभूषणमोषः ।
यथा-
"कुवलयसिति मूले बालचन्द्राङ्कुराभं तदनु खलु ततो ऽग्रे पाकपीताम्रपीतम् ।
अभिनवरविरोचिर्धूमधूभ्रं शिखायाम् इति विवधविकारं दिद्युते दैपमर्चिः" ॥
अत्रार्थे-
"मनाङ्मूले नीलं तदनु कपिशोन्मेषमुदरे ततः पाण्डु स्तोकं स्फुरदरुणलेखं च तदनु ।
शिखायामाधूभ्रं धृतविविधवर्णक्रममिति क्षणादर्चिर्दैपं दलयति तमः पुञ्जितमपि" ॥
क्रमेणाभिहितस्यार्थस्य विपरीताभिधानं व्युत्क्रमः ।
यथा तत्रैव--
"श्यामं शिखाभुवि मनागरुणं ततो ऽधः स्तोकावपाण्डुरधनं च ततो ऽप्यधस्तात् ।
आपिञ्जरं तदनु तस्य तले च नीलम् अन्धं तमः पटलमर्द्दति दैपमर्चिः" ॥
सामान्यनिबन्धे विशेषाभिधानं विशेषोक्तिः ।
यथा-
"इत्युद्गते शशिनि पेशलकान्तदूती-संलापसञ्चलितलोचनमानसाभिः ।
अग्राहि मण्डनविधिर्विपरीतभूषा-विन्यासहासितसखीजनमङ्गनाभिः" ॥
अत्रार्थे-
" चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारदृष्टे ।
प्रियं प्रति प्रेषितचित्तवृत्तिर्नितम्बबिम्बे च बबन्ध हारम्" ॥
उपसर्जनस्यार्थस्य प्रधानतायामुत्तंसः ।
यथा-
"दीपयन्नथ नभः किरणौधैः कुङ्कुमारुणपयोधरगौरः ।
हेमकुम्भ इव पूर्वपयोधेरुन्ममञ्ज शनकैस्तुहिनांशुः" ॥
अत्रार्थे-
"ततस्तमः श्यामलपट्टकञ्चुकं विपाटयत्किञ्चिद्ददश्यतान्तरा ।
निशातरुण्याः स्थितशेषकुङ्कुमस्तनाभिरामं सकलं कलावतः" ॥
तदेव वस्तूक्तिवशादन्यथा क्रियत इति नटनेपथ्यम् ।
यथा--
"आननेन्दुशशलक्ष्मकपोले सादरं विरचितं तिलकं यत् ।
तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः" ॥
अत्रार्थे--
"शोकाश्रुभिर्वासरखण्डितानां सिक्ताः कपोलेषु विलासिनीनाम् ।
कान्तेषु कालात्ययमाचरन्सु स्वल्पायुषः पत्रलता बभूवुः" ॥
परिकरसाम्ये सत्यपि परिकार्यस्यान्यथात्वादेकपरिकार्यः" ।
अव्याद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता करेण ।
मूलावलग्रसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्बसरोहस्य" ॥
अत्रार्थे -
"सरलकरदण्डनालं गजवपुषः पुष्करं विभोर्जयति ।
मूलबिसकाण्डभूमौ यत्राभूदेकदंष्ट्रैव" ॥
विकृतेः प्रकृतिप्रापणं प्रत्यापत्तिः ।
यथा--
"रविसङ्क्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वारान्ध इवादर्शश्चन्द्रमा न प्रकाशते" ॥
अत्रार्थे -
"तस्याः प्रतिद्वन्द्विभवाद्विषादात् सद्यो विमुक्तं मुखमाबभासे ।
निःश्वासबाष्पापगमे प्रसन्नः प्रसादमात्मीयमिवात्मदर्शः" ॥
ता इमा आलेख्यप्रख्यस्य भिदाः ।
सो ऽयमनुग्राह्यो मार्गः ।
आहुश्च-
"सो ऽयं भणितिवैचित्र्यात्समस्तो वस्तुविस्तरः ।
नटवद्वर्णिकायागादन्यथान्यथात्वमिवार्च्छति" ॥
अथ तुल्यदेहितुल्यस्य भिदाः ।
तस्यैव वस्तुनो विषयान्तरयोजनादन्यरुपापत्तिर्विशयपरिवर्त्तिः ।
यथा-
"ये सीमन्तितगात्रभस्मरजसो ये कुम्भकद्वेषिणो ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैत्यद्रुहः ।
ते कुप्यद्गिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः स्थाणोर्दक्षिणनासिकापुटभ्रुवः श्वासानिलाः पान्तु वः" ॥
अत्रार्थे--
"ये कीर्णाक्वथितोदराब्जमधवो ते म्लापितोरः स्त्रजो ये तापात्तरलेन तल्पफणिना पीतप्रतापोभ्फिज्ताः ।
ते राधास्मृतिसाक्षिणः कमलया सासूयमाकर्णिता गाढान्तर्दवथोः प्रतत्पसरलाः श्वासा हरेः पान्तु वः" ॥
द्विरुपस्य वस्तुनो ऽन्यतररुपोपादानं द्वन्द्वविच्छित्तिः ।
यथा-
"उत्क्लेशं केशबन्धः कुसुमशररिपोः कल्मषं वः स मुष्याद् यत्रेन्दनं वीक्ष्य गङ्गाजलभरलुलितं बालभावादभूताम् ।
क्रौञ्चारातिश्च फाण्टस्फुरितशफरिकामोहलोलेक्षणश्रीः सद्यः प्रोद्यन्मृणालीग्रहणरसलसत्पुष्करश्च द्विपास्यः" ॥
अत्रार्थे-
"दिश्याद्धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी शाशाङ्की कलिका जलभ्रमिवशाद् द्राग दृष्टनष्टा सुखम् ।
यां चञ्चत्सफरीभ्रमेण मुकुलीकुर्वन्फणालीं मुहुर्मुह्यल्लक्ष्यमहिर्जिघृक्षतितमामाकुञ्चनप्राञ्चनैः" ॥
पूर्वोर्थानामर्थान्तरैरन्तरणं रत्नमाला ।
यथा--
"कपोले मार्जारः पय इति करांल्लेढि शशिनस् तरुच्छिद्रप्रोतान्बिसमिति करेणुः कलयति ।
रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति" ॥
अत्रर्थे--
"ज्योत्स्नार्चिर्दुग्धबुद्ध्या कवलितमसकृद्भाजने राजहंसैः स्वांसे कर्पूरपांसुच्छुरणरभसतः सम्भृतं सुन्दरीभिः ।
पुभ्भिर्व्यस्तं स्तनान्तात्सिचयमिति रहः सम्भ्रमे वल्लभानां लीढं द्राक्सिन्धुवारेष्वभिनवसुमनोलम्पटैः षट्पदैश्च" ॥
सङ्ख्यावैषम्येणार्थप्रणयनं सङ्ख्योल्लेखः ।
यथा--
"नमन्नारायणच्छायाच्छुरिताः पादयोर्नखाः ।
त्वच्चन्द्रमिव सेवन्ते रुद्र रुद्रेन्दवो दश" ॥
अत्रार्थे-
"उमैकपादाम्बुरुहे स्फुरन्नखे कृतागसो यस्य शिरः समागमे ।
षडात्मतामाश्रयतीव चन्द्रमाः स नीलकण्ठः प्रियमातनोतु वः" ॥
सममभिधायाधिकस्योपन्यासश्चूलिका ।
द्विधा च सा संवादिनी विसंवादिनी च ।
तयोः प्रथमा यथा-
"अङ्गणे शशिमरीचिलेपने सुत्पमिन्दुकरपुञ्जसन्निभम् ।
राजहंसमसमीक्ष्य कातरा रौति हंसवनिताश्रुगद्गगम्" ॥
अत्रार्थे-
"चन्दप्रभाप्रसरहिसिनि सौधपृष्टे दुर्लक्षपक्षतिपुटां न विवेद जायाम् ।
मूढश्रुतिर्मुखरनूपुरनिःस्वनेन व्याहारिणीमपि पुरो गृहराजहंसः" ॥
द्वितीया तत्रैवार्थे यथा-
"ज्योत्स्नाजलस्नायिनि सौधपृष्टे विविक्तमुक्ताफलपुज्जरौरम् ।
विवेद हंसी वयितं कथञ्चिच् चुलत्तुलाकोटिकलैर्निनादैः" ॥
निषेधस्य विधिना निबन्धो विधानापहारः ।
यथा-
"कुरबक कुचाघातक्रीडारसेन वियुज्यसे बकुलविटपिन् स्मर्त्तव्यं ते मुखासवसेचनम् ।
चरणघटनाशून्यो यास्यस्यशोक सशोकताम् इति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः" ॥
अत्रार्थे--
"मुखमदिरया पादन्यासैर्विलासविलोकितैर् बकुलविटपी रक्ताशोकस्तता तिलकद्रुमः ।
जलनिधितटीकान्ताराणां क्रमात्ककुभां जये झगिति गमिता यद्वर्ग्याभिर्विकासमहोत्सवम्" ॥
बहूनामर्थानामेकत्रोपसंहारो माणिक्यपुज्जः ।
यथा-
"शैलच्छलेन स्वं दीर्घं भुजमुक्तभ्य भूवधूः ।
निशासख्या करोतीव शशाङ्कतिलकं मुखे" ॥
यथा च --
"फुल्लातिमुक्तकुसुमस्तवकाभिराम दूरोल्लसत्किरणकेसरमिन्दुर्सिंहम् ।
दृष्ट्वोदयाद्रिशिखरस्थितमन्धकार-दुर्वारवारणघटा व्यघटन्त सद्यः" ॥
यथा च-
"संविधातुमभिषेकमुदासे मन्मथस्य लसर्दशुजलौघः ।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः" ॥
यथा च--
"उदयति पश्य कृशोदरि दलितत्व(क्)क्षीरकरणिभिः किरणैः ।
उदयाचलचूडमणिरेष पुरा रोहिणीरमणः" ॥
यथा च--
"उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन्कराग्रैः ।
उदयगिरितटस्फटाट्टहासो रजनिवधीमुखदर्पणः शशाङ्कः" ॥
यथा च-
"प्रेषिदैकेन्दुहंसे ऽस्मिन्सस्नाविव तमो ऽम्बुभिः ।
नभस्तडागे मदनस्ताराकुमुदहासिनि" ॥
अत्रार्थे-
"रजनिपुरन्ध्रिरोध्रतिलकस्तिमिरद्विपयूथकेसरी रजतमयो ऽभिषेककलशः कुसुमायुधमेदिनीपतेः ।
अयमुदयाचलैकचूडामणिरभिनवदर्पणो दिशाम् उदयति गगनसरसि हंसस्य हसन्निव विभ्रमं शशी" ॥
कन्दभूतो ऽर्थः कन्दलायमानैर्विशेषैरभिधीयत इति कन्दः ।
यथा च--
"विशिखामुखेषु विसरति पुञ्जीभवतीव सौधशिखरेषु ।
कुमुदाकरेषु विकसति शशिकलशपरिस्त्रुता ज्योत्स्ना" ॥
अत्रार्थे-
"वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां प्रतिफलतीव जरठशरकाण्डुषु गण्डभित्तिषु ।
अम्भसि विकसतीव लसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका" ॥
स्फटिकमणिघट इवेन्दुस्तस्यामपिधानमाननमिवाङ्कः ।
क्षरति चिरं येन यथा ज्योत्स्ना घनसारधूलिरिव ॥
सितमणिकलशाकदिन्दोर्हरिणहरित्तृणपिधानत्.ओ गलितैः ।
रजनिभुजिष्या सिञ्चति नभो ऽङ्गणं चन्द्रिकाम्भोभिः ॥
संविधातुमभिषेकमुदासे मन्यथस्य लसदंशुजलौघः ।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः" ॥
ता इमास्तुल्यदेहितुल्यस्य परिसंख्याः" ।
सो ऽयमुल्लेखवाननुग्राह्यो मार्गः" इति सुरानन्दः ।
तदाह--
"सरस्वती सा जयति प्रकामं देवी श्रुतिः स्वस्त्ययनं कवीनाम् ।
अनर्घतामानयति स्वभङ्ग्या योल्लिख्य यत्किञ्चदिहार्थनत्नम्" ॥
अथ परपुरप्रवेशसद्दशस्य भिदाः ।
उपनिबद्धस्य वस्तुनो युक्तिमती परिवृत्तिर्हुङ्डयुद्धम् ।
यथा--
"कथमसौ न भजत्यशरीरतां हतविवेकपदो हतमन्यथः ।
प्रहरतः कदलीदलकोमले भवति यस्य दया न वधूजने" ॥
अत्रार्थे--
"कथमसौ मदनो न नमस्यतां स्थितविवेकपदो मकरध्वजः ।
मृगदृशां कदलीललितं वपुर्यदभिहन्ति शरैः कुसुमोद्भवैः" ॥
प्रकारान्तरेण विसदृशं यद्वस्तु तस्य निबन्धः प्रतिकञ्चुकम् ।
यथा--
"माद्यञ्चकोरेक्षणतुल्यधाम्नो धारां दधाना मधुना मधुनः पतन्तीम् ।
चञ्च्वग्रदष्टोत्पलनालहृद्या हंसीव रेजे शशिरत्नपारी" ॥
अत्रार्थे-
"मसारपारेण बभौ ददाना काचित्सुरां विद्रुमनालकेन ।
वल्लूरवल्लीं दधतेव चञ्च्वा केलीशुकेनाञ्जलिना धृतेन" ॥
उपमानस्योपमानान्तरपरिवृत्तिर्वस्तुसंचारः ।
यथा-
"अविरलमिव दाम्ना पौण्डरीकेण बद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण ।
कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः" ॥
अत्रार्थे-
"मुक्तानामिव रज्जवो हिमरुचेर्मालाः कलानामिव क्षीराब्धेरिव वीचयः क्लममुषः पीयूषधारा इव ।
दीर्घापाङ्गनदीं विलङ्ध्य सहसा लीलानुभावाञ्चिताः सद्यः प्रेमभरोल्लसा भृगदृशो मामभ्यषिञ्चन्दृशः" ॥
शब्दालङ्कारस्यार्थालङ्कारेणान्यथात्वं धातुवादः ।
यथा-
"जयन्ति बाणासुरमौलिलालिताः दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांशवः" ॥
अत्रार्थे-
"सन्मार्गालोकनप्रौढिनीरजीकृतजन्तवः ।
जयन्त्यपूर्वव्यापाराः पुरारेः पादपांशवः" ॥
तस्यैव वस्तुन उत्कर्षेणान्यथाकरणं सत्कारः ।
यथा-
"स्नानार्द्रार्दैर्विधुतकबरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् ।
अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति" ॥
अत्रार्थे-
"लक्ष्म्याः क्षीरनिधेरुदक्तवपुषो वेणीलताग्रच्युता ये मुक्ताग्रथनामसूत्रसुभगाः प्रात्पाः पयोबिन्दवः ।
ते वः पान्तु विशेषसस्पृहद्दशा दृष्टाश्चिरं शार्ङ्गिणा हेलोद्ग्रीवजलेशहंसवनितालीढाः सुधास्वादवः" ॥
पूर्वं सदृशः पश्चाद्भिन्नो जीवञ्चीवकः ।
यथा-
"नयनोदरयोः कपोलभागे रुचिमद्रत्नगणेषु भूषणेषु ।
सकलप्रतिबिम्बितेन्दुबिम्बा शतचन्द्राभरणैव काचितासीत्" ॥
अत्रार्थे-
"भास्वत्कपोलतलकुण्डलपारिहार्य-सन्मेखलामणिगणप्रतिबिम्बितेन ।
चन्द्रेण भाति रमणी रमणीयवक्त्र-शोभाभिभूतवपुषेव निषेव्यमाणा" ॥
प्राक्तनवाक्याभिप्रायनिबन्धो भावमुद्रा ।
यथा-
"ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।
तमालपत्रास्तरणासु रन्तुं प्रसीद शश्चन्मलयस्थलीषु" ॥
अत्रार्थे-
"निश्वेतनानामपि युक्तयोगदो नूनं स एनं मदनो ऽधिष्ठति ।
एला यदाश्लिष्टवतीह चन्दनं पूगद्रुमं नागलताधिरोहति" ॥
पूर्वार्थपरिपन्थिनी वस्तुरचना तद्विरोधी (धिनी) ।
यथा-
"हारो वक्षसि दन्तपत्रविशदं कर्णे दलं कौमुदं माला मूर्ध्नि दुकूलिनी तनुलता कर्पूरशुक्लौ स्तनौ ।
वक्त्रे चन्दनबिन्दुरिन्दुधवलं बालं मृणालं करे वेषः किं सित एष सुन्दरि शरश्चन्द्रात्त्वया शिक्षितः" ॥
अत्रार्थे-
"मूर्तिर्नीलदुकूलिनी मृगमदैः प्रत्यङ्गपत्रक्रिया वाहू मेचकरत्नकङ्कणभृतौ कण्ठे मसारावली ।
व्यालम्बालकवल्लरीकमलिकं कान्ताभिसारोत्सवे यत्सत्यं तमसा मृगाक्षि विहितं वेषे तवाचार्यकम्" ॥
इत्यर्थहरणोपाया द्वार्त्रिंशदुपदर्शिताः ।
हानोपादानविज्ञाने कवित्वं तत्र मां प्रति ॥
कि.ं चैते हरणोपाया ज्ञेयाः सप्रतियोगिनः ।
अर्थस्य वैपरीत्येन विज्ञेया प्रतियोगिता ॥
किञ्च-
शब्दार्थशासनविदः कति नो कवन्ते यद्वाङ्मयं श्रुतिधनस्य चकास्ति चक्षुः ।
किन्त्वस्ति यद्वचसि वस्तु नवं सदुक्ति-सन्दर्भिणां स धुरि तस्य गिरः पवित्राः ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे अर्थहरणेष्वालेख्यप्रख्यादिभेदास्त्रयोदशो ऽध्यायः ॥
____________________________ अध्यय 14 _____________________________
चतुर्दशो ऽध्यायः 14
कविसमयः जातिद्रव्यक्रियासमयस्थापना ।
अशास्त्रीयमलौकिकं च परम्परायातं यमर्थमुपनिबध्नन्ति कवयः स कविसमयः ।
"नन्वेष दोषः ।
कथङ्कारं पुनरुपनिबन्धनार्हः?"इति आचार्याः ।
"कविमार्गानुग्राही कथमेष दोषः?" इति यायावरीयः ।
"निमित्तं तर्हि वाच्यम्" इति आचार्याः ॥
"इदमभिधीयते" इति यायावरीयः ।
पूर्वे हि विद्वांसः सहस्रशाखं साङ्गं च वेदमवगाह्य, शास्त्राणि चावबुध्य, देशान्तेराणि द्वीपान्तराणि च परिभ्रम्य, यानर्थानुपलभ्य प्रणीतवन्तस्तेषां देशकालान्तरवशेन अन्यथात्वे ऽपि तथात्वेनोपनिबन्धो यः स कविसमयः ।
कविसमयशब्दश्चायं मूलमपश्यद्भिः प्रयोगमात्रदशिभिः प्रयुक्तो रूढश्च ।
तत्र कश्चिदाद्यत्वेन व्यवस्थितः कविसमयेनार्थः, कश्चित्परस्यरोपक्रमार्थं स्वार्थाय धूर्त्तैः प्रवर्त्तितः ।
स च त्रिधा स्वर्ग्यो भौमः पातालीयश्च ।
स्वर्ग्यपातालीययोर्भौमः प्रधानः ।
स हि महाविषयकः ।
स च चतुर्द्धा जातिद्रव्यगुणक्रियारुपार्थतया ।
ते ऽपि प्रत्यक्षं त्रिधा असतो निबन्धनात्, सतोप्यनिबन्धनात्, नियमतश्च ।
तत्र सामान्यस्यासतो निबन्धनम्, यथा--नदीषु पद्मोत्पलादीनि, जलाशयमात्रे ऽपि हंसादयो, यत्र तत्र पर्वतेषु सुवर्णरत्नादिकं च ।
नदीपद्मानि यथा-
"दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः" ॥
नदीनीलोत्पलानि--
"गगनगमनलीलालम्भितान्स्वेदबिन्दून् मृदुभिरनिलवारैः खेचराणां हरन्तीम् ।
कुवलयवनकान्त्या जाह्ववीं सो ऽभ्यपश्यत् दिनपतिसुतयेव व्तक्तदत्ताङ्कपालीम्" ॥
एवं नदीकुमुदाद्यपि ।
सलिलमात्रे हंसा यथा-
"आसीदस्ति भविष्यतीह स जनो धन्यो धनी धार्मिकः यः क्षीकेशववत्करिष्यति पुनः श्रीमत्कुडुङ्गेश्वरम् ।
हेलान्दोलितहंससारसकुलर्क्रेकारसंमूर्च्चितैर् इत्याघोषयतीव तन्नवनदी यच्चेष्टितं वारिभिः" ॥
पर्वतमात्रे सुवर्णं यथा-
"नागावासश्चित्रपोताभिरामः स्वर्णस्फीतिव्यात्पदिक्चक्रवालः ।
साम्यात्सख्यं जग्मिवानम्बुराशेरेष ख्यातस्तेन जीमूतभर्ता" ॥
रत्नानि यथा-
"नीलाश्मरश्मिपटलानि महेभमुक्त-सूत्कारसीकरविसृञ्जि तटान्तरेषु ।
आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियात्र मयूरनार्थः" ॥
एवमन्यदपि ।
सतो ऽप्यनिबन्धनम्, तद्यथा-न मानती वसन्ते, न पुष्पफलं चन्दनद्रुमेषु, न फलमशोकेषु ।
तत्र प्रथमः-
"मालतीविमुखश्चैत्रो विकासी पुष्पसम्पदाम् ।
आश्चर्यं जातिहीनस्य कथं सुमनसः प्रियाः" ॥
द्वितीयः-
"यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।
निजवपुषैव परेषां तथापि सन्तापमपहरति" ॥
तृतीयः-
"दैवायत्ते हि फले किं क्रियतामेतदत्र तु वदामः ।
नाशोकऽस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः" ॥
अनेकत्र प्रवृत्तवृत्तीनामेकत्राचरणं नियमः, तद्यथा-समुद्रेष्वेव मकराः, ताम्रपर्ण्यामेव मौक्तिकानि ।
तयोः प्रथमः-
"गोत्राग्रहारं नयतो गृहत्वं स्वनाममुद्राङ्कितमम्बुराशिम् ।
दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकरस्य वन्द्यः" ॥
द्वतीयः-
"कामं भवन्तु सरितो भुवि सप्रतिष्ठाः स्वादूनि सन्तु सलिलानि च शुक्तयश्च ।
एतां विहाय वरवर्णिनि ताम्रपर्णीं नान्यत्र सम्भवति मौक्तिककामधेनुः" ॥
असतो ऽपि द्रव्यस्य निबन्धनम् ।
तद्यथा-मुष्टिग्राह्यत्वं सूचीभेद्यत्वं च तमसः, कुम्भापवाह्यत्वं च ज्योत्स्नायाः ।
तत्र प्रथमम्-
"तनुलग्रा इव ककुभः भूवलयं चरणचारमात्रमिव ।
दिवमिव चालिकदध्नीं मुष्टिग्राह्यं तमः कुरुते" ॥
तथा च-
"पिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भेद्ये ।
मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम्" ॥
द्वितीयम् -
"यन्त्रद्रावितकेतकोदरदलस्रोतः श्रियं बिभ्रती येयं मौक्तिकदामगुम्फनर्विधेर्योग्यव्छविः प्रागभूत् ।
उत्सेच्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्त्तते चन्द्रिका" ॥
द्रव्यस्य सतो ऽनिबन्धनं, तद्यथा-कृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य ।
तयोः प्रथमम्-
"ददृशाते जनैस्तत्र याघत्रायां सकुतूहलैः ।
बलभद्रहृषीकेशौ पक्षाविव सितासितौ" ॥
द्वितीयम् -
"मासि मासि समा ज्योत्स्ना पक्षयोः शक्लकृष्णयोः ।
तत्रैकः शक्लतां यातो यशः कुण्यैरवाप्यते" ॥
द्रव्यनियमः, तद्यथा-मलय एव चन्दनस्थानं, हिमवानेव भूर्जोत्पत्तिस्थानम् ।
तत्र प्रथमः-
"तापापहारचतुरो नागावासः सुरप्रियः ।
नान्यत्र मलयादद्रेर्दृश्यते चन्दनद्रुमः" ॥
द्वितीयः-
"न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम्" ॥
प्रकीर्णकद्रव्यकविसमयस्तु, तद्यथा-
क्षीरक्षारसमुद्रयोरैक्यं सागरमहासमुद्रयोश्च ।
तयोः प्रथमः-
"शेतां हरिर्भवतु रत्नमनन्तमन्तर्-लक्ष्मीप्रसूतिरिति नो विवदामहे हे ।
हा दूरदूरसपयास्तृषितस्य जन्तोः किं त्वत्र कूपपयसः स मरोर्जघन्यः" ॥
द्वितीयः-
"रङ्गत्तरङ्गभ्रूभङ्गैस्तर्जयन्तीमिवापगाः ।
स ददर्श पुरो गङ्गां सत्पसागरवल्लभाम्" ॥
असतो ऽपि क्रियार्थस्य निबन्धनम्, यथा-चक्रवाकमिथुनस्य निशि भिन्नतटाश्रयणं, चकोराणां चन्द्रिकापानं च ।
तत्र प्रथमः-
"सङ्क्षिपता यामवतीस्तटिनीनां तनयता पयः पूरान् ।
रथचरणाह्वयवयसां किं नोपकृतं निदाघेन" ॥
द्वितीयः-
"एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुवश् चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।
यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः" ॥
सतो ऽपि क्रियार्थस्यानिबन्धनम्, तद्यथा-दिवा नीलोत्पलानामविकासो, निशानिमित्तश्च शोफालिकाकुसुमानाविस्त्रंसः ।
तत्र प्रथमः-
"आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसभाजितचन्द्रबिम्बे ।
जातः पुनर्विकसनावसरो ऽयमस्येत्य् उक्त्वा सखो कुवलयं श्रवणे चकार" ॥
द्वितीयः-
"त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा ।
इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः" ॥
नियमस्तु, तद्यथा-ग्रीष्मादौ सम्भवतो ऽपि कोकिलानां विरुतस्य वसन्त एव, मयूराणां वर्षास्वेव विरुतस्य नृत्तस्य च निबन्धः ।
तयोः प्रथमः-
"वसन्ते शीतभीतेन कोकिलेन वने रुतम् ।
अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः" ॥
द्वितीयः-
"मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि" ॥
कवीनां समयः सो ऽयं जातिद्रव्यक्रियागतः ।
गुणस्थैष ततः स्वर्ग्यः पातालीयश्च कथ्यते ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कविसमये जातिद्रव्यक्रियासमयस्थापना नाम चतुर्दशो ऽध्यायः ॥
____________________________ अध्यय 15 _____________________________
पञ्चदशो ऽध्यायः 15
गुणसमयस्थापना असतोगुणस्य निबन्धनम् ।
यथा-यशोहासप्रभृतेः शौक्ल्यम्, अयशसः पापप्रभृतेश्च कार्ष्ण्यं, क्रोधानुरागप्रभृतेश्च रक्तत्वम् ।
तत्र यशःशौक्ल्यम्-
"स्तेमः स्तोको ऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिर् मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं को ऽयमीदृक्प्रकारः ।
इत्थं दिग्भित्तिरोधःक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः" ॥
हासशौक्ल्यम्-
"अट्टहासच्छलेनास्याद्यस्य फेनौघपाण्डुराः ।
जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः" ॥
अयशः कृष्णत्वम् -
"प्रसरन्ति कीर्त्तयस्ते तव च रिकूणामकीर्त्तयो युगपत् ।
कुवलयदलसंवलिताः प्रतिदिनमिव मालतीमालाः" ॥
पापकार्ष्ण्यम्-
"उत्खातनिर्मलमयूखकृपाणलेखाश्यामायिता तनुरभूद्धयकन्धरस्य ।
सद्यः प्रकोपकृतकेशववंशनाशसङ्कल्पसज्जनितपापमलीमसेव" ॥
क्रोधरक्तता-
"आस्थानकुट्टिमतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण ।
भौमेन मूर्च्छितरसातलकुक्षिभाजा भूमिश्चचाल चलतोदरवर्त्तनेव" ॥
अनुरागरक्तता यथा-
"गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्ध्दकुङ्कुमम्" ॥
सतो ऽपि गुणस्यानिबन्धनम्, (यथा)-
कुन्दकुड्मलानां कामिदन्तानां च रक्तत्वं, कमलमुकुलप्रभृतेश्च हरितत्वं, प्रियङ्गुषुष्पाणां च पीतत्वम् ।
कुन्दकुड्मलाद्यरक्तता-
"द्योतितान्तः सभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती" ॥
पद्ममुकुलाहरितत्वम्-
"उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मग्नां लावणसैन्धवे ऽम्भसि महीमुद्यच्छतो हेतया ।
तत्कालाकुलदेवदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः" ॥
प्रियङ्गुपुष्पापीतत्वम्-
"प्रियङ्गुश्याममम्भोधिरन्ध्रणां स्तनमण्जलम् ।
अलङ्कर्तुमिव स्वच्छाः सूते मौक्तिकसम्पदः" ॥
गुणनियमस्तु तद्यथा-सामान्योपादाने माणिक्यानां शोणता, पुष्पाणां शुक्लता, मेघानां शुक्लता, मेघानां कृष्णता च ।
तत्र प्रथमः-
"सांयात्रिकैरविरतोपहृतानि कूटैः श्यामासु तीरघनराजिषु सम्भृतानि ।
रन्तानि ते दधति कञ्चिदिहायताक्षि मेधोदरोदितदिनाधिपबिम्बशङ्काम्" ॥
पुष्पशुक्लता-
"पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततो ऽनुकुर्याद्विशदस्य तस्यास्ताभ्रौष्ठपर्यस्तरुचः स्मितस्य" ॥
मेघकार्ष्ण्यम्-
"मेघश्यामेन रोमेण पूतवेदिर्विमानराट् ।
मध्ये महेन्द्रनीलेन रत्नराशिरिवावभौ" ॥
कृष्णनीलयोः, कृष्णहरितयोः, कृष्णश्यामयोः, पीतरक्तयोः, शुक्लगौरयोरेकत्वेन निबन्धनं च कविसमयः ।
कथं कृष्णनीलयोरैक्यम्-
"नदीं तूर्णं कर्णोप्यनुसृतपुलिनां दाक्षिणात्याङ्गनाभिः समुत्तीर्णो वर्णामुभयतटचलाबद्धवानीरहारम् ।
ततः सह्यस्योच्चैः स्वसलिलनिवहो भाति नीलः स यस्याः प्रियस्यांसे पीने लुलित इव घनः केशपाशः सुकेश्याः" ॥
कृष्णहरितयोरैक्यम्-
"मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्नवम् ।
तदुभयमुदकं पुनातु वो हरिहरयोरिव सङ्गतं वपुः" ॥
कृष्णश्यामलयोरैक्यम्-
"एतत्सुन्दरि नन्दनं शशिमणिस्निग्धालवालद्रुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति ।
यत्र श्यामनिशासु मुञ्चति मिलन्मन्तः प्रदोषानिलाम् उद्दामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम्" ॥
पीतरक्तयोरैक्यम् -
"लेखया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे ।
दंष्ट्रया कनकभङ्गपिशङ्ग्या मण्डलं भुव इवादिवराहः" ॥
शुक्लगौरयोरैक्यम् -
"कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतष्ठम् ।
अवेहि मां किङ्करमष्टमूर्त्तेः कुम्भोदरं नाम निकुम्भपुत्रम्" ॥
एवं वर्णान्तरेष्वपि ।
चक्षुरादेरनेकवर्णोपवर्णनम् ।
तत्र चक्षुषः शुक्लता-
"तिष्ठन्त्या जनसङ्कुले ऽपि सुदृशा सायं गृहप्राङ्गणे तद्द्वारं मयि निःसहालसतनौ वीङ्खामृदु प्रेङ्खति ।
हीनभ्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः" ॥
श्यामता-
"अथ पथि गमयित्वा रम्यकॢत्पोपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पः ।
पुनरविशदयोध्यां मैथिलीदर्शिनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम्" ॥
कृष्णता-
"पादन्यासक्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दू-नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्" ॥
मिश्रवर्णता-
"तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्योत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम्" ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे गुणसमयस्थापना पञ्चदशो ऽध्यायः ॥
____________________________ अध्यय 16 _____________________________
कविसमयः
षोडशो ऽध्यायः 16
स्वर्ग्यपातालीयकविरहस्य (समय)स्थापना भौमवत्स्वर्ग्यो ऽपि कविसमयः, विशेषस्तु चन्द्रमसि शशहरिणयोरैक्यम् ।
यथा-
"मा भैः शशाङ्क? मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि ।
प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम्" ॥
यथा च -
"अङ्काधारोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केसरी निष्टुरक्षित्पमृगयूतो मृगाधिपः" ॥
कामकेतने मकरमत्स्ययोरैक्यं यथा-
"चापं पुष्पमयं गृहाण मकरः केतुः समुच्छ्रीयतां चेतोलक्ष्यभिदश्च पञ्च विशिखाः पाणौ पुनः सन्तु ते ।
दग्धा कापि तवाकृतेः प्रतिकृतिः कामो ऽसि किं गूहसे रुपं दर्शय नात्र शङ्करभयं सर्वे वयं वैष्णवाः" ॥
यथा च-
"मीनध्वजस्त्वमसि नो न च षुष्पधन्वा केलिप्रकाश तव मन्मथता तथापि ।
इत्थं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिरं विलापाः" ॥
यथा च -
"आपातमारुतविलोडितसिन्धुनाथो हात्कारभीतपरिवर्त्तितमत्स्यचिह्वाम् ।
उल्लङ्घ्य यादवमहोदधिभीमवेलां द्रोणाचलं पवनसूनुरिवोद्धरामि" ॥
अत्रिनेत्रसमुद्रोत्पन्नचन्द्रयोरैक्यम् -
"वन्द्या विश्वसृजो युगादिगुरवः स्वायम्भुवाः सत्प ये तत्रात्रिर्दिवि सन्दधे नयनजं ज्योतिः स चन्द्रो ऽभवत् ।
एका यस्य शिखण्डमण्डनमणिर्देवस्य शम्भोः कला शेषाभ्यो ऽमृतमाप्नुवन्ति च सदा स्वाहास्वधाजीविनः" ॥
बहुकालजन्मनो ऽपि शिवचन्द्रमसो वालत्वम् ।
"मालायमानामरसिन्धुहंसः कोटीरवल्लीकुसुमं भवस्य ।
दाक्षायणीविभ्रमदर्पणश्रि बालेन्दुखण्डं भवतः पुनीतात्" ॥
कामस्य मूर्त्तत्वं च यथा-
"अयं स भुवनत्रयप्रथितसंयमः शङ्करो बिभर्त्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः" ॥
यथा च -
"धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला मनो भेद्यं शब्दप्रभृति य इमे पञ्च विशिखाः ।
इयान् जेतुं यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामः कामान्दिशतु दयितापाङ्गवसतिः" ॥
द्वादशानामप्यादित्यानामैक्यम् -
"यस्याधो ऽधस्तथोपर्युपरि निरवधि भ्राभ्यतो विश्वमश्वैर् आवृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्नः ।
सो ऽव्यादुत्तत्पकार्त्तस्वरसरलशरस्पर्द्धिभिर्द्धामदण्डैर् उद्दण्डैः प्रापयन्वः प्रयुरतमतमः स्तोममस्तं समस्तम्" ॥
नारायणमाधवयोश्च यथा-
"येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधे ऽन्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सो ऽव्यादष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः" ॥
एवं दामोदरशेषकूर्मादेः ।
कमलासम्पदेश्च यथा-
"दोर्मन्देरितमन्दरेण जलधेरुत्थापिता या स्वयं यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तभ्भयत् ।
तां लक्ष्यीं पुरुषोत्तमः पुनरसौ लीलाञ्चितभ्रूलता-निर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम्" ॥
भौमस्वर्ग्यवत्पातालीयो ऽपि कविसमयः ।
तत्र नागसर्पयोरैक्यम् -
"हे नागराज बहुमस्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः ।
सोढाविषह्यवृषवाहनयोगलीला-पर्यङ्कबन्धनविधेस्तव को ऽतिभारः" ॥
दैत्यदानवासुराणामैक्यम्, यथा तत्र हिरण्याक्षहिरण्यकशिप्रुप्रह्लादविरोचनबलिबाणादयो दैत्याः, विप्रचित्तिशम्बरनमुचिपुलोमप्रभृतयो दानवाः, वलवृत्रविक्षुरस्तवृषपर्वादयासुराः ।
तेषामैक्यं यथा-
"जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः" ॥
यथा च -
"तं शम्बरासुरशराशनिशल्यसारं केयूररत्नकिरणारुणबाहुदण्डम् ।
पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्त्रितयं जयेत्कः" ॥
यथा च-
"अस्ति दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः ।
प्रथयन्ति बलं बाह्वो सितच्छत्रस्मिताः श्रियः" ॥
यथा च-हयग्रीवं प्रति-
"दानवाधिपतेः भूयो भुजो ऽयं किं न नीयते ।
सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु" ॥
यथा च-
"महासुरसमाजे ऽस्मिन् न चैको ऽप्यस्ति सो ऽसुरः ।
यस्य नाशनिनिष्पेषनीराजितमुरः स्थलम्" ॥
एवमन्ये ऽपि भेदाः -
"सो ऽयं कवीनां समयः काव्ये सुत्प इव स्थितः ।
स साम्प्रतमिहास्माभिर्यथाबुद्धि बिबोधितः" ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे स्वर्ग्यपातालीयकविसमयस्थापना षोडशो ऽध्यायः ॥
____________________________ अध्यय 17 _____________________________
सप्तदशो ऽध्यायः 17
देशकालविभागः तत्र देशविभागः देशं कालं च विभजमानः कविर्नार्थदर्शनदिशि दरिद्राति ।
जगज्जगदेकदेशाश्च देशः ।
"द्यावापृथिव्यात्मकमेकं जगत्" इत्येके ।
तदाहु-
"हलमगु बलस्यैको ऽनड्वान्हरस्य न लाङ्गलं क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् ।
प्रवहति कृषिर्नाद्याप्येषां द्वितीयगवं विना जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम्" ॥
"दिवस्पृथिव्यौ द्वे जगती" इत्यपरे ।
तदाहुः-
"रुणद्धि रोदसी वास्य यावत्कीर्त्तिरनश्वरी ।
तावत्किलायमध्यास्ते सुकृती वैबुधं पदम्" ॥
"स्वर्गमर्त्यपातालभेदात्त्रीणि जगन्ति" इत्येके ।
तदाहुः-
"त्वमेव देव पातालमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिरेको लोकत्रयायसे" ॥
"तान्येव भूर्भ्रुवःस्वः"इत्यन्ये ।
तदाहुः-
"नमस्त्रिभुवनाभोगभृतिखेदभरादिव ।
नागनाथाङ्गपर्यङ्कशायिने शार्ङ्गधन्वने" ॥
"महर्जनस्तपःसत्यमित्येतैः सह सत्प" इत्यपरे ।
तदाहुः-
"संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः ।
हर्षस्य सत्पभुवनप्रथितोरुकीर्त्तेः प्रासादपड्क्तिरियमुच्छिखरा विभाति" ॥
"तानि सत्पभिर्वायुस्कन्धैः सह चतुर्दश" इति केचित् ।
तदाहुः-
"निरवधि च निराश्रयं च यस्य स्थितमनुवर्त्तितकौतुकप्रपञ्चम् ।
प्रथम इह भवान्स कूर्ममूर्त्तिर्जयति चतुर्द्दशलोकवल्लिकन्दः" ॥
"तानि सत्पभिः पातालैः सहैकविंशतिः" इति केचित् ।
तदाहुः-
"हरहासहरावासहरहारनिभप्रभाः ।
कीर्त्तयस्तव लिम्पन्तु भुवनान्येकर्विंशतिम्" ॥
"सर्वमुपपन्नम्" इति यायावरीयः ।
अविशेषविवक्षा यदेकयति, विशेषविवक्षात्वनेकयति ।
तेषु भूर्लोकः पृथिवी ।
तत्र सत्प महाद्वीपाः ।
"जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलो ऽतः कुशो ऽतः ।
क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्या बाह्या संस्थितिर्मण्डलीभिः" ॥
"लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयः पयाः ।
स्वादुवारिरुदधिश्च सत्पमस्तान्परीत्य त इमे व्यवस्थिताः" ॥
"एक एवायं लावणः समुद्रः" इत्येके ।
तदाहुः-
"द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्विस्तृता स्वाङ्गखण्डैर् रेकोम्भोधिर्दिगन्तप्रविसृतसलिलः प्राज्यमेतत्सुराज्यम् ।
कस्मिन्नप्याजिकेलिव्यतिकरविजयोपार्जिते वीरवीर्ये पर्यात्पं मे न दातुं तदिदमिति धिया वेधसे यश्चुकोप" ॥
"त्रयः" इत्यन्ये ।
तदाहुः-
"आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य ।
वीर्येण संहतिभिदा विहतोन्तेन कल्पान्तकालविसृतः पवनो ऽनुचक्रे" ॥
यथा वा-
"माताङ्गानामभावे मदमलिनमुखैः प्रात्पमाशाकरीन्द्रैः जाते रन्तापहारे दिशि दिशि ततयो भान्ति चिन्तामणीनाम् ।
छिन्नेषूद्यानवापीतरुषु विरचिताः कल्पवृक्षा रिपूणां यस्योदञ्चत्त्रिवेलावलयफलभुजां मानसी सिद्धिरासीत्" ॥
"चत्वारः" इत्यपरे ।
तदाहुः-
"चतुः समुद्रवेलोर्मिरचितैकावलीलतम् ।
मेरुमप्यद्रिम्रुल्लङ्घ्य यस्य क्वापि गतं यशः" ॥
"भिन्नाभिप्रायतयया सर्वमुपपन्नम्" इति यायवरीयः ।
सत्पसम्रुद्रीवादिनस्तु शास्त्रादनपेता एव ।
तदाहुः-
"आगस्त्यचुलुकोच्छिष्टसत्पवारिधिवारिणि ।
म्रुहूर्त्तं केशवेनापि तरता पूतरायितम्" ॥
मध्येजम्बूद्वीपमाद्यो गिरीणां मेरुर्नाम्ना काञ्चनः शैलराजः ।
यो मूर्त्तानामौषधीनां निधानं यश्वावासः सर्ववृन्दारकाणाम् ॥
"तमेनमवधीकृत्य देवेनाम्बुजजन्मना ।
तिर्यगूर्ध्वमधस्ताञ्च विश्वस्य रचना कृता" ॥
स भगवान्मेरुराद्यो वर्षपर्वतः ।
तस्य चतुर्दिशमिलावृतं वर्षम् ।
तस्योत्तरेण त्रयो वर्षगिरयः, नीलः श्वेतः शृङ्गवांश्च ।
रम्यकं, हिरण्ययम्, उत्तराः कुरव इति च क्रमेण त्रीणि तेषां वर्षाणि ।
दक्षिणेनापि त्रय एव निषधो हेमकूटो हिमवांश्च ।
हरिवर्षं, किंपुरुषं, भारतमिति च त्रीणि वर्षाणि ।
तत्रेदं भारतं वर्षमस्य च नव भेदाः ।
इन्द्रद्वीपः, कसेरुमान्, ताम्रपर्णो, गभस्तिमान्, नागद्वीपः, सौम्यो, गन्धर्वों, वरुणः, कुमारीद्वीपश्चायं नवमः ।
पञ्चशतानि जलं, पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधयो दक्षिणात्समुद्रादद्रिराजं हिमवन्तं यावत्परस्परमगम्यास्ते ।
तान्येतानि यो जयति स सभ्राडित्युच्यते ।
कुमारीपुरात्प्रभृति बिन्दुसरो ऽवधि योजनानां दशशती चक्रवर्त्तिक्षेत्रम् ।
तां विजयमानश्चक्रवर्त्ती भवति ।
चक्रवर्त्तिचिह्नानि तु-
"चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा ।
प्रोक्तानि सत्प रत्नानि सर्वेषां चक्रवर्त्तिनाम्" ॥
अत्र च कुमारीद्वीपे-
"विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः ।
महेन्द्रसह्यमलयाः सत्पैते कुलपर्वताः" ॥
तत्र विन्ध्यादयः प्रतीतस्वरुपाः, मलयविशेषास्तु चत्वारः ।
तेषु प्रथमः-
"आ मूलयष्टेः फणिवेष्टितानां सच्च्न्दनानां जननन्दनानाम् ।
कक्कोलकैलामरिचैर्युतानां जातीतरुणां च स जन्मभूमिः" ॥
द्वितीयः-
"यस्योत्तमां मौक्तिककामधेनुरुपत्यकामर्चिति ताम्रपर्णी ।
रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति ॥
तत्र द्रुमा विद्रुमनामधेया वंशेषि मुक्ताफलजन्म तत्र ।
मदोत्कटैः केसरिकण्ठनादैः स्फुटन्ति तस्मिन्धनसारवृक्षाः" ॥
तृतीयः-
"विलासभूमिः सकलामराणां पदं नृणां गौर्मुनिपुङ्गवस्य ।
सदाफलैः पुष्पलताप्रवालैराश्चर्यमूलं मलयः स तत्र" ॥
चतुर्थः-
"सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीविटङ्कैः ।
द्वारार्गलाबद्धसुरेश्वराङ्का लङ्केति या रावणराजधानी ॥
प्रवर्त्तते
कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी तेभ्यश्चतुर्भ्यो ऽपि वसन्तमित्रमुदङ्मुखो दक्षिणमातरिश्वा" ॥
पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्वान्तरमार्यावर्त्तः ।
तस्मिंश्चातुर्वर्ण्यं चातुराश्रम्यं च ।
यन्मूलश्च सदाचारः ।
तत्रत्यो व्यवहारः प्रायेण कवीनाम् ।
तत्र वाराणस्याः पुरतः पूर्वदेशः ।
यत्राङ्गकलिङ्गकोसलतोस(शष) लोत्कलमगधमुद्गरविदेहनेपालपुण्ड्र प्राग्ज्योतिषतामलित्पकमलदमल्लवर्त्तकसुह्यब्रह्योत्तरप्रभृतयो जनपदाः ।
बृहद्गृहलोहितगिरिचकोरदर्दुरनेपालकामरुपादयः पर्वताः ।
शोणलौहित्यौ नदौ ।
गङ्गाकरतोयाकपिशाद्याश्च नद्यः ।
लवलीग्रन्थिपर्णकागुरुद्राक्षाकस्तूरिकादीनामुत्पादः ।
माहिष्मत्याः परतो दक्षिणापथः ।
यत्र महाराष्ट्रमाहिषकाश्मकविदर्भकुन्तलक्रथकैशिकसूर्पारककाञ्चीकेरलकावेरमुरलवानवासकसिंहलचोडदण्ड कपाण्ड्यपल्लवगाङ्गनाशिक्यकौङ्कणकोल्ल (ल) गिरिवल्लरप्रभृतयो जनपदाः ।
विन्ध्यदक्षिणपादमहेन्द्रमलयमेकलपालमञ्जरसह्यश्रीपर्वतादयः पर्वताः ।
नर्मदातापीपयोष्णीगोदावरीकावेरीभैमरथीवेणाकृष्णवेणीवञ्जुरातुङ्गभद्राताम्रपर्ण्युत्पलावतीरावणगङ्गाद्या नद्यः ।
तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता ।
देवसभायाः परतः पश्चाद्देशः ।
तत्र देबसभसुराष्ट्रदशेरकत्रवणभृगुकच्छकच्छीयानर्त्तर्बुदब्रबह्यणवाहयवनप्रभृतयो जनपदाः ।
गोवर्धनगिरिनगरदेवसभमाल्यशिखरार्बुदादयाश्च पर्वताः ।
सरस्वतीश्वभ्रवतीवार्तध्नीमहाहिडिम्बाद्या नद्यः ।
करीरपीलुगुग्गुलुखर्जूरकरभादीनामुत्पादः ।
पृथूदकात्परत उत्तरापथः ।
यत्र शककेकयवोक्काणहूणवाणायुजकाम्बोजवालीकवलवलिम्पाककुलूतकीरतङ्गणतुषारतुरुष्कबर्बरहरहूरवहूहूकसहुड हंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः ।
हिमालयकलिन्द्रेन्द्रकीलचन्द्राचलादयः पर्वताः ।
गङ्गासिन्धुसरस्वतीशतद्रुचन्द्रभागायमुनेरावतीवितस्ताविपाशाकुहूतेवि काद्या नद्यः ।
सरलदेवदारुद्राक्षाकुङ्कुमचराजिनसौवीरस्रोतोज्जनसैन्धववैदूर्यतुरङ्गाणामुत्पादः ।
तेषां मध्ये मध्यदेश इति कविव्यवहारः ।
न चायं नानुगन्ता शास्त्रार्थस्य ।
तदाहुः-
"हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाञ्च मध्यदेशः प्रकीर्त्तितः" ॥
तत्र च ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धिसिद्धमिति न निर्दिष्टम् ।
द्वीपान्तराणां ये देशाः पर्वताः सरितस्था ।
नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः ॥
"विनशनप्रयागयोर्गङ्गायमुनयोश्चान्तरमन्तरर्वेदी ।
तदपेक्षया दिशा विभजेत" इति आचार्याः ।
"तत्रापि महोदयं मूलमवधीकृत्य" इति यायावरीयः ।
"अनियतत्वाद्दिशा मनिश्चिचो दिग्विभाग" इत्येके ।
तथा हि यो वामनस्वामिनः पूर्वः स ब्रह्मशिलायाः पश्चिमः, यो गाधिपुरस्य दक्षिणः स कालप्रियस्योत्तर इति ।
"अवधिनिबन्धनमिदं रुपमितरत्त्वनियतमेव" इति यायावरीयः ।
"प्राच्यपाचीप्रतीच्युदीच्यः चतस्रो दिशः" इत्येके ।
तदाहुः-
"चतसृष्वपि दिक्षु रणे द्विषतः प्रति येन चित्रचरितेन ।
विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म" ॥
"ऐन्द्री, आग्नेयी, याम्या, नेरृती, वारुणी, वायव्या कौबेरी, ऐशानी चाष्टौद्दिशः" इत्येके ।
तदाहुः-
"एकं ज्योतिर्द्दशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भिर् भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि ।
युष्माकं तानि सत्पत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानोर् यान्ति प्राह्ने नवत्वं दश दधतु शिवं दीधितानां शतानि" ॥
"ब्राह्मी नागीया च द्वे ताभ्यां सह दशैताः" इत्यपरे ।
तदाहुः-
"दशदिक्तटपर्यन्तसीमसङ्कटभूमिके ।
विषमा स्थूललक्ष्यस्य ब्रह्याण्डग्रामके स्थितिः" ॥
सर्वमस्तु, विवक्षापरतन्त्रा हि दिशामियत्ता ।
तत्र चित्रास्वात्यन्तरे प्राची, तदनुसारेण प्रतीची, घ्रुवेणोदीची, तदनुसारेणापाची ।
अन्तरेषु विदिशः, ऊर्ध्वं ब्राह्मी, अधश्तान्नागीयेति ।
द्विविधो व्यवहारः कवीनां प्राक्सिद्धो विशिष्टस्थानावधिसाध्यश्च ।
तत्र प्राक्सिद्धे प्राची-
"द्वित्रैर्व्योन्मि पुराणमौक्तिकमणिच्छेयैः स्थितं तारकैर् ज्योत्स्नापानभरालसेन वपुषा सुत्पाश्चकोराङ्गनाः ।
यातो ऽस्ताचलचूलमुदूसमधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पात्रं ककुप्" ॥
दक्षिणा-
"दक्षिणो दक्षिणामाशां यियासुः सो ऽधिकं बभौ ।
जिहासुर्दक्षिणामशां भगवानिव भास्करः" ॥
पश्चिमा-
"पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता ।
दीर्घया प्रतिमया सरोभ्भसस्तापनीयमिव सेतुबन्धनम्" ॥
उत्तरा-
"अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः" ॥
विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ यथा-
"यादांसि हे चरत संगतगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन ।
नो चेन्निरन्तरधराधरसेतुसूतिर् आकल्पमेष न विरंस्यति वो वियोगः" ॥
दक्षिणोत्तरौ यथा-
"काञ्च्याः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः ।
कर्णान्तचक्रीकृतचारुचापो रत्या समं साधु वसत्यनङ्गः" ॥
उत्तरादावप्युत्तरदिगभिधानं, अनुत्तरादावपि उत्तरदिगभिधानम् ।
तयोः प्रथमम् -
"तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योद्याने कृतकतनयः कान्तया वर्द्धितो मे हस्तप्राप्यः स्तबकविनतो बालमन्दारवृक्षः" ॥
द्वितीयम् -
"सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी ।
पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः" ॥
एवं दिगन्तरेष्वपि ।
तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निबध्नीयात् ।
साधारणां तूभयत्र लोकप्रसिद्धितश्च ।
तदूद्वर्णनियमः ।
तत्र पौरस्त्यानां श्यामो वर्णाः, दाक्षिणात्यानां कृष्णः, पाश्चात्यानां पाण्डु, उदीच्यानां गौरः, मध्यदेश्यानां कृष्णः श्यामो गौरश्च ।
पौरस्त्यश्यामता-
"श्यामेष्वङ्गेषु गौहीनां सूत्रहारैकहारिषु ।
चक्रीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गति" ॥
दाक्षिणात्यकृष्णता-
"इदं भासां भर्त्तुद्रुतकनकगोलप्रतिकृति क्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम् ।
अथैष प्राचीनः सरति मुरलीगण्डमलिनस् तरुच्छायाचक्रैः स्तबकित इव ध्वान्तविसरः ॥
" पाश्चात्यपाण्डुता-
"शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति ।
किं चेदानीं यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीच्छदेषु ॥
" उदीच्यगौरता-
"पुष्पैः सम्प्रति कञ्चनारतरवः प्रत्यङ्गमालिङ्गिताः वा लीकीदशनव्रणारुणतरैः पत्रैरशोको ऽर्चितः ।
जातं चम्पकमप्युदीच्यललनालावण्यचौर्यक्षमं माञ्जिष्ठैर्मुकुलैश्च पाटलतरोरन्यैव काचिल्लिपिः" ॥
यथा वा-
"काश्मीरीगात्रेखासु लोलल्लावण्यवीचिषु ।
द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकम्" ॥
मध्यदेश्यकृष्णता यथा-
"युधिष्ठिरक्रोधवह्नेः कुरुवंशैकदाहिनः ।
पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव" ॥
तद्न्मध्यदेश्यश्यामता ।
न च कविमार्गे श्यामकृष्णयोः पाण्डुगौरयोर्वा महान्विशेष इति कविसमयेष्ववोचाम ।
मध्यदेश्यगौरता-
"तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्द्रपुत्र्याः ।
अवगतमलिके मृगाङ्कबिम्बं मृगमदपत्रनिभेन लाञ्छनेन" ॥
विशेषस्तु पूर्वदेशे राजपुत्र्यादीना गौरः पाण्डुर्वा वर्णः ।
एवं दक्षिणदेशे ऽपि ।
तत्र प्रथमः -
"कपोले जानक्याः करिकलभदन्तद्युतिमुषु स्मरस्मेरस्फारोड्मरपुलके वक्त्रकमलम् ।
मुहुः पश्यञ्छृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः" ॥
द्वितीयः-
"तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् ।
शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी" ॥
एवमन्यदपि यथासम्भवमभ्यूह्यम्-
निगदितनयविपरीतं देशविरुद्धं वदन्ति विद्वांसः ।
तत्परिहार्यं यत्नात्तदुदाहृतयस्तु दोषेषु ॥
इत्थं देशविभागो म्रुद्रामात्रेण सूत्रितः सुधियाम् ।
यस्तु जिगीषत्यधिकं पश्यतु मद्भुवनकोशमसौ ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे देशविभागः सप्तदशो ऽध्यायः ॥
____________________________ अध्यय 18 _____________________________
अष्टादशो ऽध्यायः 18
कालविभागः कालः काष्टादिभेदभिन्नः ।
काष्टा निमेषा दश पञ्च त्रिंशच्च काष्ठाः कथिताः कलेति ।
त्रिंशत्कलश्चैव भवेन्मुहूर्त्तस्त्रिंशता रात्र्यहनी समेते ॥
ते च चैत्रघाश्वयुजमासयोर्भवतः ।
चैत्रात्परं प्रतिमासं मौहूर्त्तिकी दिवसवृद्धिः निशाहानिश्च त्रिमास्याः, ततः परं मौहूर्त्तिकी निशावृद्धिः दिवसहानिश्च ।
आश्वयुजीत्परतः पुनरेतदेव विपरीतम् ।
राशैतो राश्यन्तरसङ्क्रमणमुष्णभासो मासः, वर्षादि दक्षिणायनं, शिशिराद्युत्तरायणं, द्वययनः संवत्सर इति सौरं मानम् ।
पञ्चदशाहोरात्रः पक्षः ।
वर्द्धमानसोमः शुक्लो, वर्ध्दमानकृष्णिमा कृष्णा इति पित्र्यं मासमानम् ।
अमुना च वेदोदितः कृत्स्नो ऽपि क्रियाकल्पः ।
पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् ।
इदमार्यावर्त्तवासिनश्च कवयश्च मानमाश्रिताः ।
एवं च द्वौ पक्षौ मासः ।
द्वौ मासावृतुः ।
षण्णामृतूनां परवर्त्तः संवत्सरः ।
स च चैत्रादिरिति दैवज्ञाः, श्रावणादिरिति लोकयात्राविदः ।
तत्र नभा नभस्यश्च वर्षाः, ईष ऊर्जश्च शरत्, सहः सहस्यश्च हेमन्तः, तपस्तस्यश्च शिशिरः, मधुर्माधवश्च वसन्तः, शुक्रः शुचिश्च ग्रीष्मः ।
तत्र "वर्षासु पूर्वो वायुः" इति कवयः ।
"पाश्चात्यः, पौरस्त्यस्तु प्रतिहन्ता" इत्याचार्याः ।
तदाहुः-
"पुरोवाता हता प्रावृट् पश्चाद्वाता हता शरत्" इति ।
तदाहुः-
"प्रावृष्यभ्भोभृताभ्भोदभरनिर्भरनिर्भरमम्बरम् ।
कादम्बकुसुमामोदा वायवो वान्ति वारुणाः" ॥
"वस्तुवृत्तरतन्त्रं, कविसमयः प्रमाणम्" इति यायावरीयः ।
तदाहुः-
"पौरस्त्यस्तोयदर्त्तोः पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः ।
सन्ध्यानृत्तोत्सवोच्छोरिव मदनरिपोनन्दिनान्दीनिनादः सोरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य" ॥
शरद्यनियतदिक्को वायुर्यथा-
"उषःसु ववुराकृष्णजहावश्यायशीकराः ।
शोफालीकलिकाकोशकषायमोदिनो ऽनिलाः" ॥
"हेमन्ते पाश्चात्यो वायुः", इति एके ।
"उदीच्य" इति अपरे ।
"उभयमपि"इति यायावरीयः ।
तयोः पाश्चात्य--
"भञ्जन्मूर्जद्रुमालीस्तुहिनगिरितटेषूद्गतास्त्वक्करालाः रंवाभ्भःस्थूलवीचीचयचकितलञ्चातकान् व्याधुनानः ।
पाश्वात्यो वाति वेगाद्द्रुततुहिनशिलाशीकरासारवर्षी मातङ्गक्षुण्णसान्द्रस्त्रुतसरलतरत्सारसारी समीरः" ॥
उदीच्यः-
"लभ्पाकीनां किरन्तश्चिकुरविरचनां रल्लकांल्लासयन्तः चुम्बन्तश्वन्द्रभागासलिलमविकलं भूर्जकाण्डैकचण्डः ।
मूल पाठ: Kāvyamīmāṃsā 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0