भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकारसूत्र · अध्याय 9

9.1

इति॥
इति श्रीपण्डितवरवामनविरचितकाव्यालङ्कारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे द्वितीयोऽध्यायः ।
समाप्तं चेदं गुणविवेचनं तृतीयमधिकरणम् ।
================================================================
अथ चतुर्थाधिकरणे प्रथमोऽध्यायः
गुणनिर्वर्त्या काव्यशोभा । तस्याश्चातिशयहेतवोऽलङ्काराः । तन्निरूपणार्थमालङ्कारिकमधिकरणमारभ्यते । तत्र शब्दालङ्काराः । तत्र शब्दालङ्कारौ द्वौ यमकानुप्रासौ क्रमेण दर्शयितुमाह ----
पदमनैकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्
पदमेनेकार्थं भिन्नार्थमेकमनेकं वा तद्वदक्षरनावृत्तं स्थाननियमे सति यमकम् । स्ववृत्त्या सजातीयेन वा कार्त्स्न्यैकदेशाभ्यामनेकपादव्याप्तिः स्थाननियम इति । यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ते तेषु श्लोकान्तरस्थसंस्थानयमकापेक्षयैव स्थाननियम इति

9.2

स्थानकथनार्थमाह ----
पादाः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि
पादः , एकस्य च पादस्यादिमध्यान्तभागाः , अनेकस्य च पादस्य त एव स्थानानि । पादयमकं यथा ----
असज्जनवचो यस्य कलिकामधुगर्हितम् ।
तस्य स्याद्विषतरोः कलिकामधुगर्हितम् ॥
एकपादस्थादिमध्यान्तयमकानि यथा ----
हन्त हन्तररातीनां धीर धीरर्चिता तव ।
कामं कामन्दकीनीतिरस्या रस्या दिवानिशम् ॥
वसुपरासु परासुमिवोज्झतीष्वविकलं विकलङ्कशशिप्रभम् ।
प्रियतमं यतमन्तुमनीश्वरं रसिकता सिकतास्विव तासु का ॥
सुदृशो रसरेचकितं चकितं भवतीक्षितमस्ति मितं स्तिमितम् ।
अपि हासलवस्तवकस्तव कस्तुलयेन्ननु कामधुरां मधुराम् ॥
पादयोरादिमध्यान्तयमकानि यथा ----
भ्रमर ! द्रुतपुष्पाणि भ्रम रत्यौ पिवन् मधु ।
का कुन्दकुसुमे प्रीतिः काकुं दत्त्वा विरौषि यत् ॥
अष्यशक्यं तया दत्तं दुःखं शक्यन्तरात्मनि ।
वाष्यो वाहीकनारीणां वेगवाही कपोलयोः ॥
सपदि कृतपदस्त्वदीक्षितेन स्मितशुचिना स्मरतत्त्वदीक्षितेन ।
भवति वत जनः सचित्तद्=अहो न खलु मृषा कुत एव चित्तदाहो ॥
एकान्तरपादान्तयमक यथा ----
उद्वेजयति भूतानि तस्य राज्ञः कुशासनम् ।
सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम् ॥
एवमेतान्तरपादादिमध्ययमकान्यूह्यानि । समस्तपादान्तयमकं यथा ----
नतोन्नतभ्रूगतिवद्धलास्यां विलोक्य तन्वीं शशिपेशलास्याम् ।
मनः किमुत्ताम्यसि चञ्चलास्यां कृती स्मराज्ञआ यदि पुष्कलास्याम् ॥
एवं समस्तपादादिमध्ययमकानि व्याख्यातव्यानि । अन्ये च सङ्करजातिभेदाः सुधियोत्प्रेक्ष्याः । अक्षरयमकं त्वेकाक्षरमनेकाक्षरं च । एकाक्षरं यथा ----
नानाकारेण कान्ताभ्रूराराधितमनोयुवा ।
विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ॥
एवं स्थानान्तरयोगेऽपि द्रष्टव्यः । सजान्तीयनैरन्तर्यादस्य प्रकर्षो भवति । स चायं हरिप्रबोधे दृश्यते । यथा ----
विविधधववना नागगर्द्धर्द्धनाना विविततगगनानाममज्जज्जनाना ।
रुरुशशललना नाववन्धुन्धुनाना मम हि हिततनानाननस्वस्वनाना ॥
अनया च वर्णयमकमालया पदयमकमाला व्याख्याता

9.3

भङ्गादुत्कर्षः
उत्कृष्टं खलु यमकं भङ्गाद्भवति

9.4

शृङ्खला परिवर्तकश्चूर्णमिति भङ्गमार्गः
एते खलु शृङ्खलादयो यमकभङ्गानां प्रकारा भवन्ति

9.5

तान् क्रमेण व्याचष्टे ----
वर्णविच्छेदचलनं शृङ्खला
वर्णानां विच्छेदो वर्णविच्छेदः । तस्य चलनं यत् सा शृङ्खला । यथा ---- कालिकामधुशब्दे कामशब्दविच्छेदे मधुशब्दविच्छेदे च तस्य चलनम् । लि-म-वर्णयोर्विच्छेदात्

9.6

सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः
अन्यवर्णसंसर्गः सङ्गः । तद्विनिवृत्तौ स्वरूपस्यान्यवर्णतिरस्कृतस्यापत्तिः प्राप्तिः परिवर्तकः । यथा ----
कलिकामधु गर्हितम् । इत्यत्रार्हितमिति पदं गकारस्य व्यञ्जनस्य सङ्गाद् गर्हितमित्यन्यस्य रूपमापन्नम् । तत्र व्यञ्जनसङ्गे विनिवृत्ते स्वरूपमापद्यते ---- अर्हितमिति । अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य ताद्रूप्यविधिरयमिति तात्पर्यार्थः । एतेनेतरावपि व्याख्यातौ

9.7

पिण्डाक्षरभेदे स्वरूपलोपश्चूर्णम्
पिण्डाक्षरस्य भेदे सति पदस्य स्वरूपलोपश्चूर्णम् । यथा ----
अखण्डवर्णविन्यासचलनं शृङ्खलामला ।
अनेन खलु भङ्गेन यमकानां विचित्रता ॥
यदन्यसङ्गमुत्सृज्य नेपथ्यमिव नर्तकः ।
शब्दस्वरूपमारोहेत् स ज्ञेयः , परिवर्तकः ॥
पिण्डाक्षरस्य भेदेन पूर्वापरपदाश्रयात् ।
वर्णयोः पदलोपो यः स भङ्गश्चूर्णसज्ञकः ॥
अप्राप्तचूर्णभङ्गानि यथास्थानस्थितान्यपि ।
अलकानीव नात्यर्थं यमकानि चकासति ॥
विभक्तिपरिणामेन यत्र भङ्गः क्वचिद्भवेत् ।
न तदिच्छन्ति यमकं यमक्कोत्कर्षकोविदाः ॥
आरूढं भूयसा यत्तु पदं यमकभूमिकाम् ।
दुप्येच्चेन्न[क्:दूप्येच्चेन्न] पुनस्तस्य युक्तानुप्रासकल्पना ॥
विभक्तीनां विभक्तत्वं संख्यायाः कारकस्य च ।
आवृत्तिः सुप्तिङन्तानां मिथश्च यमकादभुतम् ॥

9.8

शेषः सरूपोऽनुप्रासः
पदमेकार्थमनेकार्थ च स्थानानियतं तद्विधमक्षरं च शेषः । सरूपोऽन्येन प्रयुक्तेन तुल्यरूपोऽनुप्रासः । ननु शेषोऽनुप्रास इत्येतावदेव सूत्रं कस्मान्न कृतम् । आवृत्तिशेषोऽनुप्रास इत्येव हि व्याख्यास्यते । सत्यम् । सिद्ध्यत्येवावृत्तिशेषे , किन्त्वव्याप्तिप्रसङ्गः । विशेषार्थ च सरूपग्रहणम् । कार्त्स्न्येनैवावृत्तिः । कार्त्स्न्यैकदेशाभ्यां तु सारूप्यमिति

9.9

अनुल्बणो वर्णानुप्रासः श्रेयान्
वर्णानामनुप्रासः स खल्वनुल्वणो लीनः श्रेयान् । यथा ----
क्वचिन्मसृणमांसलं क्वचिदतीव तारास्पदं
प्रसन्नसुभगं मुहुः स्वरतरङ्गलीलाङ्कितम् ।
इदं हि तव वल्लकीरणितनिर्गमैर्गुम्फितं
मनो मदयतीव मे किमपि साधु संगीतकम् ॥
उल्वणस्तु न श्रेयान् । यथा ----
वल्लीबद्धोर्ध्वजूटोद्भटमटति रटत्कोटिकोदण्डदण्डः इति

9.10

पादानुप्रासः पादयमकवत्
ये पादयमकस्य भेदास्ते पादानुप्रासस्येत्यर्थः । तेषामुदाहरणानि यथा ----
कविराजमविज्ञाय कुतः काव्यक्रियादरः ।
कविराजं च विज्ञाय कुतः काव्यक्रियादरः ॥
आखण्डयन्ति मुहरामलकीफलानि ।
बालानि बालकपिलोचनपिङ्गलानि ॥
वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसङ्काश ! काशाः
काशाभा भान्ति तासां नवतुलिनगताः श्रीनदीहंस हंसाः ।
साभाम्भोदमुक्तः स्फुरदमलरुचिर्मेदिनी चन्द्रचन्द्र-
श्चन्द्राङ्कः शारदस्ते जयकृदुपगतो विद्विषां कालकालः ॥
कुवलयदलश्यामा मेघा विहाय दिवं गताः
कुवलयदलश्यामो निद्रां विमुञ्चति केशवः ।
कुवलयदलश्यामा श्यामा लताद्य विजृम्भते
कुवलयदलश्यामं चन्द्रो नभः प्रतिगाहते ॥
एवमन्येऽपि द्रष्टव्याः

मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc