काव्यालंकारसूत्र · अध्याय 10
इति श्रीपण्डितवरवामनविरचितायां काव्यालङ्कारसूत्रवृत्तावालङ्कारिके चतुर्थेऽधिकरणे प्रथमोऽध्यायः ।
इति शब्दाऽलङ्कारविचारः ।
अथ चतुर्थाधिकरणे द्वितीयोऽध्यायः
सम्प्रत्यर्थालङ्काराणां प्रस्तावः । तन्मूलं चोपमेति सैव विचार्यते ----
उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा
उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत्तदुपमानम् । यदुपमीयते न्यूनगुणं तदुपमेयम् । उपमानेनोपमेयस्य गुणलेशतः साम्यं यदसावुपमेति । ननूपमानमित्युपमेयमिति च सम्बन्धिशब्दावेतौ , तयोरेकतरोपादानेनैवान्यतरसिद्धिरिति । यथा उओअमितं व्याघ्रादिभिः सामान्याप्रयोगे इत्यत्रोपमितग्रहणमेव कृतं , नोपमानग्रहणमिति । तद्वदत्रोभयग्रहणं न कर्तव्यम् । सत्यम् । तत् कृतं लोकप्रसिद्धिपरिग्रहार्थम् । यदेवोपमेयमुपमानञ्च लोकप्रसिद्धं तदेव परिगृह्यते , नेतरत् । न हि यथा मुखं कमलमिव इति , तथा कुमुदमिव इत्यपि भवति
गुणबाहुल्यतश्च कल्पिता
गुणानां बाहुल्यं गुणबाहुल्यं , तत उपमानोपमेययोः साम्यात् कल्पितोपमा । कविभिः कल्पितत्वात् कल्पिता । पूर्वा तु लौकिकी । ननु कल्पिताया लोकप्रसिद्ध्यभावात् कथमुपमानोपमेयनियमः । गुणबाहुक्यस्योत्कर्षापजर्पकल्पनाभ्याम् । तद्यथा ----
उद्गर्भहूणतरुणीरमणोपमर्दभुग्नोन्नतिस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरविसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैरव्यबक्ति ॥
सद्यो मुण्डितमत्तहूणचिबुकप्रस्पद्धिं नारङ्गकम् ।
अभिनवकुशसूचिस्पर्धि कर्णे शिरीषम् ॥
इदानीं प्लक्षाणां जरठदलविश्लेषचतुर-
स्तिभीनामाबद्धस्फुरितशुकचञ्चूपुटनिभम् ।
ततः स्त्रीणां हन्त क्षममधरकान्तिं तुलयितुं
समन्तान्निर्याति स्फुटसुभगरागं किसलयम् ॥
तद्द्वैविध्यम्, पदवाक्यार्थवृत्तिभेदात् *
तस्या उपमाया द्वैविध्यम् । पदवाक्यार्थवृत्तिभेदात् । एका पदार्थवृत्तिः , अन्या वाक्यार्थवृत्तिरिति । पदार्थवृत्तिर्यथा ----
हरिततनुषु बभ्रुत्वग्विमुक्तासु यासां
कनककणसधर्मा मान्मथो रोमभेदः ।
वाक्यार्थवृत्तिर्यथा ----
पाण्ड्योऽयमंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥
सा पूणा लुप्ता च
सा उपमा पूर्णा लुप्ता च भवति
गुणद्योतकोपमानोपमेयशब्दानां सामग्र्ये पूर्णा
गुणादिशब्दानां सामग्र्ये साकल्ये पूर्णा । यथा ----
कमलमिव मुखं मनोज्ञमेतत् इति
लोपे लुप्ता
गुणादिशब्दानां वैकल्ये लोपे लुप्ता । गुणशब्दलोपे यथा शशीव राजा इति । द्योतकशब्दलोपे यथा दूर्वाश्यामेयम् । उभयलोपे यथा शशीमुखी इति । उपमानोपमेयलोपस्तूपमाप्रपञ्चे द्रष्टव्यः
स्तुतिनिन्दातत्त्वाख्यानेषु
स्तुतौ निन्दायां तत्त्वाख्याने चास्याः प्रयोगः । स्तुतिनिन्दयोर्यथा
स्निग्धं बह्वत्यमृतकल्पमहो कलत्रं
हालाहलं विषमिवापगुणं तदेव ।
तत्त्वाख्याने यथा ----
तां रोहिणीं विजानीहि ज्योतिपामत्र मण्डले ।
यस्तन्वि ! तारकान्यासः शकटाकारमाश्रितः ॥
हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यासंभवास्तद्दोषाः
तस्या उपमाया दोषा भवन्ति । हीनत्वमधिकत्वं लिङ्गभेदो वचनभेदोऽसादृश्यमसम्भव इति
तान् क्रमेण व्याख्यातुमाह ----
जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम्
जात्या प्रमाणेन धर्मेण चोपमानस्य न्यूनता या तद्धीनत्वमिति । जातिन्यूनत्वरूपं हीनत्वं यथा ----
चाण्डालैरिव युष्माभिः साहसं परमं कृतं ।
प्रमाणन्यूनत्वरूपं हीनत्वं यथा ----
वह्निस्फुलिङ्ग इव भानुरयं चकास्ति ।
उपमेयादुपमानस्य न्यूनत्वं यत् तद्धर्मन्यूनत्वम् । तद्रूपं हीनत्वं यथा ----
स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन् ।
व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥
अत्र मौञ्जीप्रतिवस्तु तडिन्नास्त्युपमान इति हीनत्वम् । न च कृष्णाजिनपटमात्रस्योपमेयत्वं युक्तम् । मौञ्ज्या व्यर्थत्वप्रसङ्गात् । ननु नीलजीमूतग्रहणेनैव तडित्प्रतिपाद्यते । तन्न । व्यभिचारात्
अव्यभिचारे तु भवन्ती प्रतिपत्तिः केन वार्यते तदाह ----
धर्मयोरेकनिर्देशेऽन्यस्य संवित्, साहचर्यात्
धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यस्य संवित् प्रतिपत्तिर्भवति । कुतः । साहचर्यात् । सहचरितत्वेन प्रसिद्धयोरवश्यमेकस्य निर्देशेऽन्यस्य प्रतिपत्तिर्भवति । तद्यथा ----
निर्वृष्टेऽपि बहिर्धने न विरमन्त्यन्तर्जरद्चेश्मनो
लूतातन्तुततिच्छिदो मधुपृषत्पिङ्गाः पयोविन्दवः ।
चूडाबर्बरके निपत्य कणिकाभावेन जाताः शिशो-
रङ्गास्फालनभग्ननिद्रगृहिणीचित्तव्यथादायिनः ॥
अत्र मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते । तत्र पिङ्गशब्देन पिङ्गत्वे प्रतिपन्ने वृत्तत्वप्रतीतिर्भवति । एतेन कनकफलकचतुरस्रं श्रेणिविम्बम् इति व्याख्यातम् । कनकफलकस्य गौरत्वचतुरस्रत्वयोः साहचर्याच्चतुरस्रत्वश्रुत्यैच गौरत्वप्रतिपत्तिरिति । ननु च यदि धर्मन्यूनत्वमुपमानस्य दोषः , कथमयं प्रयोगः ----
सूर्याशुसम्भीलितलोचनेषु दीनेषु पद्मानिलनिसदेषु ।
साध्व्यः स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ॥
अत्र बहुत्वमुपमेयधर्माणामुपमानात् । न , विशिष्टानामेव मुखानामुपमेयत्वात् । तादृशेष्वेव केकाविनाशस्य सम्भवात्
तेनाधिकर्वं व्याख्यातम्
तेन हीनत्वेनाधिकत्वं व्याख्यातम् । जातिप्रमाणधर्माधिक्यमधिकत्वमिति । जात्याधिक्यरूपमधिकत्वं यथा ----
विशन्तु विष्टयः शीघ्रं रुद्रा इव महौजसः ।
प्रमाणाधिक्यरूपं यथा ----
पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ ।
वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥
धर्माधिक्यरूपं यथा ----
सरश्मि चञ्चलं चक्रं दधद्देवो व्यराजत ।
सवाडवाग्निः सावर्तः स्रोतसामिव नायकः ॥
सवाडवाग्निरित्यस्य [क्:प्रतिवस्तुनः] उपमेयेऽभावाद् धर्माधिक्यमिति । अनयोर्दोषयोर्विपर्ययाख्यस्य दोषस्यान्तर्भावान्न पृथगुपादानम् । अत एवास्माकं मते षड् दोषा इति
उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः
उपमानस्योपमेयस्य च लिङ्गयोर्व्यत्यासो विपर्ययो लिङ्गभेदः । यथा ----
सैन्यानि नद्य इव जग्मुरनर्गलानि ।
इष्टः पुंपुंसकयोः प्रायेण
पुन्नपुंसकयोरुपमानोपमेययोर्लिङ्गभेदः प्रायेण बाहुल्येनेष्टः । यथा ---- चन्द्रमिव मुखं पश्यति इति , इन्दुरिव मुखं भाति एवम्प्रायं तु नेच्छन्ति
लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे च
लौकिक्यामुपमायां समासाभिहितायामुपमायामुपमाप्रपञ्चे चेष्टो लिङ्गभेदः प्रायेणेति । लौकिक्यां यथा ----
छायेव स तस्याः , पुरुष इव स्त्री इति ।
समासाभिहितायां यथा ----
भुजलता नीलोत्पलसदृशी इति ।
उपमाप्रपञ्चे यथा ----
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥
एवमन्यदपि प्रयोगजातं द्रष्टव्यम्
तेन वचनभेदो व्याख्यातः
तेन लिङ्गभेदेन वचनभेदो व्याख्यातः । यथा ----
पास्याभिलोचनं तस्याः पुष्पं मधुलिहो यथा ।
अप्रतीतगुणसादृश्यमसादृश्यम्
अप्रतीतैरेव गुणैर्यत् सादृश्यं तदप्रतीतगुणासादृश्यमसादृश्यम् । यथा ----
ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ।
काव्यस्य शशिना सह यत् सादृश्यं तदप्रतीतैरेव गुणैरिति । ननु च अर्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भविष्यति । नैवम् । काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिद्ध्यति । न ह्यर्थानां च कश्चित् सादृश्यहेतुः प्रतीतो गुणोऽस्ति । तदेवमितरेतराश्रयदोषो दुरुत्तर इति
असादृश्यहता ह्युपमा, तन्निष्ठाश्च कवयः
असादृश्येन हता असादृश्यहता उपमा । तन्निष्ठा उपमाननिष्ठाश्च कवय इति
उपमानाधिक्यात्तदपोह इत्येके
उपमानाधिक्यात् तस्यासादृश्यस्यापोह इत्येके मन्यन्ते । यथा ----
कर्पूरहारहरहाससितं यशस्ते ।
कर्पूरादिभिरुपमानैर्वहुभिः सादृश्यं सुस्थापितं बह्वति । तेषां शुक्गुणातिरेकात्
न, अपुष्टार्थत्वात्
उपमानाधिक्यात् तदपोह इति युक्तं , तन्न । अपुष्टार्थत्वात् । एकस्मिन्नुपमाने प्रयुक्ते उपमानान्तरप्रयोगो न कञ्चिदर्थविशेषं पुष्णाति । तेन बलसिन्धुः सिन्धुरिव क्षुभितः इति प्रयुक्तम् । ननु सिन्धुशब्दस्य द्विःप्रयोगात्पौनरुक्त्यम् । न । अर्थविशेषात् बलं सिन्धुरिव वैपुल्याद् बलसिन्धुः सिन्धुरिव क्षुभित इति क्षोभसारूप्यात् । तस्मादर्थभेदान्न पौनरुक्त्यम् । अर्थपुष्टिस्तु नास्ति । सिन्धुरिव क्षुभित इत्यनेनैव वैपुल्यं प्रतिपत्स्यते । उक्तं हि (4-2-10) ---- धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्यात्
अनुपपत्तिरसंभवः
अनुपपत्तिरनुपपन्नत्वमुपमानस्यासम्भवः । यथा ----
चकास्ति वदनस्यान्तः स्मितच्छायाविकासिनः ।
उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिका ॥
चन्द्रिकायामुन्निद्रत्वमरविन्दस्येत्यनुपपत्तिः । नन्वर्थविरोधोऽयमस्तु । किमुपमादोषकल्पनया । न । उपमायाम् अतिशयस्येष्टत्वात्
कथं तर्हि दोष इत्यत आह ----
न विरुद्धोऽतिशयः
विरुद्धस्यातिशयस्य संग्रहो न कर्तव्य इति अस्य सूत्रस्य तात्पर्यार्थः । तानेतान् षडुपमादोषान् ज्ञात्वा कविः परित्यजेत्
मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0