काव्यालंकारसूत्र · अध्याय 8
इति वामनविरचितकाव्यालण्कारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे प्रथमोऽध्यायः ॥3-1॥
[इति श्रीकाव्यालङ्कारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे प्रथमोऽध्यायः गुणालङ्कारविवेकः , शब्दगुणविवेकश्च ॥3-1॥]
अथ तृतीयाधिकरणे द्वितीयोऽध्यायः
सम्प्रत्यर्थगुणविवेचनार्थमाह ----
त एवार्थगुणाः
त एवौजःप्रभृतयोऽर्थगुणाः
अर्थस्य प्रौढिरोजः
अर्थस्याभिधेयस्य प्रौढिः प्रौढत्वमोजः ।
पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा ।
प्रौढित्व्याससमासौ च साभिप्रायत्वमेव च ॥
पदार्थे वाक्यवचनं यथा (रघुवंश 2.75) ----
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः ।
अत्र चन्द्रपदवाच्येऽर्थे नयनसमुत्थं ज्योतिरत्रेः इति वाक्यं प्रयुक्तम् । पदसमूहश्च वाक्यमभिप्रेतम् । अनया दिशान्यदपि द्रष्टव्यम् । तद्यथा ----
पुरः पाण्डुच्छायं तदनु कपिलिम्ना कृतपदं
ततः पाकोत्सेकादरुणगुणसंसर्गितवपुः ।
शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं
वने वीतामो बदरमरसत्वं कलयति ॥
नचैवमतिप्रसङ्गः । काव्यशोभाकरत्वस्य । गुणसामान्यलक्षणस्यावस्थितत्वात् । वाक्यार्थे पदाभिधानन्ं यथा ----
दिव्येयं न भवति किं तु मानुषी
इति वक्तव्ये निमिषति इत्याहेति । अस्य वाक्यार्थस्य व्याससमासौ । व्यासो यथा ----
अयं नानाकारो भवति सुखदुःखव्यतिकरः
सुखं वा दुःखं वा न भवति भवत्येव च ततः ।
पुनस्तस्मादूर्ध्वं भवति सुखदुःखं किमपि तत्
पुनस्तस्मादूर्ध्वं भवति न च दुःखं , न च सुखम् ॥
समासो यथा (कुमारसंभव_6.94)----
सोऽयं सम्प्रति चन्द्रगुप्तनयश्चन्द्रप्रकाशो युवा ।
जातो भूपतिराश्रयः कृतधियां दिष्ट्या कृतार्थश्रमः ॥
आश्रयः कृतधियाम् इत्यस्य च सुबन्धुं साचिव्योपक्षेपपरत्वात् साभिप्रायत्वम् । एतेन
रतिविगलितबन्धे केशपाशे सुकेश्या
इत्यत्र सुकेश्याः इत्यस्य च साभिप्रायत्वं व्याख्यातम्
अर्थवैमल्यं प्रसादः
अर्थस्य वैमल्यं प्रयौजकमात्रपरिग्रहः प्रसादः । यथा ----
सर्वणा कन्यका रूपयौवनारम्भशालिनी
विअप्र्ययस्तु ----
उपास्तां हस्तो मे विमलमणिकाञ्चीपदमिदम्
काञ्चीपदम् इत्यनैव नितम्बस्य लक्षितत्वाद् विशेषणस्याप्रयोजकत्वमिति
घटना श्लेषः
क्रमकौटिक्यानुल्वणत्वोपपत्तियोगो घटणा । स श्लेषः । यथा (अमरुशतक_16) ----
दृष्ट्वैकासनसङ्गते प्रियतमे पश्चादुपेत्यादरा-
देकस्या नयने निमील्य विहितक्रीडासुबन्धच्छलः ।
ईपद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा-
मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥
शूद्रकादिरचितेषु प्रबन्धेष्वस्य भूयान् प्रपञ्चो दृश्यते
अवैषम्यं समता
अवैपम्यं प्रक्रमाभेदः समता । क्वचित् क्रमोऽपि भिद्यते । यथा ----
च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा
मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः ।
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो
न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥
ऋतुसन्धिप्रतिपादनपरेऽत्र द्वितीये पादे क्रमभेदो , मलयमरुतामसाधारणत्वात् । एवं द्वितीयः पादः पठितव्यः ----
मनसि च गिरं वध्वन्तीमे किरन्ति न कोकिलाः ।
इति
सुगमत्वं वाऽवैषम्यमिति ॥ व्कल्_3,2.6 [क्: नोत् इन् सुत्र] ॥
सुखेन गम्यते ज्ञायत इत्यर्थः । यथा (कुमारसंभव_1.1) ----
अस्त्युत्तरस्यां दिशि देवतात्मा ................ इत्यादि ।
यथा वा ----
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥
प्रत्युदाहरणं सुलभम्
अर्थदृष्टिः समाधिः ॥ व्कल्_3,2.7 [*व्कल्_3,2.6] ॥
अर्थस्य दर्शनं दृष्टिः । समाधिकारणत्वात् समाधिः । अवहितं हि चित्तमर्थान् पश्यति (1-3-17व्) इत्युक्तं पुरस्तात्
अर्थो द्विविधः, अयोनिरन्यच्छायायोनिर्वा ॥ व्कल्_3,2.8 [*व्कल्_3,2.7] ॥
यस्यार्थस्य दर्शनं समाधिः सोऽर्थो द्विविधः ---- अयोनिरन्यच्छायायोनिर्वेति । अयोनिरकारणः । अवधानमात्रकारण इत्यर्थः । अन्यस्य काव्यस्य छायान्यच्छाया तद्योनिर्वा । तद्यथा ----
मा भैः शशाङ्क मम शीधुनि नास्ति राहुः
खे रोहिणी वसति कातर किं विमेषि ।
प्रायो विदग्धवनितानवसङ्गमेषु
पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥
पूर्वस्य श्लोकस्यार्थोऽयोनिः । द्वितीयस्य च छायायोनिरिति
अर्थो व्यक्तः सूक्ष्मश्च ॥ व्कल्_3,2.9 [*व्कल्_3,2.8] ॥
यस्यार्थस्य दर्शनं समाधिरिति , स द्वेधा व्यक्तः सूक्ष्मश्च । व्यक्तः स्फुट उदाहृत एव
सूक्ष्मं व्याख्यातुमाह ----
सूक्ष्मो भाव्यो वासनीयश्च ॥ व्कल्_3,2.10 [*व्कल्_3,2.9] ॥
सूक्ष्मो द्वेधा भवतो ---- भाव्यो, वासनीयश्च । शीघ्रनिरूपणागम्यो भाव्यः । एकाग्रताप्रकर्षगम्यो वासनीय इति । भाव्यो यथा ----
अन्योन्यसंवलितमांसलदन्तकान्ति
सोल्लासमाविरलसंवलितार्धतारम् ।
लीलागृहे प्रतिकलं किलिकिञ्चितेषु
व्यावर्तमाननयनं मिथुनं चक्रास्ति ॥
वासनीयो यथा ----
अविहित्थवलितजधनं विवर्तिताभिमुखकुचतटं स्थित्वा ।
अवलोकितोऽहमनया दक्षिणकरकलितहारलतम् ॥
उक्तिवैचित्र्यं माधुर्यम् ॥ व्कल्_3,2.11 [*व्कल्_3,2.10] ॥
उक्तेर्वैचित्र्यं यत्तन्माधुर्यमिति । यथा ----
रसवदमृतं , कः सन्देहो मधून्यपि नान्यथा
मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो
वदतु यदिहान्यत् स्वादु स्यात् प्रियादशनच्छदात् ॥
अपारुष्यं सौकुमार्यम् ॥ व्कल्_3,2.12 [*व्कल्_3,2.11] ॥
पुरुषेऽर्थे अपारुष्यं सौकुमार्यमिति । यथा मृतं , यशःशेषमित्याहुः । एकाकिनं देवताद्वितीयमिति । गच्छति साधयेति च
अग्राम्यत्वमुदारता ॥ व्कल्_3,2.13 [*व्कल्_3,2.12] ॥
ग्राम्यत्वप्रसङ्गे अग्ताम्यत्वमुदारता । यथा ----
त्वमेवं सौन्दर्या स च रुचिरतायां परिचितः
कलानां सीमानं परिमिह युवामेव भजथः ।
अयि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वा-
मतः शेषं चेत् स्याज्जित्तमिह तदानीं गुणितया ॥
विपर्ययस्तु ----
स्वपिति यावदयं निकटे जनः स्वपिमि तावदहं किमपैति ते ।
इति निगद्य शनैरनुमेखलं मम करं स्वकरेण रुरोध सा ॥
वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः ॥ व्कल्_3,2.14 [*व्कल्_3,2.13] ॥
वस्तूनां भावानां स्वभावस्य स्फुटत्वं यदसावर्थव्यक्तिः । यथा ----
पृष्टेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलक्तकलोहिनीभिः ।
गोरोचनाहरितबभ्रुवहिःपलाशमामोदते कुमुदमम्भसि पल्वलस्य ॥
यथा वा ----
प्रथममलसैः पर्यस्ताग्रं स्थितं पृथुकेसरै-
र्विरलविरलैरन्तःपत्रैर्मनाङ्मिलितं ततः ।
तदनु वलनामात्रं किञ्चिद् व्यधायि वहिर्दलै-
र्मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना ॥
दीप्तरसत्वं कान्तिः ॥ व्कल्_3,2.15 [*व्कल्_3,2.14] ॥
दीप्ता रसाः शृङ्गारादयो यस्य स दीप्तरसः । तस्य भावो दीप्त रसत्वं कान्तिः । यथा ----
प्रेयान् सायमपाकृतः सशपथं पादानतः कान्तया
द्वित्राण्येव पदानि वासभवनात् यावन्न यात्यून्मनाः ।
तावत् प्रत्युत पाणिसम्पुटलसग्नीवीनितम्बं धृतो
धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥
एवं रसान्तरेष्वप्युदाहार्यम् । अत्र श्लोकाः ----
गुणस्फुटत्वसाकल्य काव्यपाकं प्रचक्षते ।
चूतस्य परिणामेन स चायमुपमीयते ॥
सुप्तिङ्संस्कारसारं यत् क्लिष्टवस्तुगुणं भवेत् ।
काव्यं वृन्ताकपाकं स्याज्जुप्सन्ते जनास्ततः ॥
गुणानां दशतामुक्तो यस्यार्थस्तदपार्थकम् ।
दाडिमानि दशेत्यादि न विचारक्षमं वचः ॥
मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0