काव्यालंकारसूत्र · अध्याय 7
================================================================
तृतीयाधिकरणे प्रथमोऽध्यायः ।
यद्विपर्ययात्मानो दोषास्तान् गुणान् विचारयितुं गुणविवेचनमधिकरणमारभ्यते । तत्रौजःप्रसादादयो गुणा यमकोपमादयस्त्वलङ्कारा इति स्थितिः काव्यविदाम् । तेषां किं भेदनिबन्धनमित्याह ----
काव्यशोभायाः कर्तारो धर्मा गुणाः
ये खलु शब्दार्थयोर्धर्माः काव्यशोभां कुर्वन्ति ते गुणाः । ते चौजःप्रसादयः । न यमकोपमादयः । कौवल्येन तेषामकाव्यशोभाकरत्वात् । ओजःप्रसादादीनां तु केवलानामस्ति काव्यशोभाकरत्वमिति
तदतिशयहेतवस्त्वलङ्काराः
तस्याः काव्यशोभाया अतिशयस्तदतिशयस्तस्य हेतवः । {तु}शब्दो व्यतिरेके । अलङ्काराश्च यमकोपमादयः । अत्र श्लोकौ ----
युवतेरिव रूपमङ्गकाव्यं स्वदते शुद्धगुणं तदप्यतीव ।
विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ॥
यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः ।
अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥
पूर्वे नित्याः
पूर्वे गुणा नित्याः । तैर्विना काव्यशोभानुपपत्तेः
एवं गुणालङ्काराणां भेदं दर्शयित्वा शब्दगुणनिरूपणार्थमाह ----
ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणाः
बन्धः पदरचना , तस्य गुणः बन्धगुणाः ओजःप्रभृतयः
तान् क्रमेण दर्शयितुमाह ----
गाढबन्धत्वमोजः
यथा ----
विलुलितमकरन्दा मञ्जरीर्नर्तयन्ति ।
न पुनः ----
विलुलितमधुधारा मञ्जरीर्लोलयन्ति ।
शैथिल्यं प्रसादः
बन्धस्य शैथिल्यं शिथिकत्वं प्रसादः
नन्वयमोजोविपर्ययात्मा दोष , तत् कथं गुण इत्याह ----
गुणः संप्लवात्
गुणः प्रसादः । ओजसा सह संप्लवाद्
न शुद्धः ॥ व्कल्_3,1.8 [क्: नोत् इन् सुत्र] ॥
शुद्धस्तु दोष एवेति
ननु विरुद्धयोरोजःप्रसादयोः कथं संप्लव इत्यत आह ----
स त्वनुभवसिद्धः ॥ व्कल्_3,1.9 [*व्कल्_3,1.8] ॥
स तु संप्लवस्त्वनुभवसिद्धः । तद्विदां रत्नादिविशेषवत् । अत्र श्लोकः ----
करुणप्रेक्षणीयेषु संप्लवः सुखदुःखयोः ।
यथानुभवतः सिद्धस्तथैवौजःप्रसादयोः ॥
साम्योत्कर्षौ च ॥ व्कल्_3,1.10 [*व्कल्_3,1.9] ॥
साम्यमुत्कर्षश्चौजःप्रसादयोरेव । साम्यं यथा ----
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्वा यूने सितातपवारणम् ॥ (रघुवंश 3.70)
क्वचिदोजः प्रसादादुत्कृष्टम् । यथा ----
व्रजति गगनं भल्लातक्याः फलेन सहोपमाम् ।
क्वचिदोजसः प्रसादस्योत्कर्षः । यथा ----
कुसुमशयनं न प्रत्ययं न चन्द्रमरीचयो
न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः ॥
मसृणत्वं श्लेषः ॥ व्कल्_3,1.11 [*व्कल्_3,1.10] ॥
मसृणत्वं नाम यस्मिन् सन्ति बहून्यपि पदान्येकवद्भासन्ते । यथा ----
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
(कुमारसंभव_1.1)
न पुनः ----
सूत्रं ब्राह्ममुरःस्थले ---- ,
भ्रमरीवल्गुगीतयः
तडित्कलिलमाकाशम् इति
एवं तु श्लेषो भवति ----
ब्राह्मं सूत्रमुरःस्थले
भ्रमरीमुञ्जुगीतयः
तडिज्जटिलमाकाशम् इति
मार्गाव्हेदः समता ॥ व्कल्_3,1.12 [*व्कल्_3,1.11] ॥
मार्गस्याभेदो मार्गाभेदः समता । येन मार्गेणोपक्रमस्तस्यात्याग इत्यर्थः । श्लोके प्रबन्धे चेति पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा ----
प्रसीद चण्डि ! त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः ।
किमर्थमुत्कम्पितपीवरस्तनद्वयं त्वया लुप्तविलासमास्यते ॥
आरोहावरोहक्रमः समाधिः ॥ व्कल्_3,1.13 [*व्कल्_3,1.12] ॥
आरोहावरोहयोः क्रम आरोहावरोहक्रमः समाधिः परिहारः । आरोहस्यावरोहे सति परिहारः , अवरोहस्य वारोहे सतीति । तत्रार्फपूर्वकोऽवरोहो यथा ----
नराः शीलभ्रष्टा व्यसन इव मज्जन्ति तरवः ।
आरोहस्य क्रमोऽवरोहस्य च क्रम आरोहावरोहक्रमः । क्रमेणारोहणमवरोहणं चेति केचित् । यथा ----
निवेशः स्वःसिन्धोस्तुहिनगिरिवीथीषु जयति ।
न पृथक्, आरोहावरोहयोरोजःप्रसादरूपत्वात् ॥ व्कल्_3,1.14 [*व्कल्_3,1.13] ॥
न पृथक्समाधिर्गुणः आरोहावरोहयोरोजःप्रसादरूपत्वात् । प्जोरूपश्चारोहः प्रसादरूपश्चावरोह इति
न, असंपृक्तत्वात् ॥ व्कल्_3,1.15 [*व्कल्_3,1.14] ॥
यदुक्तम् ओजःप्रसादरूपत्वमारोहावरोहयोः [क्: इति] तन्न । सम्पृक्तत्वात्[क्: असम्पृक्तत्वात्] । सम्पृक्तौ खल्वोजःप्रसादौ नदीवेणिकावद् वहतः
अनैकान्त्याच्च ॥ व्कल्_3,1.16 [*व्कल्_3,1.15] ॥
न चायमेकान्तः । [क्:नियमः] यदोजस्यारोहः प्रसादे चावरोहः
ओजःप्रसादयोः तीव्रावस्था, ताविति चेदभ्युपगमः ॥ व्कल्_3,1.17 [*व्कल्_3,1.16] ॥
ओजःप्रसादयोः क्वचिद्भागे तीव्रावस्थायामारोहोऽवरोहश्चेत्येवं[क्: तीव्रावस्था । सा चारोहोऽवरोहाख्येत्येवं] चेन्मन्यसे , अभ्युपगमः ---- न विप्रतिपत्तिः
विशेषापेक्षित्वात्तयोः ॥ व्कल्_3,1.18 [*व्कल्_3,1.17] ॥
स विशेषो गुणान्तरात्मा
आरोहावरोहनिमित्तं समाधिराख्यायते ॥ व्कल्_3,1.19 [*व्कल्_3,1.18] ॥
आरोहावरोहग्रमः समाधिरिति गौण्या वृत्त्या व्याख्येयम्
क्रमविधानार्थं वा ॥ व्कल्_3,1.20 [*व्कल्_3,1.19] ॥
पृथक्करणमिति । पाठधर्मत्वं च न सम्भवतीति न पाठधर्माः सर्वत्रादृष्टेः (3-1-28) इत्यत्र[क्:इत्येवं] वक्ष्यामः
पृथक्पदत्वं माधुर्यम् ॥ व्कल्_3,1.21 [*व्कल्_3,1.20] ॥
बन्धस्य पृथक्पदत्वं यत् तन्माधुर्यम् पृथक्पदानि यस्य स पृथक्पदः । तस्य भावः पृथक्पदत्वम् । समासदैर्ध्यनिवृत्तिपरं चैतत् ।
अजरठत्वं सौकुमार्यम् ॥ व्कल्_3,1.22 [*व्कल्_3,1.21] ॥
बन्धस्याजरठत्वमपारुष्यं यत् यत् सौकुमार्यम् । पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा ----
निदानं निर्द्वैतं प्रियजनसदृक्त्वव्यवसितिः
सुधासेकप्लोषौ फलमपि विरुद्धं मम हृदि ।
विकटत्वमुदारता ॥ व्कल्_3,1.23 [*व्कल्_3,1.22] ॥
बन्धस्य विकटत्वं यदसावुदारता । यस्मिन् सति नृत्यन्तीव पदानीति जनस्य वर्णभावना भवति तद्विकटत्वम् । लीलायमानत्वमित्यर्थः । यथा ----
स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झणिति रणितमासीत् तत्र चित्रं कलं च ।
न पुनः ----
चरणकमललग्नैर्नूपुरैर्नर्तकीनां रणितमासीन्मञ्जु चित्रं च तत्र ।
अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः ॥ व्कल्_3,1.24 [*व्कल्_3,1.23] ॥
यत्र झटित्यर्थप्रतिपत्तिहेतुत्वं स गुणोऽर्हव्यक्तिरिति पूर्वोक्तमुदाहरणम् । प्रत्युदाहरणं तु भूयः सुलभं च
औज्ज्वल्यं कान्तिः ॥ व्कल्_3,1.25 [*व्कल्_3,1.24] ॥
बन्धस्योज्ज्वलत्वं नाम यदसौ कान्तिरिति । यदभावे पुराणच्छायेत्युच्यते । यथा ----
कुरङ्गीनेत्रालीस्तवकितवनालीपरिसरः
विपर्ययस्तु भूयान्सुकभश्च ।
श्लोकाश्चात्र भवन्ति ----
पदन्यासस्य गाढत्वं वदन्त्योजः कवीश्वराः ।
अनेनाधिष्ठिताः प्रायः शाब्दाः श्रोत्ररसायनम् ॥
श्लथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते ।
अनेन न विना सत्यं स्वदते काव्यपद्धतिः ॥
यत्रैकपदवद्भावं पदानां भूयसामपि ।
अनालक्षितसन्धीनां स श्लेषः परमो गुणः ॥
प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः ।
दुर्बन्धो दुर्विभावश्च समतेति मतो गुणाः ॥
आरोहन्त्यवरोहन्ति क्रमेण यतयो हि यत् ।
समाधिर्नाम स गुणस्तेन पूता सरस्वती ॥
बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः ।
अनेन हि पदन्त्यासाः कामं धारामधुच्युताः ।
तथैव वागपि प्राज्ञैः समस्तगुणगुम्फिता ॥
बन्धस्य्=अजरठत्वं च सौकुमार्यमुदाहृतम् ।
एतेन वर्जिना वाचो रूक्षत्वान्न श्रुतिक्षमाः ॥
विकटत्वं च बन्धस्य कथयन्ति ह्युदारताम् ।
वैचित्र्यं न प्रपद्यन्ते यया शून्याः पदक्रमाः ॥
पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः ।
यत्रार्थव्यक्तिहेतुत्वात् साऽर्थव्यक्तिः स्मृतो गुणः ॥
औज्ज्वल्यं कान्तिरित्याहुर्गुणं गुणविशारदाः ।
पुराणव्चित्रस्थानीयं तेन बन्ध्यं कवेर्वचः ॥
नासन्तः, सद्वेद्यत्वात् ॥ व्कल्_3,1.26 [*व्कल्_3,1.25] ॥
न खल्वेते गुणा असन्तः संवेद्यत्वात्
तद्विदां संवेद्यत्वेऽपि भ्रान्ताः स्युरित्याह ----
न भ्रान्ताः, निष्कम्पत्वात् ॥ व्कल्_3,1.27 [*व्कल्_3,1.26] ॥
न गुणा भ्रान्ताः । एतद्विषयायाः प्रवृत्तेर्निष्कम्पत्वात्
न पाठधर्माः, सर्वत्रादृष्टेः ॥ व्कल्_3,1.28 [*व्कल्_3,1.27] ॥
नैते गुणाः पाठधर्माः । सर्वत्रादृष्टेः । यदि पाठधर्माः स्युस्तर्हि विशेषानपेक्षाः सन्तः सर्वत्र दृश्येरन् । न च सर्वत्र दृश्यन्ते । विशेषापेक्षया विशेषाणां गुणत्वाद् गुणाभ्युपगम एवेति
मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0