भाषा

ENहिગુ
ग्रंथ पाठ

काव्यालंकारसूत्र · अध्याय 4

4.1

इति श्रीकाव्यालङ्कारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे तृतीयोऽध्यायः ॥1-3॥
समाप्तं चेदं शारीरं प्रथममधिकरणम् ।
=======================================================
द्वितीयाधिकरणे प्रथमोऽध्यायः ।
काव्यशरीरे स्थापिते काव्यसौन्दर्याक्षेपहेतवस्त्यागाय दोषा विज्ञातव्या इति दोषदर्शनं नामाधिकरणमारभ्यते । दोषस्वरूपकथार्थमाह ----
गुणविपर्ययात्मानो दोषाः
गुणानां वक्ष्यमाणानां ये विपर्ययास्तदात्मानो दोषाः

4.2

अर्थतस्तदवगमः
गुणस्वरूपनिरूपणात्तेषां दोषाणामर्थादवगमोऽर्थात्सिद्धिः

4.3

किमर्थं ते पृथक्प्रपञ्च्यन्त इत्यत्राह ----
सौकर्याय प्रपञ्चः
सौकर्यार्थः प्रपञ्चो विस्तरो दोषानाम् । उद्दिष्टा लक्षणलक्षिता हि दोषाः सुज्ञाना भवन्ति

4.5

पददोषान्दर्शयितुमाह ----
दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकं च
क्रमेण व्याख्यातुमाह ----
शब्दस्मृतिविरुद्धमसाधु
शब्दस्मृत्या व्याकरणेन विरुद्धं पदमसाधु । यथा ---- अन्यकारकवैयर्थ्यम् इति । अत्र हि अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु इति दुका भवितव्यमिति

4.6

श्रुतिविरसं कष्टम्
श्रुतिविरसं श्रोत्रकटु पदं कष्टम् । तद्धि रचनागुम्फितमप्युद्वेजयति । यथा ----
अचूचुरच्चण्डि ! कपोलौप्स्ते कान्तिद्रवं द्राग्विशदः शशाङ्कः ।

4.7

लोकमात्रप्रयुक्तं ग्राम्यम्
लोक एव यस्प्रयुक्तं पदं , न शास्त्रे ; तद्ग्राम्यम् । यथा कष्टं कथं रोदिति फूत्कृतेयम् । अन्यदपि तल्लगल्लादिकं द्रष्टव्यम्

4.8

शास्त्रमात्रप्रयुक्तमप्रतीतम्
शास्त्र एव प्रयुक्तं यत् , न लोके तदप्रतीतं पदम् । यथा ----
किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः ।
गुणानान्तरीयकं च प्रमेति न तेऽस्त्युपालम्भः ॥
अत्र रूपस्कन्धनान्तरीयकपदे न लोक इत्यप्रतीतम्

4.9

पूरणार्थमनर्थकम्
पूरणमात्रप्रयोजनमव्ययपदमनर्थकम् । दण्डापून्यायेन पदमन्यदप्यनर्थकमेव । यथा ----
उदितस्तु हास्तिकविनीलमयं तिमिरं निपीय किरणैः सविता ।
अत्र {तु}शब्दस्य पादपूरणार्थमेव प्रयोगः ।
न वाक्यालङ्कारार्थम् [क्: ॥ *]
वाक्यालङ्कारप्रयोजनं तु नानर्थकम् । अपवादार्थमिदम् ।
[क्: अपवादार्थमिदम् । वाक्यालङ्कारप्रयोजनं तु नानर्थकम् ।]
यथा ----
न खल्विह गतागता नयनगोचरं मे गता इति
तथा हि खलु हन्तेति

4.10

संप्रति पदार्थदोषानाह ----
अन्यार्थनेयगूढार्थाश्लीलक्लिष्टानि च ॥ व्कल्_2,1.10 [*व्कल्_2,1.11] ॥
दुष्टं पदम् इत्यनुवर्तते । अर्थतश्च वचनविपरिणामः । अन्यार्थादीनि पदानि दुष्टानीति सूत्रार्थः

4.11

एषां क्रमेण लक्षणायाह ----
रूढिच्युतमन्यार्थम् ॥ व्कल्_2,1.11 [*व्कल्_2,1.12] ॥
रूढिच्युतम्, रूढिमनपेक्ष्य यौगिकार्थमात्रोपादानात् । अन्यार्थं पदम् । स्थूलत्वात्सामान्येन घटशब्दः पटशब्दाथ इत्यादिकमन्यार्थं नोक्तम् । यथा ----
ते दुःखमुच्चावचमावहन्ति ये प्रस्मरन्ति प्रियसङ्गमानाम् ।
अत्र-आवहतिः करोत्यर्थो धारणार्थे प्रयुक्तः , प्रस्मरतिर्विस्मरणार्थः प्रकृष्टस्मरणे इति

4.12

कल्पितार्थं नेयार्थम् ॥ व्कल्_2,1.12 [*व्कल्_2,1.13] ॥
अश्रौतस्याप्युन्नेयपदार्थस्य कल्पनात्कल्पितार्थं नेयार्थम् । यथा ----
सपदि पङ्क्तिविहङ्गमनामभृत्तनयसंवलितं बलशलिना ।
विपुलपर्वतवर्षि शितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥
अत्र विहङ्गमश्चक्रवाको ऽभिप्रेतः । तन्नामानि चक्राणि , तानि बिभ्रतीति विहङ्गमनामभृतो रथाः । पङ्क्तिरिति दशसंख्या लक्ष्यते । पङ्क्तिर्दश विहङ्गमनामभृतो रथा यस्य स पङ्क्तिविहङ्गमनामभृद्दशरथः । तस्य तनयाभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसैन्यं जितम् । उलूकजिता इन्द्रजिता । {कौशिक}शब्देन्द्र्प्लूकयोरभिधानमिति {कौशिक}शब्दवाच्यत्वेनेन्द्र उलूक उक्तः । ननु चैवं रथाङ्गनामादीनामपि प्रयोगोऽनुपपन्नः , ---- न ; तेषां निरूढलक्षणत्वात्

4.13

अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ॥ व्कल्_2,1.13 [*व्कल्_2,1.14] ॥
यस्य पदस्य लोकेऽर्थः प्रसिद्धश्राप्रासेद्धश्च , तद्प्रसिद्धेऽर्थे प्रयुक्तं गूढार्थम् । यथा ----
सहस्रगोरिवानीकं दुःसहं बह्वतः परैः इति ।
सहस्रं गावो ऽक्षीणि यस्य स सहस्रगुरिन्द्रः । तस्येवेति गोशब्दस्याक्षिवाचित्वं कविष्वप्रसिद्धमिति

4.14

असम्यार्थान्तरमसम्यस्मृतिहेतुश्चाश्लीलम् ॥ व्कल्_2,1.14 [*व्कल्_2,1.15] ॥
यस्य पदस्यानेकार्थस्यैको ऽर्थोऽसभ्यः स्यात् , तदसभ्यार्थान्तरम् । यथा ---- वर्चः इति पदं तेजसि विष्ठायां च ।
यत्तु पदं सभ्यार्थवाचकमप्येकदेशद्वारेणासभ्यार्थं स्मारयति , तदसभ्यस्मृतिहेतुः । यथा ---- कृकाटिका इति

4.15

न गुप्तलक्षितसंवृतानि ॥ व्कल्_2,1.15 [*व्कल्_2,1.16] ॥
अपवादार्थमिदम् । गुप्तं लक्षितं संवृत्तं च नाश्लीलम्

4.16

एषां लक्षणान्याह ----
अप्रसिद्धासभ्यं गुप्तम् ॥ व्कल्_2,1.16 [*व्कल्_2,1.17] ॥
अप्रसिद्धासभ्यार्थान्तरं पदमप्रसिद्धासभ्यं यत् तद्गुप्तम् । यथा ---- संबाधः इति पदम् । तद्धि संकटार्थं प्रसिद्धम् , न गुह्यार्थमिति

4.17

लाक्षणिकासभ्यान्वितं लक्षितम् ॥ व्कल्_2,1.17 [*व्कल्_2,1.18] ॥
तदेवासभ्यार्थान्तरं लक्षणिकेनासभ्येनार्थेनान्वितं पदं लक्षितम् । यथा ---- जन्मभूः इति । तद्धि लक्षणया गुणाथम् , न स्वशक्त्येति

4.18

लोकसंवीतं संवृतम् ॥ व्कल्_2,1.18 [*व्कल्_2,1.19] ॥
लोकेन संवीतं लोकसंवीतं यत् तत् संवृतम् । यथा ---- सुभगा भगोनीउपस्थानमभिप्रेतम्कुमारीदोहदः इति । अत्र हि श्लोकः ----
संवीतस्य हि लोकेन न दोषान्वेषणं क्समम् ।
शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना ॥

4.19

तन्त्रैविध्यम्, व्रीडाजुगुप्सामङ्गलातङ्कदायिभेदात् ॥ व्कल्_2,1.19 [*व्कल्_2,1.20] ॥
तस्याश्लीलस्य त्रैविध्यं भवति , व्रीडाजुगुप्सामङ्गलातङ्कदायिनां भेदात् । किञ्चित् व्रीडादायि भवति । यथा ---- वाक्काटवम्हिरण्यरेताः इति । किञ्चित् जुगुप्सादायि भवति । यथा ---- कपर्दकः इति । किञ्चित् अमङ्गलातङ्गदायि भवति । यथा ---- संस्थितः इति

4.20

व्यवहितार्थप्रत्ययं क्लिष्टम् ॥ व्कल्_2,1.20 [*व्कल्_2,1.21] ॥
अर्थस्य प्रतीतिरर्थप्रत्ययः । स व्यवहितो यस्माद्भवति तद्व्यवहितार्थप्रत्ययं क्लिष्टम् । यथा ----
दक्षात्मजादयितवल्लभभवेदिकानां
ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ॥
दक्षात्मजास्ताराः । तासां दयितो दक्षात्मजादयितश्चन्द्रः । तस्य वल्लभाश्चन्द्रकान्ताः । तद्वेदिकानामिति । अत्र हि व्यवधानेनार्थप्रत्ययः

4.21

अन्यत्रारूढत्वात् ॥ व्कल्_2,1.21 [क्: नोत् इन् सुत्र] ॥
अरूढावपि यतोऽर्थप्रत्ययो झटिति न तत्क्लिष्टम् । यथा ----
काञ्चिगुणस्थानमनिन्दितायाः इति

4.22

अन्त्याभ्यां वाक्यं व्याख्यातम्
अश्लीलं क्लिष्टं चेत्यन्त्ये पदे । ताभ्यां वाक्यं व्याख्यातम् । तदप्यश्लीलं क्लिष्टं च भवति ।
अश्लीलं यथा ----
न सा धनोन्नतिर्या स्यात्कलसुखदायिनी ।
परार्थवद्धकक्ष्याणां यत् सत्यं पेलवं धनं ॥
सोपानपथमुत्सृज्य वायुवेगसमुद्धतम् ।
महापथेन गतवान् कीर्त्यमानगुणो जनैः ॥
क्लिष्टं यथा ----
धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥
एतान्पदपदार्थदोषान् ज्ञात्वा कविस्त्यजेदिति तात्पर्यार्थः ।

मूल पाठ: Kāvyālaṃkārasūtra with Vṛtti · Edition: Kāvyālaṅkāra sūtra / of ācārya Vāmana ; with the Kāvyālaṅkārakāmadhenu Sanskrit commentary of Śrī Gopendra Tripurahara Bhūpāla edited with Hindī transalation by Bechana Jhā ; introduction by Rewāprasāda Dwivedī. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc